37 कार्यकारणभावः

मूलम् - कार्यकारणभावः - 37

असाधारणं कारणं करणम्। कार्यनियतपूर्ववृत्ति कारणम्। कार्यं प्रागभावप्रतियोगि॥ ३६॥

Tags - 37

कारणम्, करणम्, कार्यकारणसम्बन्धः

दीपिका - करणलक्षणम्

करणलक्षणमाह- असाधारणेति। दिक्कालादावतिव्याप्तिवारणाय असाधारणेति।

दीपिका - अनन्यथासिद्धत्वम्

कारणलक्षणमाह- कार्येति। पूर्ववृत्ति कारणमित्युक्ते रासभादावतिव्याप्तिः स्यादतो नियतेति। तावन्मात्रे कृते कार्येऽतिव्याप्तिः, अतः पूर्ववृत्तीति। ननु तन्तुरूपमपि पटं प्रति कारणं स्यादिति चेन्न, अनन्यथासिद्धत्वे सतीति विशेषणात्। अनन्यथासिद्धत्वमन्यथासिद्धिरहितत्वम्।

दीपिका - अन्यथासिद्धिः

अन्यथासिद्धिस्त्रिविधा। येन सहैव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तं प्रति तदन्यथासिद्धम्। यथा तन्तुना तन्तुरूपम्, तन्तुत्वं च पटं प्रति। अन्यं प्रति पूर्ववृत्तित्वे ज्ञात एव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तं प्रति तदन्यथासिद्धम्। यथा शब्दं प्रति पूर्ववृत्तित्वे ज्ञात एव पटं प्रत्याकाशस्य। अन्यत्र क्लृप्तनियतपूर्ववर्तिना एव कार्यसंभवे तत्सहभूतमन्यथासिद्धम्। यथा पाकजस्थले गन्धं प्रति रूपप्रागभावः। एवमनन्यथासिद्धनियतपूर्ववृत्तित्वं कारणत्वम्।

दीपिका - कार्यलक्षणम्

कार्यलक्षणमाह- कार्यमिति।

गोवर्धन-न्यायबोधिनी - करणलक्षणम्

करणलक्षणमाह- असाधारणकारणमिति। व्यापारवदसाधारणकारणं करणमित्यर्थः। असाधारणकारणत्वं च कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यतानिरूपितकारणताशालित्वम्। यथा दण्डादेर्घटं प्रत्यसाधारणकारणत्वम्। कार्यत्वातिरिक्तो घटत्वरूपो धर्मः तदवच्छिन्नकार्यता घटे तन्निरूपितकारणता दण्डे। अतो घटं प्रति दण्डः असाधारणकारणम्। भ्रम्यादिरूपव्यापारवत्त्वाच्च करणम्। साधारणकारणत्वं च कार्यत्वावच्छिन्नकार्यतानिरूपितकारणताशालित्वम्। यथा ईश्वरादृष्टादेः कार्यत्वावच्छिन्नं प्रत्येव कारणत्वात्साधारणकारणत्वम्।

गोवर्धन-न्यायबोधिनी - कारणलक्षणम्

कारणं लक्षयति- कार्यनियतेति। कार्यं प्रति नियतत्वे सति पूर्ववर्त्तित्वं कारणत्वम्। नियतत्वविशेषणानुपादाने पूर्ववर्तिनो रासभादेरपि कारणत्वं स्यादतो नियतत्वे सतीति विशेषणम्। नियतपूर्ववर्तिनी दण्डरूपादेरपि घटकारणत्वं स्यादित्यतोऽनन्यथासिद्धत्वमपि कारणलक्षणे निवेशनीयम्। एवं च दण्डरूपादीनाम् अन्यथासिद्धत्वात् न तत्रातिव्याप्तिः।

गोवर्धन-न्यायबोधिनी - कार्यलक्षणम्

कार्यं लक्षयति- कार्यमिति। प्रागभावप्रतियोगित्वं कार्यस्य लक्षणम्। उत्पत्तेः पूर्वं ‘इह घटो भविष्यति’ इति या प्रतीतिर्जायते तत्प्रतीतिविषयो योऽभावः स प्रागभावः तत्प्रतियोगि घटादिकार्यम्।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - कारणलक्षणम्

कार्यनियतपूर्ववृत्ति कारणम्।
कारणं लक्षयति कार्येति। कार्यनियतत्वे सति कार्यपूर्ववृत्तित्वं कारणस्य लक्षणम्। कार्यनियतत्वञ्च कार्यव्यापकत्वम्, तच्च कार्याधिकरणवृत्त्यत्यन्ताभावाप्रतियोगित्वम्, तथाच घटकारणीभूतदण्‍डे लक्षणसमन्वयः, तथाहि कार्यं घटः, तदधिकरणं कपालः, तद्वृत्तिः योऽत्यन्ताभावः स्वजन्यभ्रमिजन्यभ्रमिवत्त्वसम्बन्धेन दण्डो नास्तीत्याकारकाभावो नायाति, कुतः, स्वं- दण्डः स्वजन्या या भ्रमिः तज्जन्या या भ्रमिः कपालभ्रमिः, तद्वान् कपालः, तद्वत्तासम्बन्धेन कपाले दण्डस्य विद्यमानत्वात्, किन्तु उदासीनः पटाद्यभावः तत्र सम्भवति, तत्प्रतियोगित्वं पटादौ अप्रतियोगित्वं कार्यरूपघटाव्यवहितप्राक्क्षणवृत्तित्वञ्च दण्डे वर्तते इति लक्षणसमन्वयः। कार्यपूर्ववृत्तित्वमात्रोक्तौ रासभादेरपि कार्यपूर्ववृत्तित्वात् तत्रातिव्याप्तिः, कार्यव्यापकत्वस्य निवेशे तु कार्याधिकरणकपाले निरुक्तसम्बन्धेन रासभो नास्तीत्यभावस्य सत्त्वेन तत्प्रतियोगित्वेन रासभस्य तदप्रतियोगित्वाभावात् नातिव्याप्तिः। कार्यव्यापकत्वमात्रोक्तौ कार्याधिकरणकपाले समवायसम्बन्धेन कार्यभूतघटस्य सत्त्वेन न तत्र घटाभावः सम्भवति, किन्तु पटाद्यभावस्यैव तत्र सत्त्वेन तदप्रतियोगित्वस्य कार्य एव सत्त्वेन तत्रातिव्याप्तिः, तद्वारणाय कार्यपूर्ववृत्तित्वदलम्, तन्निवेशे स्वपूर्ववृत्तित्वस्य कार्येऽसम्भवात् न तत्रातिप्रसङ्गः। नचैवं दण्डरूपादावतिव्याप्तिः तत्र स्वाश्रयजन्यभ्रमिजन्यभ्रमिवत्त्वसम्बन्धेन कार्यव्यापकत्वस्य कार्यपूर्ववृत्तित्वस्य च सत्त्वात् इति वाच्यम्, अनन्यथासिद्धत्वस्यापि विशेषणीयत्वात् अनन्यथासिद्धत्वञ्च अन्यथासिद्धभिन्नत्वम्, अन्यथासिद्धत्वञ्च क्लृप्तकारणबहिर्भूतत्वम्, दण्डरूपादीनां घटकारणतया क्लृप्तेषु दण्डचक्रसलिलकुलालादिषु अनन्तर्भूतत्वेन अन्यथासिद्धत्वात् तद्भिन्नत्वस्य तत्राभावात् नातिव्याप्तिः।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - कार्यलक्षणम्

कार्यं प्रागभावप्रतियोगि।।
कार्यं लक्षयति प्रागभावेति। कार्योत्पत्तेः पूर्वं वर्तमानः भविष्यतीतिप्रतीतिविषयः प्रागभावः, तत्प्रतियोगित्वं कार्ये घटादौ वर्तते इति लक्षणसमन्वयः। (तच्च उत्पत्तिमत्त्वे पर्यवसन्नम्) अभावप्रतियोगित्वमात्रोक्तौ गगनाभावप्रतियोगित्वमादाय गगनेऽतिव्याप्तिः, अतः प्रागभावेति, गगनस्य प्रागभावप्रतियोगित्वाभावात् नातिव्याप्तिः।।
कारणं त्रिविधम्, समवाय्यसमवायिनिमित्तभेदात्।
कारणं विभजते कारणमिति।