26 परिमाणम्

मूलम् - परिमाणम् - 26

मानव्यवहारासाधारणकारणं परिमाणम्। नवद्रव्यवृत्ति। तच्चतुर्विधमणु महद्दीर्घं हृस्वञ्चेति॥ २५॥

Tags - 26

परिमाणम्, चतुर्विधपरिमाणम्, नवद्रव्यवृत्तिः

दीपिका - परिमाणम्

परिमाणं लक्षयति- मानेति। परिमाणं विभजते- तच्चेति। भावप्रधानोऽयं निर्देशः। अणुत्वम्, महत्वम्, दीर्घत्वम्, ह्रस्वत्वं चेत्यर्थः।

वरदाचार्य आलोके - पृथक्त्वम्

नन्वेवं सत्यप्यस्य लक्षणस्य पुनः रूपादावतिव्याप्तिर्दुष्परिहरा। तथाहि परिमाणनिष्ठविषयतानिरूपितविषयिताश्रयज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावत् परिमाणम्, तद्वृत्तिर्या जातिरिति चेत् ? यथा परिमाणत्वजातिस्तथा गुणत्वजातिरपि भवति। तादृशजातिमत्त्वं रूपेऽपि वर्तत इति अतिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम् - परिमाणनिष्ठविषयतानिरूपकज्ञान-जनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम्। एवञ्च नातिव्याप्तिः। तथाहि परिमाणनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठ-कार्यतानिरूपितासाधारणकारणतावत् परिमाणम्। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवति। स्वस्य स्वव्याप्यत्वाभावात्। अतो गुणत्वव्याप्या जातिः परिमाणत्वजातिरेव भवति। तादृशजातिमत्त्वं परिमाण एव वर्तते, न तु रूपादाविति नातिव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य ह्रस्वत्वरूपपरिमाणेऽव्याप्तिर्दुरुद्धरा। तथाहि- परिमाणनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावत् महत्त्वपरिमाणम्, तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् महत्त्वत्वजातिः। तादृशजातिमत्त्वं ह्रस्वत्वरूपपरिमाणे नास्तीति अव्याप्तिरिति चेत् - न। गुणत्वसाक्षाद्व्याप्येति निवेशनात्। तथा च लक्षणम् परिमाणनिष्ठविषयतानिरूपकज्ञानजनकशब्द- प्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वम्। एवञ्च नाव्याप्तिः। तथाहि- परिमाणनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावत् परिमाणम्, तद्वृत्तिर्या गुणत्वसाक्षाद्व्याप्या जातिरिति चेत् ? महत्त्वत्त्वजातिर्न भवति। तस्या गुणत्वव्याप्यव्याप्यत्वात्। स्वम्- गुणत्वम्। स्वव्याप्या जातिः- परिमाणत्वरूपा जातिः। तद्व्याप्यत्वं महत्त्वे वर्तते। अतो महत्त्वत्त्वादीनां गुणत्वसाक्षाद्व्याप्यत्वाभावात् सा जातिः स्वीकर्तुं न शक्यते। अतो गुणत्वसाक्षाद्व्याप्या जातिस्तु परिमाणत्वमेव। तादृशजातिमत्त्वं ह्रस्वत्वादिपरिमाणेऽपि वर्तत इति लक्षणसमन्वयान्नाव्याप्तिः।
मूलेऽण्वादिपदमणुत्वादिपरं ज्ञेयम्। अणुत्वमिति सूक्ष्मपरिमाणं परमाणौ विश्राम्यति। महत्त्वमिति स्थूलपरिमाणं गगनादौ विभौ विश्राम्यति। दीर्घत्वमिति दण्डादौ, ह्रस्वत्वमिति तद्विपरीते। द्व्यणुकं ह्रस्वतमम्। ‘महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम्’ (ब्र.सू.२-२-१०) इत्यत्र वैशेषिकमतानुवादे परिमण्डलपदेन परमाणुः, ह्रस्वपदेन द्व्यणुकम्, महत्पदेन त्र्यणुकम्, दीर्घपदेन परमाण्वपेक्षया द्व्यणुकं चाभिहितं द्रष्टव्यम्।

तर्कसंग्रहः
पृथग्व्यहारासाधारणकारणं पृथक्त्वम्। सर्वद्रव्यवृत्ति।
पृथक्त्वं निरूपयति पृथगित्यादि। पृथगिति व्यवहारः पृथग्व्यवहारः। असाधारणं च तत् कारणम् असाधारणकारणम्। पृथग्व्यवहारस्यासाधारणकारणं पृथग्व्यवहारासाधारणकारणम्। ‘पृथक्’ इति शब्दो यदि प्रकारवाची, तदा पृथक्पदस्य पृथक्त्वमर्थः। पृथग् इति शब्देऽव्ययत्वेन लुप्तायाः षष्ठ्या विषयत्वमर्थः। प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः। तथा च पृथक्त्वनिष्ठा विषयता इत्यासीत्। व्यवहारो नाम ज्ञानजनकशब्दप्रयोगः। विषयताया निरूपकतासंबन्धेन व्यवहारपदार्थैकदेशज्ञानेऽन्वयः। तथा च पृथक्त्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोग इति बोधः। ‘व्यवहारस्य’ इत्यत्र षष्ठ्याः कार्यत्वमर्थः। प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः। ज्ञानजनकशब्दप्रयोगनिष्ठकार्यता इत्यासीत्। असाधारणकारणं नाम असाधारणकारणतावत् इत्यर्थः। षष्ठ्यर्थकार्यताया असाधारणकारणपदार्थैकदेशेऽसाधारणकारणतायां निरूपितत्वसम्बन्धेनान्वयः। असाधारणकारणतावतोऽभेदसम्बन्धेन पृथक्त्वेऽन्वयः। तथा चाखण्डबोधः पृथक्त्वनिष्ठविषयतानिरूपक(निरूपितविषयिताश्रय)ज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावदभिन्नं पृथक्त्वम् इति।
लक्षणं तु- पृथक्त्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोग- निष्ठकार्यतानिरूपितासाधारणकारणत्वम् इति। लक्षणस्यास्य ‘अयं घटः, तस्मात् पृथक्’ इत्यत्र पृथक्त्वे समन्वयः। तथा हि - पृथक्त्वनिष्ठविषयता केति चेत् ? ‘अयं घटः, तस्मात् पृथक्’ इत्याकारकव्यवहारविषयपृथक्त्वनिष्ठा विषयता। तादृशविषयतानिरूपकं ज्ञानं किमिति चेत् ? पृथगिति ज्ञानम्। तादृशज्ञानजनकशब्दप्रयोगनिष्ठा कार्यता केति चेत् ? ‘अयं घटः, तस्मात् पृथक्’ इति व्यवहारनिष्ठा कार्यता। तन्निरूपितासाधारणकारणता पृथक्त्वे वर्तत इति लक्षणसमन्वयः। लक्षणे कारणतायाम् ‘असाधारणम्’ इत्याकारकविशेषणस्य विद्यमानत्वात् कालादौ नातिव्याप्तिः। तेषां (कालादीनाम्) असाधारणकारणत्वाभावात्।
नन्वेवं सत्यप्यस्य लक्षणस्य अपरिचितस्थले यत्रास्माकम् ‘अयं, तस्मात् पृथक्’ इत्याकारकव्यवहार एव न जातः, तत्र पृथक्त्वनिष्ठ- विषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणत्वं नास्तीति अव्याप्तिरिति चेत् - न। जातिघटितलक्षणपरिष्कारात्। तथा च लक्षणम् ‘पृथक्त्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिजातिमत्त्वम्’। तथा च नाव्याप्तिः। तथाहि पृथक्त्वनिष्ठविषयता-निरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावदित्यनेन यत्रास्माकमत्यन्तपरिचितस्थले ‘अयं घटः, तस्मात् पृथक्’ इति पृथक्त्वव्यवहार उत्पन्नः, तादृशपरिचितपृथक्त्वस्थलं स्वीकर्तव्यम्। तद्वृत्तिर्या जातिरिति चेत् ? पृथक्त्वत्वजातिः। तादृशजातिमत्त्वमत्यन्तापरिचितपृथक्त्वेऽपि वर्तत इति लक्षणसमन्वयान्नाव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः रूपादावतिव्याप्तिर्दुर्वारा। तथाहि पृथक्त्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावत् पृथक्त्वम्। तद्वृत्तिर्या जातिरिति चेत् ? यथा पृथक्त्वत्वजातिः, तथा गुणत्वजातिरपि। तादृशजातिमत्त्वं रूपादावपि वर्तत इत्यतिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम् - पृथक्त्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम् इति। एवञ्च नातिव्याप्तिः। पृथक्त्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावत् पृथक्त्वम्। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवति। स्वस्य स्वव्याप्यत्वाभावात्। गुणत्वव्याप्या जातिस्तु पृथक्त्वत्वजातिरेव भवति। तादृशजातिमत्त्वस्य रूपादावभावान्नातिव्याप्तिः। अत्र प्रयोजनाभावात् साक्षाद्व्याप्यत्वं न निवेशनीयम्।
पृथक्त्वम् अन्योन्याभावप्रयोजकम्, अतस्तेनास्य न चारितार्थ्यप्रश्नः। ‘नीलो घटः ’ ‘नीलः पटः’ इत्यादिप्रतीत्या रूपादिगुणानां भेदो हि घटपटाद्याश्रयभेदादेवेति सर्वानुभवसिद्धम्। घटपटभेदस्तु घटत्वपटत्वरूपजातिभेदादेवेति च सिद्धम्। घटयोर्द्वयोः, पटयोर्वा द्वयोः परिदृश्यमानो भेदः कथमभूदिति प्रश्ने, तत्तदवयवभेदादिति चानुभवसिद्धम्। ‘अयं घटः, एतत्कपालद्वयजन्यत्वात्, तत्कपालद्वयजन्यतद्घटात् भिन्नोऽभूत्’ इति खलूत्तरं वक्तव्यम्। ततञ्श्चावयविभेदोऽवयवभेदाधीन इति द्व्यणुकपर्यन्तं वक्तुं शक्यम् ‘इदं द्व्यणुकम्, तद्द्द्व्यणुकभिन्नम्, एतत्परमाणुद्वयजन्यत्वात्’ इति। अयं परमाणुस्तत्परमाणुभिन्नः कुतोऽभूदिति प्रश्ने तु, परमाणूनां निरवयवत्वात् अवयवभेदान्न वक्तुं शक्यो भेदस्तयोः। रूपादिभेदाद्भेदकथनेऽन्योन्याश्रयः। परमाणुभेदे सिद्धे रूपादिभेदसिद्धिः, रूपादिभेदे सिद्धे परमाणुभेदसिद्धिरिति। अतः परमाणुभेदसाधको विशेष एव। एवञ्च विशेषवशात् परमाण्वोः प्रत्येकीभाव इति, विशेषः, पृथक्त्वम्, भेदः इति भेदव्यवहारविकासक्रमः। अतो विशेषोऽन्यः, पृथक्त्वमन्यत्, अन्योन्याभावश्चान्य एव।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - परिमाणम्

मानव्यवहाराऽसाधारणकारणं परिमाणम्। नवद्रव्यवृत्ति। तच्चतुर्विधम्, अणु महत् दीर्धं ह्रस्वञ्चेति।।
परिमाणं लक्षयति मानव्यवहारेति। मानव्यवहारनिष्ठकार्यतानिरूपितकारणताश्रयत्वं परिमाणस्य लक्षणम्, मानव्यवहारनिष्ठा या कार्यता अयमणुः अयं महान् अयं दीर्घः अयं ह्रस्वः इत्याकारकशब्दप्रयोगनिष्ठा कार्यता, तन्निरूपितकारणताश्रयत्वम् अणुत्वादिपरिमाणेषु वर्तते इति लक्षणसमन्वयः। व्यवहारहेतुत्वघटितलक्षणेषु सर्वत्रापि व्यवहारहेतुत्वमात्रोक्तौ घटादावेवातिव्याप्तिर्बोध्या। असाधारणकारणत्वानिवेशे ईश्वरादृष्टादेः कार्यमात्रं प्रति साधारणकारणत्वेन मानव्यवहारादेरपि कार्यत्वेन तत्कारणत्वस्येश्वरादृष्टादौ सत्त्वेन तत्रातिव्याप्तिः, अतः असाधारणकारणत्वं निवेशनीयम्, तदर्थश्च मानव्यवहारत्वाद्यवच्छिन्नकार्यतानिरूपितकारणताश्रयत्वमिति पर्यवस्यति। ईश्वरादृष्टादेः कार्यमात्रं प्रति साधारणकारणत्वेन मानव्यवहारादिनिष्ठकार्यतानिरूपितकारणताश्रयत्वस्य सत्त्वेऽपि मानव्यवहारत्वाद्यवच्छिन्नकार्यतानिरूपितकारणताश्रयत्वस्याभावात् नातिव्याप्तिः। अणुत्वादिव्यवहारत्वावच्छिन्नं प्रति प्रत्येकमणुत्वेन महत्वेन च कार्यकारणभावसद्भावात्समन्वयः। (एवमुत्तरत्राप्यसाधारणकारणत्वप्रयोजनं ग्राह्यम्, बुद्धिलक्षणातिरिक्तेषु व्यवहारहेतुत्वघटितलक्षणेषु पूर्ववत् घटादिष्वतिव्याप्तिवारणाय तत्तद्व्यवहारनिष्ठकार्यतानिरूपितकारणतावज्ज्ञानीयमुख्यविशेष्यतानिरूपितप्रकारताश्रयत्वपर्यन्तं लक्षणं परिष्करणीयमेव, एवं परिष्कृते लक्षणे कालेश्वरादृष्टादावतिव्याप्तिप्रसक्त्यभावेन असाधारणकारणत्वानिवेशेऽपि न कापि क्षतिः, किन्तु यथाश्रुतलक्षण एव तस्य सार्थक्यमित्यवधेयम्) तद्विभजते अण्विति, अत्र च भावप्रधाननिर्देशः, यथाश्रुतेऽसङ्गत्यापत्तेः, स च धर्मबोधेच्छया धर्मिप्रतिपादनं, भावार्थमुख्यविशेष्यकबोधेच्छयोच्चरितशब्दो वा स इति ज्ञेयम्।।