मूलम् - शब्दः - 34
श्रोत्रग्राह्यो गुणः शब्दः। आकाशमात्रवृत्तिः। स द्विविधः ध्वन्यात्मको वर्णात्मकश्चेति। ध्वन्यात्मको भेर्यादौ। वर्णात्मकः संस्कृतभाषादिरूपः॥ ३३॥
Tags - 34
शब्दः, गुणः, श्रोत्रग्राह्य, ध्वन्यात्मक, वर्णात्मक
दीपिका - शब्दः
शब्दं लक्षयति- श्रोत्रेति। शब्दत्वेऽतिव्याप्तिवारणाय गुणपदम्। रूपादावतिव्याप्तिवारणाय श्रोत्रेति। शब्दस्त्रिविधः संयोगजः, विभागजः, शब्दजश्चेति। तत्राऽऽद्यो भेरीदण्डसंयोगजन्यः। द्वितीयो वंशे पाट्यमाने दलद्वयविभागजन्यश्चटचटशब्दः। भेर्यादिदेशमारभ्य श्रोत्रदेशपर्यन्तं द्वितीयादिशब्दाः शब्दजाः।
वरदाचार्य आलोके - शब्दः
श्रोत्रग्राह्यो गुणः शब्दः। आकाशमात्रवृत्तिः। सद्विविधः। ध्वन्यात्मको वर्णात्मकश्चेति। ध्वन्यात्मको भेर्यादौ। वर्णात्मकः संस्कृतभाषादिरूपः।
आलोक-व्याख्या
शब्दं लक्षयति - श्रोत्रेति। श्रोत्रेण ग्राह्यः श्रोत्रग्राह्यः। ‘श्रोत्रेण’ इत्यत्र तृतीयाया जनकत्वमर्थः। श्रोत्रपदस्य श्रोत्रेन्द्रियमर्थः। प्रकृत्यर्थस्य श्रोत्रेन्द्रियस्य तृतीयार्थजनकतायामाधेयतासम्बन्धेनान्वयः। तथा च श्रोत्रेन्द्रियनिष्ठजनकता। ग्राह्यं इत्यत्र ग्रहधातोः प्रत्यक्षमर्थः। ण्यत्प्रत्ययस्य विषयतावानर्थः। प्रकृत्यर्थस्य ग्रहधात्वर्थप्रत्यक्षस्य निरूपितत्वसम्बन्धेन ण्यत्प्रत्ययार्थैकदेशे विषयत्वेऽन्वयः। तथा च प्रत्यक्षनिरूपितविषयता। तृतीयार्थजनकताया ग्रहधात्वर्थप्रत्यक्षे निरूपकत्व(अथवा स्वनिरूपितजन्यताश्रयत्वं)सम्बन्धेनान्वयः। अथवा श्रोत्रेणेत्यत्र तृतीयाया जन्यत्वमर्थः। प्रकृत्यर्थस्य स्वनिष्ठजनकतानिरूपितत्वसंबन्धेन जन्यतायामन्वयः। जन्यताया आश्रयतासंबन्धेन प्रत्यक्षेऽन्वयः। विषयतावतश्चाभेदसम्बन्धेन शब्देऽन्वयः तथा च श्रोत्रेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावदभिन्नो गुणाभिन्नः शब्दः इति बोधः। लक्षणं तु श्रोत्रेन्द्रियनिष्ठजनकतानिरूपक (जनकतानिरूपितजन्यताश्रय)प्रत्यक्षनिरूपितविषयत्वे सति गुणत्वम् इति। श्रोत्रेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षं किमिति चेत् ? ‘अयं शब्दः’ इत्याकारकं प्रत्यक्षम्। तादृशप्रत्यक्षनिरूपिता विषयता शब्दनिष्ठा विषयता। तथा च श्रोत्रेन्द्रियजन्य- प्रत्यक्षनिरूपितविषयताश्रयत्वं शब्दे वर्तते। एवं गुणत्वमपि शब्दे वर्तत इति लक्षणसमन्वयः। ‘गुणत्व’मात्रोक्तौ रूपादावतिव्याप्तिः। अतः ‘श्रोत्रग्राह्यः’ इति दलम्। ‘श्रोत्रग्राह्यत्व’मात्रोक्तौ शब्दत्वे शब्दाभावे चातिव्याप्तिः, तदर्थं गुणपदम्। तथा च शब्दत्वस्य जातित्वात्, शब्दाभावस्य चाभावत्वादुभयत्र गुणत्वाभावात् तत्र नातिव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य यत्किञ्चित्प्रदेशावच्छिन्न आकाशे जातः शब्दः केनापि यदा न श्रूयते, तत्र श्रोत्रग्राह्यत्वं शब्दे नास्तीत्यव्याप्तिरिति चेत्, न जातिघटितलक्षणपरिष्कारात्। तथा च लक्षणम् श्रोत्रेन्द्रियनिष्ठजनकतानिरूपक (जनकतानिरूपितजन्यताश्रय)प्रत्यक्षनिरूपितविषयतावद्वृत्तिजातिमत्त्वे सति गुणत्त्वम् इति। एवञ्च नाव्याप्तिः। तथाहि- श्रोत्रेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावान् श्रोत्रेण गृहीतश्शब्दः। तद्वृत्तिर्या जातिरिति चेत् ? शब्दत्वजातिः। तादृशजातिमत्त्वं तु यः शब्दः केनापि न गृहीतः, तादृशशब्देऽपि वर्तत एवं गुणत्वमपि वर्तत इति लक्षणसमन्वयान्नाव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य रूपादावतिव्याप्तिर्दुष्परिहरा। तथाहि ‘श्रोत्रेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावान् शब्दः। तद्वृत्तिर्या जातिरिति चेत् ? यथा शब्दत्वजातिस्तथा गुणत्वजातिरपि भवति। तादृशजातिमत्त्वं रूपादावपि वर्तत इत्यतिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम् - श्रोत्रेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वे सति गुणत्वम् इति। एवञ्च नातिव्याप्तिः। श्रोत्रेन्द्रियनिष्ठ- जनकतानिरूपकप्रत्यक्षनिरूपितविषयतावान् शब्दः। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वं न भवति, स्वस्य स्वव्याप्यत्वाभावात्। तादृशगुणत्वव्याप्या जातिस्तु शब्दत्वमेव भवति। तादृशजातिमत्त्वं शब्दमात्रे वर्तते रूपादौ नास्तीति नातिव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य गकारादावव्याप्तिर्दुष्परिहरा। तथाहि ‘श्रोत्रेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावान् गककारः। तद्वृत्तिर्या गुणत्वव्याप्या जातिर्यथा शब्दत्वं, तथा कत्वादिकमपि। तादृशजातिमत्त्वं गकारादिरूपवर्णादौ नास्तीत्यव्याप्तिरिति चेत्, न। गुणत्वव्याप्ये साक्षात्पदस्य निवेशनात्। संपूर्णं लक्षणं तु श्रोत्रेन्द्रियनिष्ठजनकतानिरूपित- जन्यताश्रयप्रत्यक्षनिरूपितविषयतावद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वे सति गुणत्त्वम्। एवञ्च नाव्याप्तिः। तथाहि श्रोत्रेन्द्रियनिष्ठजनकता- निरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावान् ककारः। तद्वृत्तिर्या गुणत्वसाक्षाद्व्याप्या जातिरिति चेत् ? कत्वादिरूपा जातिर्न स्वीकर्तुं शक्यते। तस्या गुणत्वसाक्षाद्व्याप्यत्वाभावात्। अतस्तादृशगुणत्वसाक्षाद्व्याप्यजातिस्तु शब्दत्वमेव भवति। तादृशं शब्दत्वं गकारादिरूपवर्णादावपि वर्तत इति नाव्याप्तिः।
नन्वेवं सति कालादौ तादृशशब्दत्वरूपजात्यभावादेव नातिव्याप्तिरिति गुणपदं व्यर्थमिति चेत्, निष्कृष्टलक्षणे मास्तु तत्पदम्, दोषाभावात्।
यद्यपि स्पर्शानन्तरं शब्दो निरूपणीयः, विशेषगुणत्वात्, तथापि शब्द आकाशमात्रविशेषगुणः, आकाशसाधक इति विशेषसत्त्वात्, तादृशगुणसङ्घाते आद्यतयास्य निरूपणम्। बुद्ध्यादिकं हि जीवसाधकं लिङ्गम्, शब्दोऽप्याकाशस्येत्यत्र क्रमीकृता गुणा इति द्रष्टव्यम्।
तर्कसंग्रहः
सर्वव्यवहारहेतुर्ज्ञानं बुद्धिः। सा द्विविधा। स्मृतिरनुभवश्चेति। संस्कारमात्रजन्यं ज्ञानं स्मृतिः। तद्भिन्नं ज्ञानमनुभवः। स द्विविधः। यथार्थोऽयथार्थश्च। तद्वति तत्प्रकारकोऽनुभवो यथार्थः। यथा रजते इदं रजतमिति ज्ञानम्। सैव प्रमेत्युच्यते। तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः। यथा शुक्ताविदं रजतमिति ज्ञानम्। सैवाप्रमेत्युच्यते।
आलोक- व्याख्या
क्रमप्राप्तां बुद्धिं निरूपयति- सर्वव्यवहार इत्यादि। सर्वे च ते व्यवहाराः सर्वव्यवहारा इति विग्रहः, न तु सर्व इति व्यवहार इति। व्यवहारसामान्यकारणत्वस्यैव विवक्षितत्वात्। सर्वव्यवहाराणां हेतुः सर्वव्यवहारहेतुः। सर्वव्यवहाराणामित्यत्र प्रकृतेः सर्वविधव्यवहारोऽर्थः। षष्ठ्याः कार्यत्वमर्थः। प्रकृत्यर्थस्य सर्वविधव्यवहारार्थस्य षष्ठ्यर्थकार्यतायामाधेयतासम्बन्धेनान्वयः। तथा च सर्वविधव्यवहारनिष्ठकार्यता। हेतुरित्यस्य कारणतावान् अर्थः। षष्ठ्यर्थकार्यताया निरूपितत्वसम्बन्धेन हेत्वर्थैकदेशे कारणतायामन्वयः। कारणतावतश्चाभेदसम्बन्धेन ज्ञाने। अत्र कार्यतायां सर्वपदसमभिव्याहारवशात् कार्यता व्यवहारत्वावच्छिन्ना बोध्या। तथा च व्यवहारत्वावच्छिन्नकार्यतानिरूपितकारणतावदभिन्नं ज्ञानं वुद्धिः इति बोधः। वस्तुतस्तु मुख्यो व्यवहारपदार्थो हानोपादानादिरेव। ज्ञानं तु तद्धेतुभूतम्। लक्षणं तु व्यवहारत्वावच्छिन्नकार्यतानिरूपितकारणत्वम् इति। व्यवहारत्वावच्छिन्नकार्यता केति चेत् ? ‘अयं घटः’ ‘अयं पटः’ इत्याकारकज्ञानजनकशब्दप्रयोगरूपव्यवहारनिष्ठाकार्यता। तादृशशब्दप्रयोगं प्रति घटादिज्ञानस्य कारणत्वात् तादृशकार्यतानिरूपितकारणत्वं घटादिज्ञाने वर्तत इति समन्वयः। सांख्यैर्ज्ञानमन्यत्, बुद्धिश्चान्येत्यङ्गीकारात् तन्निराकरणार्थमुभयोः पर्यायत्वसूचनाय ‘ज्ञानं बुद्धि:’ इति पदद्वयं प्रयुक्तम्। अतो न पुनरुक्तिः, न वा लक्षणे पदद्वयनिवेशः।
नन्वेवं सत्यप्यस्य लक्षणस्य कालेऽतिव्याप्तिर्दुष्परिहारा। ‘कार्यसामान्यं प्रति कालस्य कारणत्वात्’ व्यवहारत्वावच्छिन्नकार्यतानिरूपितकारणता केति चेत् ? कालनिष्ठा कारणतापि भवतीत्यतिव्याप्तिरिति चेत्, न। कारणतावान् इत्यत्र कारणतायामसाधारणपदनिवेशनात्। तथा च लक्षणम् ‘व्यवहारत्वावच्छिन्नकार्यतानिरूपितासाधारणकारणत्वम्’ इति। एवञ्च नातिव्याप्तिः। तथाहि कालस्य कार्यसामान्यं प्रति साधारणकारणत्वे सत्यपि, असाधारणकारणत्वाभावात् ‘अयं घटः’ ‘अयं पटः’ इत्याकारकव्यवहारत्वावच्छिन्नकार्यतां प्रत्यसाधारणकारणत्वं ज्ञानस्यैव, न तु कालस्येति तत्र नातिव्याप्तिः।
बुद्ध्यादयस्त्वात्मविशेषगुणा आत्मसद्भावलिङ्गरूपाः। यद्यप्यात्मा ‘अहम्’ प्रतीतिसिद्ध इति वदन्ति, अथापि ‘अहं’ प्रतीतेश्शरीरादावपि दर्शनाद्विप्रतिपत्तिसत्त्वेन, परकीयात्मनश्च स्वेन ‘अहमिति’ प्रतीतिं कर्तुमशक्यत्वात्, तादृशप्रतीतिविषयत्वासंभवात्, आत्मनोऽनुमेयत्वाभिधानम्। न्यायवैशेषिकयोस्समानतन्त्रत्वात् परस्परपूरकत्वं सिद्धम्। तत्र न्यायशास्त्रं प्रमाणप्रधानम्, वैशेषिकं तु प्रमेयप्रधानम्। अनयोरुभयोर्मध्ये व्यवहारे प्रमाणं प्रधानम्, स्वविषये तु प्रमेयं प्रधानम्। किञ्च प्रमाणस्यापि प्रमेयत्वमनिवार्यम्, प्रमेयत्वस्य केवलान्वयित्वात्। अतः सप्तपदार्थरूपप्रमेये गुणवर्गे बुद्धौ प्रमाणानामन्तर्भावात् बुद्धिनिरूपणे प्रमाणनिरूपणमतिसमञ्जसम्।
अतो बुद्धिं विभजते द्विविधेति। अनुभवानामनुगतलक्षणापेक्षया स्मृतेरनुगतलक्षणं सुवचम्। स्मृतेर्लक्षणे ज्ञाते तद्भिन्नज्ञानत्वेनानुभवानां लक्षणं सुवचमिति प्रथमं स्मृतेर्लक्षणं उक्तम्।
तत्र प्रथमोद्दिष्टायास्स्मृतेर्लक्षणमाह- संस्कारेत्यादि। संस्कार एव संस्कारमात्रम्। संस्कारमात्रेण जन्यम् संस्कारमात्रजन्यमिति विग्रहः। मात्रपदस्य भिन्नः, अभावश्चार्थः। तृतीयाया जनकत्वमर्थः। जन्यमित्यस्य जन्यतावदित्यर्थः। तृतीयार्थजनकताया आधेयतासंबन्धेन संस्कारपदार्थेऽन्वयः। एवं संस्कारपदार्थस्य मात्रपदार्थैकदेशे भेदेऽपि स्वनिष्ठप्रतियोगितानिरूपकत्वसंबन्धेनान्वयः। भिन्नपदार्थस्यापि तृतीयार्थजनकतायाम् आधेयतासंबन्धेनान्वयः। जनकतायाश्च निरूपितत्वसंबन्धेन जन्यतायामन्वयः। एवं जन्यताया मात्रपदार्थान्तरेऽभावे च स्वनिष्ठप्रतियोगितानिरूपकत्वसंबन्धेनान्वयः। तथा च संस्कारनिष्ठजनकतानिरूपितजन्यतावदभिन्नम्, संस्कारनिष्ठ- प्रतियोगितानिरूपकभेदवन्निष्ठजनकतानिरूपितजन्यत्वनिष्ठप्रतियोगितानिरूपकाभाववदभिन्नं ज्ञानं स्मृतिरिति बोधः। संस्कारजन्यत्वे सति, संस्कारेतराजन्यत्वे सति ज्ञानत्वं स्मृतेर्लक्षणम्। ज्ञानत्वमात्रोक्तावनुभवेऽतिव्याप्तिः। अतः संस्कारजन्यत्वम्। एतावन्मात्रोक्तौ सोऽयं घटः’ इत्यादिप्रत्यभिज्ञाप्रत्यक्षे तत्तांशस्य (विशेषणांशस्य) संस्कार- जन्यत्वादतिव्याप्तिः। अतः संस्कारेतराजन्यत्वम्। प्रत्यभिज्ञाप्रत्यक्षस्य इदंत्वांशे (विशेष्यांशे) संस्कारेतरेन्द्रियजन्यत्वात् संस्कारेतराजन्यत्वं नास्तीति नातिव्याप्तिः। संस्कारेतराजन्यत्वे सति ज्ञानत्वमात्रोक्तौ यद्यपि पूर्वोक्तरीत्याऽनुभवे नातिव्याप्तिः, अनुभवस्य संस्कारेतरेन्द्रियादिजन्यत्वेन संस्कारेतराजन्यत्वस्याभावात्, अथापीश्वरप्रत्यक्षस्य नित्यत्वेन जन्यत्वस्यैवाभावेन, संस्कारेतराजन्यत्वं सुतरां वर्तत ज्ञानत्वं च वर्तत इत्यतिव्याप्तिः। अतः संस्कारजन्यत्वमावश्यकम्। ईश्वरज्ञानस्य नित्यत्वेन संस्कारजन्यत्वाभावान्नातिव्याप्तिः। ‘ईश्वरस्य तु सर्वं प्रत्यक्षमेव तस्य स्मृतिर्नास्ति’। ज्ञानत्वानुपादाने संस्कारध्वंसेऽतिव्याप्तिः। अतो ज्ञानत्वम्। अथैवं मनसो ज्ञानसामान्यकारणत्वात् स्मृतिं प्रत्यपि कारणत्वेन संस्कारेतराजन्यत्वाभावादसंभव इति चेत्, न। तद्दलस्य बाह्येन्द्रियजन्यत्वाभावतात्पर्यकत्वेन दोषाभावान्न काप्यनुपपत्तिः। तथा च संस्कारजन्यत्वे सति, बाह्येन्द्रियाजन्यत्वे सति ज्ञानत्वं स्मृतेर्लक्षणम्।
तद्भिन्नमिति। तत्पदस्य स्मृतिरर्थः। अनुभवस्य लक्षणमाह तस्याः(स्मृतेः) भिन्नम् तद्भिन्नमिति विग्रहः। ‘तस्याः’ इत्यत्र प्रकृत्याः स्मृतिरर्थः। पञ्चम्याः प्रतियोगित्वमर्थः। तत्र च प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः। तथा च स्मृतिनिष्ठप्रतियोगिता इति। भिन्नमित्यस्य भेदवत् (अन्योन्याभाववत्) अर्थः। पञ्चम्यर्थप्रतियोगिताया भेदवत् इत्यत्रैकदेशे भेदे (अन्योन्याभावे) निरूपकत्वसम्बन्धेनान्वयः। भेदवतश्चाभेदसम्बन्धेनानुभवेऽन्वयः। तथा च स्मृतिनिष्ठप्रतियोगितानिरूपकान्योन्याभावाश्रयाभिन्नो ज्ञानत्वाश्रयाभिन्नोऽनुभवः इति बोधः। लक्षणं तु स्मृतिनिष्ठप्रतियोगितानिरूपकाऽन्योन्याभावाश्रयत्वे सति ज्ञानत्वम् इति। स्मृतिनिष्ठप्रतियोगितानिरूपकः भेदः क इति चेत् ? ‘अयं घटः’ इत्याकारक- प्रत्यक्षात्मकज्ञाने ‘स्मृतिर्न’ इति प्रतीतिसिद्धो भेदः। सः ‘अयं घटः’ इत्याकारकप्रत्यक्षात्मकानुभवे वर्तते, ज्ञानत्वमपि वर्तत इति लक्षणसमन्वयः। ज्ञानत्वम् इत्येतावन्मात्रोक्तौ स्मृतावतिव्याप्तिः स्मृतेरपि ज्ञानत्वात्। अतः ‘स्मृतिभिन्नम्’ इति पदमुपात्तम्। ‘स्मृतिभिन्नम्’ इत्येतावन्मात्रोक्तौ घटादावतिव्याप्तिः, तस्यापि स्मृतिभिन्नत्वात्। अतः ‘ज्ञानम्’ इत्युपात्तम्। घटस्य ज्ञानरूपत्वाभावात्, तत्र नातिव्याप्तिः।
यथार्थानुभवस्य लक्षणमाह - तद्वतीत्यादि। तत् अस्मिन् अस्तीति तद्वत्। तस्मिन् तद्वति। ‘अस्मिन्’ इत्यत्र इदंशब्दस्य विशेष्यभूतरजतादिकमर्थः। सप्तम्या अधिकरणत्वमर्थः। प्रकृत्यर्थस्य रजतादेः सप्तम्यर्थाधि- करणतायामाधेयतासम्बन्धेनान्वयः। तथा च रजतादिनिष्ठाधिकरणता इति बोधः। ‘अस्ति’ इत्यत्र अस् धातोराधेयत्वमर्थः। ‘ति’ इत्याख्यातस्याश्रयत्वमर्थः। ‘तत्’पदेन प्रकारीभूतो धर्मो रजतत्वादिर्ग्राह्यः। आख्यातार्थाश्रयतायास्तत्पदार्थभूतप्रकारीभूतधर्मे (रजतत्वादौ) अन्वयः। तथा च ‘तद्वन्निष्ठा(रजतादिधर्मिनिष्ठा)धिकरणतानिरूपिताधेयताश्रयस्तद्धर्मः (रजतत्वादिधर्मः) इति बोधः।
अन्यपदार्थप्रधानसमासादिवृत्तिस्थले विग्रहवाक्यात् यादृशो विशेषणविशेष्यभावापन्नो बोधो जायते समासादिवृत्तिवाक्यात् तद्विपरीतविशेषणविशेष्यभावापन्नो बोधो जायते’ इति नियमानुरोधेन पूर्वं विशेषणभूतं रजतादिकम् इदानीं विशेष्यं भवति। पूर्वं विशेष्यभूतं रजतत्वादिकम् इदानीं विशेषणं भवति। तथा चं ‘तन्निष्ठा(रजतत्वादिनिष्ठा)धेयतानिरूपिताधिकरणतावत् (आश्रयो रजतादिकम्)’ इति ‘तद्वत्’ इत्याकारकपदस्य बोधः। ‘तद्वति’ इत्यत्र सप्तम्या विशेष्यत्वमर्थः। प्रकृत्यर्थस्य तद्वतः (रजतत्त्ववतः रजतस्य) सप्तम्यर्थ- विशेष्यतायामाधेयतासम्बन्धेनान्वयः। तथा च तद्वन्निष्ठा (रजतत्वावच्छिन्नरजतनिष्ठा) विशेष्यता इत्यासीत्। सप्तम्यर्थविशेष्यताया निरूपकत्वसम्बन्धेनानुभवेऽन्वयः। तथा च तन्निष्ठा(रजतत्वनिष्ठा)धेयतानिरूपिताधिकरणतावन्निष्ठ(रजतनिष्ठ)विशेष्यतानिरूपकोऽनुभवः इति ‘तद्वति’ इत्यस्य पदस्य बोधः।
तत्प्रकारक इत्यत्र ‘स प्रकारो यस्मिन्, तत्प्रकारक इति विग्रहः। बहुव्रीहिसमासान्त ‘क’ प्रत्ययः कर्मधारयसमासभ्रान्तिवारणार्थः। ‘यस्मिन्’ इत्यत्र ‘यत्’ शब्दस्यानुभवोऽर्थः। सप्तम्या विषयित्त्वम् (प्रकारित्वम्) अर्थः। प्रकृत्यर्थस्यानुभवस्य सप्तम्यर्थप्रकारितायमाधेयतासम्बन्धेनान्वयः। तथा च अनुभवनिष्ठ(तन्निष्ठ)प्रकारिता (विषयिता) इति बोधः। ‘प्रकारः’ इत्यस्य प्रकारतावान् अर्थः। सप्तम्यर्थविषयितायाः (प्रकारितायाः) प्रकारशब्दार्थैकदेशे प्रकारतायां निरूपितत्वसम्बन्धेनान्वयः। ‘तत्’पदेन प्रकारीभूतो धर्मो (रजतत्वादिः) ग्राह्यः। तथा च- अनुभवनिष्ठ- प्रकारितानिरूपितप्रकारतावान् (प्रकारताश्रयः) स (रजतत्त्वम्) इति विग्रहवाक्यबोधः। ‘अन्यपदार्थप्रधानसमासादिस्थले’ इत्यादिनियमेन समासे विशेषणविशेष्यभावः विपरिवर्तते। ‘तन्निष्ठ(रजतत्वनिष्ठ)प्रकारतानिरूपितप्रकारिता(विषयिता)श्रयाभिन्नोऽनुभवः इति खण्डबोधः। अखण्डबोधस्तु तन्निष्ठा(रजतत्वादिनिष्ठा)धेयतानिरूपिता-धिकरणतावन्निष्ठ(रजतादिनिष्ठ)विशेष्यतानिरूपकः, तन्निष्ठ(रजतत्वादिनिष्ठ) प्रकारतानिरूपितप्रकारिता(विषयिता)श्रयाभिन्नोऽनुभवो यथार्थः इति। लक्षणं तु- तद्वन्निष्ठ (रजतत्वादिमन्निष्ठ)विशेष्यतानिरूपकत्वे सति, तन्निष्ठ(रजतत्वादिनिष्ठ)प्रकारता- निरूपकत्वे सति, अनुभवत्वम् इति। रजते ‘इदं रजतम्’ इत्यत्र प्रमायां विशेष्यता रजतनिष्ठा। प्रकारता रजतत्वनिष्ठा। ‘तद्वन्निष्ठविशेष्यतानिरूपकत्वम्’ इत्यत्र ‘तत्’ पदेन रजतत्वं ग्राह्यम्। तद्वत् - रजतम्। तन्निष्ठा विशेष्यता। तादृशविशेष्यतानिरूपकत्वं रजते ‘इदं रजतम्’ इत्याकारकज्ञाने वर्तते। एवं तन्निष्ठप्रकारतानिरूपकत्वम् इत्यत्र ‘तत्’ पदेन रजतत्वस्य ग्रहणात् रजतत्वनिष्ठप्रकारतानिरूपकत्वमपि रजते ‘इदं रजतम्’ इति ज्ञाने वर्तत इत्यतस्तद्वन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे सति, अनुभवत्त्वम् रजते ‘इदं रजतम्’ इत्याकारकयथार्थानुभवे वर्तत इति लक्षणसमन्वयः।
अस्मिन् लक्षणे ‘अनुभवत्वम्’ इत्येतावन्मात्रोक्तावयथार्थानुभवेऽतिव्याप्तिः। तस्यापि स्मृतिभिन्नत्वेनानुभवत्वाविशेषात्। अतः ‘तद्वन्निष्ठविशेष्यतानिरूपकत्वम्’ इति दलं निवेशनीयम्। तथा च लक्षणम् -‘तद्वन्निष्ठविशेष्यतानिरूपकत्वे सति, अनुभवत्वम्। एवञ्च नातिव्याप्तिः। यद्यप्ययथार्थानुभवेऽनुभवत्वं वर्तते, अथापि तद्वन्निष्ठविशेष्यतानिरूपकत्वं नास्ति। तथाहि शुक्तौ ‘इदं रजतम्’ इत्ययथार्थानुभवे ‘तत्’ पदेन प्रकारीभूतरजतत्वं ग्राह्यम्। तद्वत्- रजतत्ववद्रजतम्। तत्र रजतत्ववन्निष्ठविशेष्यतानिरूपकत्वं नास्ति। किन्तु रजतत्वाभाववच्छुक्तिनिष्ठविशेष्यतानिरूपकत्वमेव वर्तत इति नातिव्याप्तिः।
‘तद्वन्निष्ठविशेष्यतानिरूपकत्वे सति, अनुभवत्वम्’ इत्येतावन्मात्रोक्तौ शुक्तौ ‘इदं रजतम् ’ भ्रमेऽतिव्याप्तिस्तथैव स्यात्। ‘तत्’ पदस्य सर्वनामपदत्वेन, तेन शुक्तित्वस्य ग्रहणे तत् - शुक्तित्त्वम्। तद्वती - शुक्तित्ववती - शुक्तिः। तन्निष्ठा विशेष्यता। तन्निरूपकत्वं शुक्तौ ‘इदं रजतम्’ इत्याकारकभ्रमात्मकज्ञाने वर्तते। एवमनुभवत्वमपि वर्तत इत्यतिव्याप्तिः। अतः ‘तन्निष्ठप्रकारतानिरूपकत्वम्। तथा च लक्षणम् - तद्वन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वम्। एवञ्च नातिव्याप्तिः। तथाहि - शुक्तौ ‘इदं रजतम्’ इत्याकारकभ्रमस्थले ‘तत्’ पदेन शुक्तित्वस्य ग्रहणात् तद्वन्निष्ठविशेष्यतानिरूपकत्वम् उक्तभ्रमात्मकज्ञाने वर्तते, एवमनुभवत्वमपि वर्तते। किन्तु तत्र तन्निष्ठप्रकारतानिरूपकत्वं नास्ति। तथाहि ‘तत्’पदेन शुक्तित्वस्यैव ग्रहणात् तत्- शुक्तित्वम्। तन्निष्ठा प्रकारता - शुक्तित्वनिष्ठा प्रकारता। तन्निरूपकत्वं शुक्तौ ‘इदं रजतम्’ इत्याकारकभ्रमात्मकज्ञाने नास्ति। किन्तु रजतत्वनिष्ठप्रकारतानिरूपकत्वमेव वर्तत इति नातिव्याप्तिः।
‘तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वम्’ इत्येतावन्मात्रोक्तौ, पुनः शुक्तौ ‘इदं रजतम्’ इत्याकारकभ्रमात्मकज्ञानेऽतिव्याप्तिः स्यात्। तथाहि प्रकृते ‘तत्’ पदेन रजतत्वस्य ग्रहणात्, तत्- रजतत्वम्। तन्निष्ठा प्रकारता- रजतत्वनिष्ठा प्रकारता। तादृशप्रकारतानिरूपकत्वे सति, अनुभवत्वं शुक्तौ ‘इदं रजतम्’ इत्याकारकभ्रमात्मकज्ञाने वर्तत इत्यतिव्याप्तिः। अतः ‘तद्वन्निष्ठविशेष्यतानिरूपकत्व’ रूपदलमप्यावश्यकम्। तथा च लक्षणम् तद्वन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वम् इति। तथा च नातिव्याप्तिः। तथाहि - यद्यपि शुक्तौ ‘इदं रजतम्’ इत्याकारकभ्रमे तत्पदेन रजतत्वग्रहणात् ‘तन्निष्ठ(रजतत्वनिष्ठ)प्रकारतानिरूपकत्वे सति, अनुभवत्वम्’ वर्तते। परन्तु तत्र तद्वन्निष्ठविशेष्यतानिरूपकत्वं नास्ति। तथाहि ‘तत्’ पदेन रजतत्वस्य ग्रहणात्, तत् - रजतत्वम्। तद्वत्- रजतम्। रजतत्ववद्रजतनिष्ठविशेष्यतानिरूपकत्वं शुक्तौ ‘इदं रजतम्’ इत्याकारकभ्रमस्थले नास्ति। किन्तु तत्र (तदभाववन्निष्ठ)रजतत्वाभाववच्छुक्तिनिष्ठविशेष्यतानिरूपकत्वमेव वर्तत इति तत्र नातिव्याप्तिः।
‘अनुभवत्वम्’ इति दलाभावे केवलं ‘तद्वन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वम्’ यथार्थानुभवस्य लक्षणम् इत्येतावन्मात्रोक्तौ यथार्थानुभव-जन्यस्मृतावतिव्याप्तिः। तथाहि ‘अयं घटः’ इत्याकारकयथार्थानुभवजन्यायां स्मृतौ (घटविषयकस्मृतौ) ‘तत्’ पदेन घटत्वस्य ग्रहणात्, तत् - घटत्वम्। तद्वान् घटत्ववान् घटः। तन्निष्ठा विशेष्यता। तन्निरूपकत्वम् ‘अयं घटः’ इत्याकारिकायां स्मृतौ वर्तते। एवं ‘तत्’ पदेन घटत्वस्य ग्रहणात्, तत् - घटत्वम्। तन्निष्ठा प्रकारता इति चेत् ? घटत्वनिष्ठाप्रकारता। तन्निरूपकत्वं च ‘अयं घटः’ इत्याकारकस्मृतिरूपज्ञाने वर्तत इति तत्रातिव्याप्तिः। अतोऽनुभवत्वदलम्। एवञ्च नातिव्याप्तिः। तथाहि यद्यपि ‘अयं घटः’ इत्याकारिकायां यथार्थस्मृतौ तद्वन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वं वर्तते, तथापि स्मृतिभिन्नत्वस्यैवानुभवत्वात्, स्मृतावनुभवत्वं नास्तीति नातिव्याप्तिः।
गोवर्धन-न्यायबोधिनी - शब्दलक्षणम्
शब्दं लक्षयति- श्रोत्रेति। शब्दत्वेऽतिव्याप्तिवारणाय गुणपदम्। रूपादावतिव्याप्तिवारणाय श्रोत्रेति। स त्रिविधः संयोगजो विभागजः शब्दजश्चेति। यथा भेरीदण्डसंयोगजन्यो भांकारादिः। हस्ताभिघातसंयोगजन्यो मृदङ्गादिशब्दः। वंशे पाट्यमाने दलद्वयविभागजन्यः चटचटाशब्दः। शब्दोत्पत्तिदेशमारभ्य कर्णपर्यन्तं निमित्तपवनेन शब्दधारा जायन्ते। तत्र उत्तरशब्दे पूर्वशब्दः कारणम्।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - शब्दः
श्रोत्रग्राह्यो गुणश्शब्दः। स द्विविधः ध्वन्यात्मको वर्णात्मकश्चेति। ध्वन्यात्मको भेर्यादौ। वर्णात्मकस्संस्कृतभाषादिरूपः।।
शब्दं लक्षयति श्रोत्रेति। रसादिलक्षणस्थलवत् बोधप्रकारः ग्राह्यः। श्रोत्रेन्द्रियजन्यप्रत्यक्षविषयत्वे सति गुणत्वं शब्दस्य लक्षणम्। श्रोत्रेन्द्रियजन्यं यत्प्रत्यक्षम् अयं भेरीशब्दः अयं मृदङ्गशब्दः इत्याद्याकारकं प्रत्यक्षम्, तद्विषयत्वे सति गुणत्वस्य शब्दे सत्त्वात् समन्वयः। विशेष्यमात्रोपादाने रूपादौ विशेषणमात्रोपादाने शब्दत्वादौ च अतिव्याप्तिः इत्युभयोपादानम्। न च अत्रान्तिमशब्दस्यैव श्रोत्रेन्द्रियग्राह्यत्वेन आद्यशब्दे तल्लक्षणाभावादव्याप्तिरिति वाच्यम्। श्रोत्रेन्द्रियजन्यप्रत्यक्षविषयतावच्छेदकजातिमद्गुणत्वस्य निवेशनीयत्वात्, आद्यस्याप्रत्यक्षत्वेऽपि तादृशजातिमत्त्वस्य तत्राप्यक्षतत्वेनाव्याप्त्यभावात्। नचैवं जातिघटितलक्षणे शब्दत्वादावतिव्याप्त्यभावात् गुणत्वस्य वैयर्थ्यमिति वाच्यम्, श्रोत्रेन्द्रियजन्यं यत्प्रत्यक्षम् अयं भेरीशब्दः इत्यादिप्रत्यक्षम्, तद्विषयतावच्छेदकीभूता या जातिः भेरीत्वजातिः, तादृशजातिमत्त्वस्य भेर्यादौ सत्त्वात् अतिव्याप्त्यापत्तेः। न च श्रोत्रेन्द्रियजन्यत्वस्य न प्रत्यक्षविशेषणत्वम्, किन्तु श्रोत्रेन्द्रियप्रयोज्यत्वस्य प्रत्यक्षविषयताविशेषणत्वमङ्गीक्रियते, तथाच श्रोत्रेन्द्रियप्रयोज्यप्रत्यक्षविषयतावच्छेदकजातिमत्त्वं लक्षणमुच्यते, भेर्यादिनिष्ठविषयतायाः श्रोत्रेन्द्रियप्रयोज्यत्वाभावेन न तत्रातिव्याप्तिरिति वाच्यम्, तदा गुणपदस्य स्वरूपकीर्तनमात्रपरत्वमेवाङ्गीक्रियते इति ध्येयम्।।