29 विभागः

मूलम् - विभागः - 29

संयोगनाशको गुणो विभागः। सर्वद्रव्यवृत्तिः॥ २८॥

Tags - 29

विभागः, गुणः, संयोगनाशकः

दीपिका - विभागः

विभागं लक्षयति- संयोगेति। कालादावतिव्याप्तिवारणाय गुण इति। रूपादावतिव्याप्तिवारणाय संयोगनाशक इति। विभागोऽपि द्विविधः। कर्मजो विभागजश्चेति। आद्यो हस्तक्रियया हस्तपुस्तकविभागः। द्वितीयो हस्तपुस्तकविभागात् कायपुस्तकविभागः।

गोवर्धन-न्यायबोधिनी - विभागलक्षणम्

विभागं लक्षयति- संयोगनाशक इति। संयोगनाशकत्वविशिष्टगुणत्वं विभागस्य लक्षणम्। विशेषणमात्रोपादाने क्रियायामतिव्याप्तिः, तस्या अपि संयोगनाशकत्वात्। अतस्तद्वारणाय विशेष्यम्।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - विभागः

संयोगनाशको गुणो विभागः, सर्वद्रव्यवृत्तिः।।
विभागं लक्षयति संयोगेति।। संयोगस्य नाशकः संयोगनाशकः, षष्ठ्याः प्रतियोगितानिरूपकत्वम्, नश् धातोः ध्वंसोऽर्थः, ण्वुल्प्रत्ययस्य जनकत्वमर्थः, तथाच संयोगप्रतियोगिकनाशजनकत्वे सति गुणत्वं विभागस्य लक्षणम्, आदौ क्रिया, क्रियातो विभागः, विभागात्पूर्वसंयोगनाशः, पूर्वसंयोगनाशादुत्तरसंयोगोत्पत्तिरिति क्रममनुसृत्य संयोगनाशजनकत्वं गुणत्वञ्च विभागेऽस्तीति समन्वयः। गुणत्वमात्रोक्तौ रूपादावतिव्याप्तिः। गुणत्वानुपादाने क्रियाया अपि परम्परया संयोगनाशजनकत्वात् तत्रातिव्याप्तिः, अतः उभयोपादानम्।

टिप्पणी
विभागलक्षणे। ननु संयोगनाशजनकत्वे सति गुणत्वस्य विभागलक्षणत्वाङ्गीकारेऽपि ध्वंसं प्रति प्रतियोगिनः कारणत्वेन संयोगनाशजनकत्वस्य गुणत्वस्य च संयोगे सत्त्वात् अतिव्याप्तिरिति वाच्यम्, संयोगनाशनिष्ठजन्यतायां प्रतियोगितासम्बन्धानवच्छिन्नत्वस्य जनकतायां समवायसम्बन्धावच्छिन्नत्वस्य वा निवेशनीयत्वात्, तन्निवेशे प्रतियोगितासम्बन्धेन जायमानसंयोगनाशं प्रति तादात्म्यसम्बन्धेन संयोगस्य कारणत्वेन अत्र कार्यतायाः प्रतियोगितासम्बन्धावच्छिन्नत्वेन कारणतायाः तादात्म्यसम्बन्धावच्छिन्नत्वेन च प्रकारद्वयेऽपि दोषाभावात्। स्वरूपसम्बन्धेन जायमानसंयोगनाशं प्रति समवायसम्बन्धेन विभागस्य कारणत्वेन उभयत्रापि लक्षणसमन्वयः।