32 द्रवत्वम्

मूलम् - द्रवत्वम् - 32

आद्यस्यन्दनासमवायिकारणं द्रवत्वम्। पृथिव्यप्तेजोवृत्ति। तद्द्विविधं सांसिद्धिकं नैमित्तिकं च। सांसिद्धिकं जले। नैमित्तिकं पृथिवीतेजसोः। पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम्। तेजसि सुवर्णादौ॥ ३१॥

Tags - 32

द्रवत्वम्, गुणः, सांसिद्धिक, नैमित्तिक

दीपिका - द्रवत्वम्

द्रवत्वं लक्षयति-आद्येति। स्यन्दनं स्रवणम्। तेजःसंयोगजं नैमित्तिकम्। तद्भिन्नं सांसिद्धिकम्। पृथिव्यां नैमित्तिकमुदाहरति- घृतादाविति। तेजसि तदाह- सुवर्णादाविति।

वरदाचार्य आलोके - द्रवत्वम्

आद्यस्यन्दनासमवायिकारणं द्रवत्वम्। पृथिवीजलतेजोवृत्ति। तद् द्विविधम्। सांसिद्धिकं नैमित्तिकं चेति। सांसिद्धिकं जले। नैमित्तिकं पृथिवीतेजसोः। पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम्। तेजसि सुवर्णादौ।
आलोक- व्याख्या
द्रवत्वं निरूपयति - आद्येत्यादि। द्रवति इति व्यवहारसिद्धं जलनिष्ठविलक्षणक्रियाहेतुभूतं द्रवत्वमित्यर्थः। आद्यं च तत् स्यन्दनं चेति आद्यस्यन्दनम्। न समवायिकारणम् असमवायिकारणम्। आद्यस्यन्दनस्यासमवायिकारणमिति आद्यस्यन्दनासमवायिकारणम्। आद्यं नाम प्रथमम्। स्यन्दनं नाम स्यन्दनरूपा क्रिया। आद्यार्थकस्य प्रथमस्य स्यन्दनरूपक्रियायामभेदसम्बन्धेनान्वयः। तथा च आद्याभिन्नस्यन्दनक्रिया। ‘आद्यस्यन्दनस्य’ इत्यत्र षष्ठ्याः कार्यत्वमर्थः। प्रकृत्यर्थस्य आद्यस्यन्दनक्रियाया आधेयतासम्बन्धेन षष्ठ्यर्थकार्यतायामन्वयः। तथा च - आद्यस्यन्दननिष्ठकार्यता। ‘असमवायिकारणम्’ इत्यस्यासमवायिकारणतावदित्यर्थः। षष्ठ्यर्थकार्यताया असमवायिकारणपदार्थैकदेशेऽसमवायिकारणतायां निरूपितत्वसम्बन्धेनान्वयः। कारणतावतश्चाभेदसम्बन्धेन द्रवत्वेऽन्वयः। तथा चाखण्डबोधः - आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणतावदभिन्नं द्रवत्वम् इति। लक्षणं तु आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणत्वम् इति। आद्यस्यन्दननिष्ठकार्यता केति चेत् ? ‘आद्यजलं स्यन्दते’ इति प्रतीतिसिद्धा स्यन्दनक्रियानिष्ठा कार्यता। तादृशकार्यतानिरूपितासमवायिकारणत्वं द्रवत्वे वर्तत इति लक्षणसमन्वयः। ‘स्यन्दनासमवायिकारणम्’ इत्येतावन्मात्रोक्तौ वेगेऽतिव्याप्तिः। अतः ‘आद्य’ इति विशेषणम्। द्वितीयादिस्यन्दनक्रियां प्रति वेगोऽप्यसमवायिकारणम्, आद्यस्यन्दनं प्रति तु नासमवायिकारणम्, तदानीं वेगस्यानुत्पन्नत्वात्। अत आद्यस्यन्दननिष्ठकार्यतानिरूपितकारणत्वाभावात् वेगे नातिव्याप्तिः।
अत्र ‘असमवायि’ इति विशेषणाभावे, कालादावतिव्याप्तिर्दुर्वारा स्यात्। असमवायिपदनिवेशे तु कालेश्वरादृष्टादेः कार्यसामान्यं प्रति निमित्तकारणत्वेनासमवायिकारणत्वाभावान्नातिव्याप्तिः।
नन्वेवं सत्यपि येन द्रवत्वेन स्यन्दनमेव कदाचिदपि न जातम्, तत्र आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणत्वस्याभावादव्याप्तिरिति चेत्, न। आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणतावद्वृत्तिजातिमत्त्वस्य लक्षणत्वात्। आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणतावत्, येन द्रवत्वेन स्यन्दनं जातम्, तादृशद्रवत्वं भवति। तद्वृत्तिर्जातिर्द्रवत्वत्वरूपा जातिः। तादृशजातिमत्त्वं, येन द्रवत्वेन स्यन्दनमेव न जातम्, तादृशेऽपि द्रवत्वे वर्तत इति नातिव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य पुना रूपादावतिव्याप्तिर्दुर्वारा। तथाहि - आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणतावत् द्रवत्वम्। तद्वृत्तिर्या जातिरिति चेत् ? यथा द्रवत्वत्वजातिस्तथा गुणत्वजातिरपि भवति। तादृशजातिमत्त्वं रूपादावपि वर्तत इति तत्रातिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम् आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम् इति। एवञ्च नातिव्याप्तिः। तथाहि आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणतावत् द्रवत्वम्। तद्वृत्तिर्गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवति। स्वस्य स्वव्याप्यत्वाभावात्। तादृशगुणत्वव्याप्या जातिस्तु द्रवत्वत्वमेव। तादृशजातिमत्त्वं द्रवत्व एव वर्तते नान्यत्र रूपादाविति नातिव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य नैमित्तिकद्रवत्वेऽव्याप्तिर्दुर्वारा। तथाहि आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणतावत् सांसिद्धिकद्रवत्वम्। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? सांसिद्धिकत्वजातिरपि भवति। सांसिद्धकत्वस्य विलक्षणजातित्वात्। तादृशजातिमत्त्वं नैमित्तिकद्रवत्वे नास्तीति तत्र लक्षणासमन्वयात् अव्याप्तिरिति चेत्, न। गुणत्वव्याप्ये साक्षात्पदस्य निवेशनात्। तथाच लक्षणम् आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणतावद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वम्। एवञ्च नाव्याप्तिः। तथाहि आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणतावत् द्रवत्वम्। तद्वृत्तिर्या गुणत्वसाक्षाद्व्याप्या जातिरिति चेत् ? इदानीं सांसिद्धिकत्वजातिर्न भवति। तस्या गुणत्वव्याप्यव्याप्यत्वात्। गुणत्वसाक्षाद्व्याप्या जातिस्तु द्रवत्वत्वमेव। तादृशजातिमत्त्वं नैमित्तिकद्रवत्वेऽपि वर्तत इति नाव्याप्तिः। संपूर्णं लक्षणं तु आद्यस्यन्दननिष्ठकार्यता- निरूपितासमवायिकारणतावद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वम् इति।
तर्कसंग्रहः
चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः। जलमात्रवृत्ति:।
आलोक-व्याख्या
स्नेहं निरूपयति - चूर्णादीति। नायमान्तरप्रीतिविशेषरूपः, तस्य चेतनगुणत्वात्। किन्तु चूर्णादीनां पिण्डीभावहेतुर्जलनिष्ठोऽतिशयविशेषः। चूर्णादीनां पिण्डीभावः चूर्णादिपिण्डीभावः। चूर्णादिपिण्डीभावस्य हेतु:- चूर्णादिपिण्डीभावहेतुः। चूर्णादीनाम् इत्यत्र आदिपदेन सक्तूनां ग्रहणं कर्तव्यम्। षष्ठ्याः समवेतत्वमर्थः। तथा च चूर्णादिसमवेत इति। पिण्डीभावो नाम धारणाकर्षणहेतुभूतविलक्षणसंयोगः। पिण्डीभावस्येत्यत्र षष्ठ्याः कार्यत्वमर्थः। प्रकृत्यर्थस्यााधेयतासम्बन्धेन षष्ठ्यर्थकार्यतायामन्वयः। तथा च धारणाकर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यता। हेतुरित्यस्य कारणतावान् अर्थः। षष्ठ्यर्थकार्यताया हेत्वर्थैकदेशे कारणतायां निरूपितत्वसम्बन्धेनान्वयः। गुण इत्यस्य गुणत्ववान् अर्थः। तस्य चाभेदसंबन्धेन गुणेऽन्वयः। तथा च चूर्णादिसमवेतधारणाकर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यता- निरूपितकारणतावदभिन्नो गुणाभिन्नः स्नेहः इति बोधः। लक्षणं तु - चूर्णादिसमवेतधारणाकर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यतानिरूपितकारणत्वे सति गुणत्वम् इति। तथाहि - चूर्णादिसमवेतधारणाकर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यता केति चेत् ? ‘एते रेणवः पिण्डीभूताः’ इत्याकारकप्रतीतिसिद्धा कार्यता। तादृशकार्यतानिरूपितकारणत्वं गुणत्वं च स्नेहे वर्तत इति समन्वयः। चूर्णादिपिण्डीभावहेतुत्वमात्रोक्तौ कालादावतिव्याप्तिः स्यात्। कार्यसामान्यं प्रति कालेश्वरादृष्टादीनां कारणत्वात्। अतश्चूर्णादिसमवेतधारणाकर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यतानिरूपितकारणत्वं कालादावपि वर्तत इत्यतिव्याप्तिः। तदर्थं गुणत्वम्। कालस्य द्रव्यत्वात् गुणत्वाभावात्, तत्र नातिव्याप्तिः। गुणत्वमात्रोक्तौ रूपादावतिव्याप्तिः। अतश्चूर्णादिपिण्डीभावहेतुत्वम्।
यद्यपि लक्षणे कार्यतानिरूपितकारणतायामसाधारणत्वपदनिवेशनेनापि कालादावतिव्याप्तिर्वारयितुं शक्यते, तथापि असाधारणदलनिवेशनेऽपि स्नेहसमवायिकारणे चूर्णादावेवातिव्याप्तिः। तथाहि – चूर्णादिसमवेतधारणाकर्षण-हेतुभूतविलक्षणसंयोगनिष्ठकार्यता केति इति चेत् ? ‘एते चूर्णाः पिण्डीभूताः’ इत्याकारकप्रतीतिसिद्धा धारणाकर्षणसंयोगनिष्ठकार्यता। तादृशकार्यतानिरूपितासाधारणकारणत्वं यथा स्नेहे वर्तते तथा चूर्णादावपि वर्तते। चूर्णमपि तादृशपिण्डीभावेऽसाधारणहेतुरेव। चूर्णं विना पिण्डीभाव एव कथं घटेत। अतो लक्षणेऽसाधारणकारणत्वनिवेशेनापि, नातिव्याप्तेर्निस्तारो भवति। तदर्थं गुणपदं निवेशनीयमेव। प्रकृते चूर्णादीनां द्रव्यत्वात् गुणत्वाभावाच्च तत्र नातिव्याप्तिः।
नन्वेवं सत्यपि येन स्नेहेन पिण्डीभाव एव न जातः, तत्र चूर्णादिसमवेतसंयोगस्य कार्यस्यैवाभावात् तादृशकार्यतानिरूपितकारणत्वं स्नेहे नास्तीत्यव्याप्तिरिति चेत्, न। जातिघटितपरिष्कारात्। तथा च लक्षणम् ‘चूर्णादिसमवेतधारणाकर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यतानिरूपितकारणतावद्वृत्तिजातिमत्त्वे सति गुणत्वम्’ इति। एवञ्च नाव्याप्तिः। तथाहि चूर्णादिसमवेतधारणाकर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यतानिरूपितकारणतावान् येन स्नेहेन पिण्डीभावो जातः, तादृशः स्नेहः। तद्वृत्तिर्या जातिरिति चेत् ? स्नेहत्वजातिः। तादृशजातिमत्त्वं तु येन स्नेहेन पिण्डीभाव एव न जातः, तादृशस्त्रेहेऽपि वर्तत इति नाव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य रूपादावतिव्याप्तिर्दुष्परिहरा। तथाहि चूर्णादिसमवेतधारणाकर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यतानिरूपितकारणतावान् स्नेहः। तद्वृत्तिर्यथा स्नेहत्वजातिः, तथा गुणत्वजातिरपि भवति। तादृशजातिमत्त्वं रूपादावपि वर्तत इत्यतिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम् - चूर्णादिसमवेतधारणाकर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यतानिरूपितासाधारणकारणता- वद्वृत्तिगुणत्वव्याप्यजातिमत्त्वे सति गुणत्वम् इति। एवञ्च नाव्याप्तिः। तथाहि - चूर्णादिनिरूपितासाधारणकारणतावान् स्नेहः। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवति। स्वस्य स्वव्याप्यत्वाभावात्। किन्तु स्नेहत्वजातिरेव। तादृशजातिमत्त्वं रूपादौ नास्तीति नातिव्याप्तिः। अत्र साक्षात्पदस्यावश्यकता नास्ति, स्नेहस्यानेकविधत्वाभावात्। तादृशजातिपदेन स्नेहत्वस्यैव ग्राह्यत्वात्, तद्वत्त्वं कालादौ नास्तीति गुणत्वनिवेशनाभावेऽपि न हानिः।
तर्कसंग्रहः

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - द्रवत्वम्

आद्यस्यन्दनासमवायिकारणं द्रवत्वम्। पृथिवीजलतेजोवृत्ति, तत् द्विविधं सांसिद्धिकं नैमित्तिकञ्चेति। सांसिद्धिकं जले। नैमित्तिकं पृथिवीतेजसोः। पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम्। तेजसि सुवर्णादौ।।
द्रवत्वं लक्षयति आद्येति। गुरुत्वद्रवत्वलक्षणयोर्बोधस्सुगम इति न लिखितम्। आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणताश्रयत्वं द्रवत्वस्य लक्षणम्। आद्यस्यन्दननिष्ठकार्यतानिरूपिता याऽसमवायिकारणता द्रवत्वनिष्ठाऽसमवायिकारणता, तदाश्रयत्वं द्रवत्वेऽस्तीति समन्वयः। आद्यपदाभावे द्वितीयादिस्यन्दनमादाय वेगेऽतिव्याप्तिः। असमवायित्वानुपादाने पूर्ववत् तत्समवायिकारणीभूतजलादावतिव्याप्तिः। अत्र लक्षणद्वये चासमवायिकारणत्वम् आद्यपतनादिनिष्ठकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वरूपमेव, न तु समवायसम्बन्धावच्छिन्नकार्यताघटितं तत्, अत्र कार्यतायां समवायसम्बन्धावच्छिन्नत्वप्रवेशे प्रयोजनाभावात् इति।।