मूलम् - पृथक्त्वम् - 27
पृथग्व्यवहारासाधारणकारणं पृथक्त्वम्। सर्वद्रव्यवृत्ति॥ २६॥
Tags - 27
पृथक्त्वम्, गुणः, सर्वद्रव्यवृत्तिः
दीपिका - पृथक्त्वम्
पृथक्त्वं लक्षयति- पृथगिति। इदमस्मात्पृथगिति व्यवहारकारणं पृथक्त्वमित्यर्थः।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - पृथक्त्वम्
पृथग्व्यवहारासाधारणकारणं पृथक्त्वम्, सर्वद्रव्यवृत्ति।।
पृथक्त्वं लक्षयति पृथगिति। पृथग्व्यवहारनिष्ठकार्यतानिरूपितकारणताश्रयत्वं पृथक्त्वस्य लक्षणम्। पृथग्व्यवहारनिष्ठा या कार्यता अयमस्मात्पृथगिति व्यवहारनिष्ठा कार्यता, तन्निरूपितकारणताश्रयत्वं पृथक्त्वे वर्तत इति लक्षणसमन्वयः। अन्यत्सर्वं पूर्ववत् बोध्यम्।।