मूलम् - बुद्धिः - 35
सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम्। सा द्विविधा स्मृतिरनुभवश्च। संस्कारमात्रजन्यं ज्ञानं स्मृतिः। तद्भिन्नं ज्ञानमनुभवः। स द्विविधः यथार्थोऽयथार्थश्च। तद्वति तत्प्रकारकोऽनुभवो यथार्थः। यथा रजते इदं रजतमिति ज्ञानम्। सैव प्रमेत्युच्यते। तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः। यथा शुक्ताविदंरजतमिति ज्ञानम्। सैव अप्रमेत्युच्यते॥ ३४॥
Tags - 35
बुद्धिः, ज्ञानम्, स्मृतिः, अनुभवः, यथार्थ-अयथार्थज्ञानम्
दीपिका - बुद्धिलक्षणम्
बुद्धेर्लक्षणमाह- सर्वव्यवहारेति। जानामीत्यनुव्यवसायगम्यं ज्ञानत्वमेव लक्षणमिति भावः। बुद्धिं विभजते- सेति। स्मृतेर्लक्षणमाह- संस्कारेति। भावनाख्यः संस्कारः। संस्कारध्वंसेऽतिव्याप्तिवारणाय ज्ञानमिति। अनुभवेऽतिव्याप्तिवारणाय संस्कारजन्यमिति। प्रत्यभिज्ञायामतिव्याप्तिवारणाय मात्रपदम्। अनुभवं लक्षयति-तद्भिन्नमिति। स्मृतिभिन्नं ज्ञानमनुभव इत्यर्थः। अनुभवं विभजते- स द्विविध इति। यथार्थानुभवस्य लक्षणमाह- तद्वतीति। ननु घटे घटत्वमिति प्रमायामव्याप्तिः। घटत्वे घटाभावादिति चेन्न। यत्र यत्संबन्धोऽस्ति तत्र तत्संबन्धानुभव इत्यर्थात्। घटत्वे घटसंबन्धोऽस्तीति नाव्याप्तिः। सैवेति। यथार्थानुभव एव शास्त्रे प्रमेत्युच्यत इत्यर्थः। अयथार्थानुभवं लक्षयति- तदभाववतीति। नन्विदं संयोगीति प्रमायामतिव्याप्तिरिति चेन्न। यदवच्छेदेन यत्संबन्धाभावस्तदवच्छेदेन तत्संबन्धज्ञानस्य विवक्षितत्वात्। संयोगाभावावच्छेदेन संयोगज्ञानस्य भ्रमत्वात्। संयोगावच्छेदेन संयोगसंबन्धस्य सत्त्वान्नातिव्याप्तिः।
वरदाचार्य आलोके - अख्यातिलक्षणम्
अथैवमपि शुक्तौ ‘इदं रजतम्’ इत्याकारकभ्रमेऽतिव्याप्तिर्दुर्वारा। प्रथमतत्पदेन शुक्तित्वग्रहणे तद्वती शुक्तिः। तद्वन्निष्ठा- शुक्तित्ववन्निष्ठा विशेष्यता भवति। तादृशविशेष्यतानिरूपकत्वं ज्ञाने वर्तते। द्वितीयतत्पदेन रजतत्वग्रहणे रजतत्व-निष्ठप्रकारतानिरूपकत्वं च तद्ज्ञाने वर्तते। अनुभवत्वं च वर्तत इत्यतिव्याप्तिः। ननु ‘स राजा आगच्छति, तं पश्य’ इत्यादिप्रयोगात् ‘एकत्रोच्चरितयोस्तच्छब्दयोरेकार्थबोधकत्वमिति नियमात्, तत्पदद्वयेनापि एक एव धर्मो ग्राह्यः। प्रथमतत्पदेन शुक्तित्वग्रहणेन शुक्तित्ववच्छुक्तिनिष्ठविशेष्यतानिरूपकत्वसत्त्वेऽपि द्वितीयतत्पदेनापि शुक्तित्वस्यैव ग्राह्यत्वात्- ‘तन्निष्ठप्रकारता’ इत्यनेन शुक्तित्वनिष्ठप्रकारतैव भवति। तत्र रजतत्वस्यैव प्रकारत्वात्, शुक्तित्वनिष्ठप्रकारतानिरूपकत्वं नास्तीति कथमतिव्याप्तिरिति चेत्; एवमपि रङ्गरजते दृष्ट्वा ‘इमे रजतरङ्गे’ इति समूहालम्बन- भ्रमेऽतिव्याप्तिर्दुर्वारा। नानाविशेषणविशेष्यकज्ञानं समूहालम्बनज्ञानमित्युच्यते। उक्तज्ञाने शुक्तिः रजतं चेति द्वयं विशेष्यम्। शुक्तित्वं रजतत्वं चेति द्वयमपि विशेषणम्। अतस्तत्र तत्पदेन रजतत्वग्रहणे रजतत्ववद्रजतनिष्ठा विशेष्यतापि वर्तते, रजतत्वनिष्ठप्रकारतापि वर्तते। एवं तत्पदेन रङ्गत्वग्रहणे रङ्गत्ववद्रङ्गनिष्ठापि विशेष्यता वर्तते, रङ्गत्वनिष्ठा प्रकारतापि वर्तत इति तद्वन्निष्ठविशेष्यतानिरूपकत्वं तन्निष्ठप्रकारतानिरूपकत्वमनुभवत्वं च वर्तत इत्यतिव्याप्तिः स्यादेवेति चेत्, न। एकज्ञानीययोर्विशेष्यत्वप्रकारत्वयोः परस्परं निरूप्यनिरूपकभावस्य भानात्, तद्वन्निष्ठविशेष्यतानिरूपिता या तन्निष्ठा प्रकारता, तन्निरूपकत्वस्य ज्ञाने निवेशान्नातिव्याप्तिः। पूर्वं तु विशेष्यतानिरूपकत्वं प्रकारतायां न निविष्टम्, किन्तु ज्ञाने निविष्टम्। इदानीं तु प्रकारतायां निविष्टमिति विशेषः। एवञ्चोक्तसमूहालम्बनभ्रमे रङ्गनिष्ठापि विशेष्यता, रजतनिष्ठापि विशेष्यता, रङ्गत्वनिष्ठापि प्रकारता रजतत्वनिष्ठापि प्रकारता भवति। अतस्तद्वन्निष्ठविशेष्यतानिरूपकत्वम्, तन्निष्ठप्रकारतानिरूपकत्वं च ज्ञाने प्रत्येकं वर्तत इत्यतिव्याप्तिरुक्ता। इदानीं तूक्तज्ञाने तत्पदेन रङ्गत्वस्य स्वीकारे, तद्वत् - रङ्गत्ववत् रङ्गम्। तन्निष्ठविशेष्यतानिरूपिता तु प्रकारता रजतत्वे वर्तते, न रङ्गत्वे। अतस्तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठ- प्रकारताशालित्वमुक्तसमूहालम्बने नास्ति। तत्पदेन रजतत्वस्वीकारेऽपि, तद्वत् रजतम्। तन्निष्ठविशेष्यतानिरूपिता प्रकारता रङ्गत्व एव वर्तते, न तु रजतत्वे। अतस्तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालित्वमुक्तसमूहालम्बने नास्तीति नातिव्याप्तिः। तथा च तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालित्वे सति अनुभवत्वं यथार्थानुभवस्य लक्षणम्।
अथैवमपि रङ्गरजते दृष्ट्वा ‘इमे रजते’ इति समूहालम्बन- भ्रमेऽतिव्याप्तिर्दुर्वारा। तत्र रङ्गे, रजते उभयत्रापि रजतत्वं रङ्गत्वं च प्रकारः। तत्पदेन रजतत्वस्वीकारे, तद्वत् रजतम्। तन्निष्ठविशेष्यतानिरूपिता रजतत्वनिष्ठा प्रकारता भवत्येव। अतस्तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालित्वसत्त्वादुक्तभ्रमेऽतिव्याप्तिर्दुवरिति चेत्, न। तद्वन्निष्ठविशेष्यतानिरूपितत्वस्थाने तदभाववन्निष्ठविशेष्यत्वानिरूपितत्वस्य विवक्षणात्। तथा च तदभाववन्निष्ठविशेष्यत्वानिरूपिततन्निष्ठप्रकारताशालित्वे सत्यनुभवत्वं लक्षणम्। रजते ‘इदं रजतम्’ इति प्रमायां तत्पदेन रजतत्वग्रहणे। तदभावः रजतत्वाभावः। तद्वत् रङ्गम्। तन्निष्ठविशेष्यत्वानिरूपितत्वं रजतत्वनिष्ठप्रकारतायामस्तीति लक्षणसमन्वयः। एवञ्चोक्तसमूहालम्बनभ्रमे, रङ्गांशेऽपि रजतत्वस्य प्रकारतया भानात् तत्पदेन रजतत्वस्य स्वीकारे, तदभाववत्- रजतत्वाभाववत् रङ्गं भवति। तादृशरङ्गनिष्ठविशेष्यतानिरूपितैव रजतत्वनिष्ठप्रकारता भवति, रजत इव रङ्गेऽपि रजतत्वस्यैव प्रकारतया भानात्। तथा च तदभाववन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालित्वमेवोक्तभ्रमे वर्तते, न तु तदभाववन्निष्ठविशेष्यत्वानिरूपिततन्निष्ठप्रकारताशालित्वमिति नातिव्याप्तिः। एवञ्च तदभाववन्निष्ठविशेष्यत्वानिरूपित तन्निष्ठप्रकारताशालित्वे सति अनुभवत्वं यथार्थानुभवस्य लक्षणम्।
अयथार्थानुभवस्य लक्षणमाह- तदभाववतीत्यादि। तस्याभावः तदभावः। तदभावोऽस्मिन् अस्तीति तदभाववत्। तस्मिन् तदभाववति। ‘तस्य’ इत्यत्र तच्छब्दस्य प्रकारतया भासमानो धर्मोऽर्थः। षष्ठ्याः प्रतियोगित्वमर्थः। तत्र प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः। तथा च तन्निष्ठप्रतियोगिता। षष्ठ्यर्थप्रतियोगिताया अभावे निरूपकतासम्बन्धेनान्वयः। तथा च तन्निष्ठप्रतियोगितानिरूपकाभावः। ‘अस्मिन्’ इत्यत्र इदं शब्दस्य विशेष्यतया भासमानपदार्थोऽर्थः। सप्तम्या अधिकरणत्वमर्थः। प्रकृत्यर्थस्यविशेष्यतया भासमानपदार्थस्याधेयतासम्बन्धेन सप्तम्यर्थाधिकरणतायामन्वयः। तथा च विशेष्यतया भासमानपदार्थनिष्ठाधिकरणता। ‘अस्ति’ इत्यत्र अस् धातोराधेयत्वमर्थः। आख्यातस्याश्रयत्वमर्थः। आश्रयताया अभावेऽन्वयः। अधिकरणताया अस् धात्वर्थाधेयतायां निरूपितत्वसम्बन्धेनान्वयः। तथा च विशेष्यतया भासमानपदार्थनिष्ठाधिकरणतानिरूपिताधेयताश्रयः इति खण्डवाक्यबोधः। एवञ्च - विशेष्यतया भासमानपदार्थनिष्ठाधिकरणतानिरूपिताधेयताश्रयः प्रकारतया भासमानधर्मनिष्ठप्रतियोगितानिरूपकः अभावः इति तदभावोऽस्मिन् अस्तीति विग्रहवाक्याद् बोधः।
‘अन्यपदार्थप्रधानसमासादिवृत्तिस्थले’ इत्यादिपूर्वोक्तनियमेन पूर्वं विशेष्यभूतोऽभाव इदानीं विशेषणं भवति। एवं पूर्वं विशेषणभूतो विशेष्यतया भासमानः पदार्थ इदानीं विशेष्यो भवति। तथा च- तन्निष्ठप्रतियोगिता- निरूपकाभावनिष्ठाधेयतानिरूपिताधिकरणताश्रयो विशेष्यतया भासमानः पदार्थः इति तदभाववान् इति समस्तवाक्याद् बोधः। ‘तदभाववति’ इत्यत्र सप्तम्या विशेष्यत्वमर्थः। प्रकृत्यर्थस्य तदभाववतः सप्तम्यर्थविशेष्यतायामाधेयतासम्बन्धेनान्वयः। विशेष्यतायाः निरूपकत्वसम्बन्धेनानुभवेऽन्वयः। तथा च ‘तदभाववति’ इत्यस्य तन्निष्ठप्रतियोगितानिरूपकाभावनिष्ठाधेयतानिरूपिताधिकरणतावन्निष्ठविशेष्यतानिरूपकः’ इति बोधः।
‘तत्प्रकारकः’ इत्यत्र स प्रकारो यस्मिन् स इति तत्प्रकारकः। ‘यस्मिन्’ इत्यत्र यच्छब्दस्यानुभवोऽर्थः। सप्तम्याः प्रकारित्वमर्थः। तत्र च प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः। तथा च अनुभवनिष्ठप्रकारिता। ‘प्रकार’ इत्यस्य प्रकारतावान् अर्थः। सप्तम्यर्थप्रकारितायाः प्रकारतावान् इत्यस्यैकदेशे प्रकारतायां निरूपितत्वसम्बन्धेनान्वयः। ‘तत्’ शब्दस्य प्रकारीभूतो धर्मोऽर्थः। तथा च ‘अनुभवनिष्ठ- प्रकारितानिरूपितप्रकारतावदभिन्नः सः प्रकारीभूतो धर्म इति विग्रहवाक्यबोधः।
‘अन्यपदार्थप्रधानसमासादिवृत्तिस्थले’ इति पूर्वोक्तनियमेन विशेषणविशेष्यभावव्यत्यासे कृते तन्निष्ठप्रकारतानिरूपितप्रकारिताश्रयाभिन्नोऽनुभव इति समस्तवाक्याद् बोधः। आहत्य संपूर्णवाक्यस्याखण्डबोधस्तु ‘तन्निष्ठप्रतियोगितानिरूपकाभावनिष्ठाधेयतानिरूपिताधिकरणतावन्निष्ठविशेष्यतानिरूपकाभिन्नः तन्निष्ठप्रकारतानिरूपितप्रकारिताश्रयाभिन्नोऽनुभवः’ इति। लक्षणं तु ‘तदभाववन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वम्’ इति। प्रकारतानिरूपितप्रकारिताश्रयः, प्रकारतानिरूपक इति द्वयं समानम्। शुक्तौ ‘इदं रजतम्’ इति भ्रमे लक्षणसमन्वयः। अत्र तत्पदेन रजतत्वं ग्राह्यम्। तदभावः- रजतत्वाभावः। रजतत्वाभाववती- शुक्तिः। तन्निष्ठा विशेष्यता। तन्निरूपकत्वं शुक्तौ ‘इदं रजतम्’ इत्याकारकभ्रमे वर्तते। एवं ‘तन्निष्ठप्रकारतानिरूपकत्वम्’ इत्यत्र तत्पदेन रजतत्वस्य ग्रहणात् तन्निष्ठा प्रकारता- रजतत्वनिष्ठप्रकारता। तन्निरूपकत्वमपि शुक्तौ ‘इदं रजतम्’ इत्याकारकभ्रमात्मकानुभवे वर्तते। एवं स्मृतिभिन्नत्वात् अनुभवत्वमपि वर्तत इति तदभाववन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वं शुक्तौ ‘इदं रजतम्’ इत्याकारकेऽयथार्थानुभवे वर्तत इति लक्षणसमन्वयः।
केवलं ‘अनुभवत्व’मात्रोक्तौ रजते ‘इदं रजतम्’ इत्याकारकयथा- र्थानुभवेऽतिव्याप्तिः। तस्याप्यनुभवत्वात् (स्मृतिभिन्नत्वात्)। अतः ‘तदभाववन्निष्ठविशेष्यतानिरूपकत्वं’ इति विशेषणम्। तथा च नातिव्याप्तिः। तथाहि - रजते ‘इदं रजतम्’ इत्याकारकयथार्थानुभवे यद्यपि अनुभवत्वं वर्तते। तथाऽपि तत्र तदभाववन्निष्ठविशेष्यतानिरूपकत्वं नास्ति। प्रकृते चात्र तत् पदेन रजतत्वं ग्राह्यम्। तत् - रजतत्वम्। तद्वत्- रजतम्। तद्वन्निष्ठविशेष्यता रजतनिष्ठविशेष्यता। तादृशविशेष्यतानिरूपकत्वमेव वर्तते रजते ‘इदं रजतम्’ इत्याकारकज्ञाने, न तु तदभाववन्निष्ठविशेष्यतानिरूपकत्वमिति नातिव्याप्तिः।
‘तदभाववन्निष्ठविशेष्यतानिरूपकत्वे सति अनुभवत्वम्’ इत्येतावन्मात्रोक्तौ ‘तन्निष्ठप्रकारतानिरूपकत्वम्’ इत्येतद्दलाभावे पुनः रजते ‘इदं रजतम्’ इत्याकारकयथार्थप्रमायामतिव्याप्तिर्दुष्परिहरा। तथाहि अत्र तत् पदेन (तत्पदस्य सर्वनामत्वात् बुद्धिस्थपरामर्शे) शुक्तित्वस्य ग्रहणे तत्- शुक्तित्वम्। तदभावः- शुक्तित्वाभावः। तदभाववत् शुक्तित्वाभाववत् रजतम्। तन्निष्ठविशेष्यता शुक्तित्वाभाववद्रजतनिष्ठविशेष्यता। तादृशविशेष्यतानिरूपकत्वे सति अनुभवत्वं रजते ‘इदं रजतम्’ इत्याकारकप्रमात्मकानुभवे वर्तत इति तत्रातिव्याप्तिः। अतः ‘तन्निष्ठप्रकारतानिरूपकत्वम्’ इत्युक्तम्। तथा च लक्षणम्- तदभावव- न्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वम् इति। तथा च नातिव्याप्तिः। तथाहि - यद्यपि रजते ‘इदं रजतम्’ इत्यत्र तत्पदेन शुक्तित्वग्रहणे तदभाववन्निष्ठविशेष्यतानिरूपकत्वे सति अनुभवत्वं वर्तते। तथाऽपि ‘एकत्रोच्चरितयोः सर्वनामशब्दयोरेकार्थबोधकत्वम्’ इति नियमेन पूर्वं ‘तत्’ शब्देन शुक्तित्वस्य ग्रहणे इदानीमपि शुक्तित्वमेव ग्राह्यम्। तथा च तत्- शुक्तित्वम्। तन्निष्ठप्रकारता- निरूपकत्वं रजते ‘इदं रजतम्’ इत्यत्र यथार्थज्ञाने नास्ति, किन्तु रजतत्वनिष्ठप्रकारतानिरूपकत्वमेवास्तीति तत्र नातिव्याप्तिः।
‘तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वम्’ इत्येतावन्मात्रोक्तौ ‘तदभाववन्निष्ठविशेष्यतानिरूपकत्वम्’ इत्येतद्दलाभावे पुनः रजते ‘इदं रजतम्’ इत्यत्र यथार्थप्रमायामेवातिव्याप्तिर्दुष्परिहरा। तथाहि- ‘तत्’ पदेन रजतत्वस्य ग्रहणे तत् रजतत्वम्। तन्निष्ठप्रकारतानिरूपकत्वं रजते ‘इदं रजतम्’ इत्याकारिकायां यथार्थप्रमायां वर्तते। एवमनुभवत्वमपि वर्तत इति तत्राऽतिव्याप्तिः। अतः तदभाववन्निष्ठविशेष्यतानिरूपकत्वमुक्तम्। तथा च नातिव्याप्तिः। यद्यपि रजते ‘इदं रजतम्’ इत्याकारकयथार्थानुभवे रजतत्वनिष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वम् वर्तते, तथाऽपि तत्र तदभाववन्निष्ठविशेष्यतानिरूपकत्वं नास्ति। ‘तत्’ पदेन रजतत्वस्य ग्रहणात्, तदभाववत्- रजतत्वाभाववत् रजतं न भवति। रजतत्वस्य रजते विद्यमानत्वात्। अतः तत्र तद्वन्निष्ठविशेष्यतानिरूपकत्वमेव वर्तते, न तु तदभाववन्निष्ठविशेष्यतानिरूपकत्वम्। तदभाववन्निष्ठविशेष्यतानिरूपकत्वे सति अनुभवत्वं तु शुक्तौ ‘इदं रजतम्’ इत्याकारकभ्रमात्मके स्मृतिभिन्नेऽयथार्थानुभव एव वर्तत इति तत्र नातिव्याप्तिः।
‘तदभाववन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वम्’ अयथार्थानुभवस्य लक्षणम् इत्येतावन्मात्रोक्तौ ‘अनुभवत्व’रूपपदस्यानिवेशेऽयथार्थस्मृतौ अतिव्याप्तिः। तथाहि - शुक्तिं दृष्ट्वा ‘इदं रजतम्’ इत्यनुभवानन्तरं कदाचित् जायमाने तादृशस्मृतिरूपज्ञाने तदभाववन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वं वर्तत इति तत्रातिव्याप्तिः। अतः ‘अनुभवत्व’रूपदलमपि उक्तम्। एवञ्च नातिव्याप्तिः- यद्यपि शुक्तौ ‘इदं रजतम्’ इत्याकारकायथार्थस्मृतौ तदभाववन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वं वर्तते, किन्तु अनुभवत्वं नास्ति। स्मृतेरनुभवभिन्नत्वात्। अतो नातिव्याप्तिः।
नन्वेवं सत्यपि रङ्गरजते दृष्ट्वा ‘इमे रङ्गरजते’ इत्याकारकसमूहालम्बन-प्रमायामतिव्याप्तिर्दुर्वारा। अस्यां हि प्रमायां रङ्गम्, रजतं च विशेष्ये। रङ्गत्वम्, रजतत्वं च यथासंख्यं विशेषणे। अत्र तत्पदेन रङ्गत्वस्य ग्रहणे, तदभावः- रङ्गत्वाभावः। तद्वत् रजतम्। तन्निष्ठविशेष्यता- निरूपकत्वं ज्ञाने वर्तते। एवं रङ्गत्वनिष्ठप्रकारतानिरूपकत्वं च वर्तते। अनुभवत्वं च वर्तत इत्यतिव्याप्तिः। एवं तत्पदेन रजतत्वस्वीकारेऽपि, तदभावः-रजतत्वाभावः। तद्वत् रङ्गम्। तन्निष्ठविशेष्यतानिरूपकत्वं ज्ञाने वर्तते। रजतत्वनिष्ठप्रकारतानिरूपकत्वं च वर्तते। अनुभवत्वं च वर्तत एवेत्यतिव्याप्तिरिति चेत्, न। प्रकारतानिरूपकत्वं विशेष्यतानिरूपकत्वं च साक्षात् ज्ञानेऽनिवेश्य, तदभाववन्निष्ठविशेष्यतानिरूपिता या तन्निष्ठप्रकारता, तन्निरूपकत्वविवक्षणेनातिव्याप्तेः परिहारात्। तत्पदेन रङ्गत्वस्वीकारे, तदभाववत् रजतम्। तन्निष्ठविशेष्यतानिरूपिता प्रकारता रजतत्वनिष्ठैव भवति नतु रङ्गत्वनिष्ठा भवति। रजते रजतत्वस्यैव विशेषणतया भानात्। एवं तत्पदेन रजतत्वस्वीकारे, तदभाववत् रङ्गम्। तत्र रङ्गे रङ्गत्वस्यैव विशेषणतया भानात्। रजतत्वाभाववद्रङ्गनिष्ठविशेष्यतानिरूपिता प्रकारता रङ्गत्वनिष्ठा भवति, न तु रजतत्वनिष्ठा। अतः ‘तदभाववन्निष्ठविशेष्यतानिरूपिता या तन्निष्ठा प्रकारता’ इत्यस्याभावात् तादृशप्रकारतानिरूपकत्वम् उक्तसमूहालम्बनप्रमायां नास्तीति नातिव्याप्तिः।
अस्मिन्नपि लक्षणे यथार्थानुभवलक्षण इव तदभाववन्निष्ठविशेष्यत्वा- वच्छिन्नतन्निष्ठप्रकारताशालित्वमेव विवक्षणीयम् इत्यादिविचारः समानः।
वरदाचार्य आलोके - अख्यातिः
एवमस्य भ्रमस्य तदभाववति तत्प्रकारकत्वादेव, भ्रमोऽयमन्यथा- ख्यातिरित्युच्यते। अनन्तरं ‘शुक्तिरेव रजततया मया गृहीता’ इत्युल्लेखात् अन्यथाख्यातिरेव स्वरसा। ‘इदम्’ इति पुरोवर्तिशुक्तिविषयकं ज्ञानं प्रत्यक्षम्। ‘रजतम्’ इति तु स्मृतिरूपमन्यत् ज्ञानमिति प्राचीनमीमांसकाः। एवं ज्ञानद्वयरूपं सदपीदं तथा न ज्ञायत इत्यस्या अख्यातिरिति नाम। परं तु उभयोर्भिन्नज्ञानत्वेन उभयोः परस्परं निरूप्यनिरूपकभावासंभवात्, विशेषणविशेष्यभावोऽपि न स्यात्। दृश्यते च ‘इदं रजतम्’ इति ज्ञाने इदन्त्वावच्छिन्नविशेष्यतानिरूपिता रजतत्वनिष्ठा प्रकारता। अत इदमेकं विशिष्टं ज्ञानमित्यन्यथाख्यातिरेव साधीयसी।*
टिप्पणी
*ननु कथमन्यथाख्यातिरेव साधीयसी ? शुक्तिं दृष्ट्वा रजतमिति ज्ञानं हि प्रत्यक्षम्। तथैव ‘रजतं पश्यामि’ इत्येवाभिलपन्ति सर्वेऽपि। प्रत्यक्षं चेन्द्रियसन्निकर्षजन्यम्। सन्निकर्षश्च चक्षुस्संयुक्तसमवेतत्वरूपः। चक्षुस्संयुक्ते घटादौ समवेतं किल घटत्वादिकं चक्षुषा गृह्यत इति वस्तुस्थितिः। प्रकृते चक्षुस्संयोगः शुक्त्या सहैव वर्तते। तत्समवायस्तु शुक्तित्व एव स्यात्, न तु रजतत्वे। एवं सति कथं रजतत्वस्य भानम्। न च रजतत्वेन यदि सन्निकर्षः स्यात्तदा कथं स भ्रमो भवेत् ? अतोऽयं प्रश्नोऽसमञ्जस एवेति वाच्यम्। प्रश्नानभिज्ञो हि भवान्। पुरोवर्तिनि वस्तुनि विशेषणतया रजतत्वस्याभावेऽपि ‘रजतं पश्यामि’ इत्युल्लेखः कथं भवतीत्येव प्रश्नः। स उल्लेखः भ्रमरूप एवेति किलोच्यते। अतः को दोषः ? यदि रजतत्वेन सन्निकर्षः स्यात् तर्हि कथं भ्रमो भवेदिति चेत्, पुनरभिप्रायानभिज्ञो भवान्। प्रत्यक्षकारणस्य इन्द्रियसन्निकर्षस्याभावेऽपि कथं प्रत्यक्षं भवेदित्येव प्रश्नः।
अयि भोः! मदाशयानभिज्ञस्त्वमेव देवानाम्प्रियः। यदि रजतत्वेन सन्निकर्षः स्यात्तर्हि कथं स भ्रमो भवेत्? सन्निकर्षाभावेऽपि जायमानत्वादेव हि स भ्रम इत्युच्यते। सन्निकर्षो यदि वक्तव्यः, तर्हि तत्र वस्तुना भवितव्यम्। वस्त्वेव तत्र स्याच्चेत्, स भ्रमः कथं भवेत्, अत एव तत्रासतो भानात्, असत्ख्यातिरेवेयमित्यपि हि केचिद्वदन्ति इति चेत्, असतः कथं ख्यातिरित्येव हि प्रश्नः। तथा संज्ञाकरणमात्रत्वात् कथं समस्यायाः परिहारः? इति चेत्, असुराणां प्रियस्त्वमेव मदाशयानभिज्ञः। ‘सन्निकर्षाभावेऽपि’ इत्युच्यते, ‘जायमानत्वेऽपि’ इत्यप्युच्यते। एवं वदता त्वया मेधाविना स्ववचनविरोधोऽपि नाज्ञायि। भ्रमोऽपि कार्यविशेष एव। कार्यं चेत् कारणं किञ्चित्स्यादेव। कारणाभावेऽपि कार्यं कथं स्यात् ? सैव खलु समस्या प्रकृतेति चेत्; सत्यम्। समस्यैव कथं परिहर्तव्या? सावधानं श्रूयताम्। एवं पण्डितानां परस्पराशयापरिज्ञानादेव दर्शनप्रभेदा अप्यजायन्तेत्येव वस्तुस्थितिः। अतिस्थूले बाह्ये लौकिक एव विषये समस्यापरिहारमजानताम् अत्यन्तमान्तरे ‘यस्यामतं तस्य मतम्, अविज्ञातं विजानताम् विज्ञातमविजानताम्’ इति वर्ण्यमानमतिगहनमान्तरमात्मतत्त्वं कियद्वा विवादविषयो भवेदित्यालोच्यताम्।
प्रकृते चानुभवमेव परिशीलयामः। रज्जुसर्पभ्रमो वा शुक्तिरजतभ्रमो वा कथं भवतीति विचिन्त्यताम्। पुरतो वर्तमानां रज्जुं, शुक्तिं वा प्रथमं पश्यति जनः। ततस्तत्रालोकक्षयवशाद्वा यतः कुतश्चित्कारणतः तत्रत्योऽसाधारणधर्मः रज्जुत्वरूपः, शुक्तित्वरूपो वा न ग्रहीतुं शक्योऽभूत्। तदैव दीर्घत्वभास्वरशुक्लरूपादिसाधारणधर्मज्ञानात्, पूर्वं कदाचिद् दृष्टं सर्प, रजतं वा स्मरतः पुरुषस्य एतदपि तदिति भ्रमो भवति। न ह्यज्ञातपूर्वसर्पस्य तादृशरजतस्य वा तादृशभ्रमसंभवः। अतो विशेषणांशस्य सर्पत्वस्य, रजतत्वस्य वोपस्थापकसामग्री न सन्निकर्षरूपा, किन्तु स्मृतिरेव। चक्षुस्संयुक्तसमवायस्तु पुरोवर्तिवस्तुगते दैर्घ्यादिरूपे, भास्वरशुक्लादिरूपे वा साधारणधर्मे विश्राम्यति। तदतिरिक्तं सर्पं, रजतं वा स्मर्तुं तदानीं कथं शक्यम् ? ननु यदि विशेषणांशः स्मृतिरूप एव चेत् ‘सर्पं पश्यामि’‘रजतं पश्यामि’ इत्याकारकोऽनुभवः कथमिति चेत्, विशेष्येण साधारणधर्मेण च साकं चक्षुस्संन्निकर्षस्य सत्त्वात् तथानुभवो भवति। यथा च प्रत्यभिज्ञायामंशतः पूर्वानुभवपूर्वकत्वेऽपि न स्मृतित्वम्, किन्तु प्रत्यक्षत्वमेव। यथा वा ‘सुरभि चन्दनम्’ इत्यादौ युगपदिन्द्रियद्वयव्यापारासंभवात् विशेष्यांशस्य चाक्षुषत्वेन तत्प्रभाववशाद्विशिष्टं ज्ञानं प्रत्यक्षमेव, तथैवात्रापि। अत एवात्र भ्रमस्थले ‘स्मृतिप्रमोषवादः’ इत्यख्यातिवादिनः। स्मृतिप्रमोषो नाम स्मृतित्वाग्रहणम्। अनुभवस्याभावरूपत्वासंभवात्, न केवलं स्मृतित्वा- ग्रहणम्, किन्तु प्रत्यक्षत्वग्रहणमपीत्यन्यथाख्यातिवादिनः। अत एव ‘स्वारस्य- मन्यथाख्यातौ’ इत्यभियुक्ताः।
‘सुरभि चन्दनम्’ इत्यादौ तु सौरभं घ्राणेन्द्रियं गृह्णाति, चन्दनं चक्षुरिन्द्रियं गृह्णाति। क्षणभेदस्यातिसूक्ष्मत्वात् युगपद् ग्रहणमिति भाति। विशेषणविशेष्ययोरेके- न्द्रियग्राह्यत्वे न कश्चन क्लेशः। भ्रमस्थले तु अविद्यमानेन कथं चक्षुस्सन्निकर्षः ? तदभावे च कथं ‘रजतं पश्यामि’ इत्युल्लेखः ? इति समस्या। वस्तुतः भास्वरशुक्लरूपस्यैव रजतत्वबुद्धिप्रयोजकत्वेन, तस्य च तत्र सत्त्वेन, चक्षुस्संयुक्तसमवायरूपसन्निकर्षस्य सत्त्वे, तथा व्यवहारात्। तस्मात् सुसूक्ष्ममीक्षणेऽन्यथाख्यातिरेव स्वरसा।
अत्रेदं चिन्तनीयम्- विशेषणविशेष्योरेकेन्द्रियग्राह्यस्थले प्रमायां भ्रमे वा न कश्चन क्लेशः। भिन्नेन्द्रियग्राह्यत्वे ‘सुरभि चन्दनम्’ इत्यादौ तु सौरभ्यस्य घ्राणेन्द्रियग्राह्यत्वात्, चन्दनस्य च चक्षुरिन्द्रियग्राह्यत्वात् युगपदिन्द्रियद्वयप्रवृत्तेरसंभवात्, ज्ञानलक्षणप्रत्यासत्त्यैव विशेषणभानमुपपादनीयम्। एवं सति ‘सोऽयम्’ इत्यादिप्रत्यभिज्ञायामपि, अतीतस्य तत्तांशस्य ज्ञानलक्षणविधयैव भानसंभवात्, एतदेवात्यन्तं साधीयः। विरुद्धकालद्वयसंबन्ध एकस्य कथमिति तु; कालस्याखण्डत्वेनैक्यात्, अतीतादिभेदस्यौपाधिकत्वेन वस्तुस्थिरत्ववादिनां तावान् कालः घटादेरेक एव काल इति न विरोधगन्धोऽपि। ‘अशोकचक्रवर्तिकाले’ इत्यादिव्यवहारे, यावान् कालः अशोकेन राज्यं शासितं तावान् काल एव बोध्यत इत्यवश्याभ्युपगन्तव्यत्वेन, न विरोधः। ‘सः’ इति भूततया निर्देशः, ‘अयम्’ इति वर्तमाननिर्देशश्चेतरवस्तूपाधिकतयाऽपि संगच्छते। तत्तद्घटादिदृष्ट्या तु तावान् कालोऽखण्ड एक एवेति वस्तूनां स्थिरत्वसिद्धिः। प्रत्यभिज्ञायाः संस्कारसहकृतेन्द्रियजन्यत्वाङ्गीकारे, तस्या ग्रहणस्मरणात्मकत्वमेव वक्तव्यं भवेत्। तथा सति स्मरणस्य तद्धेतुभूतानुभवमुखनिरीक्षणेनैव प्रामाण्यस्योपपादनीयतया स्वतः प्रमाणत्वासंभवेन कालद्वयसंबन्धसिद्ध्या क्षणिकत्वसिद्धिदुराशाया अवकाशो भवेत्। अस्तु सत्यस्य तथात्वे कः प्रद्वेषः क्षणिकत्ववादिषु। तेन गृहधनकनकादिषु स्थिरत्वबुद्ध्या तेष्वभिमानस्य दुर्जयत्वमपि वारयितुं शक्यते। अन्ततः दीपज्वालायाम्, शरीरे च क्षणिकत्ववादस्यावर्जनीयत्वेन, तत्खण्डनं कथं कर्तुं शक्यमिति चेत्, सत्यम् - शरीरादिषु अभिमानादिनिवृत्त्यर्थं क्षणिकत्वोपदेशो वैदिकानामपीष्ट। ‘जन्ममृत्युजराव्याधि- दुःखदोषानुदर्शनम्’ (भ.गी.१३-८) इत्याद्युपदेशा विलसन्त्येव शतशः। परन्तु क्षणिकत्वस्य वस्तुतः दुर्निरूपत्वात्तैः प्रसाध्यमानं क्षणिकत्वमप्रामाणिकम्। अतो वैराग्योपदेशोऽपि यथा प्रामाणिको भवेत् तथा कर्तव्यः। केनापि कारणेनापि असत्यवादो न हितावह इति वस्तुस्थितिकथनमावश्यकम्। तत्रापि तत्त्वनिर्णयार्थमेव प्रवृत्ते शास्त्रेऽतिवादास्त्याज्या एव। लोके क्षणिकपदवत्, स्थिरपदस्यापि विषयो वक्तव्यः। एतद्दृष्ट्यैव वैदिकैः क्षणिकत्ववादो निरस्यत इति ज्ञेयम्॥
एवञ्च प्रकृते ‘सोऽयम्’ इत्यादिप्रत्यभिज्ञायाः स्मृतिप्रत्यक्षसांकर्यरूपतायां, तस्या अप्रामाण्यनिराकरणमावश्यकमिति तन्निराक्रियते। तत्र तत्तांशस्य कथं भानमिति प्रश्ने, साक्षात् संस्कारात्तद्भानापेक्षया संस्कारमूलकस्मृत्या तद्भानं स्वरसम्। न च तथाभानस्यालौकिकसन्निकर्षमूलत्वापेक्षया, लौकिकोपायैरेव तत्समर्थनं युक्ततरमिति भावनीयम्, कार्यकारणभावनिश्चयस्य त्रैकालिकवस्तुप्रतीतिमूलकत्वं ह्यावश्यकम्। वह्नेर्धूमं प्रति कारणत्वं हि न वर्तमानकालमात्रविषयकम्। अतः सामान्यलक्षणप्रत्यासत्तिरावश्यकी। एवं ‘सुरभि चन्दनम्’ इत्यादौ ज्ञानलक्षणाप्यावश्यकी। योगजधर्मस्तु जगत्प्रसिद्धः। अतोऽलौकिकसन्निकर्षोऽनिवार्यः। प्रसिद्धषड्विधसन्निकर्षविलक्षणमिति दृष्ट्यैवालौकिकपदप्रयोगः। प्रकृते ज्ञानलक्षणसन्निकर्षेणैव प्रत्यभिज्ञायां विशेषणभानसंभवान्न कश्चन क्लेश इत्येव युक्ततरम्॥
वरदाचार्य आलोके - प्रामाण्यविचारः
इत्येवं बुद्धिर्निरूपिता। प्रमात्वमप्रमात्वं वा किं स्वतोग्राह्यम्, उत परत: ? इति संशये प्रमात्वं स्वतः, अप्रमात्वं तु परत इति पूर्वोत्तरमीमांसकौ। उभयमपि स्वत इति सांख्याः। अप्रमात्वं स्वतः, प्रमात्वं तु परत इति बौद्धाः। उभयमपि परत इति सिद्धान्तिनः। तत्राप्रामाण्यमेव स्वत इत्यप्रामाणिकेभ्यो रोचेत। प्रामाण्यं स्वतश्चेदनन्तरम् ‘ममोत्पन्नं ज्ञानं प्रमा, न वा’ ? इति संशयो न स्यात्। उभयोः स्वतस्त्वमनुभवविरुद्धम्, अप्रयोजकं च। अत उभयं परत इति सिद्धान्त एव शोभनः।
ज्ञानं कथं गृह्यते ? इत्यत्रैव विवादे शोभमाने, ज्ञानस्यावान्तरविभागे प्रमायां प्रमात्वं कथं स्वयं गृह्येत ? ज्ञानं स्वप्रकाशम् इति उभौ मीमांसकौ। अनुव्यवसायगम्यमिति सिद्धान्तिनः, मीमांसकैकदेशी मिश्रश्च। नित्यानुमेयमिति भट्टः। एवं सति प्रमात्वं स्वत इति शपथः कथम् ? प्रथमं हि विषय एव गृह्यते, अनन्तरं तु ज्ञानम्, तदनन्तरं च प्रमात्वम्। न हि प्रमात्वं जातिः, येन सहैव गृह्यते। किन्तु तद्वति तत्प्रकारकत्वम्। तच्च प्रवृत्तिसार्थक्ये सति निश्चीयत इति सर्वेषामप्यनुभवः। ‘ममोत्पन्नं ज्ञानम् प्रमा, सफलप्रवृत्तिजनकत्वात्’ इत्यनुमानेन खलु प्रामाण्यम् = प्रमात्वं गृह्यते। अतश्च विषयग्राहकसामग्री ज्ञानम्, ज्ञानग्राहकसामग्री अनुव्यवसायः, प्रामाण्यग्राहकसामग्री तु उक्तानुमानम्। एवञ्च विषयग्रहणसमये विषयिणोऽग्रहणवत्, विषयिग्रहणसमये तद्गतप्रामाण्यमपि न गृह्येतेत्येव युक्तम्। युगपद्ग्रहणद्वयस्याननुभवात्। अनन्तरं संशयदर्शनाच्च प्रामाण्यमप्रामाण्यं च परत इत्येव स्वरसम्।
टिप्पणी
प्रामाण्यवादः
ज्ञानानां प्रामाण्यं स्वतः ? उत परतः ? इत्यत्र बहु विप्रतिपद्यन्ते विपश्चितः। ननु भोः ! किमर्थमेवं क्लिश्यन्ति विपश्चित्तमाः ? यत् येन गृह्यते, तन्निष्ठा जातिरपि तेनैव गृह्यते इति प्रसिद्धो नियमः। ज्ञानं हि मनोजन्येनानुव्यवसायेन गृह्यते। ज्ञानत्ववत् प्रमात्वमपि गृह्येतेति कः क्लेश इति चेत्, ज्ञानत्वं ज्ञानपदशक्यतावच्छेदकतयैव सिद्ध्येत्। प्रमात्वं तु न तथा वक्तुं शक्यम्। ममोत्पन्नं ज्ञानं प्रमा, न वा ? इति संशयस्तु सर्वेषां कदाचित् दृश्यते। प्रमात्वं यदि गृहीतम् ? तर्हि कथं संशयः ? प्रमात्वं हि तद्वति तत्प्रकारत्वं, नाखण्डः कश्चित् धर्मः। तत्तु प्रथमं न गृह्येतैवेति युक्तो विचारः। तत्र -
(१) प्रामाण्यं स्वतः, अप्रामाण्यं परत इति वैदिकाः।
(२) अप्रामाण्यं स्वतः, प्रामाण्यं तु परत इति बौद्धाः।
(३) उभयमपि परत इति नैयायिकाः।
(४) उभयमपि स्वत इति सांख्याः।
वैदिकानां वादस्तु वेदप्रामाण्यसंरक्षणसंभ्रमादिति स्पष्टम्। अत एव विचारक्षेत्रे नागच्छति। तर्काप्रतिष्ठानात् (ब्र. सू. २-१-११) इति हि वैदिकाः। मानवास्तु बुद्धिजीविन इति प्रसिद्धम्। बौद्धास्तु विकल्पानामप्रामाण्यम्, स्वलक्षणज्ञानमेव प्रमाणमिति मन्वानाः तथात्यभिनिविष्टाः। इदं च लोकानुभवविरुद्धत्वादेवौदासीन्यमर्हति। सांख्यैस्तु अन्तःकरणवृत्तिरेवार्थरूपेण परिणमत इत्यङ्गीकारात्, ज्ञानं स्वांशे प्रमाणमेव सर्वेषाम्। भ्रमस्थलेऽपि ‘मम ज्ञानमेव नोत्पन्नम्’ इत्यनुभवति सर्वोऽपि। अतः स्वांशे तत् स्वतः प्रमाणमेव सर्वेषाम्। अत इदमपि न विचारार्हम्। एवं हि प्रमाभ्रमविभागोऽपि न स्यात्। एवं सति स्वपक्षपरपक्षविभागोऽपि न स्यात्। अतश्च परिशेषात् न्यायनय एव विचारार्हः।
वस्तुतस्त्वयं विचारो वेदप्रामाण्यस्योदर्करूप इत्येवं मन्यन्ते। वेदा हि वैदिकानां परमं प्रमाणम्। न हि तत्प्रामाण्ये कश्चिद्वैदिकः कदापि संशेते। मातापितृसहस्रेभ्योऽपि हिततमा वेदा इति महात्मानोऽद्यापि घोषयन्त्येव। तदेतदसहमाना मध्यकालिकबौद्धा एव वेदप्रामाण्यापहारायैव ज्ञानानामप्रामाण्यमेवौत्सर्गिकमाशेरते। तदिदं ‘स्वस्य नेत्रद्वयनाशेऽपि तवैकमेव वा नेत्रं नश्यतु’ इत्याशंसातुल्यमेव। न ह्येतावतापि वेदा न हि नष्टाः, न वा क्षीणाः। न हि चक्षुषो निमीलनेन ललाटन्तपो जगच्चक्षुः नश्यति। अतोऽवैदिकानामिमं श्रद्धामूलकं वादमुपेक्ष्य वस्तुतत्त्वं विचारयामः।
को वा मतिमान् स्वस्योत्पन्नं ज्ञानमप्रमेति जानन् कुत्रचित्प्रवर्तेत। अतश्च ज्ञानानामप्रामाण्यं स्वतश्चेत् जगत्सर्वं निष्क्रियं संपद्येत। एवमेव प्रामाण्यस्य स्वतस्त्वे उत्तरकाले संशयविचारादिकमर्थहीनं स्यात्। दार्ढ्याय तथेति चेत् स्वतः प्रामाण्यं सङ्केतमात्रं स्यात्। वस्तुतस्तु स्वतः प्रामाण्यवादो वेददृष्ट्यैव, वेदप्रामाण्यस्य प्रश्नानर्हत्वा- द्वैदिकानाम्।
ननु स्वतः प्रामाण्यस्योत्सर्गत्वाभावे मानवानां प्रतिदिनं दृश्यमाना असंख्याकाः प्रयत्नाः ‘कथं स्युरिति चेत्, न, अप्रामाण्यज्ञानाभावमात्रादेव तदुपपत्तेः, तथैव दर्शनाच्च। व्यवहारे तु वक्तृपुरुषे आप्तत्वज्ञानादेव प्रवर्तन्ते सर्वेऽपीति सर्वानुभवसिद्धम्। अतश्च ममोत्पन्नं ज्ञानं प्रमा, सफलप्रवृत्तिजनकत्वात् इत्यनुमानादेव प्रामाण्यं गृह्यत इत्येव स्वरसम्। वेदस्य नित्यसर्वज्ञेश्वरोपदिष्टत्वादेव निर्दुष्टत्वम्। पुरुषबुद्धिमूलकत्वाभावादेवापौरुषेयत्वम्। अत एव भ्रमप्रमादविप्रलंभाद्यसंभवोऽपि सिद्धः।
एवञ्च ‘व्यवहारे न्यायनयः’ इत्येव प्रामाणिकम्। एतदर्थमेवायमवतीर्णो विद्यास्थानेषु परिगणित इत्यादिकं न्यायमञ्जर्यां विस्तरेण द्रष्टव्यम्। अत एव ‘व्यवहारे भट्टनयः’ इति सङ्केतमात्रं ज्ञेयम्। भट्टोऽपि हि तार्किकमीमांसकः, न तु शुद्धमीमांसकः।
ज्ञानानां प्रामाण्यं स्वतो वा परतो वेति विचार्यते। ‘स्वतः’ इत्यस्यार्थः कः ? ‘परतः’ इत्यस्यार्थः कः ? अत्रापि विभागो वर्तते - प्रामाण्यं स्वत एवोत्पद्यते वा, परत एवोत्पद्यते वा? इति प्रामाण्योत्पत्तौ विकल्पः। प्रामाण्यज्ञप्तिः- प्रामाण्यनिश्चयः स्वतो वा ? परतो वा ? इति ज्ञप्तौ विकल्पः। घटादयः खलु बाह्याः पदार्थाः चक्षुरादिभिः गृह्यन्ते। अत्र ग्रहधातोः ज्ञानमर्थः। इदं च ज्ञानं व्यवसाय इत्युच्यते। एवम् उत्पन्नं ज्ञानम् अनन्तरं मनसा गृह्यते। अस्य ‘अनुव्यवसायः’ इत्यर्थः। व्यवसायमनुजातः- अनुव्यवसायः। तेन ज्ञाने गृह्यमाणे तद्गतं प्रामाण्यम् अप्रामाण्यं वा केन गृह्यते? स्वत एव गृह्यते इति केचन। यदि स्वतः, तर्हि अनन्तरं ‘ममोत्पन्नं ज्ञानं प्रमा, न वा?’ इति संशयो न स्यात्। संशयदर्शनात् प्रामाण्यं न स्वतः; किन्तु परत इति नैयायिकाः।
पदार्थाः खलु सामान्यविशेषस्वरूपाः। अतस्तेषां सामग्र्यामपि सामान्यसामग्र्यः, विशेषसामग्र्य इति भिद्यन्ते। यथा पटसामान्यसामग्री तन्तवः। पटविशेषस्य पीतपटस्य तु पीततन्तवः। एवं ज्ञानसामान्यसामग्री आत्ममनस्संयोगादिरूपा। ज्ञानविशेषस्य प्रत्यक्षादेः इन्द्रियादिरूपा सामग्री भिद्यते। एवं ज्ञानविशेषरूपः प्रमा, भ्रमश्च। अतश्च ज्ञानसामान्यसामग्र्यतिरिक्ता प्रमाभ्रमसामग्री का ? इति विचार एव उत्पत्तिविचारः कथ्यते। उत्पन्नस्य प्रमात्मकज्ञानस्य प्रमात्वम् प्रामाण्यं कथं गृह्यत इति विचारो ज्ञप्तिविचार इति कथ्यते।
अत्र ‘स्वतः’ ‘परतः’ इत्यस्य कोऽर्थः ? अत्रापि प्रामाण्यं ज्ञाने कथमुत्पद्यते ? किं स्वतः? उत परतः? एवं प्रामाण्यस्योत्पत्तौ प्रमाण्यस्य ग्रहणे च विकल्पः। एवं ज्ञाने प्रामाण्यं स्वत एवोत्पद्यते स्वत एव गृह्यते च इति स्वतस्त्ववादः। परत एवोत्पद्यते इति, परत एव = अनुमानादेव गृह्यत च इति परतस्त्ववादः। अतश्च प्रामाण्यं ज्ञानग्राहकसामग्रीजन्यमिति उत्पत्तौ स्वतस्त्वम्, ज्ञानग्राहकसामग्रीग्राह्यत्वमेव ज्ञप्तौ स्वतस्त्वम्।
ननु! यदि ज्ञानग्राहकसामग्रीग्राह्यत्वमेव प्रामाण्ये स्वतस्त्वम्, प्राभाकरमतेऽपि अप्रामाण्यस्य परत एव ग्रहणाङ्गीकारात्, ‘इदं ज्ञानम् अप्रमा, विफलप्रवृत्तिजनकत्वात्’ इत्यप्रामाण्यग्राहकानुमितिसामग्र्या पक्षभूते ज्ञाने अप्रामाण्यस्यैव ग्रहणात् कथं प्रामाण्यं ज्ञानग्राहकसामग्रीग्राह्यम्? इति चेत्, ‘तदप्रामाण्याग्राहक’ इति ज्ञानग्राहकसामग्र्यां विशेषणेन व्यभिचाराभावात्। उक्तानुमितिसामग्र्या अनुमितौ प्रामाण्यग्रहणेऽपि पक्षभूते ज्ञानेऽप्रमाण्यग्रहणेन व्यावृत्तेः। तच्छब्दस्य यस्मिन् विषयिणि अनुमित्यात्मिके प्रामाण्यं स्वतो गृह्यते, सोऽर्थः। पक्षभूतज्ञान एव तत्सामग्र्या अप्रामाण्यं गृह्यते, अनुमितौ तु प्रामाण्यमेव गृह्यते।
ननु नैयायिकमते ‘इदं ज्ञानं प्रमा सफलप्रवृत्तिजनकत्वात्’ इत्याकारानुमिति- सामग्र्या (पक्षविधया) ज्ञानग्राहकत्वात्, प्रामाण्यग्राहकत्वाच्च, ज्ञानग्राहकसामग्रीग्राह्यत्वरूपं स्वतस्त्वं वर्तत इति अपसिद्धान्त इति चेत् न, ज्ञानग्राहकसामग्र्यां यावत्त्वस्य विशेषणेनादोषात्। यावत्त्वं च साकल्यरूपम्। तादृशसकलसामग्रीग्राह्यत्वमर्थः। उक्तप्रामाण्यग्राहकसामग्र्या, पक्षविधया ज्ञानग्राहकत्वेऽपि, ज्ञानग्राहकसकलसामग्र्यन्तर्गतया ‘अहं घटज्ञानवान्’ इत्याद्यनुव्यवसायसामग्र्या प्रामाण्याग्रहणान्न काप्यनुपपत्तिः। तथा च तदप्रामाण्याग्राहकज्ञानग्राहकयावत्सामग्रीग्राह्यत्वं स्वतस्त्वम्, तदभाव एव परस्त्वम्।
ज्ञानग्राहिका च सामग्री प्राभाकरमते, ज्ञानोत्पत्तिहेतुभूता स्वप्रकाशसामग्री। तयैव प्रामाण्यस्य ग्रहणात्, ज्ञानग्राहकसामग्रीग्राह्यत्वरूपं स्वतस्त्वं सङ्गच्छते।
भाट्टमते च ज्ञानं न स्वप्रकाशम्, किन्तु ज्ञाततालिङ्गकानुमानगम्यम् ‘अहं घटज्ञानवान्, घटविषयज्ञाततायाः’ इत्यनुमानमेव ज्ञाने प्रमाणम्। तथा तदप्रामाण्या- ग्राहिकया ज्ञानग्राहिकया च तादृशानुमितिसामग्र्या प्रामाण्यस्यापि ग्रहणात्, प्रामाण्यस्य स्वतस्त्वं सङ्गच्छते।।
मिश्रमते च - नैयायिकमतवदेव ज्ञानं न स्वप्रकाशम्, न वा भाट्टवत् अनुमित्या ग्राह्यम्, हेतुज्ञानादीनामुपपादयितुमशक्यत्वात्। किन्तु, ज्ञानम् अनुव्यवसायेनैव गृह्यते। परं तु प्रामाण्यस्याप्यनुव्यवसायेनैव ग्रहणात्, ज्ञानग्राहकसामग्रीग्राह्यत्वरूपं स्वतस्त्वं सिद्धम्।।
सिद्धान्ते- ज्ञानसामग्री अन्या, ज्ञानग्राहकसामग्री अन्या, प्रामाण्यग्राहकसामग्री चान्येति परतस्त्वसिद्धिः॥
यदा चक्षुस्संयोगादिना ‘अयं घटः’ इत्यादिज्ञानं जायते, तदा घटमात्रमेव तेन ज्ञानेन गृह्यते, न तु घटज्ञानम्। ज्ञानं ह्यान्तरम्, घटस्तु बाह्यः। उभयविषये व्यापारद्वयस्य युगपदसंभवात्, प्रथमं जायमानं ज्ञानं घटमात्रविषकम्, विषयस्य च बाह्यत्वात्, विषयाभिमुखत्वमेव ज्ञानस्य स्वरसम्। ज्ञानं त्वान्तरमनन्तरम् अनुव्यवसायेनैव गृह्यते। अनेनैव, युगपद्विषयस्य विषयिणश्चाग्रहणात्, ज्ञानानां स्वप्रकाशत्वमपि गतम्, किन्तु अनुव्यवसायेनैव ज्ञानं गृह्यते। विषयस्य घटादेः ग्रहणम्, विषयिणो ज्ञानस्य ग्रहणम् इति ग्रहणद्वयासंभवात् अननुभवाच्च, उभयोः प्रत्येकमेव ग्रहणम्। एवं विषयविषयिणोर्युगपदग्रहणादेव, प्रामाण्यस्यापि प्रत्येकमेव ग्रहणम्। स्वतोग्रहणेऽनन्तरं प्रामाण्यसंशयतद्विचारादेरसंभवात्। अतः सफलप्रवृत्तिजनकत्वानुमानेनैव प्रामाण्य- ग्रहणम्।।
गोवर्धन-न्यायबोधिनी - बुद्धिलक्षणम्
बुद्धेर्लक्षणमाह - सर्वव्यवहारोति। व्यवहारः शब्दप्रयोगः। ज्ञानं विना शब्दप्रयोगासंभवाच्छब्दप्रयोगरूपव्यवहारहेतुत्वं ज्ञानस्य लक्षणम्। बुद्धिं विभजते स्मृतिरनुभवश्चेति।
गोवर्धन-न्यायबोधिनी - स्मृतिलक्षणम्
स्मृतिं लक्षयति- संस्कारेति। बहिरिन्द्रियाजन्यत्वविशिष्टसंस्कारजन्यत्वविशिष्टज्ञानत्वं स्मृतेर्लक्षणम्। संस्कारजन्यत्वविशेषणानुपादाने अनुभवेऽतिव्याप्तिरतस्तद्वारणाय तदुपादानम्। संस्कारध्वंसेऽतिव्याप्तिवारणाय विशेष्यम्। ध्वंसं प्रति प्रतियोगिनः कारणत्वात् संस्कारध्वंसेऽपि संस्कारजन्यत्वस्य सत्त्वात्। प्रत्यभिज्ञायामतिव्याप्तिवारणाय मात्रपदम्।
गोवर्धन-न्यायबोधिनी - अनुभवलक्षणम्
अनुभवं लक्षयति - तद्भिन्नमिति। तद्भिन्नत्वं नाम स्मृतिभिन्नत्वम्। तथा च स्मृतिभिन्नत्वविशिष्टज्ञानत्वमनुभवस्य लक्षणम्। विशेषणानुपादाने स्मृतावतिव्याप्तिः, विशेष्यानुपादाने घटादावतिव्याप्तिरतस्तद्वारणाय विशेषणविशेष्ययोरुपादानम्।
गोवर्धन-न्यायबोधिनी - अनुभवविभागः
अनुभवं विभजते - स द्विविध इति।
गोवर्धन-न्यायबोधिनी - यथार्थानुभवलक्षणम्
यथार्थानुभवं लक्षयति- तद्वतीति। तद्वतीत्यत्र सप्तम्यर्थो विशेष्यत्वम्। तच्छब्देन प्रकारीभूतो धर्मो ग्राह्यः। तथा च तद्वद्विशेष्यकत्वे सति तत्प्रकारकत्वे सति अनुभवत्वं यथार्थानुभवस्य लक्षणम्। उदाहरणम्। रजतत्ववद्विशेष्यकत्वे सति रजतत्वप्रकारकं रजते ‘इदं रजतम्’ इति ज्ञानम्। तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशाल्यनुभवत्वमिति निष्कर्षः। अन्यथा यथाश्रुत रङ्गरजतयोरिमे रजतरङ्गे इत्याकारकसमूहालम्बनभ्रमेऽतिव्याप्तिः, तत्रापि रजतत्ववद्विशेष्यकत्वरजतत्वप्रकारकत्वयोः रङ्गत्ववद्विशेष्यकत्वरङ्गत्वप्रकारकत्वयोश्च सत्त्वात्। उक्तनिष्कर्षे तु दर्शितभ्रमे नातिव्याप्तिः, तज्ज्ञानस्य रङ्गांशे रजतत्वावगाहित्वेन रजतांशे रङ्गत्वावगाहित्वेन च रजतत्वप्रकारतायाः रङ्गत्ववन्निष्ठविशेष्यतानिरूपितत्वेऽपि रङ्गत्वनिष्ठप्रकारताया: रजतत्ववन्निष्ठविशेष्यतानिरूपितत्वेऽपि रजतत्वप्रकारताया रजतत्ववन्निष्ठविशेष्यतानिरूपितत्वाभावात् रङ्गत्वप्रकारताया रङ्गत्ववन्निष्ठविशेष्यतानिरूपितत्वाभावाच्च।
गोवर्धन-न्यायबोधिनी - अयथार्थानुभवलक्षणम्
अयथार्थानुभवं लक्षयति- तदभाववतीति। अत्रापि पूर्ववत्तदभावन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशाल्यनुभवत्वं विवक्षणीयम्। अन्यथा यथाश्रुते रङ्गरजतयोरिमे रङ्गरजते इत्याकारकसमूहालम्बनप्रमायामतिव्याप्तिः। एतत्समूहालम्बनस्य रजतरङ्गोभयविशेष्यकत्वेन रजतत्वरङ्गत्वोभयप्रकारकत्वेन च रजतत्वाभाववद्रङ्गविशेष्यकत्वरजतत्वप्रकारकत्वयो रङ्गत्वाभाववद्रजतविशेष्यकत्वरङ्गत्वप्रकारकत्वयोश्च सत्त्वात्। उक्तनिष्कर्षे तु न तत्रातिव्याप्तिः। तादृशप्रमायाः रजतांशे रजतत्वावगाहित्वेन रङ्गांशे रङ्गत्वावगाहित्वेन च रजतत्वप्रकारताया रजतत्वाभाववद्रङ्गनिष्ठविशेष्यतानिरूपितत्वाभावात् रङ्गत्वप्रकारताया रङ्गत्वाभाववद्रजतनिष्ठविशेष्यतानिरूपितत्वाभावाच्च। उदाहरणम्। रजतत्वाभाववद्विशेष्यकत्वे सति रजतत्वप्रकारकं शुक्तौ ‘इदं रजतम्’ इति ज्ञानम्।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - बुद्धिविभागः
सर्वव्यवहारहेतुर्ज्ञानं बुद्धिः। सा द्विविधा। स्मृतिरनुभवश्चेति। संस्कारमात्रजन्यं ज्ञानं स्मृतिः। तद्भिन्नं ज्ञानमनुभवः। स द्विविधः। यथार्थोऽयथार्थश्च। तद्वति तत्प्रकारकोऽनुभवो यथार्थः। यथा रजते इदं रजतमिति ज्ञानम्। सैव प्रमेत्युच्यते। तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः। यथा शुक्ताविदं रजतमिति ज्ञानम्। सैवाप्रमेत्युच्यते।
बुद्धिं निरूपयति सर्वेति। (अर्थं बुद्ध्वा शब्दरचना इति न्यायेन अर्थज्ञानस्य शब्दप्रयोगहेतुत्वं निर्विवादम्) सर्वव्यवहारनिष्ठकार्यतानिरूपितकारणताश्रयत्वं बुद्धेर्लक्षणम्, सर्वव्यवहारनिष्ठा या कार्यता अयं घट इत्यादिशब्दप्रयोगे विद्यमाना कार्यता, तन्निरूपिता या कारणता अयं घट इत्यादिज्ञाने विद्यमाना कारणता, तदाश्रयत्वं ज्ञाने वर्तत इति लक्षणसमन्वयः। अत्र सर्वे ये व्यवहाराः तद्धेतुत्वमिति वा सर्वमिति यो व्यवहारः तद्धेतुत्वमिति वा विग्रहः? नाद्यः, कस्यापि ज्ञानस्य सर्वव्यवहारहेतुत्वाभावात् असम्भवापत्तेः। न द्वितीयः, सर्वत्वप्रकारकव्यवहारहेतुत्वस्य सर्वमिति ज्ञाने सत्त्वेऽपि घटपटादिज्ञानेषु तस्याभावात् अव्याप्तिः। अतः द्वितीयं पक्षमवलंब्य सर्वत्वप्रकारकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणतावद्वृत्तिजातिमत्त्वमिति लक्षणं परिष्करणीयम्, अतः सर्वत्वप्रकारकव्यवहारनिष्ठकार्यतानिरूपितकारणतावत् सर्वम् इति ज्ञानम्, तद्वृत्तिः या जातिः ज्ञानत्वजातिः, तद्वत्वस्य घटादिविषयकज्ञानेष्वपि सत्त्वात् अव्याप्त्यभावः, लक्षणसमन्वयश्च। नचैवं सर्वव्यवहारनिष्ठकार्यतानिरूपितकारणतावद्वृत्तिगुणत्वजातिमादाय रूपादावतिव्याप्तिरिति वाच्यम्, जातौ गुणत्वव्याप्यत्वस्य निवेशनीयत्वात्, गुणत्वजातिः न गुणत्वव्याप्येति नातिव्याप्तिः। अथवा, सर्वपदस्य स्वरूपकीर्तनपरत्वमेवाङ्गीक्रियते, व्यवहारहेतुत्वमात्रमेव ज्ञानस्य लक्षणमुच्यते। शब्दप्रयोगं प्रति ज्ञानस्यैव साक्षाद्धेतुत्वेन घटादीनाञ्च ज्ञानद्वारैव कारणत्वेन साक्षात् व्यवहारहेतुत्वकथनेनैव घटादावतिव्याप्तेर्वारणात्। अतो न विग्रहविकल्पप्रयुक्तासम्भवाव्याप्ती, व्यवहारं प्रति साक्षाद्धेतुत्वस्य ज्ञाने सर्वत्रापि सम्भवात्। नचैवं कालेश्वरादावतिव्याप्तिः, गुणत्वस्यापि निवेशनीयत्वात्। न च तथाप्यदृष्टेऽतिव्याप्तिर्दुर्वारेति वाच्यम्, व्यवहारासाधारणकारणत्वस्यापि निवेशनीयत्वात्। नचैवं गुणपदं व्यर्थम्, इष्टापत्तेः। अत एव गुणपदं विहाय सर्वव्यवहारहेतुः ज्ञानं बुद्धिरित्येव मूले ग्रन्थकृताऽभिहितमिति बोध्यम्।। ज्ञानं विभजते स द्विविध इति। स्मृतित्वानुभवत्वरूपविभाजकधर्मद्वयान्यतरवदभिन्ना बुद्धिरिति बोधः।।
स्मृतिं लक्षयति संस्कारेति। मात्रपदस्य इतरयोगो व्यवच्छेदश्च अर्थः, अत्र इतरयोगः इतरजन्यत्वरूपः, अस्य च व्यवच्छेदेऽन्वयः। तथाच संस्कारेतराजन्यत्वे सति संस्कारजन्यत्वे सति ज्ञानत्वं स्मृतेः लक्षणमिति फलितम्। संस्कारजन्यत्वे सति ज्ञानत्वस्य स्मृतौ सत्त्वात् समन्वयः। (प्रथममनुभवः, ततः भावनाख्यसंस्कारः, ततः उद्बोधकसामग्रीसहितात् संस्कारात् स्मृतिः, इति स्मृतेरुत्पत्तिक्रमः) ज्ञानत्वमात्रोक्तावनुभवेऽतिव्याप्तिः। संस्कारजन्यत्वमात्रोक्तौ ध्वंसं प्रति प्रतियोगिनः कारणत्वेन संस्कारमात्रजन्यत्वस्य संस्कारध्वंसे सत्त्वात् तत्राऽतिव्याप्तिः। अतो ज्ञानत्वदलम्, तन्निवेशे ध्वंसे ज्ञानत्वस्याभावात् नातिव्याप्तिः। संस्कारेतराजन्यत्वे सति ज्ञानत्वमात्रोक्तौ ईश्वरीयज्ञानस्य नित्यत्वेन (केनाप्यजन्यत्वात्) संस्कारेतराजन्यत्वं ज्ञानत्वञ्च तत्रास्तीत्यतिव्याप्तिः, अतः संस्कारजन्यत्वनिवेशः। नच ईश्वरीयज्ञानस्य जन्यत्वविशेषणेनैव वारणात् संस्कारपदं व्यर्थमिति वाच्यम्, योगिज्ञानस्य योगजन्यत्वेन तत्र जन्यत्वज्ञानत्वयोः सत्त्वात् अतिव्याप्तेः, संस्कारजन्यत्वनिवेशे तु योगिज्ञानस्य योगजन्यत्वेन संस्कारजन्यत्वाभावात् नातिव्याप्तिः। न च योगिज्ञानस्य योगजन्यत्वेन संस्कारेतराजन्यत्वविशेषणेनैव दोषवारणात् संस्कारपदस्य वैयर्थ्यं दुर्वारमेवेति वाच्यम्, स्मृतेरपि संस्कारेतरमनोजन्यत्वेन तदजन्यत्वाभावेन असम्भववारणाय संस्कारेतरपदस्य बहिरिन्द्रियपरत्वेन व्याख्येयतया योगिज्ञाने बहिरिन्द्रियाजन्यत्वजन्यत्वज्ञानत्वानां सत्त्वादतिव्याप्तिवारणाय संस्कारपदस्य सार्थक्यात्। संस्कारजन्यत्वे सति ज्ञानत्वमात्रोक्तौ सोऽयं देवदत्तः इति प्रत्यभिज्ञायाः इदंत्वांशे चक्षुरादिजन्यत्वेऽपि तत्तांशे संस्कारजन्यत्वेन संस्कारजन्यत्वज्ञानत्वयोः तत्र सत्त्वात् अतिव्याप्तिवारणाय मात्रपदं, तन्निवेशे तस्याः इदंत्वांशे बहिरिन्द्रियजन्यत्वेन तदजन्यत्वस्य तत्राभावात् नातिव्याप्तिः।।
अनुभवं लक्षयति तद्भिन्नमिति।। स्मृतिभिन्नत्वे सति ज्ञानत्वमनुभवस्य लक्षणम्। ज्ञानत्वमात्रोक्तौ स्मृतावतिव्याप्तिः। स्मृतिभिन्नत्वमात्रोक्तौ घटादावतिव्याप्तिः। अतो दलद्वयोपादानम्। प्रत्यभिज्ञायाः संस्कारमात्रजन्यत्वाभावेन न स्मृतावन्तर्भावः, किन्तु अनुभव एवेति बोध्यम्।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - अनुभवत्वम्
यथार्थानुभावं लक्षयति तद्वतीति। तद्वतीत्यत्र सप्तम्यर्थो विशेष्यतानिरूपकत्वम्। तद्वतः आधेयत्वसम्बन्धेन विशेष्यतायामन्वयः। तथा च तद्वन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वं यथार्थानुभवस्य लक्षणम्। तत्पदेन प्रकारीभूतधर्मो ग्राह्यः। रजते इदं रजतं इति ज्ञाने लक्षणसमन्वयः, तथाहि तत् रजतत्वम्, तद्वत् रजतम्, तन्निष्ठविशेष्यतानिरूपकत्वे सति तत्पदग्राह्यरजतत्वनिष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वस्य पूर्वोक्तज्ञाने सत्त्वात्। अनुभवत्वमात्रोक्तौ अयथार्थानुभवेऽतिव्याप्तिः अनुभवत्वानुपादाने इदं रजतमिति यथार्थानुभवजन्यस्मृतिसंस्कारयोः अतिव्याप्तिः, तत्रापि तद्वद्विशेष्यकत्वतत्प्रकारकत्वयोः सत्त्वात्, अतोऽनुभवत्वनिवेशः। तद्वद्विशेष्यकत्वे सति अनुभवत्वमात्रोक्तौ शुक्तौ इदं रजतमिति अयथार्थानुभवेऽतिव्याप्तिः, तथाहि, तत्प्रकारकत्वदलाभावे तत्पदेन प्रकार एव ग्राह्य इति नियमालाभेन अत्र तच्छब्देन शुक्तित्वं गृह्यते, तत्र तद्वच्छुक्तिविशेष्यकत्वज्ञानत्वयोः सत्त्वात् अतिव्याप्तिः, अतः तत्प्रकारकत्वदलम्, तन्निवेशे (एकत्रोच्चरितयोः तच्छब्दयोः एकार्थबोधकत्वम्, इति नियमेन) प्रथमगृहीततत्पदार्थस्यैव द्वितीयतत्पदेनापि ग्राह्यतया प्रथमतत्पदगृहीतशुक्तित्वप्रकारकत्वस्य निरुक्तानुभवेऽभावात् नातिव्याप्तिः। तत्प्रकारकत्वे सति अनुभवत्वमात्रोक्तौ शुक्तौ इदं रजतम् इति भ्रमे तत्पदग्राह्यरजतत्वप्रकारकत्वे सति अनुभवत्वस्य सत्त्वात् तत्रातिव्याप्तिः, अतः तद्वद्विशेष्यकत्वं निवेशनीयम्, तन्निवेशे तु तत्पदगृहीत रजतत्ववद्रजतविशेष्यकत्वस्य तत्राभावात् नातिव्याप्तिः। नचैवमपि पर्वतो घटत्ववान् ह्रदो वह्निमान् इति समूहालम्बनभ्रमे वह्निमत्पर्वतविशेष्यकत्ववह्निप्रकारकत्वयोः सत्त्वात् अतिव्याप्तिरिति वाच्यम्, तद्वन्निष्ठविशेष्यतानिरूपिता या तन्निष्ठा प्रकारता तच्छाल्यनुभवत्वस्य लक्षणत्वाङ्गीकारात्, तदङ्गीकारे अत्र वह्नेः ह्रदांशे प्रकारत्वेन वह्निमति पर्वतांशे अप्रकारत्वेन वह्निनिष्ठप्रकारतायाः वह्निमत्पर्वतनिष्ठविशेष्यतानिरूपितत्वाभावेन तादृशप्रकारतानिरूपकत्वस्य तत्राभावात् नातिव्याप्तिः। नचैवमपि पर्वतो वह्निमान् ह्रदो वह्निमान् इति समूहालम्बनभ्रमे वह्निमत्पर्वतनिष्ठविशेष्यतानिरूपितवह्निप्रकारतानिरूपकत्वस्य सत्त्वात् अतिव्याप्तिरिति वाच्यम्, भ्रमभिन्नत्वेनापि अनुभवस्य विशेषणीयत्वात् तज्ज्ञानस्य ह्रदांशे वह्न्यवगाहित्वेन भ्रमरूपतया भ्रमभिन्नत्वस्य तत्राभावात् नातिव्याप्तिः। न च निर्विकल्पकप्रत्यक्षे प्रकारताविशेष्यतयोः अभावेन तद्वद्विशेष्यकत्वतत्प्रकारकत्वयोरभावात् अव्याप्तिरिति वाच्यम्, तद्वद्विशेष्यकं तत्प्रकारकं यत् ज्ञानं तद्वृत्तिः अनुभवत्वव्याप्या या जातिः तद्वत्त्वस्य विवक्षणीयत्वात् निर्विकल्पकप्रत्यक्षे विशेष्यत्वप्रकारत्वयोरसत्त्वेऽपि तद्वद्विशेष्यकतत्प्रकारकज्ञानवृत्त्यनुभवत्वव्याप्ययथार्थानुभवत्वजातेः सत्त्वात् नाव्याप्तिः। अथवा, (न प्रमा नापि भ्रमस्स्यान्निर्विकल्पकम्) इत्यनेन निर्विकल्पकज्ञाने प्रमात्वभ्रमत्वयोः सिद्धान्ते निराकरणात् अलक्ष्ये तस्मिन् लक्षणासमन्वयेऽपि न क्षतिः।।
अयथार्थानुभवं लक्षयति तदभाववतीति।। अत्रापि सप्तम्यर्थादिकं पूर्ववत् ग्राह्यम्। तदभाववन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वम् अयथार्थानुभवस्य लक्षणम्। शुक्तौ इदं रजतम् इति ज्ञाने लक्षणसमन्वयः, तथाहि, तत्पदेन प्रकारीभूतरजतत्वं ग्राह्यम्, तदभावः रजतत्वाभावः तद्वती शुक्तिः तन्निष्ठविशेष्यतानिरूपकत्वे सति रजतत्वनिष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वस्य तत्र ज्ञाने सत्वात्। अनुभवत्वमात्रोक्तौ यथार्थानुभवेऽतिव्याप्तिः। अनुभवत्वानुपादाने अयथार्थस्मृतौ अतिव्याप्तिः। तदभाववद्विशेष्यकत्वे सति अनुभवत्वमात्रोक्तौ रजते इदं रजतम् इति यथार्थानुभवेऽतिव्याप्तिः, तत्पदेन शुक्तित्वस्य ग्रहणे तदभाववत् (शुक्तित्वभाववत्) रजतम्, तद्विशेष्यकत्वे सति अनुभवत्वस्य तत्र ज्ञाने सत्त्वात्, तत्प्रकारकत्वस्य निवेशे तु शुक्तित्वप्रकारकत्वस्य पूर्वोक्तज्ञानेऽभावात् नातिव्याप्तिः। तत्प्रकारकत्वे सति अनुभवत्वमात्रोक्तौ रजते इदं रजतम् इति प्रमायामतिव्याप्तिः, तत्र तत्पदग्राह्यरजतत्वप्रकारकत्वानुभवत्वयोः सत्त्वात्, तदभाववद्विशेष्यकत्वनिवेशे तु रजतत्वाभाववद्विशेष्यकत्वस्य तत्राभावान्नातिव्याप्तिः।।