मूलम् - संयोगः - 28
संयुक्तव्यवहारहेतुः संयोगः। सर्वद्रव्यवृत्तिः॥ २७॥
Tags - 28
संयोगः, गुणः, सर्वद्रव्यवृत्तिः
दीपिका - संयोगः
संयोगं लक्षयति- संयुक्तेति। इमौ संयुक्ताविति व्यवहारहेतुरित्यर्थः। संख्यादिलक्षणे सर्वत्र दिक्कालादावतिव्याप्तिवारणायासाधारणेति विशेषणीयम्। संयोगो द्विविधः कर्मजः संयोगजश्चेति। आद्यो हस्तक्रियया हस्तपुस्तकसंयोगः। द्वितीयो हस्तपुस्तकसंयोगात्कायपुस्तकसंयोगः। अव्याप्यवृत्तिस्संयोगः। स्वात्यन्ताभावसमानाधिकरणत्वमव्याप्यवृत्तित्वम्।
वरदाचार्य आलोके - संयोगः
तर्कसंग्रहः
संयुक्तव्यवहारहेतुः संयोगः। सर्वद्रव्यवृत्तिः।
आलोक- व्याख्या
संयोगं निरूपयति - संयुक्तेति। संयुक्तस्य व्यवहारः संयुक्तव्यवहारः। संयुक्तव्यवहारस्य हेतुः संयुक्तव्यवहारहेतुः। संयुक्तपदस्य भावप्रधानत्वात् संयोगोऽर्थः। षष्ठ्या विषयत्वमर्थः। प्रकृत्यर्थस्य संयोगस्य षष्ठ्यर्थविषयतायामाधेयतासम्बन्धेनान्वयः। तथा च संयोगनिष्ठा विषयता। व्यवहारो नाम ज्ञानजनकशब्दप्रयोगः। षष्ठ्यर्थविषयताया ज्ञानजनकशब्दप्रयोगैकदेशे ज्ञाने निरूपकत्वसंबन्धेनान्वयः। तथा च संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगः। ‘व्यवहारस्य’ इत्यत्र षष्ठ्याः कार्यत्वमर्थः। प्रकृत्यर्थस्याधेयतासम्बन्धेन षष्ठ्यर्थकार्यतायामन्वयः। तथा च व्यवहार(ज्ञानजनकशब्दप्रयोग)निष्ठकार्यता। हेतुरित्यस्य कारणतावान् अर्थः। षष्ठ्यर्थकार्यताया हेत्वर्थैकदेशे कारणतायां निरूपितत्वसम्बन्धेनान्वयः। कारणतावतश्चाभेदसम्बन्धेन विशेष्ये संयोगेऽन्वयः। तथा च संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणतावदभिन्नः संयोग इति बोधः। लक्षणं तु संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणत्वम्। संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगः कः ? इति चेत् ‘इमौ संयुक्तौ’ इत्याकारकज्ञानजनकशब्दप्रयोगः। तादृशशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणत्वं संयोगे वर्तत इति लक्षणसमन्वयः।
नन्वेवं सत्यप्यस्य लक्षणस्य कालादावतिव्याप्तिर्दुष्परिहरा। तथाहि- कालेश्वरादृष्टादीनां कार्यसामान्यं प्रति कारणत्वात्, संयोगनिष्ठविषयता- निरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणत्वं कालादावपि वर्तत इत्यतिव्याप्तिरिति चेत्, न। कारणतायामसाधारणदलनिवेशनात्। तथा च लक्षणम् - संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणत्वम्। तथा च नातिव्याप्तिः। तथाहि कारणत्वं द्विविधं वर्तते। एकं साधारणकारणत्वम्, अन्यत् असाधारणकारणत्वम् इति। संयोगनिष्ठविषयतानिरूपकज्ञानजनक- शब्दप्रयोगनिष्ठकार्यतानिरूपितकारणत्वं यद्यपि कालेश्वरादृष्टादीनां वर्तते, किन्तु सा कारणता साधारणकारणता। न त्वसाधारणकारणता। ‘इमौ घटौ संयुक्तौ’ इत्याकारकसंयुक्तव्यवहारं प्रति तु विषयविधयाऽसाधारणकारणत्वं संयोगस्यैव वर्तते। संयोगमन्तरा ‘इमौ द्वौ संयुक्तौ’ इत्याकारकव्यवहार एव नोत्पद्यते। अतो विषयविधया तत्र संयोगस्यैव कारणत्वात्, कालेश्वरादीनां तथाविधकारणत्वाभावात् तत्र नातिव्याप्तिः।
ननु यत्रात्यन्तापरिचितवस्तुनिष्ठसंयोगस्य व्यवहार एव कस्यापि नोत्पन्नः, तादृशस्थले संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोग- निष्ठकार्यतानिरूपितासाधारणकारणत्वं नास्तीति अस्य लक्षणस्याव्याप्तिरिति चेत्, न। लक्षणस्यास्य जातिघटितत्वेन परिष्कारात्। तथा च लक्षणम्- संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिजातिमत्त्वम्। एवञ्च नाव्याप्तिः। तथाहि संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्द-प्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावान् इत्यनेन, अस्माकं यत्रात्यन्तपरिचितसंयोगस्थले ‘इमौ घटौ संयुक्तौ’ इत्याकारको यो व्यवहार उत्पद्यते, तादृशस्थलीयसंयोगः स्वीकर्तव्यः। तद्वृत्तिर्या जातिरिति चेत् ? संयोगत्वजातिः। तादृशजातिमत्त्वं त्वत्यन्तापरिचितसंयोगेऽपि वर्तत इति लक्षणसमन्वयान्नाव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य रूपादावतिव्याप्तिर्दुष्परिहरा। तथाहि संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावान् संयोगः, तद्वृत्तिर्या जातिरिति चेत् ? यथा संयोगत्वजातिस्तथा गुणत्वजातिरपि भवति। तादृशजातिमत्त्वं रूपादावपि वर्तत इत्यतिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम् – संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठ-कार्यतानिरूपितासाधारणकारणतावद्वृत्तिगुणत्त्वव्याप्यजातिमत्त्वम्। एवञ्च नातिव्याप्तिः। तथाहि संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावान् संयोगः। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवितुमर्हति। स्वस्य स्वव्याप्यत्वाभावात्। अतस्तादृशगुणत्वव्याप्या जातिः संयोगत्वजातिरेव भवति। तादृशजाते रूपादावभावात् नातिव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य ‘नोदनाख्य’ संयोगेऽव्याप्तिर्दुष्परिहरा। तथाहि संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावान् अभिघाताख्यसंयोगः, तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? यथा संयोगत्वजातिः, तथा अभिघातत्वजातिरपि वर्तते। तादृशजातिमत्त्वं नोदनाख्यसंयोगे नास्तीत्यव्याप्तिरिति चेत्, न। गुणत्वव्याप्ये साक्षात्पदस्य निवेशनात्। तथा च लक्षणम् - संयोगनिष्ठविषयता- निरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वम्। एवञ्च नाव्याप्तिः। तथाहि - संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावान् संयोगः, तद्वृत्तिर्या गुणत्वसाक्षाद्व्याप्या जातिरिति चेत् ? अभिघातत्वजातिर्न स्वीकर्तुं शक्यते। तस्या गुणत्वसाक्षाद्व्याप्यत्वाभावात्। सा जातिर्गुणत्वव्याप्यव्याप्या। स्वम् – गुणत्वम्, तद्व्याप्या संयोगत्वजातिः, तद्व्याप्यत्वमभिघातत्वरूपजातौ वर्तत इत्यतः साक्षाद्व्याप्या संयोगत्वरूपा जातिः। तादृशजातिमत्त्वं नोदनाख्यसंयोगेऽपि वर्तत इति नाव्याप्तिः।
संयोगः अभिघातः, नोदनम् इति द्विविधः। शब्दहेतुः संयोगः अभिघातः। शब्दाहेतुस्संयोगः नोदनम्। संयोगस्सर्वोऽप्यनित्य एव। संयोगस्य क्रियाजन्यत्वात् विभुषु क्रियाया असंभवात्, संयोगोऽपि न भवति। ननु विभूनां सर्वगतत्वात् आकाशकालदिगात्मनामेकदेशावच्छेदेनावस्थानस्यावर्जनीयत्वात्, अवयवावयविभावरहितद्रव्ययोस्संयोगस्यैव संभवात्, विभुद्वयसंयोगो दुर्वार इति चेन्न। संयोगस्य क्रियाजन्यत्वात् विभुद्वयस्य क्रियाया अभावेन संयोगासंभवात्। अन्ततः स्वरूपमेव तत्र संबन्धः। अत्र वक्तव्यमधिकं विभागनिरूपणान्ते द्रष्टव्यम्।
तर्कसंग्रहः
संयोगनाशको गुणो विभागः। सर्वद्रव्यवृत्तिः।
आलोक- व्याख्या
विभागं निरूपयति - संयोगेत्यादि। संयोगस्य नाशकः संयोगनाशकः। नाशयतीति नाशकः। ‘संयोगस्य’ इत्यत्र संयोगपदस्य संयोगोऽर्थः। षष्ठ्याः प्रतियोगित्वमर्थः। प्रकृत्यर्थस्य संयोगस्याधेयतासम्बन्धेन षष्ठ्यर्थप्रतियोगितायामन्वयः। तथा च संयोगनिष्ठप्रतियोगिता। नाशक इत्यस्य नाशहेतुः- ध्वंसनिष्ठकार्यतानिरूपितकारणतावान् अर्थः। षष्ठ्यर्थ प्रतियोगिताया नाशक इत्यत्र एकदेशे नाशे(ध्वंसे) निरूपकतासम्बन्धेनान्वयः। तथा च संयोगनिष्ठप्रतियोगितानिरूपकध्वंसनिष्ठकार्यतानिरूपितकारणतावान् इति बोधः। कारणतावतोऽभेदसम्बन्धेन विभागेऽन्वयः। तथा च संयोगनिष्ठप्रतियोगिता-निरूपकध्वंसनिष्ठकार्यतानिरूपितकारणतावदभिन्नो गुणाभिन्नो विभाग इति अखण्डबोधः। लक्षणं तु - संयोगनिष्ठप्रतियोगितानिरूपकध्वंसनिष्ठकार्यतानिरूपितकारणत्वे सति गुणत्वम्।
यत्र कुत्रचित् चलनात्मिका क्रिया यदा जायते, तदा क्रमेण क्रिया, विभागः, पूर्वसंयोगनाशः, उत्तरसंयोगोत्पत्तिश्चेति कार्याणि नियमेन भवन्ति। ततः पञ्चमक्षणे क्रियानाशः। यौ द्वौ घटौ संयुक्तौ तत्र तयोर्मध्येऽन्यतरस्मिन् चलनरूपक्रियायां जातायां, तया क्रियया प्रथमं घटद्वयविभागो भवति। ततः प्राक्तनघटद्वयसंयोगनाशो भवति। ततो विभक्तस्य घटस्याऽऽकाशदेशान्तरेण संयोगो जायते। तत्र प्राक्तनघटद्वयसंयोगनाशं प्रति तत्पूर्वं जातो विभाग एव कारणम्। अतो विभागः संयोगनाशं प्रति कारणमित्युच्यते। एवं च ‘इमौ द्वौ घटौ विभक्तौ’ इत्यत्र विभागे लक्षणसमन्वयः। संयोगनिष्ठप्रतियोगितानिरूपकध्वंसनिष्ठकार्यता का ? इति चेत् ‘इमौ द्वौ विभक्तौ’ इत्याकारकप्रतीतिसिद्धा द्वयोः संयोगध्वंसनिष्ठा कार्यता। तादृशसंयोगध्वंसनिष्ठकार्यतानिरूपितकारणत्वं विभागे वर्तते, तत्र गुणत्वञ्च वर्तत इति लक्षणसमन्वयः। ‘गुणत्व’ मात्रोक्तौ रूपादावतिव्याप्तिः। अतः ‘संयोगनाशक’ इति दलम्। ‘संयोगनाशकत्व’ मात्रोक्तौ कालादावतिव्याप्तिः। अतो गुणपदम्। अथैवमपि कार्यसामान्यकारणेऽदृष्टेऽतिव्याप्तिः, धर्माधर्मरूपादृष्टस्य गुणत्वादिति चेत्, न गुणपदस्य सामान्यगुणपरत्वात्। अदृष्टस्य च विशेषगुणत्वात्।
नन्वेवं सत्यप्यस्य लक्षणस्य ‘हिमवद्विन्ध्यौ विभक्तौ’ इत्याकारक- व्यवहारविषये विभागेऽव्याप्तिर्दुष्परिहरा। तत्र संयोगनिष्ठप्रतियोगितानिरूपकध्वंसनिष्ठकार्यतानिरूपितकारणत्वस्याभावात् लक्षणस्याव्याप्तिरिति चेत्, न। तत्र विभागव्यवहारस्यैवाप्रामाणिकत्वात्। यद्याग्रहः, तर्हि लक्षणस्य जातिघटितपरिष्कारात्। तथा च लक्षणम् संयोगनिष्ठप्रतियोगिता- निरूपकध्वंसनिष्ठकार्यतानिरूपितकारणतावद्वृत्तिजातिमत्त्वम् इति। तथा च नाव्याप्तिः। तथाहि यत्रास्माकं विभागव्यवहार उपलभ्यते, तादृशपरिचितस्थलं स्वीकर्तव्यम्। तत्र संयोगनिष्ठप्रतियोगितानिरूपकध्वंसनिष्ठकार्यतानिरूपितकारणतावान् विभागः। तद्वृत्तिर्या जातिरिति चेत् ? विभागत्वजातिः। तादृशजातिमत्त्वमुक्तस्थलेऽपि वर्तत इति लक्षण- समन्वयान्नाव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य रूपादावतिव्याप्तिर्दुष्परिहरा। तथाहि संयोगनिष्ठप्रतियोगितानिरूपकध्वंसनिष्ठकार्यतानिरूपितकारणतावान् विभागः। तद्वृत्तिर्या जातिरिति चेत् ? यथा विभागत्वजातिः, तथा गुणत्वजातिरपि भवति। तादृशजातिमत्त्वं रूपादावपि वर्तत इत्यतिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम् संयोगनिष्ठप्रतियोगितानिरूपकध्वंसनिष्ठकार्यतानिरूपितकारणतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम् इति। एवञ्च नातिव्याप्तिः। तथाहि - संयोगनिष्ठप्रतियोगितानिरूपकध्वंसनिष्ठकार्यतानिरूपितकारणतावान् विभागः। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवति। किन्तु विभागत्वजातिरेव भवति। तादृशजातिमत्त्वं विभाग एव वर्तते, न तु रूपादाविति नातिव्याप्तिः। अत्र लक्षणे प्रयोजनाभावात् गुणत्वसाक्षाद्व्याप्यत्वनिवेशनावश्यकता नास्ति अथवा संयोगनिष्ठ-प्रतियोगितानिरूपकध्वंसनिष्ठकार्यतानिरूपितकारणतायामसाधारणपदविशेषणेऽदृष्टस्य साधारणकारणत्वान्नातिव्याप्तिः। तर्हि गुणपदं किमर्थमिति चेत् ? तत् स्वरूपकीर्तनम्, न लक्षणे निवेश्यम्।
संयोगविभागौ परस्परसापेक्षौ। अत एवान्यतरेणान्यतरस्य चारितार्थ्यं न संभवति। प्रत्येकं घटपटौ यदा पश्यति, तदा ‘इमौ संयुक्तौ’ इति बुद्धिर्न भवति, उभयोर्मेलने तु भवति। पूर्वबुद्ध्यपेक्षयोत्तरबुद्धौ अधिको विषयः कः ? घटपटौ तूभयत्र समानौ। अत उत्तरज्ञाने विषयाधिक्यमावश्यकम्। स एव संयोग उच्यते। अन्तरालाभावमात्रं न संयोगः अभावमात्रेण बुद्धेर्विषयाधिक्यनिर्वाहासंभवात्। बुद्धिः किल सविषया नियमेन, निर्विषयाया बुद्धेः कुत्राप्यदर्शनात्। अभावालम्बना तु बुद्धिर्न विलक्षणव्यवहारनिर्वाहक्षमा, सुषुप्तावपि व्यवहारविजृम्भणप्रसङ्गात्। ननु कं भीषयसि ? निरन्तरालौ घटौ पश्यन् ‘इमौ संयुक्तौ’ इति व्यवहरति। तत्र स्त एव घटपटा विषयौ। ततश्च सविषयैव बुद्धिः, न निर्विषया। अत एव न सुषुप्त्यविशेषप्रसङ्गः इति चेत्, न, पुनरपि बालिशतामेव प्रकटयसि त्वम्। संयोगाभाव एव विभागः कुतो न स्यात् ? अस्तु तथैव अन्यतर एवालमिति चेत्, उक्तमेवात्रोत्तरमपि विनिगमकाभावान्नान्यतरचारितार्थ्यमिति।
किं बहुना ! औषधयोगादौ हि प्रत्येकमदृष्टा अतिशया विचित्रकार्यकरा दृष्टाः। हरिद्राचूर्णसंयोगाद्रक्तरूपोत्पत्तिर्दृश्यते। किण्वादिभ्यो मादकशक्तिस्तु प्रसिद्धैव। जगदेवेदं प्रकृतिपुरुषसंयोगमूलकमामनन्ति। इदं सर्वं केवलमभावमूलकमिति को वा स्वाधीनमतिर्वदेत् ? तर्ह्यस्तु संयोगोऽतिरिक्तः, मास्तु विभागोऽतिरिक्त इति चेत्, उपक्रान्तं संगीतकं पुनरपि। संश्लेषवत् विश्लेषोऽपि बहुविधकार्यकारी दृश्यते। किं बहुना प्रकृतिपुरुषसंयोगात् सृष्टिः, विश्लेषाच्चापवर्ग इति तत्त्वविदः। अतो विश्लेषरूपो विभागोऽप्यतिरिक्त आवश्यक एव। ननु प्रकृतिपुरुषयोरुभयोरपि विभुत्वात् कथं विश्लेषसंभवः ? हन्त ! शास्त्रान्तरकथेयम्। ‘मन एव मनुष्याणां कारणं वन्धमोक्षयोः’ इति न श्रुतम् ? प्रकृतिपुरुषसंयोगविभागौ तन्मूलकावित्याद्यन्यत्र विस्तरः। परस्पराभावरूपयोर्विनिगमकाभावे नान्यतरेणान्यतरस्य चारितार्थ्यमिति संयोगविभागावावश्यकौ।
टिप्पणी
संयोगः त्रिविध:- १. अन्यतरकर्मजः २. उभयकर्मजः ३. संयोगजश्चेति। १. आद्यस्तावत् यदा कश्चन पक्षी वृक्षादिषु तिष्ठति तदा पक्षिमात्रस्य क्रियया वृक्षपक्षिणोः संयोगो जायते। संयुक्तयोरुभयोर्मध्येऽन्यतरस्यैव क्रियया जायमानत्वात् अन्यतरकर्मजोऽयं संयोगः।
२. द्वितीयस्तु यदा मल्लयोः मेषयोर्वा युद्धं भवति तदा युगपदेव मल्लद्वये मेषद्वये वा विद्यमानाभ्यां क्रियाभ्यां संयोगो जायते। अतोऽयं संयोगः उभयकर्मज इत्युच्यते।
३. तृतीयस्तु यदा अस्माकं शरीरावयवस्य हस्तादेः पुस्तकादिभिः सह संयोगो जायते, ततः पुनः अवयविनोऽखण्डस्य शरीरस्यापि पुस्तकादिभिः सह संयोगो जायते। अयं तु शरीराद्यवयविसंयोगः, हस्ताद्यवयवसंयोगात् भिन्न एव। कुतः ? इति चेत्, सिद्धान्ते अवयवावयविनोर्भेदस्वीकारात्। अत्र यः द्वितीयः शरीराद्यवयविपुस्तकसंयोगः, स प्राक्तनहस्ताद्यवयवपुस्तकसंयोगाज्जायते, न तु क्रियया। शरीरादौ अवयविनि क्रियाभावेऽपि शरीरपुस्तकसंयोगस्य दृष्टत्वात्। अतोऽयं संयोगः संयोगजसंयोग इत्युच्यते॥
एवमेव विभागोऽपि त्रिविध:- १. अन्यतरकर्मजः २. उभयकर्मजः ३. विभागजञ्श्चेति।
१. अत्रापि वृक्षपक्षिणोः संयोगानन्तरं पक्षिमात्रस्य क्रियया जायमानो विभागः अन्यतरकर्मजः विभाग इत्युच्यते।
२. यदा मल्लयोः मेषयोर्वा युगपद् संयोगानन्तरं युगपदेव विभागो जायते, तदा द्वयोः विद्यमानक्रियाभ्यां विभागस्य जातत्वात् उभयकर्मज इत्युच्यते।
३. तृतीयः विभागजः विभागस्तु द्विविधः। (क) कारणाकारणविभागजन्यः विभाग एकः। (ख) कारणमात्रविभागजन्यः विभागञ्चापरः। अनयोर्मध्ये (क) प्रथमः- हस्तपुस्तकसंयोगानन्तरं क्रियया यदा हस्तपुस्तकयोः विभागो जायते, तदा शरीरादपि पुस्तकस्य विभागो जायते। अयं शरीरपुस्तकयोः विभागः, हस्तपुस्तकविभागाद् भिन्न एव। अत्र अवयविभूतस्य शरीरस्य कारणम् अवयवः हस्तः, पुस्तकं तु शरीरस्य नावयवः, अत एव तद्दृष्ट्या अकारणं च। एवञ्चात्र शरीरकारणीभूतहस्तस्य तदकारणीभूतस्य पुस्तकस्य च विभागात् जातः विभाग एव कारणाकारणविभागजन्यः (कार्याकार्य) विभाग इत्युच्यते। (ख) द्वितीयस्तु कारणमात्रविभागजन्यः विभागः। यदा घटकारणीभूतयोः कपालयोः क्रिया जायते, तदा प्रथमं तादृशकारणमात्रविद्यमानक्रियया घटारम्भकसंयोगनाशकः कपालद्वयविभाग उत्पद्यते। तस्मात् विभागाद् घटारम्भकसंयोगनाशो भवति। ततः घटासमवायिकारणस्य कपालद्वयसंयोगस्य नाशात् घटनाशो भवति। तत्रादौ जातेन विभागेन कपालस्य प्राक्तनदेशावच्छिन्नाकाशादपि विभागो जायते। अयं च कपालाकाशविभागो घटकारणीभूतकपालद्वयमात्रविभागाद् जन्यः। अत एव कारणमात्रविभागजन्यः विभाग इत्युच्यते।
अत्रायं प्रश्न:- प्रथमं तावत् कपालयोः क्रिया जायते, ततः कपालद्वयविभागः, ततः घटारम्भककपालद्वयसंयोगनाशः, ततः घटनाशः। अत्र कपालद्वयविभागात् कपालाकाशविभागः, ततः कपालाकाशसंयोगनाशः, ततः उत्तरदेशसंयोगः, तदनन्तरमेव क्रियानाश इति क्रमः। अत्र द्वितीयक्षणे जातेन कपालद्वयविभागेन कपालाकाशविभागो जायत इत्युक्तम्। तत् कुतः ? यया क्रियया प्रथमः कपालद्वयविभागो जायते तयैव कपालाकाशविभागोऽपि जायत इति वक्तुं न शक्यते वा ? लोकेऽस्माकम् अनुभवोऽपि कपालद्वयविभागकाले एव कपालाकाश- विभागोऽपि जात इव भवति।
अस्याः समाधानम् – घटारम्भककपालद्वयसंयोगस्य नाशिका या क्रिया, सैव तदनारम्भककपालाकाशसंयोगस्य नाशिका न भवेत्। कुतः ? इति चेत्, या क्रिया घटारम्भककपालद्वयसंयोगनाशकं विभागं जनयति, सैव यदि घटानारम्भककपालाकाश- संयोगनाशकं विभागमपि जनयेत्, तर्हि एकैव क्रिया कार्यारम्भकसंयोगतदनार- म्भकसंयोगनाशकविभागस्य जनिकेति स्वीकारे विकसत्कमलकुड्मलभङ्गप्रसङ्गः। कथमिति चेत् ? कमलस्यावस्थाद्वयं वर्तते, एका कुड्मलावस्था, अन्या कुसुमावस्था। कुड्मलं विकसितं चेत्, कुसुमं भवति। कुड्मलस्य विकासो नाम कुड्मलदलानाम् अग्रदेशावच्छेदेन चलनम्। अनया हि चलनरूपक्रियया दलानामग्रदेशावच्छेदेन प्राक्तनदेशावच्छिन्नाकाशाद् विभागो जायते। तदैव कमलं विकसतीत्युच्यते। एवञ्च दलेऽग्रदेशावच्छेदेनोत्पन्नक्रियया केवलम् दलानाम् प्राक्तनदेशावच्छिन्नाकाशाद् कमलानारम्भकसंयोगनाशकविभागो जायते, यदि इयमेव कमलानारम्भकसंयोगनाशकविभागजनिका क्रिया कमलारम्भकसंयोगनाशकं विभागमपि जनयेत्, तर्हि तेन विभागेन कमलारम्भकसंयोगनाशो भवेत्, ततञ्च वृन्तदलसंयोगस्यासमवायिकारणस्य नाशेन कमलस्यापि नाशो भवेत्। एवं कमलसमवायिकारणदलवृन्तदलसंयोगस्य नाशे विकसत्कमलस्यापि नाशः स्यात्। तस्मात् सुष्ठुक्तम् - विकसत्कमलकुड्मलभङ्गप्रसङ्ग इति।
वस्तुतस्तु - वृन्तदलसंयोगः कमलारम्भकसंयोगः। तत्रैव दलानामग्रदेशावच्छेदेन विद्यमानो दलाकाशसंयोगो दलाग्रे जायमानक्रियाजन्यविभागेन नश्यति। दलानां कमलावयवत्वेन समवायिकारणत्वेऽपि, आकाशस्य कारणत्वाभावात् कारणाकारणविभागः स भवति। क्रियायास्तत्तत्प्रदेशेनापि भेदस्यावश्यकत्वात्, दलानामग्रे जायमाना क्रिया, दलवृन्तसंयोगं न नाशयेत् इत्युपपादनं वरम्।
तर्कसंग्रहः
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - संयोगः
संयुक्तव्यवहारहेतुस्संयोगः, सर्वद्रव्यवृत्तिः।।
संयोगं लक्षयति संयुक्तेति। संयुक्तव्यवहारनिष्ठकार्यतानिरूपितकारणताश्रयत्वं संयोगस्य लक्षणम्, संयुक्तव्यवहारनिष्ठा या कार्यता इमौ संयुक्तौ इति व्यवहारनिष्ठा कार्यता, तन्निरूपितकारणताश्रयत्वं संयोगेऽस्तीति समन्वयः। अन्यत्सर्वं पूर्ववत्।