38 कारणत्रैविध्यम्

मूलम् - कारणत्रैविध्यम् - 38

कारणं त्रिविधं समवाय्यसमवायिनिमित्तभेदात्। यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम्। यथा तन्तवः पटस्य पटश्च स्वगतरूपादेः। कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतत्वे सति यत्कारणं तदसमवायिकारणम्। यथा तन्तुसंयोगः पटस्य तन्तुरूपं पटरूपस्य। तदुभयभिन्नं कारणं निमित्तकारणम्। यथा तुरीवेमादिकं पटस्य। तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम्॥ ३७॥

Tags - 38

कारणम्, त्रिविधकारणम्, समवायिकारणम्, असमवायिकारणम्, निमित्तकारणम्

दीपिका - कारणत्रैविध्यम्

कारणं विभजते- कारणमिति।

दीपिका - समवायिकारणम्

समवायिकारणस्य लक्षणमाह- यत्समवेतमिति। यस्मिन्समवेतमित्यर्थः।

दीपिका - असमवायिकारणम्

असमवायिकारणं लक्षयति-कार्येणेति। कार्येणेत्येतदुदाहरति- तन्तुसंयोग इति। कार्येण पटेन सह एकस्मिन् तन्तौ समवेतत्वात्तन्तुसंयोगः पटस्यासमवायिकारणमित्यर्थः। कारणेनेत्येतदुदाहरति-तन्तुरूपमिति। कारणेन पटेन सह एकस्मिन् तन्तौ समवेतत्वात् तन्तुरूपं पटरूपस्यासमवायिकारणमित्यर्थः।

दीपिका - निमित्तकारणम्

निमित्तकारणं लक्षयति- तदुभयेति। समवाय्यसमवायिकारणभिन्नं कारणं निमित्तकारणमित्यर्थः।

दीपिका - करणलक्षणम्

करणलक्षणमुपसंहरति- तदेतदिति।

गोवर्धन-न्यायबोधिनी - कारणभेदाः

कारणं विभजते- कारणं त्रिविधमिति।

गोवर्धन-न्यायबोधिनी - समवायिकारणम्

समवायिकारणं लक्षयति- यत्समवेतमिति। यस्मिन्समवेतं सत्समवायसम्बन्धेन वर्तमानं सत्कार्यमुत्पद्यते तत्समवायिकारणमित्यर्थः। उदाहरणम्। तन्तव इति। येषु तन्तुषु समवायेन संबद्धं सत्पटात्मककार्यमुत्पद्यते तत्तन्तवः समवायिकारणमित्यर्थः। सामान्यलक्षणं तु समवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणत्वं समवायिकारणत्वमिति। समवायसम्बन्धेन घटाद्यधिकरणे कपालादौ कपालादेः तादात्म्यसम्बन्धेनैव कारणत्वात्। समवायसम्बन्धावच्छिन्नघटत्वावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकपालत्वाद्यवच्छिन्नकारणतायाः कपालादौ सत्त्वाल्लक्षणसमन्वयः। समवायेन जन्यभावत्वावच्छिन्नं प्रति तादात्म्यसम्बन्धेन द्रव्यस्यैव हेतुत्वाज्जन्यभावेषु द्रव्यगुणकर्मसु त्रिषु द्रव्यमेव समवायिकारणम्। अतो गुणादावपि द्रव्यमेव समवायिकारणमित्याशयेनाह। पटश्च स्वगतरूपादेरिति। समवायिकारणमित्यनुषज्यते।

गोवर्धन-न्यायबोधिनी - असमवायिकारणम्

असमवायिकारणं लक्षयति- कार्येणेति। असमवायिकारणं द्विविधम्। कार्येण सहैकस्मिन्नर्थे समवेतं सत् कारणमित्येकम्। कारणेन सहैकस्मिन्नर्थे समवेतं सत् कारणम् असमवायिकारणमित्यपरमित्यर्थः। अत्र कारणेनेत्यस्य स्वकार्यसमवायिकारणेनेत्यर्थः। जन्यद्रव्यमात्रे अवयवसंयोगस्यैवासमवायिकारणत्वात्पटात्मककार्ये तदवयवसंयोगस्यैवासमवायिकारणत्वमिति दर्शयन् प्रथममुदाहरति। यथा तन्तुसंयोगः पटस्येति। यथा तन्तुसंयोगः पटात्मककार्येण सहैकस्मिन्नर्थे तन्तौ समवायसम्बन्धेन विद्यमानत्वे सति कारणत्वात् पटात्मककार्यं प्रति तन्तुसंयोगोऽसमवायिकारणमित्यर्थः। द्वितीयमुदाहरति। तन्तुरूपमिति। स्वकार्यसमवायिकारणेन पटेन सह एकस्मिन् तन्तौ समवेतत्वे सति कारणत्वात् तन्तुरूपं पटरूपस्यासमवायिकारणमित्यर्थः। सामान्य लक्षणं तु समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायस्वसमवायिसमवेतत्वान्यतरसम्बन्धावच्छिन्नकारणताश्रयत्वम्। समवायसंबन्धावच्छिन्नघटत्वाद्यवच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकपालद्वयसंयोगत्वाद्यवच्छिन्नकारणता कपालद्वयसंयोगादौ वर्तते। एवमाद्यपतनक्रियायामाद्यस्यन्दनक्रियायां च गुरुत्वद्रवत्वे असमवायिकारणे भवतः। आद्यपतनक्रियां प्रत्याद्यस्यन्दनक्रियां प्रति च समवायसंबन्धेनैव तयोः कारणत्वात्। अवयविगुणभूतघटपटरूपादौ अवयवगुणभूतकपालतन्तुरूपादेः स्वपदग्राह्यकपालरूपतन्तुरूपादिसमवायिकपालतन्त्वादिसमवेतत्वसंबन्धेनैव कारणत्वात् तत्संबन्धावच्छिन्नकारणताश्रयत्वमवयवगुणभूतकपालरूपतन्तुरूपादौ वर्तत इति लक्षणसङ्गतिः।

गोवर्धन-न्यायबोधिनी - निमित्तकारणलक्षणम्

निमित्तकारणं लक्षयति- तदुभयभिन्नमिति। समवायिकारणभिन्नत्वे सति असमवायिकारणभिन्नत्वे सति कारणत्वं निमित्तकारणस्य लक्षणमित्यर्थः।

गोवर्धन-न्यायबोधिनी - करणलक्षणम्

करणलक्षणमुपसंहरति। तदेतदिति। यदसाधारणकारणमिति। व्यापारवत्त्वे सतीति पूरणीयम्। अन्यथा कपालतन्तुसंयोगयोरतिव्याप्तिः। कपालतन्तुसंयोगयोरपि कार्यत्वातिरिक्तघटत्वपटत्वावच्छिन्नं प्रति कारणत्वादसाधारणकारणत्वमस्त्येव। अतस्तत्र अतिव्याप्तिवारणाय व्यापारवत्त्वे सतीति करणलक्षणे विशेषणं देयमेव। व्यापारवत्त्वं च तज्जन्यत्वे सति तज्जन्यजनकत्वम्। भवति हि दण्डजन्यत्वे सति दण्डजन्यघटजनकता भ्रमणात्मकव्यापारस्य। एवं कपालसंयोगतन्तुसंयोगादेरपि कपालतन्त्वादिव्यापारत्वं कपालतन्त्वादिजन्यत्वे सति कपालतन्त्वादिजन्यघटपटादिजनकत्वात्। करणलक्षणेऽसाधारणत्वानुपादाने ईश्वरादृष्टादेरपि व्यापारवत्त्वात्करणत्वं स्यादतस्तत्रातिव्याप्तिवारणायासाधारणेति।

गोवर्धन-न्यायबोधिनी - इन्द्रियकारणत्वम्

षड्विधेन्द्रियभूतप्रत्यक्षप्रमाणलक्षणमाह- तत्रेति। प्रमाभूतप्रत्यक्षादिषु प्रत्यक्षात्मकं यज्ज्ञानं चाक्षुषादिप्रत्यक्षं तत्प्रति करणं व्यापारवदसाधारणकारणमिन्द्रियं भवति। अतः प्रत्यक्षज्ञानकरणत्वं प्रत्यक्षस्य लक्षणम्। आद्यसन्निकर्षातिरिक्तचतुर्विधसन्निकर्षाणां समवायरूपत्वेन व्यापारत्वं न संभवतीति इन्द्रियमनःसंयोगस्यैव बाह्यप्रत्यक्षे जननीये इन्द्रियव्यापारता बोध्या। मानसप्रत्यक्षे त्वात्ममनःसंयोगस्यैव सा बोध्या।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - समवायिकारणम्

यत्समवेतं कार्यमुत्पद्यते तत् समवायिकारणम्, यथा तन्तवः पटस्य पटश्च स्वगतरूपादेः।।
यत्समवेतं येषु तन्त्वादिषु समवेतं सत् समवायसम्बन्धेन वर्तमानं सत् कार्यं पटादिरूपं कार्यम् उत्पद्यते तं पटादिकं प्रति तत् तन्त्वादिकं समवायिकारणं भवतीत्यर्थः। सर्वत्र कार्यकारणयोः सामानाधिकरण्यस्यावश्यकतया सामानाधिकरण्यनिरूपके एकस्मिन्नधिकरणे कार्यकारणे येन येन सम्बन्धेन वर्तेते तयोः सम्बन्धयोः क्रमेण कार्यकारणतावच्छेदकसम्बन्धरूपतया अत्र घटरूपकार्यस्य समवायसम्बन्धेन कपालरूपकारणस्य तादात्म्यसम्बन्धेन च कपालरूपैकाधिकरणे वर्तमानतया समवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणताश्रयत्वं समवायिकारणस्य निष्कृष्टं लक्षणं वक्तव्यं भवति, समवायसम्बन्धावच्छिन्नपटत्वघटत्वाद्यवच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नतन्तुत्वकपालत्वाद्यवच्छिन्नकारणताश्रयत्वस्य पटघटादिसमवायिकारणीभूततन्तुकपालादिषु विद्यमानत्वात् लक्ष्ये लक्षणसमन्वयः। कार्यतायां समवायसम्बन्धावच्छिन्नत्वानिवेशे घटप्रत्यक्षनिमित्तकारणीभूतघटेऽतिव्याप्तिः, विषयतासम्बन्धेन जायमानघटप्रत्यक्षं प्रति तादात्म्यसम्बन्धेन घटस्य कारणत्वेन विषयतासम्बन्धावच्छिन्नघटप्रत्यक्षत्वावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणतायाः घटादौ सत्त्वात्। कारणतायां तादात्म्यसम्बन्धावच्छिन्नत्वानिवेशे पटाद्यसमवायिकारणीभूततन्तुसंयोगादौ समवायसम्बन्धावच्छिन्नपटत्वावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वमादाय अतिव्याप्तिः। अवयविद्रव्यं प्रत्येवावयवद्रव्यं न समवायिकारणं किन्तु द्रव्यस्य भावकार्यरूपद्रव्यगुणकर्मसमवायिकारणत्वमपि सम्भवतीति ज्ञापयितुं पटश्च स्वगतरूपादेरिति अभिधत्ते मूलकारः।।
कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत् कारणम् असमवायिकारणम्, यथा तन्तुसंयोगः पटस्य तन्तुरूपं पटगतरूपस्य च।।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - असमवायिकारणम्

असमवायिकारणद्वयमुदाहरति कार्येणेति। कार्येण सहैकस्मिन्नर्थे समवेतं सत् कारणमसमवायिकारणमित्येकम्। कारणेन सहैकस्मिन्नर्थे समवेतं सत् कारणमसमवायिकारणमित्यपरम्। पटादिकं प्रति तन्त्वादिसंयोगः प्रथमासमवायिकारणम्। पटादिरूपं प्रति तन्त्वादिरूपं द्वितीयासमवायिकारणम्। कार्येण पटेन सह एकस्मिन्नर्थे तन्तुरूपार्थे समवेतं सत् समवायसम्बन्धेन वर्तमानं सत् कारणं तन्तुसंयोगो भवति तं पटं प्रति तत् तन्तुसंयोगः असमवायिकारणम् इति योजना। कार्यकारणयोः पटतन्तुसंयोगयोः तन्तुरूपैकाधिकरणान्तर्भावेण समवायघटितसामानाधिकरण्यस्य लभ्यत्वेन समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वं प्रथमासमवायिकारणस्य लक्षणं फलितं भवति। समवायसम्बन्धावच्छिन्नपटत्वाद्यवच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नतन्तुसंयोगत्वाद्यवच्छिन्नकारणताश्रयत्वस्य तन्तुसंयोगादौ सत्त्वात् समन्वयः। कार्यतायां समवायसम्बन्धावच्छिन्नत्वानिवेशे घटप्रत्यक्षनिमित्तकारणीभूतघटरूपे विषयतासम्बन्धावच्छिन्नघटप्रत्यक्षत्वाद्यवच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणतामादाय अतिव्याप्तिः। कारणतायां समवायसम्बन्धावच्छिन्नत्वानिवेशे तादात्म्यसम्बन्धावच्छिन्नकारणतामादाय समवायिकारणेऽतिव्याप्तिः। अतः उभयत्र तत्तत्सम्बन्धावच्छिन्नत्वनिवेशः। द्वितीयासमवायिकारणस्थले, कारणेनेत्यस्य स्वकार्यसमवायिकारणेनेत्यर्थः। स्वं तन्तुरूपं, स्वकार्यं पटगतरूपं तत्समवायिकारणं पटः, तेन सह एकस्मिन्नर्थे तन्तुरूपार्थे समवेतं कारणं तन्तुरूपं भवतीत्यर्थलाभेन तन्त्वन्तर्भावेण अनयोः सामानाधिकरण्यलाभे स्वाश्रयसमवायित्वसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वमिति लक्षणं मूलतो लभ्यते, एवञ्च पटीयचित्ररूपं प्रति असमवायिकारणेषु नानातन्तुरूपेषु कार्यतावच्छेदकसम्बन्धेन कार्याधिकरणवृत्त्यत्यन्ताभावीयकारणतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताशून्यत्वरूपकार्यव्यापकत्वं न सम्भवति, तथाहि अत्र कार्यतावच्छेदकसम्बन्धः स्वाश्रयसमवायित्वसम्बन्धः तेन सम्बन्धेन कार्याधिकरणे नीलपीतादितन्तुषु कारणतावच्छेदकसमवायसम्बन्धेन तत्तद्रूपाभावानां चालिनीन्यायेन सत्त्वेन तदप्रतियोगित्वस्य तन्त्वादिगतनीलपीतादिरूपेष्वभावात् तत्र कारणत्वाभावप्रसङ्गवारणाय समवायसम्बन्धावच्छिन्नकार्यतानिरूपितस्वाश्रयसमवेतत्वसम्बन्धावच्छिन्नकारणताश्रयत्वमिति लक्षणं वक्तव्यम्, अतः कार्यतावच्छेदकसमवायसम्बन्धेन कार्याधिकरणे पटादौ स्वाश्रयसमवेतत्वसम्बन्धेन नानारूपाणां सत्त्वेन न निरुक्तातिप्रसङ्गः, तथाच समवायसम्बन्धावच्छिन्नकार्यतानिरूपितस्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नकारणताश्रयत्वमिति द्वितीयासमवायिकारणस्य निष्कृष्टं लक्षणं भवति, समवायसम्बन्धावच्छिन्नपटरूपत्वाद्यवच्छिन्नकार्यतानिरूपितस्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नतन्तुरूपत्वाद्यवच्छिन्नकारणताश्रयत्वं तन्तुरूपादिषु सम्भवतीति लक्षणसमन्वयः (स्वं तन्त्वादिरूपम्, स्वसमवायितन्त्वादिकम्, तत्समवेतः पटः, तत्समवेतत्वं पटे वर्तते, अतः अत्र कार्यकारणयोः पटतन्तुरूपयोः पटान्तर्भावेण सामानाधिकरण्यमिति ज्ञेयम्) अत्र कार्यतायां समवायसम्बन्धावच्छिन्नत्वानिवेशे घटरूपप्रत्यक्षनिमित्तकारणमहत्त्वे विषयतासम्बन्धावच्छिन्नकार्यतानिरूपितस्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नकारणतामादाय अतिप्रसङ्गः। कारणतायां स्वाश्रयसमवेतत्वसम्बन्धावच्छिन्नत्वानिवेशे समवाय्यसमवायिकारणयोः अतिव्याप्तिः।।
तदुभयभिन्नं कारणं निमित्तकारणम्। यथा तुरीवेमादिकं पटस्य।
निमित्तकारणं लक्षयति तदुभयेति। समवायिकारणभिन्नत्वे सति असमवायिकारणभिन्नत्वे सति कारणत्वं निमित्तकारणस्य लक्षणं। पटं प्रति निमित्तकारणतुरीवेमादिषु पटसमवाय्यसमवायिकारणतन्तुतत्संयोगादिभिन्नत्वस्य कारणत्वस्य च सत्त्वात् समन्वयः। कारणत्वमात्रोक्तौ समवाय्यसमवायिकारणयोः, कारणत्वानुपादाने पारिमाण्डल्यादो (परमाणुपरिमाणगगनपरिमाणादिषु) समवाय्यसमवायिकारणयोश्च अतिव्याप्तिवारणाय दलत्रयोपादानम्। नचैवमपि घटनिमित्तकारणदण्डस्य स्वीयरूपादिकं प्रति समवायिकारणत्वेन तत्र समवायिकारणभिन्नत्वाभावात् अव्याप्तिरिति वाच्यम्, प्रकृतकार्यसमवाय्यसमवायिकारणभिन्नत्वनिवेशे दोषाभावात्। अथवा, समवायिकारणताभिन्ना असमवायिकारणताभिन्ना या कारणता तदाश्रयत्वस्य लक्षणत्वाङ्गीकारे नोक्ताव्याप्तिः।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - करणलक्षणम्

तदेतत् त्रिविधकारणमध्ये यदसाधारणकारणं तदेव करणम्।।
करणलक्षणमुपसंहरति- तदेतदिति। यदसाधारणकारणमित्यत्र व्यापारवत्त्वे सतीति पूरणीयम्, अन्यथा, कपालतन्तुसंयोगादिरूपव्यापारेऽतिव्याप्तिः। तथाच व्यापारजनकत्वतदजनकत्वाभ्यां करणकारणयोः भेदोऽवगन्तव्यः, असाधारणकारणत्वन्तु उभयत्र समानमेव।