मूलम् - प्रमाणानि - 36
यथार्थनुभवश्चतुर्विधः प्रत्यक्षानुमित्युपमितिशाब्दभेदात्। तत्करणमपि चतुर्विधं प्रत्यक्षानुमानोपमानशब्दाभेदात्॥३५॥
Tags - 36
प्रमाणम्, चतुर्विधप्रमाणम्, प्रत्यक्षम्, अनुमानम्, उपमानम्, शब्दः
दीपिका - प्रमाणलक्षणम्
यथार्थानुभवं विभजते- यथार्थेति। प्रसङ्गात्प्रमाकरणं विभजते- तत्करणमिति। प्रमाकरणमित्यर्थः। प्रमाकरणं प्रमाणमिति प्रमाणसामान्यलक्षणम्।
वरदाचार्य आलोके - प्रमाणवर्गः
यथार्थानुभवश्चतुर्विधः। प्रत्यक्षानुमित्युपमितिशाब्दभेदात्। तत्करणमपि चतुर्विधम् - प्रत्यक्षानुमानोपमानशब्दभेदात्।
आलोक- व्याख्या
यथार्थानुभवं विभजते - यथार्थेत्यादि। तत्करणम् यथार्थानुभवकरणम्। करणवर्गे पठितस्य प्रत्यक्षपदस्य इन्द्रियमर्थः। कार्यवर्गे पठितस्य प्रत्यक्षस्य प्रत्यक्षज्ञानमर्थः। प्रत्यक्षात्मकानुभवे करणम् इन्द्रियम्, अनुमितौ करणम् अनुमानम्, उपमितौ करणम् उपमानम्, शाब्दबोधे करणं शब्द इति यथासंख्यमन्वयः।
तर्कसंग्रहः
असाधारणकारणं करणम्।
आलोक- व्याख्या
करणस्य लक्षणमाह असाधारणेत्यादि। न साधारणम् असाधारणम्। असाधारणं च तत् कारणम् असाधारणकारणमिति प्राचीनप्रक्रियानुरोधेन। कालेश्वरादीनि साधारणकारणानि। तानि हि मध्ये व्यापारमन्तरा साक्षात्कारणानि। एवञ्चासाधारणकारणं नाम व्यापारद्वारा कारणमिति प्राचीनाशयः। न चैवं तर्हि चक्रभ्रमणमपि साधारणकारणं स्यात्, तेषां व्यापारान्तराभावादिति वाच्यम्; दण्डादीनां कारणत्वनिर्वाहार्थं किल मध्ये चक्रभ्रमणकल्पनम्। अतस्तस्य तेनैव सिद्धमसाधारणत्वम्। नैवं कालादाविति।
साधारणं च तत् कारणं साधारणकारणम्। न साधारणकारणं असाधारणकारणमिति नवीनमतानुरोधेन। प्राचीनप्रक्रियानुसारेण बोध:- असाधारणत्वं नाम व्यापारवत्त्वम्। व्यापारवत्कारणं करणमित्यर्थः। कारणं नाम कारणतावत्। व्यापारोऽस्मिन्नस्तीति व्यापारवत्। अस्येत्यत्र इदंशब्दस्य कारणमर्थः। सप्तम्या अधिकरणत्मर्थः। प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः। अस्धातोराधेयत्वमर्थः। आख्यातस्याश्रयत्वमर्थः। सप्तम्यर्थाधिकरणताया निरूपितत्वसंबन्धेनाधेयतायामन्वयः। तथा च कारणनिष्ठाधिकरणतानिरूपिताधेयताश्रयो व्यापार इति विग्रहवाक्यबोधः। व्यापारनिष्ठाधेयतानिरूपिताधिकरणतावत् कारणम् इति समासवाक्यबोधः। तथा च व्यापारविशिष्टमिति व्यापारवत्पदस्यार्थः। वैशिष्ट्यं च जनकत्वरूपम्। आधाराधेयभावोऽपि जनकतासंबन्धेन। व्यापारजनकं कारणं करणमित्यर्थः। तज्जन्यत्वे सति तज्जन्यजनको व्यापारः। यथा दण्डश्चक्रभ्रमणद्वारा घटं जनयति। अतो द्वारभूतं चक्रभ्रमणं व्यापार इत्युच्यते। दण्डजन्यत्वमात्रोक्तौ फले घटेऽतिव्याप्तिः। अतस्तज्जन्यजनकत्वम्। दण्डजन्यघटजनकत्वस्य घटेऽभावान्नातिव्याप्तिः। तज्जन्यजनकत्वमात्रोक्तौ करण एवातिव्याप्तिः। दण्डजन्यघटजनकत्वस्य दण्ड एव सत्त्वात् दण्डो व्यापारो भवेत्। अतस्तज्जन्यत्वम्। दण्डस्य दण्डजन्यत्वाभावान्नातिव्याप्तिः।
व्यापारवत्त्वे सति कारणत्वं करणस्य लक्षणम्। अस्य चक्रभ्रमणरूपव्यापारलक्षणस्य दण्डरूपकरणे समन्वयः। तथा हि चक्रभ्रमणरूपव्यापारनिरूपितहेतुत्वं दण्डे वर्तत इति व्यापारवत्त्वं तत्र वर्तते। एवं घटं प्रति कारणत्वमपि वर्तत इति लक्षणसमन्वयः। केवलं ‘कारणत्व’ मात्रोक्तौ साधारणकारणे कालादावतिव्याप्तिः। अतः ‘व्यापारवत्त्वम्’ इत्युक्तम्। कालेश्वरादीनां कार्यसामान्यं प्रति साक्षात्कारणत्वम्, न तु सद्वारककारणत्वम्, तेन च तानि व्यापारवत्कारणानि न भवितुमर्हन्तीति नातिव्याप्तिः। केवलं ‘व्यापारवत्त्वम्’ इत्येतावन्मात्रोक्तौ फले (घटरूपफले) करणलक्षणस्यातिव्याप्तिः। घटरूपकार्येऽपि व्यापारजन्यत्वरूपस्य सम्बन्धस्य विद्यमानत्वात् व्यापारवत्त्वं फले (घटरूपकार्येऽपि ) वर्तते इत्यतः ‘कारणत्वम्’ इति दलम् दत्तम्। तथा च नातिव्याप्तिः। घटरूपफलं न कारणं, किन्तु कार्यम्। अतो न कापि हानिः। एतत् प्राचीनप्रक्रियानुसारेण बोध्यम्।
नवीनप्रक्रियानुसारेण तु साधारणकारणत्वं नाम कार्यत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वम्। असाधारणत्वं नाम कार्यत्व- व्याप्यधर्मावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वम्। आश्रयत्वस्य चाभेदसम्बन्धेन करणे अन्वयः। तथा च कार्यत्वव्याप्यधर्मावच्छिन्नकार्यतानिरूपितकारणताश्रयाभिन्नं करणम् इति शाब्दबोधः।
लक्षणं तु - कार्यत्वव्याप्यधर्मावच्छिन्नकार्यतानिरूपितकारणत्वम्। अस्य लक्षणस्य दण्डादौ समन्वयः। तथाहि - कार्यत्वव्याप्यधर्मावच्छिन्ना कार्यता केति चेत् ? घटत्वावच्छिन्ना कार्यता। तादृशकार्यतानिरूपितकारणत्वं दण्डरूपकरणे वर्तत इति समन्वयः।
ननु केवलं कार्यत्वावच्छिन्नकार्यतानिरूपितकारणत्वम् इति साधारण- कारणत्वमुच्यते चेत्, कालेश्वरादावतिव्याप्तिर्भवेत्, तेषामपि कार्यसामान्यं प्रति कारणत्वात्। तथाहि कार्यत्वावच्छिन्ना कार्यता इति चेत् ? घटपटकुड्यादिनिष्ठकार्यता। सा कार्यता सर्वसाधारण कार्य। तन्निरूपितकारणत्वं तु कालादवपि वर्तत इत्यतिव्याप्तिरिति चेत्, न। अत्र घटनिष्ठकार्यता न कार्यत्वावच्छिन्ना किन्तु कार्यत्वव्याप्यघटत्वादिधर्मावच्छिन्ना। तथा च नातिव्याप्तिः। तथाहि - घटे कार्यताद्वयं वर्तते। एका कार्यत्वावच्छिन्ना सर्वसाधारणी कार्यनिष्ठकार्यता। अन्या तु कार्यत्वव्याप्यघटत्वधर्मावच्छिन्ना विशेषकार्यता। अस्मिन् लक्षणे कार्यत्वव्याप्यघटत्वधर्मावच्छिन्नकार्यताया विवक्षितत्वात् कार्यत्वव्याप्यघटत्वादिधर्मावच्छिन्नकार्यता केति चेत् ? घटत्वावच्छिन्नघटनिष्ठा कार्यता। तादृशकार्यतानिरूपितकारणत्वं दण्डे एव वर्तते न तु कालादौ। कुत इति चेत् ? नवीनानां मते घटत्वावच्छिन्नघटकार्यं प्रति कालादीनां कारणत्वानङ्गीकारात्, कार्यत्वावच्छिन्नघटनिष्ठकार्यं प्रत्येव कालेश्वरादृष्टादीनां कारणत्वात् इति तत्र लक्षणासमन्वयान्नातिव्याप्तिरिति।
अर्वाचीनास्तु- फलाव्यवहितप्राक्क्षणावच्छिन्नं कारणं करणमित्याहुः। एतद्दृष्ट्या करणकारणपदार्थो विपरीतौ भवतः। ‘लिङ्गपरामर्शोऽनुमानम्’ इत्येतदेतन्मतानुसारेण। इदं तु पाणिनिसूत्रादिविरुद्धम्। किन्तु व्यापारवत्कारणं करणमित्येव समीचीनम्।
तर्कसंग्रहः
कार्यनियतपूर्ववृत्ति कारणम्।
कारणलक्षणमाह - कार्येत्यादि। नियतं च तत् पूर्ववृत्ति च नियतपूर्ववृत्ति। कार्यस्य नियतपूर्ववृत्ति कार्यनियतपूर्ववृत्तीति विग्रहः। कार्यस्य नियतं कार्यस्य पूर्ववृत्ति चेत्यर्थः। ‘कार्यस्य’ इत्यत्र षष्ठ्या निरूपितत्वमर्थः। नियतत्वं नाम व्यापकत्वम्। व्यापकत्वं नाम तदधिकरणवृत्त्यत्यन्ताभावाप्रतियोगित्वम्। षष्ठ्यर्थनिरूपितत्वस्याश्रयतासम्बन्धेन अधिकरणतावदेकदेशेऽधिकरणतायामन्वयः। तथा च कार्यनिरूपिताधिकरणता- वद्वृत्त्यत्यन्ताभावाप्रतियोगित्वाश्रयः। आश्रयत्वस्याभेदसम्बन्धेन कारणेऽन्वयः। तथा च कार्यनिरूपिताधिकरणतावद्वृत्त्यत्यन्ताभावाप्रतियोगित्वाश्रयाभिन्नं कारणम्। एवं कार्यस्य पूर्ववृत्ति इत्यत्र षष्ठ्या निरूपितत्वमर्थः। पूर्ववृत्तित्वस्याश्रयतासम्बन्धेन कारणेऽन्वयः। तथा च कार्यनिरूपितपूर्ववृत्तित्वाश्रयाभिन्नं कारणम्। तथा च आहत्य बोधः- ‘कार्यनिरूपितत्वाश्रयाधिकरणतावद्वृत्त्य(कार्याधिकरणवृत्त्य)त्यन्ताभावाप्रतियोग्यभिन्नं कार्यनिरूपितपूर्ववृत्त्यभिन्नं कारणम् इति। लक्षणं तु- कार्याधिकरण- वृत्त्यत्यन्ताभावाप्रतियोगित्वे सति कार्यपूर्ववृत्तित्वं कारणत्वम्। ‘घटं प्रति दण्डः कारणम्’ इत्यत्र दण्डरूपकारणे समन्वयः। कार्याधिकरणम् (घटाधिकरणम्) घटोत्पत्तिदेशः। तद्वृत्तिर्योऽत्यन्ताभाव इति चेत् ? न हि दण्डाभावो भवितुमर्हति। किन्तु - पटाद्यभावः। तत्प्रतियोगि पटादिवस्तु। अप्रतियोगी दण्ड इति दण्डे घटाधिकरणवृत्त्यत्यन्ताभावाप्रतियोगित्वं वर्तते, एवं घटपूर्ववृत्तित्वमपि वर्तते।
‘कार्यपूर्ववृत्तित्वम्’ कारणत्वम् इत्येतावन्मात्रोक्तौ रासभादावतिव्याप्तिः। तस्याऽपि घटपूर्ववृत्तित्वमाकस्मिकता वर्तते। अतः ‘कार्यनियतत्वम्’ इति विशेषणम्। यद्यपि रासभादौ कार्य पूर्ववृत्तित्वमस्ति, परन्तु कार्यनियतत्वं नास्ति। कुत इति चेत् ? अन्यत्र कुत्रचित् रासभाभावेऽपि घटोत्पत्तेर्दर्शनात् तदधिकरणवृत्त्यत्यन्ताभावप्रतियोगित्वमेव भवति रासभादौ, अप्रतियोगित्वं न भवतीति तत्र नातिव्याप्तिः। केवलं कार्यनियतत्वमात्रोक्तौ घटे(कार्ये) अतिव्याप्तिः। कार्याधिकरणवृत्त्यत्यन्ताभाव इति चेत्, कार्याधिकरणे न हि घटात्यन्ताभावो भवितुमर्हति। घटाधिकरणे घटाभावः कथं स्यात् ? अतः पटाद्यभावः स्वीकार्यः। तत्प्रतियोगी पटः। अप्रतियोगी घटो भवत्येवेति घटरूपकार्य एव कारणलक्षणस्यातिव्याप्तिः। अतः कार्यपूर्ववृत्तित्वविशेषणम्। स्वस्य स्वपूर्ववृत्तित्वस्य विरुद्धत्वात् घटपूर्ववृत्तित्वं घटे नास्तीति नातिव्याप्तिः।*
व्यापारवत्कारणं करणमिति प्राचीनाः। असाधारणं कारणं करणमिति नव्याः। फलाव्यवहितप्राक्क्षणावच्छिन्नं कारणं करणमित्यर्वाचीनाः। परन्तु ‘साधकतमं करणम्’ इति भगवान् पाणिनिः। अतिशयेन साधकं साधकतममिति संप्रतिपन्नम्। अतिशयः कः ? अस्योत्तरदानेऽत्यन्तं क्लिश्यन्ति मेधाविनोऽपि। सप्तविधकारकेषु अन्यतमं तु करणकारकम्। तच्च तृतीयान्तपदवाच्यम्। ‘असिना छिनत्ति’ ‘चक्षुषा पश्यति’ ‘पद्भ्यां गच्छति’ इत्यादिव्यापाराविष्टं कारकं करणमिति प्राचीनमतमेव साधीयः। कारकाणां मध्ये तृतीयाप्रकृत्यर्थभूतमेव अस्यादिकमुद्यमनादिरूपकर्तृक्रिययाऽविष्टं भवतीति तदेव करणम्, नान्यत्काष्ठादिकम्। काष्ठादिकं तु कर्तृक्रियाजन्यफलशालित्वात् कर्म भवति। चैत्रः असिना काष्ठानि छिनत्ति इति खलु प्रयोगः। अतः त्रिविधकारणेषु यत् क्रियाविष्टम्, तदेव करणम्। अधिकमन्यत्र।
टिप्पणी
*अन्यथासिद्धिः- कार्यनियतपूर्ववृत्तिकारणमिति कारणलक्षणमुक्तम्। कार्यनियतत्वं च कार्यकारणयोरन्वयव्यतिरेकसहचारदर्शनादवसीयते। यत्सत्त्वे यत्सत्त्वम् – अन्वयसहचारः। यदभावे यदभाव इति व्यतिरेकसहचारः। यथा दण्डसत्त्वे घटसत्त्वम्, दण्डाभावे घटाभाव इति। परन्तु दण्डे सति तेन साकमेव दण्डगतरूप-दण्डत्वयोरपि सत्त्वेन अन्वयव्यतिरेकसहचारदर्शनस्य तयोरपि समानत्वात् घटकारणत्वापत्तिरित्याक्षेप इष्टापत्तिरिति न कोऽपि वदति। तत् कुतः ? इति विमर्शनीयम्। एवं सति दण्डरूपसत्त्वे घटसत्त्वम्, दण्डरूपाभावे घटाभाव इति वा दण्डत्वसत्त्वे घटसत्त्वम्, दण्डत्वाभावे घटाभाव इति वा नियमं न कोऽपि हि वक्ति। तत् कुत इति प्रष्टव्यम्। कारणेन सहाविनाभूतानां बहूनां पदार्थानामन्वयव्यतिरेकयोस्समानत्वेऽपि, कारणत्वं को वा जानाति अनुभवे वर्तमानो जनः ? अनुभवदूराणां केवलवाचाटानामेवेयमाशङ्का। स्तनन्धयोऽपि बुभुक्षाशमनं मात्रधीनं जानाति, तामुपसर्पति च। कार्यकारणभावमयो हि लोकस्सर्वं स्वयं ज्ञात्वा सदा प्रयतमानो दृश्यत एवेत्यन्यथासिद्धिशङ्का पुस्तकपण्डितानामेव। किञ्चान्ते अवश्यक्लृप्तनियतपूर्ववृत्तिभिरेव कार्यसंभवे तद्भिन्नं सर्वमन्यथासिद्धम् इत्येव पर्यवसानस्य प्रदर्शनेन तस्मिन् कारणत्वनिर्णायकस्य नियतपूर्ववृत्तित्वस्यैव प्रवेशनेऽन्योन्याश्रयादिश्च। अतः क्षोदक्षमविचारेण ज्ञायते शब्दवर्धनपराणामनुभवरहितानामेवायमाडम्बरः।
तर्कसंग्रहः
कार्यं प्रागभावप्रतियोगि।
आलोक- व्याख्या
कार्यस्य लक्षणमाह कार्यमित्यादि। प्रागभावस्य प्रतियोगि प्रागभावप्रतियोगि। ‘प्रागभावस्य’ इत्यत्र प्रकृतेः प्रागभावोऽर्थः। षष्ठ्या निरूपितत्वमर्थः। ‘प्रतियोगि’ इत्यस्य प्रतियोगितावत् अर्थः। षष्ठ्यर्थनिरूपितत्वस्याश्रयतासम्बन्धेन प्रतियोगितावदेकदेशे प्रतियोगितायामन्वयः। तथा च प्रागभावनिरूपितत्वाश्रयप्रतियोगितावत् (प्रतियोगिताश्रयः) इत्यासीत्। आश्रयस्य चाभेदसम्बन्धेन कार्येऽन्वयः। तथा च प्रागभावनिरूपितप्रतियोगितावदभिन्नं कार्यम् इति बोधः। लक्षणं तु प्रागभावप्रतियोगित्वम्। लक्षणस्यास्य घटरूपकार्ये समन्वयः। यस्मिन् कार्ये समन्वयः कर्तव्यः, तस्य प्रागभावो ग्राह्यः। प्रकृते घटरूपकार्ये समन्वयस्य कर्तव्यत्वात् घटप्रागभावः स्वीकर्तव्यः। प्रागभावः घटप्रागभावः। तन्निरूपितप्रतियोगित्वं घटे वर्तत इति लक्षणसमन्वयः। केवलं ‘अभावप्रतियोगित्वम्’ इत्येतावन्मात्रोक्तौ नित्येऽप्याकाशे अतिव्याप्तिर्दुष्परिहरा। तथाहि प्रकृते ‘अभावः’ इत्यनेन अन्योऽन्याभावस्वीकारे ‘घटः आकाशो न’ इत्याकारकान्योऽन्याभावप्रतीतेः प्रामाणिकत्वात्, तत्प्रतियोगित्वमाकाशे भवति। किन्तु आकाशस्तु नित्यः। तस्य कार्यत्वापत्तिः। अतस्तत्राऽतिव्याप्तिः। अतः प्रागभावेत्युक्तम्। तेन चान्योन्याभावस्य स्वीकर्तुमशक्यत्वात् नातिव्याप्तिः। आकाशस्य नित्यत्वात्, तस्य प्रागभावाभावात् नातिव्याप्तिः।
कारणलक्षणस्य प्रदर्शितत्वात् कारणतानिरूपकं कार्यमिति वस्तुस्थितिः। पूर्वमसत् कारकव्यापारैर्निष्पाद्यते इति सिद्धान्तात्। असत्कार्यवादिनो ह्येते। तद्दृष्ट्या प्रागभावप्रतियोगित्वं लक्षणमुक्तम्। नन्वसतः शशशृङ्गादेः उत्पत्त्यभावात्, कथं कार्यम-सदित्युच्यत इति चेत्, सतो वात्मादेरुत्पत्त्यभावात् सत्कार्यवादो वा कथम् ? वस्तुतस्तु - शशशृङ्गमिति न कश्चन पदार्थः। अतः सर्वथासतः शशशृङ्गादेरपि नोत्पत्तिः। सदा सत आत्मादेरपि उत्पत्तिर्नास्ति। किन्तु, कदाचिदसतः कदाचित्सत्त्वमेव ज्ञापयति असत्कार्यवादस्य प्रामाणिकताम्। वस्तुतस्त्वारम्भवादिन एते। ‘कटं कर्तुमारभते’ ‘घटं कर्तुमारभते’ ‘पटं कर्तुमारभते’ इत्येव व्यवहारात् ‘आरम्भवादः’ इत्येवास्य नाम। इयमेवैतच्छास्त्रमर्यादा।*
टिप्पणी
*कार्यकारणभावस्थलं चतुर्विधं दृश्यते
(१) असत्कार्यवादः अथवा आरम्भवादः नैयायिकानाम्।
(२) सत्कार्यवादः अथवा परिणामवादः सांख्यानाम्।
(३) संघातवादः बौद्धानां - वैभाषिकाणां सौत्रान्तिकानाञ्च।
(४) विवर्तवादः कार्यमिथ्यात्ववादः बौद्धानाम्, निर्विशेषाद्वैतवादिनां शाङ्कराणां, शब्दविवर्तवादिनां वैयाकरणानां च।
बौद्धेष्वपि योगाचाराः विज्ञानविर्तवादिनः, माध्यमिकास्तु शून्यविवर्तवादिनः। कार्यकारणभाव एव नास्ति, अन्वयतो व्यतिरेकतश्च व्यभिचारात् इति सर्वापलापवादिनः, तदनुयायिनञ्च। अतश्च असत्कार्यवादो द्विविधः— पूर्वमसत्, अनन्तरं सदित्येकः। पूर्वमप्यसत्, अनन्तरमप्यसदिति द्वितीयः। आद्यो वैदिकानाम्,द्वितीयः सर्वापलापवादिनां बौद्धानाम्। वैदिकास्तु सर्वास्तित्ववादिनः। अत एव सत्कार्यवादिनः। न्यायशास्त्रस्य लोकाश्रयत्वात्, पुरुषप्रयत्नस्यास्ति लोके स्थानम्। जानाति, इच्छति, यतत इति खलु लौकिकक्रमः। अत एवैते आरम्भवादिनः। आरम्भः प्रयत्नः। कटं कर्तुमारभते, घटं कर्तुमारभते इति खलु व्यवहरन्ति लोके। एतावदेव क्षेत्रं न्यायशास्त्रस्य। बीजं वृक्षरूपेण परिणमते इति तत्र परिणामवाद एव। अलौकिकस्स विषय इति न तत् क्षेत्रं न्यायशास्त्रस्य। इतरवादास्तु तत्त्वमुक्ताकलापव्याख्यायां द्रष्टव्याः। अन्वयव्यतिरेकव्यभिचारपरिहारादिकं मङ्गलवादोक्तन्यायेन ज्ञेयम्॥
सारतस्तु मनुष्याणामशक्त्या दुर्निरूपत्वविचारोऽन्यः, वस्तुस्थिति- वादोऽन्यः। तावता कार्यकारणभाव एव नास्तीत्यादिकम् अहङ्कारादज्ञानाद्वा भवेत्। अन्यथा भोजनादावपि प्रवृत्तिर्न स्यात्। क्षुन्निवृत्तिसाधनत्वं ज्ञात्वा तु प्रतिदिनं भुङ्क्ते नरः। अत एवोक्तमभियुक्तैः कार्यकारणभावापलापे चार्वाका निराहारा प्रियेरन् इति त्रिकालसत्यम्।
विवर्तपरिणामवादयोः स्वरूपादिकं तत्त्वमुक्ताकलापव्याख्यायां सर्वङ्कषायां विस्तरेण प्रदर्शितम्। अधिकं सत्यसिद्धौ द्रष्टव्यम्।
कारणं त्रिविधम्- समवाय्यसमवायिनिमित्तभेदात्।
यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम्। यथा तन्तवः पटस्य, पटश्च स्वगतरूपादेः।
आलोक- व्याख्या
समवायिकारणं लक्षयति- यत्समवेतमित्यादि। पटादिकं स्वावयवेषु तन्तुषु समवायसंबन्धेनोत्पद्यते, अवयवावयविनोस्समवायात्। अतोऽत्र कार्यतावच्छेदकसंबन्धः समवायः। तन्त्वादीनां कारणतावच्छेदकसंबन्धस्तु तादात्म्यम्। कार्यकारणयोरेकाधिकरणवृत्तित्वम्- सामानाधिकरण्यम् आवश्यकम्। अत एव व्यधिकरणयोः कार्यकारणभावः कुत्रापि न भवति। एवं पटगतरूपं प्रति पटः समवायिकारणम्। अत्र रूपं पटे समवायसम्बन्धेन जायते। पटश्च तादात्म्यसंबन्धेन कारणम्। अतश्च समवायसंबन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसंबन्धावच्छिन्नकारणत्वं समवायिकारणस्य लक्षणम्।
प्रथमदलमात्रोक्तौ वक्ष्यमाणेऽसमवायिकारणेऽतिव्याप्तिः। अतो द्वितीयदलम्। द्वितीयदलमात्रोक्तौ प्रत्यक्षज्ञानस्य निमित्तकारणभूते विषयेऽतिव्याप्तिः। विषयतासंबन्धेन घटप्रत्यक्षं प्रति तादात्म्यसंबन्धेन विषयीभूतघटस्य कारणत्वात्। अतः प्रथमदलम्।
तर्कसंग्रहः
कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत्कारणमसमवायिकारणम्। यथा तन्तुसंयोगः पटस्य, तन्तुरूपं पटगतरूपस्य च।
आलोक-व्याख्या
असमवायिकारणं लक्षयति - कार्येणेत्यादि। कार्येण सहैकस्मिन्नर्थे समवेतं सत् कारणमसमवायिकारणमित्येकविधम्। कारणेन सहैकस्मिन्नर्थे समवेतं सत् कारणं द्वितीयमसमवायिकारणम्। आद्यं तन्तुसंयोगः पटस्य। द्वितीयं तन्तुरूपं पटरूपस्य। पटो हि तन्तुषु समवायसंबन्धेन जायते। तन्तुसंयोगोऽपि तन्तुषु समवायसंबन्धेन वर्तते, गुणगुणिनोस्समवायात्। तथा च समवायसंबन्धावच्छिन्नकार्यतानिरूपितसमवायसंबन्धाव- च्छिन्नकारणत्वं प्रथमासमवायिकारणस्य लक्षणम्। प्रथमदलमात्रोक्तौ समवायिकारणेऽतिव्याप्तिः स्पष्टा। एवं द्वितीयासमवायिकारणेऽप्यतिव्याप्तिः स्पष्टा। अतो द्वितीयदलम्। द्वितीयदलमात्रोक्तौ घटादिप्रत्यक्षनिमित्तकारणे रूपादावतिव्याप्तिः। विषयतासंबन्धेन घटप्रत्यक्षं प्रति समवायसंबन्धेन रूपस्य कारणत्वात्। तदर्थं प्रथमदलम्।
कारणेन सहेत्यादि। द्वितीयासमवायिकारणम्। कारणेन स्वकार्य- समवायिकारणेनेत्यर्थः। यथा तन्तुरूपं पटरूपं प्रत्यसमवायिकारणम्। पटरूपं हि पटे समवायसंबन्धेनोत्पद्यते। तन्तुरूपं च तत्र स्वसमवायिसमवेतत्वसंबन्धेन वर्तते। स्वं तन्तुरूपम्। स्वसमवायिनस्तन्तवः, गुणगुणिनोस्समवायात्। तन्तुषु पटः समवायसंबन्धेन वर्तते, अवयवावयविनोः समवायात्। अतश्च समवायसंबन्धावच्छिन्नकार्यतानिरूपित- स्वसमवायिसमवेतत्वसंबन्धावच्छिन्नकारणत्वं द्वितीयासमवायिकारणत्वम्। प्रथमदलमात्रोक्तौ समवायिकारणेऽतिव्याप्तिः स्पष्टा। अतो द्वितीयदलम्। द्वितीयदलमात्रोक्तौ विषयतासंबन्धेन घटत्वादिप्रत्यक्षं प्रति निमित्तकारणभूते रूपादावतिव्याप्तिः। स्वं रूपम्। स्वसमवायि घटः। तत्समवेतं घटत्वम्। अतो रूपं स्वसमवायिसमवेतत्त्वसंबन्धेन घटत्वप्रत्यक्षं प्रति कारणमित्यतिव्याप्तिः। अतः प्रथमदलम्॥
नन्वत्र स्वसमवायिसमवेतत्वसंबन्धावच्छिन्नकार्यतानिरूपितसमवाय- संबन्धावच्छिन्नं कारणं द्वितीयासमवायिकारणमित्येव कथने का हानिः। स्वं पटरूपम्, स्वसमवायी पटः। तत्समवेताः तन्तवः। अत्रैव तन्तुरूपमपि समवायसंबन्धेन वर्तत इति कारणं भवति। अतः संबन्धयोः वैपरीत्ये का हानिरिति चेत् - न। चित्रपटस्थले पटरूपं प्रति तन्तुरूपस्य कारणत्वानुपपत्तेः। नानारूपैस्तन्तुभिः चित्रपटो निर्मीयते। स्वं चित्रपटरूपम्। स्वसमवायी पटः। तत्समवेतत्वं नीलतन्तुषु वर्तते। तत्र रक्ततन्तुरूपस्य समवायसंबन्धेनासत्त्वात् व्यभिचारापत्तिः। चित्रपटरूपं प्रति हि नीलतन्तवोऽपि कारणम्, रक्ततन्तवोऽपि कारणम्। अतः स्वसमवायिसमवेतत्वपदेन नीलतन्तुस्वीकारे, वा रक्ततन्तुस्वीकारे वा कार्याधिकरणवृत्त्यत्यन्ताभावप्रतियोगित्वात् रूपान्तरस्य व्यभिचारो दुष्परिहरः। अतः समवायसंबन्धावच्छिन्नकार्यतानिरूपितस्वसमवायिसमवेतत्वसंबन्धावच्छिन्नं कारणत्वमेव वक्तव्यम्। एवं सति तु समवायसंबन्धेन चित्रपटरूपं चित्रपटे वर्तते। चित्रपटे तु नीलतन्तुरूपं रक्ततन्तुरूपमित्यादिरूपं सर्वं स्वसमवायिसमवेतत्वसंबन्धेन वर्तते। स्वं नीलरूपं रक्तरूपमित्यादि। तत्समवेतास्तु नीलतन्तवः, रक्ततन्तव इत्यादयस्सर्वे तन्तवः। तत्समवेतश्चित्रपटः, तत्रैव चित्ररूपं समवायसंबन्धेनोत्पद्यत इति कारणत्वनिर्वाहात् संबन्धविपर्यासो न कर्तुं शक्यः।
तर्कसंग्रह:
तदुभयभिन्नं कारणं निमित्तकारणम्। यथा तुरीवेमादिकं पटस्य।
आलोक-व्याख्या
निमित्तकारणं लक्षयति- तदुभयेत्यादि। समवायिकारणभिन्नम् असमवायिकारणभिन्नं कारणं निमित्तकारणमित्यर्थः। तुर्यां किल पटः संयोगसंबन्धेनोत्पद्यते। अतः संयोगसंबन्धावच्छिन्नपटत्वावच्छिन्न- कार्यतानिरूपिततादात्म्यसंबन्धावच्छिन्ना कारणता तुर्यां वर्तते। अत्र कार्यतायाः संयोगसंबन्धावच्छिन्नत्वात् तुर्याः समवाय्यसमवायिकारणत्वव्यावृत्तिः, उभयत्रापि कार्यतायाः समवायसंबन्धावच्छिन्नत्वात्। अतः समवाय्यसमवायिकारणभिन्नं कारणमिति लक्षणसमन्वयः। अत्र यद्यपि घटनिमित्तकारणभूतदण्डादेः स्वगतरूपं प्रति समवायिकारणत्वात्, दण्डः समवायिकारणमपि भवतीति समवायिकारणभिन्नत्वाभावादसंभवः। अथापि कार्यभेदात् कारणतापि भिद्यते। रूपनिरूपितसमवायिकारणता भिन्ना, घटनिरूपितनिमित्तकारणता च भिन्ना, निरूपकभेदात् निरूप्यभेदस्यावश्यकत्वात्। परस्परविरुद्धयोः पुत्रत्वपितृत्व- योर्निरूपकभेदेनैकत्र सत्त्वे विरोधाभावात्। अतश्च समवायिकारणताभिन्नत्वे सति असमवायिकारणताभिन्नत्वे सति कारणत्वं निमित्तकारणस्य लक्षणम्। दलप्रयोजनं तु स्पष्टमेव।
तर्कसंग्रह:
तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम्।
आलोक-व्याख्या
एवं कारणानां लक्षणेऽभिहिते, करणमेतदनन्तर्भूतमिति शङ्का मा भूदित्यर्थं करणस्वरूपं प्रदर्शयति- तदेतदित्यादि। असाधारणमिति। कालेश्वरादृष्टादिकं मध्ये द्वारमन्तरा साक्षादेव सर्वकार्यकारणम्। अतोऽसाधारणत्वं व्यापारवत्त्वमेव, न तु प्राधान्यादिरूपम्, इत्यादिकमनुपदमेवोक्तम्।
तर्कसंग्रह
तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम्। इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्। तद् द्विविधम्- निर्विकल्पकं सविकल्पकं चेति। निष्प्रकारकं ज्ञानं निर्विकल्पकम्। सप्रकारकं ज्ञानं सविकल्पकम्। यथा डित्थोऽयं, ब्राह्मणोऽयं, श्यामोऽयं, पाचकोऽयमिति।
आलोक-व्याख्या
निष्प्रकारकमिति। अत एवातीन्द्रियम्, शब्दानभिलप्यं च। विशिष्टबुद्धिं प्रति विशेषणस्य कारणत्वमनुभवसिद्धम्। कारणत्वं च नियतपूर्ववृत्तित्वरूपम्। एवञ्च घटत्वविशिष्टघटज्ञानं प्रति पूर्वं घटत्वज्ञानमावश्यकम्। तदपि विशिष्टविषयकं भवेच्छेदनवस्था। अतो घटत्वमात्रविषयकं निर्विशेषणकम्, अत एव निष्प्रकारकं च तद्ज्ञानम्। अत एवातीन्द्रियञ्च।
सप्रकारकमित्यादि स्पष्टम्। डित्थ इति संज्ञा। ब्राह्मण इति जातिविशेषणकम्। श्याम इति गुणविशेषणकम्। पाचक इति क्रियाविशेषणकम्। चत्वारिपदजातानि, संज्ञावाचीनि गुणवाचीनि, क्रियावाचीनि, जातिवाचीनि च। संज्ञापदान्येव द्रव्यवाचीनि, रूढानि, यदृच्छाशब्दानीति च कथ्यन्ते।
तर्कसंग्रहः
प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसंनिकर्ष: षड्विधः। संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति। चक्षुषा घटप्रत्यक्षजनने संयोगः संनिकर्षः। घटरूपप्रत्यक्षे संयुक्तसमवायः सन्निकर्षः। चक्षुः संयुक्ते घटे रूपस्य समवायात्। रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः। चक्षुः संयुक्ते घटे रूपं समवेतम्। तत्र रूपत्वस्य समवायात्। श्रोत्रेण शब्दसाक्षात्कारे समवायः संनिकर्षः। कर्णविवरवृत्त्याकाशस्य श्रोत्रत्वात्। शब्दस्याकाशगुणत्वात् गुणगुणिनोः समवायात्। शब्दत्वसाक्षात्कारे समवेतसमवायः संनिकर्षः। श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात्। अभावप्रत्यक्षे विशेषणविशेष्यभावः संनिकर्षः, भूतलं घटाभाववत् इत्यत्र चक्षुः संयुक्तभूतले घटाभावस्य विशेषणत्वात्।
एवं संनिकर्षजन्यं ज्ञानं प्रत्यक्षम्, तत्करणमिन्द्रियम्। तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम्॥
इति तर्कसंग्रहे प्रत्यक्षपरिच्छेदः समाप्तः॥
आलोक- व्याख्या
प्रत्यक्षज्ञानहेतुः - लौकिकप्रत्यक्षज्ञानहेतुरित्यर्थः। सन्निकर्षः- द्विविधः, लौकिकालौकिकभेदात्। प्रथमस्तु ग्रन्थकारेणैव उच्यते। द्वितीयस्तु अलौकिकसन्निकर्षः अनुपदमुच्यतेऽत्र व्याख्यायाम्।
संयोगस्सन्निकर्ष इति। इन्द्रियाणि हि भौतिकानि, अत एव द्रव्याणि। द्रव्ययोस्संयोगः। अतो घटादिद्रव्यप्रत्यक्षे संयोगस्सन्निकर्षः। इतरत् स्पष्टम्।
ननु श्रोत्रेन्द्रियेण दूर उत्पन्नश्शब्दः कथं गृह्यते। शब्दो हि गुणः। न हि तस्य गमनागमनसंभवः। नापि श्रोत्रेन्द्रियं शब्दोत्पत्तिदेशं गच्छेत्, तस्याकाशत्वेन क्रियाभावादिति चेत्, न। दूर उत्पन्नः शब्दो वीचितरङ्गन्यायेन, अन्यं शब्दमुत्पाद्य नश्यति। सोऽप्यन्यमिति तरङ्गात्तरङ्गान्तरक्रमेण श्रोत्रप्रदेशे उत्पन्नः शब्दः श्रोत्रेण गृह्यते॥
अभावेत्यादि। विशेषणभाव:, विशेष्यभाव इति सन्निकर्षद्वयमिति केचित्। ‘भूतले घटाभावः’ इत्यत्र चक्षुस्संयुक्ते भूतले घटाभावस्य विशेष्यत्वात् विशेष्यत्वं सन्निकर्षः। ‘घटाभाववद् भूतलम्’ इत्यत्र चक्षुस्संयुक्तभूतलविशेषणत्वं सन्निकर्ष इति वदन्ति। परन्तु अभावप्रत्यक्षं प्रति सन्निकर्षत्वादस्य, शाब्दबोधस्य शब्दप्रयोगाधीनत्वेन विशेषणविशेष्यभावपरिवर्तनेऽपि प्रत्यक्षे विशेषणविशेष्यभावो न कदापि व्यत्यस्तो भवति। प्रत्यक्षस्य वस्तुजन्यत्वात्। अतो विशेषणविशेष्यभाव एक एव सन्निकर्षः, आधाराधेयभाववत् इत्यपरे। चक्षुस्संयुक्ते भूतले विशेषणमभाव इति चक्षुस्संयुक्त विशेषणतासन्निकर्ष एव विशेषणविशेष्यभाव इत्युच्यते। एवं घटे पटत्वाभावोऽपि चक्षुस्संयुक्तविशेषणता सन्निकर्षेण गृह्यते। घटत्वे पटत्वाभावस्तु चक्षुस्संयुक्तसमवेतविशेषणतया, नीलत्वे पीताभावः चक्षुस्संयुक्तसमवेत- समवेतविशेषणतया च गृह्यत इत्याद्यप्यूह्यम्।
एवमभावप्रत्यक्षस्य तत्तदिन्द्रियग्राह्यत्वप्रतिपादनेनानुपलब्धेः प्रमाणान्तरत्वं निरस्तम्। अभावप्रत्यक्षं प्रत्यनुपलब्धिरेव प्रमाणमिति भाट्टाः। परन्तु अधिकरणप्रत्यक्षं प्रति इन्द्रियस्यात्यन्तमावश्यकत्वेनानुपलब्धि- सहकृतेनेन्द्रियेणैवोक्तसन्निकर्षैरभावप्रत्यक्षे संभवति, अतिरिक्तप्रमाणाङ्गीकारे गौरवम्।।
समवायोऽपि विशेषणविशेष्यभावसन्निकर्षेण गृह्यत इति नवीनाः। परन्त्वेवं सति अनुमानेन समवायसाधन एवं लाघवतर्कावतारात् समवायस्य प्रत्यक्षत्वे तस्यैकत्वं नित्यत्वं च न स्यात्। सत्तया कार्यकारित्वमेव संबन्धत्वमिति समवायो न प्रत्यक्षः, अनुमेय एवेति प्राचीनाः।
*इदं सर्वं लौकिकसन्निकर्षरूपम्। अलौकिकस्तु सन्निकर्षः सामान्यलक्षणः, ज्ञानलक्षणः, योगजलक्षणश्चेति त्रिविधः। धूमत्वेन निखिलधूमानां वह्नित्वेन निखिलवह्नीनां च ज्ञानमन्तरा यत्र यत्र धूमस्तत्र वह्निरिति व्याप्तिग्रहणं न संभवेत्। धूमत्वेन निखिलधूमज्ञानं च सामान्यमुखेनैव, देशान्तरधूमानां चक्षुस्संयोगसन्निकर्षाभावात्। अत इयं सामान्यलक्षणाप्रत्यासत्तिरित्युच्यते।
एवं ‘सुरभि चन्दनम्’ इत्यादिप्रतीतौ विशेष्यविशेषणयोर्भिन्नेन्द्रिग्राह्यत्वेन, युगपदिन्द्रियद्वयस्य प्रवृत्तेरसंभवात् विशेषणज्ञानं घ्राणेन्द्रियजन्यं प्रथमं भवति। ततश्चन्दनखण्डस्य चक्षुरिन्द्रियसंयोगे जाते, तत्र पूर्वगृहीतगन्धः स्मृतस्सन् विशेषणतया भासते। अत्र विशेषणभानं ज्ञानलक्षणासन्निकर्षवशाद्भवति।
योगजलक्षणा तु योगजसिद्धिरूपा, धर्म(पुण्य)विशेषरूपा। सा च योगिनां दूरवर्तिपदार्थप्रत्यक्षं प्रति अतीतानागतविषयकप्रत्यक्षं प्रति च हेतुः। एवमलौकिकसन्निकर्षजन्यं ज्ञानमलौकिकप्रत्यक्षमित्युच्यते। ज्ञानलक्षणस्योपनीतभानपदेनाप्यस्ति व्यवहारः।
वरदाचार्य आलोके - प्रामण्यवादः
ननूत्पन्ने ज्ञाने प्रामाण्यनिश्चयाभावे, कथं प्रवृत्तिर्भवेत् ? प्रवर्तन्ते च पुरुषास्सर्वे। अतः प्रामाण्यनिश्चयः प्रथममावश्यकः। अत एव प्रामाण्यं स्वत इत्येव वक्तव्यमिति चेत्, प्रवृत्तेः साफल्ये सत्येव प्रामाण्यनिश्चयसंभवात् पूर्वं तदसंभवात् प्रामाण्यनिश्चयः प्रवृत्तिं प्रति न हेतुः। किन्तु अप्रामाण्यनिश्चयाभाव एव। प्रामाण्यसंशये सत्यपि ‘पश्यामः’ इति धैर्येणापि कदाचित् प्रवृत्तिर्भवति। परन्तु, साध्यस्य फलस्य, प्रवृत्त्या जायमानस्य क्लेशस्य च तुलनं कृत्वा विवेकिनः प्रवर्तन्ते। अत एवाविचार्यप्रवर्तनं बाल्यमित्युच्यते।
गुरुलाघवमर्थानाम्, आरंभं कर्मणाम्, फलम्।
दोषं वा यो न जानाति स बाल इति होच्यते’।।
इति बाललक्षणमुच्यते वाल्मीकिना (वा.रा.अयो.६३-७)। बहुवित्तव्यवसायसाध्ये महायज्ञादौ तु वेदप्रामाण्ये दृढनिश्चयादेव प्रवृत्तिः। अतो वेदानां स्वतः प्रामाण्यमनिवार्यमिति मीमांसकाः। परन्तु वेदस्य शब्दरूपत्वात्, शब्दप्रामाण्यस्य वक्तृपुरुषे आप्तत्वज्ञानाधीनत्वात्, वेद ईश्वरप्रोक्त इति नैय्यायिकाः। ‘मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्’ (न्या.सू.२-१-६९) इत्यक्षपादः। ईश्वरस्य कुत्रापि स्खलनं न स्यादित्यर्थः। तर्हि तत्पक्षं कथं खण्डयन्तीतर इति चेत्, ‘न हि निन्दां निन्द्यं निन्दितुं प्रवृत्ता, किन्तु प्रकृतं प्रशंसितुम्’ इति न्यायादेवेदं स्वमतप्रशंसार्थमिति ग्राह्यम्। कथमन्यथा
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश।। (म.भा.)
इति व्यासवचनं,
पुराणतर्कमीमांसा धर्मशास्त्राङ्गमिश्रिताः।
वेदा: स्थानानि विद्यानां धर्मस्य च चतुर्दश।। (या. शि.)
इति याज्ञवल्क्यवचनं वा ?
अतश्च प्रामाण्यं ज्ञप्तौ सफलप्रवृत्तिजनकत्वेन हेतुना, अप्रामाण्यं ज्ञप्तौ च विफलप्रवृत्तिजनकत्वेन हेतुनेति परत एवोभयमपि। एवमेव प्रामाण्यस्योत्पत्तावपि स्वतस्त्वपरतस्त्वविचारो वर्तते। ज्ञानोत्पत्तिसामग्र्यैव प्रामाण्यमपि सहैवोत्पद्यते इति स्वतस्त्ववादिनः। किन्तु एवं सति अप्रमात्वस्यापि स्वतस्त्वप्रसङ्गात्, गुणकृता प्रमात्वोत्पत्तिः,दोषकृता चाप्रमात्वोत्पत्तिरित्येव सुवचम्। अस्य विस्तरो न्यायकुसुमाञ्जलौ द्वितीयस्तबके।
गोवर्धन-न्यायबोधिनी - प्रमाणकारणम्
यथार्थानुभवं विभजते- यथार्थानुभव इति। तत्करणमिति। फलीभूतप्रत्यक्षादिकरणं चतुर्विधमित्यर्थः। प्रत्यक्षादिप्रमाणानां प्रमाकरणत्वं सामान्यलक्षणम्। एकैकप्रमाणलक्षणं तु वक्ष्यते प्रत्यक्षज्ञानेत्यादिना।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - प्रमाविभागः
यथार्थानुभवः चतुर्विधः, प्रत्यक्षानुमित्युपमितिशाब्दभेदात्। तत्करणमपि चतुर्विधम्, प्रत्यक्षानुमानोपमानशब्दभेदात्।
यथार्थानुभवं विभजते यथार्थानुभव इति। प्रमाकरणं विभजते प्रत्यक्षेति।
असाधारणं कारणं करणम्।।
करणलक्षणमाह असाधारणेति। तत्र व्यापारजनकमिति पूरणीयम्, तथाच व्यापारजनकत्वे सति (असाधारणकारणत्वं) कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वं करणस्य लक्षणमिति फलितम्। घटं प्रति करणीभूतदण्डे लक्षणसमन्वयः, तथाहि कार्यत्वातिरिक्तो यो धर्मः घटत्वरूपो धर्मः तद्धर्मावच्छिन्ना या कार्यता घटे विद्यमाना कार्यता तन्निरूपिता या कारणता दण्डे विद्यमाना कारणता तदाश्रयत्वं भ्रमणरूपव्यापारजनकत्वञ्च दण्डे वर्तत इति लक्ष्ये लक्षणसमन्वयः। (तज्जन्यत्वे सति तज्जन्यजनको व्यापारः तत्पदं करणत्वेनाभिमतपरम्) व्यापारजनकत्वमात्रोक्तौ ईश्वरादृष्टादेः कार्यमात्रं प्रति कारणत्वेन व्यापारजनकत्वस्यापि सत्त्वात् तत्रातिव्याप्तिः, असाधारणकारणत्वनिवेशे तु ईश्वरादृष्टादेः कार्यमात्रं प्रति साधारणकारणत्वेन असाधारणकारणत्वस्य तत्राभावात् नातिव्याप्तिः। असाधारणकारणत्वमात्रोक्तौ घटं प्रति भ्रमणरूपव्यापारस्यासाधारणकारणत्वेन व्यापार एवातिव्याप्तिः, व्यापारजनकत्वनिवेशे तु व्यापारे व्यापारजनकत्वाभावात् नातिव्याप्तिः।