33 स्नेहः

मूलम् - स्नेहः - 33

चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः। जलमात्रवृत्तिः॥ ३२॥

Tags - 33

स्неहः, गुणः, जलवृत्तिः

दीपिका - स्नेहः

स्नेहं लक्षयति- चूर्णेति। कालादावतिव्याप्तिवारणाय गुणपदम्। रूपादावतिव्याप्तिवारणाय पिण्डीभावेति।

गोवर्धन-न्यायबोधिनी - स्नेहालक्षणम्

स्नेहं लक्षयति- चूर्णादीति। चूर्णादिपिण्डीभावहेतुत्वे सति गुणत्वं स्नेहस्य लक्षणम्। पिण्डीभावो नाम धारणाकर्षणहेतुभूतो विलक्षणसंयोगः। तादृशसंयोगे स्नेहस्यैवासाधारणकारणत्वं न तु जलादिगतद्रवत्वस्य। तथा सति द्रुतसुवर्णादिसंयोगेन चूर्णादेः पिण्डीभावापत्तेः। अतः स्नेह एव तत्रासाधारणकारणम्। विशेषणमात्रोपादाने कालादावतिव्याप्तिरतस्तद्वारणाय विशेष्योपादानम्। वस्तुतस्तु द्रुतजलसंयोगस्यैव चूर्णादिपिण्डीभावहेतुत्वं स्नेहस्य पिण्डीभावहेतुत्वे मानाभावात्। जले द्रुतत्वविशेषणात्करकादिव्यावृत्तिः।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - स्नेहलक्षणम्

चूर्णादिपिण्‍डीभावहेतुर्गुणः स्नेहः। जलमात्रवृत्तिः।
स्नेहं लक्षयति चूर्णादीति। बोधः पूर्ववत्। पिण्‍डीभावो नाम धारणाकर्षणहेतुभूतो विलक्षणसंयोगः। चूर्णादिपिण्‍डीभावनिष्ठकार्यतानिरूपितकारणताश्रयत्वे सति गुणत्वं स्नेहस्य लक्षणम्। चूर्णादिपिण्डीभावनिष्ठकार्यतानिरूपिता या कारणता स्नेहनिष्ठा कारणता, तदाश्रयत्वं स्नेहे वर्तत इति समन्वयः। विशेष्यमात्रोपादाने रूपादौ विशेषणमात्रोपादाने कालेश्वरादौ चातिव्याप्तिरित्युभयोपादानम्। नचैवमप्यदृष्टेऽतिव्याप्तिर्दुर्वारेति। असाधारणकारणत्वनिवेशेन तस्याः वारणीयत्वात्। नचैवं असाधारणकारणत्वनिवेशे कालेश्वरादावसाधारणकारणत्वाभावेनैवातिव्याप्तिवारणात् गुणपदस्य वैयर्थ्यमिति वाच्यम्, चूर्णादावतिव्याप्तिवारणायैव तत्सार्थक्यात्। वस्तुतस्तु स्नेहस्य पिण्डीभावहेतुत्वस्वीकारे प्रमाणाभावेन स्वाश्रयसंयुक्तत्वसम्बन्धेनास्य कारणत्वस्य वक्तव्यतया गौरवेण च नास्य पिण्‍डीभावहेतुत्वमङ्गीकार्यम्। द्रुतजलसंयोगस्य तत्कारणत्वकल्पने प्रत्यक्षप्रमाणसाहाय्येन अस्य समवायसम्बन्धेनैव कारणत्वस्य सुवचतया कारणतावच्छेदकसम्बन्धलाघवेन च द्रुतजलसंयोगस्यैव पिण्डीभावहेतुत्वं वक्तव्यम्। अतश्च एवमेवाभिप्रयन्ति बहवः।।