मूलम् - परत्वापरत्वे - 30
परापरव्यवहारासाधारणकारणे परत्वापरत्वे। पृथिव्यादिचतुष्टयमनोवृत्तिनी। ते द्विविधे दिक्कृते कालकृते च। दूरस्थे दिक्कृतं परत्वम्। समीपस्थे दिक्कृतमपरत्वम्। ज्येष्ठे कालकृतं परत्वम्। कनिष्ठे कालकृतमपरत्वम्॥ २९॥
Tags - 30
परत्वम्, अपरत्वम्, दिक्कृतम्, कालकृतम्
दीपिका - परत्वापरत्वे
परत्वापरत्वयोर्लक्षणमाह- परापरेति। परव्यवहारासाधारणकारणं परत्वम्। अपरव्यवहारासाधारणकारणमपरत्वमित्यर्थः। ते विभजते- ते द्विविधे इति। दिक्कृतयोरुदाहरणमाह- दूरस्थ इति। कालकृते उदाहरति- ज्येष्ठ इति।
वरदाचार्य आलोके - परत्वम्
परापरव्यवहारासाधारणकारणे परत्वापरत्वे। पृथिव्यादिचतुष्टयमनोवृत्तिनी। ते द्विविधे। दिकृते कालकृते चेति। दूरस्थे दिक्कृतं परत्वम्। समीपस्थे दिक्कृतमपरत्वम्। ज्येष्ठे कालकृतं परत्वम्। कनिष्ठे कालकृतमपरत्वम्।
आलोक- व्याख्या
परत्वापरत्वे निरूपयति - परापरेत्यादि। परं चापरं चेति परापरे। परापरयोर्व्यवहारः परापरव्यवहारः। न साधारणे असाधारणे। असाधारणे च ते कारणे असाधारणकारणे। परापरव्यवहारयोरसाधारणकारणे परापरव्यवहारासाधारणकारणे। परापरयोरित्यत्र परापरपदयोः परत्वमपरत्वं चार्थः। षष्ठ्या विषयत्वमर्थः। प्रकृत्यर्थस्याधेयतासम्बन्धेन षष्ठ्यर्थविषयतायामन्वयः। तथा च परत्वापरत्वनिष्ठविषयता। व्यवहारो नाम ज्ञानजनकशब्दप्रयोगः। षष्ठ्यर्थविषयताया व्यवहारपदार्थैकदेशे ज्ञाने निरूपकता(स्वनिरूपितविषयिताश्रयत्व)सम्बन्धेनान्वयः। तथा च परत्वापरत्वनिष्ठविषयतानिरूपक(निरूपितविषयिताश्रयत्व)ज्ञानजनकशब्दप्रयोग इति बोधः। ‘व्यवहारस्य’ इत्यत्र षष्ठ्याः कार्यत्वमर्थः। प्रकृत्यर्थस्य व्यवहारार्थस्य ज्ञानजनकशब्दप्रयोगस्य षष्ठ्यर्थकार्यतायामाधेयतासम्बन्धेनान्वयः। तथा च ज्ञानजनकशब्दप्रयोगनिष्ठकार्यता। असाधारणकारणे इत्यस्य असाधारणकारणतावती इत्यर्थः। षष्ठ्यर्थकार्यताया निरूपितत्वसम्बन्धेना- साधारणकारणपदार्थैकदेशेऽसाधारणकारणतायामन्वयः। कारणतावतोश्चाभेदसम्बन्धेन परत्वापरत्वयोरन्वयः। तथा च परत्वापरत्वनिष्ठविषयतानिरूपक(निरूपितविषयिताश्रयत्व) ज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावदभिन्ने परत्वापरत्वे इति बोधः। लक्षणं तु- परत्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठ- कार्यतानिरूपितासाधारणकारणत्वं परत्वम् इति। लक्षणस्यास्य ‘अयम् अस्मात् परः’ इत्यत्र समन्वयः। परत्वनिष्ठविषयता का ? इति चेत् ‘अयम् अस्मात् परः’ इत्याकारकपरत्वनिष्ठविषयता। व्यवहारे व्यवहर्तव्यस्य विषयत्वात्, ‘अयम् अस्मात् पर इत्याकारकव्यवहारे परत्वं विषयः, परत्वं विना तादृशव्यवहारानुपपत्तेः। अतस्तादृशपरत्वनिष्ठविषयतानिरूपकं ज्ञानम् ‘अयम् अस्मात् पर इत्याकारकम्। तादृशज्ञानजनकशब्दप्रयोगनिष्ठकार्यता केति चेत् ? ‘अयम् अस्मात् पर इत्याकारकव्यवहारनिष्ठा कार्यता। तन्निरूपितासाधारणकारणत्वं व्यवहारे व्यवहर्तव्यस्य कारणत्वात् परत्वे वर्तत इति लक्षणसमन्वयः।
अत्र परत्वापरत्वयोर्लक्षणे कारणत्वेऽसाधारणपदस्य प्रथममेव निवेशनात् कालादावतिव्याप्तिरूपदोषो नास्ति। कालादीनां कार्यसामान्यं प्रति साधारणकारणत्वात्, असाधारणकारणत्वाभावात्। नन्वेवं सत्यप्यस्य लक्षणस्य यत्रास्माकमपरिचितवस्तुनि परत्वव्यवहार एव नोत्पन्नस्तादृशस्थले परत्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणत्वस्याभावात् अव्याप्तिरिति चेत्, न। जातिघटितलक्षणपरिष्कारात्। तथा च लक्षणम्- परत्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिजातिमत्त्वम् इति। एवञ्च नाव्याप्तिः। तथाहि - यत्रास्माकम् ‘अयम् अस्मात् पर इति व्यवहार उपलभ्यते, तादृशपरत्वं स्वीकार्यम्। तद्वृत्तिर्या जातिरिति चेत् ? परत्वत्वजातिः। तादृशजातिमत्त्वमपरिचितस्थलीयपरत्वेऽपि वर्तत इति नाव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य रूपादावतिव्याप्तिः। परत्वनिष्ठविषयतानिरूपकव्यवहारनिष्ठकार्यतानिरूपितासाधारणकारणतावत् परत्वम्। तद्वृत्तिर्या जातिरिति चेत् ? यथा परत्वत्वजातिः, तद्वत् गुणत्वजातिरपि भवति। तादृशजातिमत्त्वं तु रूपादावपि वर्तत इति अतिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम् परत्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम् इति। एवञ्च नातिव्याप्तिः। तथाहि परत्वनिष्ठविषयतानिरूपकव्यवहारनिष्ठकार्यतानिरूपितासाधारणकारणतावत् परत्वम्। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवति। स्वस्य स्वव्याप्यत्वाभावात्। अतो ‘गुणत्वव्याप्या जातिश्चेत् ? परत्वत्वजातिरेव। तादृशजातिमत्त्वं तु रूपादौ नास्तीति नातिव्याप्तिः। अत्रापि प्रयोजनाभावात् गुणत्वसाक्षाद्व्याप्यत्वं न निवेशनीयम्।
एवम् अपरत्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठ- कार्यतानिरूपितासाधारणकारणत्वम् इति अपरत्वस्य लक्षणम्। लक्षणस्यास्य ‘अयम् अस्मादपरः’ इत्यत्र समन्वयः। अपरत्वनिष्ठविषयता का ? इति चेत् ‘अयम् अस्मादपरः’ इत्याकारकापरत्वनिष्ठविषयता। व्यवहारे व्यवहर्तव्यस्य विषयत्वात् ‘अयम् अस्मात् अपर इत्याकारकव्यवहारे अपरत्वं विषयः। अपरत्वं विना तादृशव्यवहारानुपपत्तेः। अतस्तादृशापरत्वनिष्ठविषयतानिरूपकं ज्ञानम् ‘अयम् अस्मात् अपर इत्याकारकम्। तादृशज्ञानजनकशब्दप्रयोगनिष्ठकार्यता केति चेत् ? अयम् अस्मात् अपरः’ इत्याकारकव्यवहारनिष्ठा कार्यता। तन्निरूपितासाधारणकारणत्वं व्यवहारे व्यवहर्तव्यस्य कारणत्वात् अपरत्वे वर्तत इति लक्षणसमन्वयः।
अत्र परत्वापरत्वयोर्लक्षणे कारणत्वे साधारणपदस्य प्रथममेव निवेशनात् कालादावतिव्याप्तिरूपदोषो नास्ति। कालादीनां कार्यसामान्यं प्रति साधारणकारणत्वात्, असाधारणकारणत्वाभावात्।
नन्वेवं सति यत्रास्माकमपरिचितवस्तुनि अपरत्वव्यवहार एव नोत्पन्नस्तादृशस्थले अपरत्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठका- र्यतानिरूपितकारणत्वस्याभावात् अव्याप्तिरिति चेत्, न। अत्रापि जातिघटितलक्षणपरिष्कारात्। तथा च लक्षणम् अपरत्वनिष्ठ- विषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिजातिमत्त्वम् इति। एवञ्च नाव्याप्तिः। तथाहि - यत्रास्माकम् ‘अयमस्मात् अपरः’ इति व्यवहार उपलभ्यते, तादृशापरत्वं स्वीकार्यम्। तद्वृत्तिर्या जातिरिति चेत् ? अपरत्वत्वजातिः। तादृशजातिमत्त्वमपरिचितस्थलीयापरत्वेऽपि वर्तत इति नाव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य रूपादावतिव्याप्तिः। अपरत्वनिष्ठ- विषयतानिरूपकव्यवहारनिष्ठकार्यतानिरूपितासाधारणकारणतावत् अपरत्वम्। तद्वृत्तिर्या जातिरिति चेत् ? यथा अपरत्वत्वजातिः, तद्वत् गुणत्वजातिरपि भवति। तादृशजातिमत्त्वं तु रूपादावपि वर्तत इति अतिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम् अपरत्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपिता- साधारणकारणतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम् इति। एवञ्च नातिव्याप्तिः। तथाहि - अपरत्वनिष्ठविषयतानिरूपकव्यवहारनिष्ठकार्यतानिरूपितासाधारणकारणतावत् अपरत्वम्। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवति। स्वस्य स्वव्याप्यत्वाभावात्। अतो गुणत्वव्याप्या जातिश्चेत् ? अपरत्वत्वजातिरेव। तादृशजातिमत्त्वं तु रूपादौ नास्तीति नातिव्याप्तिः। अत्रापि प्रयोजनाभावात् गुणत्वसाक्षाद्व्याप्यत्वं न निवेशनीयम्। परत्वापरत्वयोर्नियमेन परस्परसापेक्षत्वादुभयोस्सहैव लक्षणमुक्तं मूलकारेण, अस्माभिस्तु छात्राणां व्युत्पत्त्यर्थं प्रत्येकं पृथक्कृत्योक्तम्।।
यद्यपि परत्वापरत्व आपेक्षिके, तावता न बुद्धिविशेषविषयत्वरूपे ते। तथा सति सुखदुःखादीनामपि परस्परसापेक्षत्वादसिद्धिप्रसङ्गात्।
तर्कसंग्रहः
आद्यपतनासमवायिकारणं गुरुत्वम्। पृथिवीजलवृत्ति।
आलोक- व्याख्या
गुरुत्वं निरूपयति - आद्येत्यादि। आद्यं च तत्पतनं चाद्यपतनम्। न समवायिकारणम् असमवायिकारणम्। आद्यपतनस्यासमवायिकारणम् आद्यपतनासमवायिकारणम्। आद्यत्वं नाम प्रथमत्वम्। पतनं नाम पतनरूपा क्रिया। प्रकृत्यर्थस्याद्यत्वस्य पतनरूपक्रियायामभेदसम्बन्धेनान्वयः। तथा च आद्याभिन्नपतनक्रिया। ‘आद्यपतनस्य’ इत्यत्र षष्ठ्याः कार्यत्वमर्थः। प्रकृत्यर्थस्याद्यपतनरूपक्रियाया आधेयतासम्बन्धेन षष्ठ्यर्थकार्यतायामन्वयः। तथा च- आद्याभिन्नपतनक्रियानिष्ठकार्यता। असमवायिकारणं नाम असमवायिकारणतावत्। षष्ठ्यर्थकार्यताया असमवायिकारणपदार्थैकदेशे कारणतायां निरूपितत्वसम्बन्धेनान्वयः। तथा चाखण्डबोधः - आद्याभिन्न- पतनक्रियानिष्ठकार्यतानिरूपितासमवायिकारणतावदभिन्नं गुरुत्वम् इति। लक्षणम् तु - आद्याभिन्नपतनरूपक्रियानिष्ठकार्यतानिरूपितासमवायिकारणत्वम् इति। आद्यपतननिष्ठकार्यता केति चेत् ? ’ इदं फलं पतति’ इत्याकारकपतनक्रियानिष्ठकार्यता। तादृशकार्यतानिरूपितासमवायिकारणत्वं गुरुत्वे वर्तत इति लक्षणसमन्वयः। ‘पतनासमवायिकारणत्व’मात्रोक्तौ वेगेऽतिव्याप्तिः, द्वितीयादिपतने वेगस्याप्य- समवायिकारणत्वात्। अतः ‘आद्ये’ति विशेषणम्। यद्यपि पतनरूपक्रियां प्रति वेगोऽप्यसमवायिकारणम्, अथाऽपि आद्यपतनरूपक्रियायां वेगस्या- भावेनासमवायिकारणत्वाभावात्, द्वितीयादिपतनरूपक्रियां प्रत्येवासमवायिकारणत्वम्। अत आद्यपतनं प्रति तु गुरुत्वमेवासमवायिकारणम् इति वेगे नातिव्याप्तिः।
अत्र ‘असमवायि’ पदाभावे कालादावतिव्याप्तिः। आद्यपतन- निष्ठकार्यतानिरूपितकारणत्वं कालादावपि कार्यसामान्यकारणत्वात् वर्तत इत्यतिव्याप्तिस्स्यात्। असमवायिपदनिवेशे तु कालस्य कार्यसामान्यं प्रति निमित्तकारणत्वेनासमवायिकारणत्वाभावान्नातिव्याप्तिः। नन्वेवं सत्यपि यादृशेन गुरुत्वेन पतनरूपं कार्यं न जातम्, तत्राद्यपतननिष्ठकार्यतानिरूपिता- समवायिकारणत्वस्याभावादव्याप्तिरिति चेत्, न। आद्यपतननिष्ठकार्यता- निरूपितासमवायिकारणतावद्वृत्तिजातिमत्त्वस्य लक्षणत्वात्। आद्यपतन- निष्ठकार्यतानिरूपितासमवायिकारणतावत्, येन गुरुत्वेन पतनं जातम्, तादृशं गुरुत्वम्। तद्वृत्तिर्जातिः गुरुत्वत्वरूपा जातिः। तादृशजातिमत्त्वं, यस्मात् पतनरूपं कार्यं न जातम्, तत्रापि वर्तत इति नाव्याप्तिः।
अथैवमपि रूपादावतिव्याप्तिः। आद्यपतननिष्ठकार्यतानिरूपितासम- वायिकारणतावत् गुरुत्वम्। तद्वृत्तिर्जातिः- गुणत्वजातिरपि भवति। तद्वत्त्वं रूपेऽपि वर्तत इति रूपेऽतिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्यापि विशेषणात्। तथा च आद्यपतननिष्ठकार्यतानिरूपितासमवायिकारणतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम् इति लक्षणम्। एवञ्चाद्यपतननिष्ठकार्यतानिरूपितासमवायिकारणतावत् गुरुत्वम्। तद्वृत्तिर्गुणत्वव्याप्या जातिः- गुणत्वं न भवति, स्वस्य स्वव्याप्यत्वाभावात्। किन्तु गुरुत्वत्वजातिरेव। तद्वत्त्वं गुरुत्व एव वर्तते, न तु रूपादाविति नातिव्याप्तिः। अत्रापि प्रयोजनाभावात् ‘साक्षात्’ ‘इति विशेषणं न देयम्।
यद्यपि भूमेराकर्षणशक्तिरेव गुरुत्वमिति नव्यविज्ञानिनः, तथापि कार्यस्य सर्वत्र परस्परसापेक्षत्वावश्यम्भावात्, सर्वानपि पदार्थान् भूमिर्नाकर्षितुमलमिति व्यवस्थादर्शनात् आकर्षकयोग्यतावत् आकृष्ययोग्यताऽप्यावश्यकीति सैव गुरुत्वमुच्यत इति भाव्यम्।
तर्कसंग्रहः
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - परत्वम्
परापरव्यवहारासाधारणकारणे परत्वापरत्वे। पृथिव्यादिचतुष्टयमनोवृत्तिनी। ते द्विविधे, दिक्कृते कालकृते चेति। दूरस्थे दिक्कृतं परत्वम्। समीपस्थे दिक्कृतमपरत्वम्। ज्येष्ठे कालकृतं परत्वम्। कनिष्ठे कालकृतमपरत्वम्।
परत्वापरत्वयोर्लक्षणमाह परापरेति। परव्यवहारनिष्ठकार्यतानिरूपितकारणताश्रयत्वं परत्वस्य लक्षणम्। परव्यवहारनिष्ठा या कार्यता अयमस्मात्परः इति व्यवहारनिष्ठा कार्यता, तन्निरूपितकारणताश्रयत्वं परत्वे वर्तत इति समन्वयः। अपरव्यवहारनिष्ठकार्यतानिरूपितकारणताश्रयत्वम् अपरत्वस्य लक्षणम्, अपरव्यवहारनिष्ठा या कार्यता अयमस्मादपरः इति व्यवहारनिष्ठा कार्यता, तन्निरूपितकारणताश्रयत्वमपरत्वे वर्तत इति लक्षणसमन्वयः। अन्यत्सर्वं पूर्ववत् बोध्यम्।