मूलम् - गुरुत्वम् - 31
आद्यपतनासमवायिकारणं गुरुत्वम्। पृथिवीजलवृत्ति॥ ३०॥
Tags - 31
गुरुत्वम्, गुणः, समवायिकारणम्
दीपिका - गुरुत्वम्
आद्यपतनासमवायिकारणं गुरुत्वम्। पृथिवीजलवृत्ति।
दीपिका - गुरुत्वलक्षणम्
गुरुत्वं लक्षयति- आद्येति। द्वितीयादिपतनस्य वेगासमवायिकारणत्वाद्वेगेऽतिव्याप्तिवारणाय आद्येति।
गोवर्धन-न्यायबोधिनी - गुरुलक्षणम्
गुरुत्वं लक्षयति- आद्येति। द्वितीयपतनक्रियायां वेगस्यासमवायिकारणत्वात्तत्रातिव्याप्तिः स्यादित्यत आद्येति। उत्तरत्र स्यन्दने आद्यत्वविशेषणमप्येवं योजनीयम्।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - गुरुत्वम्
आद्यपतनासमवायिकारणं गुरुत्वम्। पृथिवीजलवृत्ति।
गुरुत्वं लक्षयति आद्येति। आद्यपतननिष्ठकार्यतानिरूपितासमवायिकारणताश्रयत्वं गुरुत्वस्य लक्षणम्। आद्यपतननिष्ठकार्यतानिरूपिता या असमवायिकारणता गुरुत्वनिष्ठाऽसमवायिकारणता, तदाश्रयत्वं गुरुत्वेऽस्तीति समन्वयः। आद्यपदाभावे द्वितीयादिपतनमादाय वेगेऽतिव्याप्तिः। असमवायित्वानुपादाने आद्यपतनसमवायिकारणत्वं तन्निमित्तकारणतां वा आदाय तत्समवायिकारणफलादौ तन्निमित्तकारणवाय्वादौ चातिव्याप्तिः।।