39 प्रत्यक्षम्

मूलम् - प्रत्यक्षम् - 39

तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम्। इन्द्रियार्थसंनिकर्षजन्यं ज्ञानं प्रत्यक्षम्। तद्द्विविधं निर्विकल्पकं सविकल्पकं चेति। तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकं यथेदं किञ्चित्। सप्रकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयं ब्राह्मणोऽयं श्यामोऽयंमिति॥ ३८॥

Tags - 39

प्रमाणम्, प्रत्यक्षम्, निर्विकल्पक, सविकल्पक

दीपिका - प्रत्यक्षज्ञानम्

तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम्। इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्। तद्द्विविधम्- निर्विकल्पकं सविकल्पकं चेति। तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम्। सप्रकारकं ज्ञानं सविकल्पकम्। यथा डित्थोऽयं ब्राह्मणोऽयं, श्यामोऽयं, पाचकोऽयमिति।

दीपिका - निर्विकल्पकम्

प्रत्यक्षलक्षणमाह- तत्रेति। प्रमाणचतुष्टयमध्य इत्यर्थः। प्रत्यक्षज्ञानस्य लक्षणमाह- इन्द्रियेति। इन्द्रियं चक्षुरादिकम्, अर्थो घटादिः, तयोः सन्निकर्षः संयोगादिः, तज्जन्यं ज्ञानमित्यर्थः। तद्विभजते – तद्द्विविधमिति। निर्विकल्पकस्य लक्षणमाह-निष्प्रकारकमिति। विशेषणविशेष्यसंबन्धानवगाहिज्ञानमित्यर्थः।

दीपिका - निर्विकल्पकसिद्धिः

ननु निर्विकल्पके किं प्रमाणमिति चेन्न। गौरिति विशिष्टज्ञानं विशेषणज्ञानजन्यं विशिष्टज्ञानत्वात् दण्डी पुरुषः इति विशिष्टज्ञानवदित्यनुमानस्य प्रमाणत्वात्। विशेषणज्ञानस्यापि सविकल्पकत्वेऽनवस्थाप्रसङ्गान्निर्विकल्पकत्वसिद्धिः।

दीपिका - सविकल्पकम्

सविकल्पकं लक्षयति- सप्रकारकमिति। नामजात्यादिविशेष्यविशेषणसंबन्धावगाहिज्ञानमित्यर्थः। सविकल्पकमुदाहरति - यथेति।

गोवर्धन-न्यायबोधिनी - प्रत्यक्षलक्षणम्

प्रत्यक्षप्रमाणमुक्त्वा प्रत्यक्षप्रमालक्षणमाह- इन्द्रियार्थसन्निकर्षेति। आदौ लक्षणं जन्यप्रत्यक्षस्यैव लक्ष्यत्वाभिप्रायेण। ईश्वरप्रत्यक्षसाधारणं लक्षणं तु ज्ञानाकरणकम् ज्ञानमिति। ज्ञानं व्याप्तिज्ञानं सादृश्यज्ञानं पदज्ञानं च। तदेव करणं येषां तानि ज्ञानकरणकानि अनुमित्युपमितिशाब्दानि। तद्भिन्नं इत्यर्थः। प्रत्यक्षेन्द्रियाणामेव करणत्वं, न ज्ञानस्य। तथा च ज्ञानाकरणकज्ञानत्वस्य प्रत्यक्षसामान्य एव विद्यमानत्वाल्लक्षणसंगतिः। प्रत्यक्षं विभजते। निर्विकल्पकमिति। तल्लक्षयति। निष्प्रकारकमिति। प्रकारताशून्यज्ञानत्वमेव निर्विकल्पकमित्यर्थः। निर्विकल्पके चतुर्थविषयता स्वीक्रियते। त्रिविधविषयतामध्ये एकापि तत्र नास्ति। अतो विशेष्यताशून्यज्ञानत्वं संसर्गताशून्यज्ञानत्वमित्यपि लक्षणं संभवति। सविकल्पकं लक्षयति। सप्रकारकमिति। विषयताया ज्ञाननिरूपितत्वाज्ज्ञानस्य विषयतानिरूपकत्वेन प्रकारतानिरूपकज्ञानत्वं सविकल्पकस्य लक्षणम्। एवं विशेष्यतानिरूपकज्ञानत्वं संसर्गतानिरूपकज्ञानत्वं इत्यपि लक्षणं संभवति। उदाहरति। यथेति। इदन्त्वावच्छिन्नविशेष्यतानिरूपकं डित्थत्वादिप्रकारकं ज्ञानं सविकल्पकमित्यर्थः।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - प्रत्यक्षलक्षणम्

तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम्। इन्द्रियार्थसन्निकर्षजन्यज्ञानं प्रत्यक्षम्। तद्द्विविधम्- निर्विकल्पकं सविकल्पकं चेति। तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम्। सप्रकारकं ज्ञानं सविकल्पकम्। यथा डित्थोऽयं ब्राह्मणोऽयं श्यामोऽयं पाचकोऽयमिति।
षड्विधेन्द्रियरूपप्रत्यक्षप्रमाणं लक्षयति प्रत्यक्षज्ञानेति। प्रत्यक्षव्यापारजनकत्वे सति प्रत्यक्षज्ञानत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वं प्रत्यक्षप्रमाणस्य लक्षणम्। प्रत्यक्षज्ञानत्वावच्छिन्ना या कार्यता अयं घटः अयं पटः इत्यादिप्रत्यक्षज्ञानेषु विद्यमाना कार्यता, तन्निरूपिता या कारणता चक्षुरादिप्रत्यक्षप्रमाणनिष्ठा कारणता, तदाश्रयत्वं चक्षुर्घटसंयोगादिव्यापारजनकत्वञ्च (चक्षुर्मनस्संयोगादिव्यापारजनकत्वम्) चक्षुरादिप्रमाणे वर्तते इति लक्षणसमन्वयः। व्यापारजनकत्वमात्रोक्तौ कालेश्वरादृष्टादौ, असाधारणकारणत्वमात्रोक्तौ व्यापारे च अतिव्याप्तिरिति उभयोपादानम्। नचैवं विषयेन्द्रियसंयोगात्मकव्यापारस्य रसादिप्रत्यक्षजनकस्य अप्रसिद्धत्वेन संयुक्तसमवायादीनां जन्यत्वघटितव्यापारत्वासम्भवेन च व्यापारजनकत्वाभावात् रसनेन्द्रियादौ अव्याप्तिरिति वाच्यम्। विषयेन्द्रियसंयोगस्य सर्वत्र व्यापारत्वासम्भवेऽपि इन्द्रियमनस्संयोगरूपस्य व्यापारस्य सर्वत्रापि सम्भवेन न कुत्राप्यव्याप्तिप्रसक्तिः। नचैवं मनस्यव्याप्तिरिति वाच्यम्, आत्ममनस्संयोगरूपव्यापारमादाय तत्रापि लक्षणसमन्वयसम्भवात्।
प्रत्यक्षज्ञानलक्षणमाह इन्द्रियार्थेति। इन्द्रियार्थसन्निकर्षजन्यत्वे सति ज्ञानत्वं प्रत्यक्षज्ञानस्य लक्षणम्। ज्ञानत्वमात्रोक्तौ अनुमित्यादावतिव्याप्तिः। ज्ञानत्वानुपादाने ध्वंसं प्रति प्रतियोगिनः कारणत्वेन इन्द्रियार्थसन्निकर्षध्वंसेऽपि इन्द्रियार्थसन्निकर्षजन्यत्वस्य सत्त्वात् तत्रातिव्याप्तिः, अतः विशेष्यविशेषणयोरुभयोः उपादानम्। नचैवमपि इन्द्रियं मनः, अर्थः आत्मा, तत्सन्निकर्षः आत्ममनस्संयोगः, तज्जन्यत्वज्ञानत्वयोः अनुमित्यादौ सत्त्वात् अतिव्याप्तिः, आत्ममनसंयोगस्य ज्ञानमात्रं प्रति कारणत्वात् इति वाच्यम्, अर्थपदेन प्रकृतज्ञानविषयस्य विवक्षणात् आत्मनः घटादिज्ञानविषयत्वाभावेन अतिप्रसङ्गाभावात्। नचैवमपि जीवः ईश्वरभिन्नः सुखादिमत्त्वात् इत्यात्मविषयकानुमितौ अतिव्याप्तिः दुर्वारा, आत्मनः प्रकृतज्ञानविषयत्वस्यापि सम्भवात् इति वाच्यम्, इन्द्रियार्थसन्निकर्षनिष्ठजनकतानिरूपितजन्यतावच्छेदकीभूतज्ञानत्वभिन्नजातिमत्त्वस्य लक्षणत्वात् ज्ञानमात्रं प्रति आत्ममनस्संयोगस्य कारणत्वेन इन्द्रियार्थसन्निकर्षपदेन आत्ममनस्संयोगस्य ग्रहणेऽपि तज्जन्यतावच्छेदकीभूतज्ञानत्वजातिस्तु न ज्ञानत्वभिन्ना, अतो न तत्रातिव्याप्तिः। प्रकृते प्रत्यक्षत्वादिजातिमादाय लक्षणसमन्वयश्च। अत एव ईश्वरप्रत्यक्षस्य नित्यत्वेन इन्द्रियार्थसन्निकर्षजन्यत्वाभावेन प्रत्यक्षज्ञानसामान्यलक्षणस्य तत्रातिव्याप्तिरिति शङ्का निरस्ता। एतेन यथाश्रुतलक्षणे, ज्ञायमानलिङ्गस्य अनुमितिकरणतावादिमते इन्द्रियार्थसन्निकर्षहेतुकानुमितौ अतिव्याप्तिशङ्‌का निरस्ता।
तद्विभजते तद्विविधमिति। प्रकारत्वानिरूपकत्वे सति ज्ञानत्वं निर्विकल्पकप्रत्यक्षस्य लक्षणम्, ज्ञानत्वमात्रोक्तौ सविकल्पके, प्रकारत्वानिरूपकत्वमात्रोक्तौ घटादौ च अतिव्याप्तिरिति दलद्वयोपादानम् (प्रथमं विषयेन्द्रियसन्निकर्षः तदनु निर्विकल्पकम्, तदनु सविकल्पकम् इति क्रमः) निर्विकल्पकज्ञानानङ्गीकारे विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणत्वेन जनिष्यमाणसविकल्पकप्रत्यक्षानुपपत्तिः। अस्य निर्विकल्पकस्य विशिष्टबुद्धित्वाभावेनैव नास्य ज्ञानान्तरापेक्षा इति नानवस्था। सन्निकर्षजन्यत्वेन अस्य प्रत्यक्षज्ञानरूपत्वमिति उपपद्यते।
सविकल्पकं लक्षयति सप्रकारकमिति। प्रकारतानिरूपकत्वे सति ज्ञानत्वं सविकल्पकप्रत्यक्षस्य लक्षणम्। ज्ञानत्वमात्रोक्तौ निर्विकल्पके प्रकारतानिरूपकत्वमात्रोक्तौ इच्छाकृतिसंस्कारद्वेषेषु च अतिव्याप्तिः, अतो दलद्वयोपादानम्। नचैवमपि प्रकारतानिरूपकत्वज्ञानत्वयोः सत्त्वात् अनुमित्यादावतिव्याप्तिरिति वाच्यम्, इन्द्रियार्थसन्निकर्षजन्यत्वस्यापि विशेषणीयत्वात्। नचैवं ज्ञानत्वदलवैयर्थ्यं इच्छादीनां इन्द्रियार्थसन्निकर्षजन्यत्वविशेषणेनैव वारणात् इति वाच्यम्। इन्द्रियार्थसन्निकर्षजन्यत्वं विहाय ज्ञानाजन्यत्वस्य विशेषणीयत्वात्। नचैवं सविकल्पकप्रत्यक्षस्य निर्विकल्पकप्रत्यक्षजन्यत्वेनासम्भवः इति वाच्यम्, ज्ञानाकरणकत्वस्य तदर्थत्वात् तच्च ज्ञानकरणकभिन्नत्वम्, ज्ञानकरणकानि अनुमित्युपमितिशाब्दानि तद्भिन्नत्वम् इति तदर्थः। अत एव ईश्वरप्रत्यक्षस्येन्द्रियार्थसन्निकर्षजन्यत्वाभावेन अव्याप्तिरिति शङ्‌काऽपि निरस्ता। नचैवमपि स्मृतावतिव्याप्तिः, अनुभवस्य संस्कारं प्रत्येव कारणतावादिमते स्मृतेः संस्कारमात्रजन्यत्वेन ज्ञानाकरणकत्वघटितलक्षणसत्त्वात् इति वाच्यम्। ज्ञानाकरणकत्वञ्च विहाय प्रत्यक्षत्वजातिमत्त्वस्य विवक्षितत्वात् । नचैवं ज्ञानत्वदलं व्यर्थम्, इच्छादीनां प्रत्यक्षत्वदलेनैव वारणात् इति वाच्यम्, तदा ज्ञानत्वस्य तात्पर्यग्राहकत्वात्। तथाच प्रकारतानिरूपकत्वे सति प्रत्यक्षत्वजातिमत्त्वं सविकल्पकप्रत्यक्षज्ञानस्य लक्षणं फलितं भवति। एवं पृथक् पृथक् संसर्गतानिरूपकत्वे सति ज्ञानत्वम्, विशेष्यतानिरूपकत्वे सति ज्ञानत्वम् इत्यपि सविकल्पकस्य लक्षणं भवतीति ज्ञेयम्। एवं संसर्गत्वानिरूपकत्वे सति ज्ञानत्वम्, विशेष्यत्वानिरूपकत्वे सति ज्ञानत्वम् इत्यपि निर्विकल्पकप्रत्यक्षस्य लक्षणं भवतीत्यपि ज्ञेयम्। सविकल्पकप्रत्यक्षमभिनीय दर्शयति डित्थोऽयमिति, डित्थत्वादिप्रकारकम् इदंत्वावच्छिन्नविशेष्यकं ज्ञानं सविकल्पकमित्यर्थः। डित्थोऽयमित्याद्युदाहरणानां चतुर्णां प्रयोगः शब्दानां नामजातिगुणक्रियावाचकत्वभेदेन चातुर्विध्यज्ञापनायैवेति बोध्यम्।