25 संख्या

मूलम् - संख्या - 25

एकत्वादिव्यवहारहेतुः संख्या। नवद्रव्यवृत्तिरेकत्वादिपरार्धपर्यन्ता। एकत्वं नित्यमनित्यं च। नित्यगतं नित्यम्। अनित्यगतमनित्यम्। द्वित्वादिकं तु सर्वत्राऽनित्यमेव॥ २४॥

Tags - 25

संख्या, एकत्वम्, द्वित्वम्, नवद्रव्यवृत्तिः

दीपिका - संख्या

एकत्वा(एका)दिव्यवहारहेतुः संख्या। सा नवद्रव्यवृत्तिः। एकत्वादिपरार्धपर्यन्ता। एकत्वं द्विविधम्। नित्यमनित्यं च। नित्यगतं नित्यम्। अनित्यगतमनित्यम्। द्वित्वादिकं तु सर्वत्रानित्यमेव। संख्यां लक्षयति- एकत्वेति।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - संख्या

एकत्वा(एका)दिव्यवहारहेतुः संख्या, नवद्रव्यवृत्तिः एकत्वादिपरार्धपर्यन्ता एकत्वं द्विविधं नित्यमनित्यञ्चेति, नित्यगतं नित्यम्, अनित्यगतम् अनित्यम्, द्वित्वादिकं तु सर्वत्रानित्यमेव।।
संख्यां लक्षयति एकत्वादीति(एकादीति)। संख्यापरिमाणपृथक्त्वसंयोगपरत्वापरत्वलक्षणवाक्यस्थलेषु शाब्दबोधप्रकारः काललक्षण इव ग्राह्यः। एकादिव्यवहारनिष्ठकार्यतानिरूपितकारणताश्रयत्वं संख्यायाः लक्षणम्, एकादिव्यवहारनिष्ठा या कार्यता अयमेकः इमौ द्वौ इत्याकारकव्यवहारनिष्ठा कार्यता, तन्निरूपिता या कारणता एकत्वद्वित्वादिसंख्यायां विद्यमाना कारणता, तदाश्रयत्वस्य एकत्वादिसंख्यायां सर्वत्रापि सत्त्वात्समन्वयः। व्यवहारहेतुत्वमात्रोक्तौ पूर्ववत् घटेऽतिव्याप्तिः। आदिपदाभावे द्वित्वादिसंख्यायामव्याप्तिः। पूर्ववत् घटादावतिव्याप्तिवारणाय एकादिव्यवहारनिष्ठकार्यतानिरूपितकारणतावज्ज्ञानीयमुख्यविशेष्यतानिरूपितप्रकारताश्रयत्वपर्यन्तं लक्षणं परिष्करणीयम्। एकत्वत्वद्वित्वत्वादावतिव्याप्तिवारणाय विशेष्यतायां मुख्यत्वनिवेशः। प्रकारत्वानच्छिन्नत्वं (प्रकारत्वासमानाधिकरणत्वं) मुख्यत्वं ज्ञेयम्। एकत्वं नित्यगतं नित्यमिति। आश्रयस्य नित्यत्वे आधेयस्यैकत्वस्यापि नित्यत्वम्, यथा गगनादौ एकत्वम्। आश्रयस्यानित्यत्वे आश्रयनाशानन्तरं आधेयगतमेकत्वमपि नश्यति, यथा घटादावेकत्वम्। द्वित्वादिकन्तु सर्वत्रानित्यमेवेति। द्वित्वादीनां अयमेकः अयमेकः इत्याकारकापेक्षाबुद्धिजन्यत्वेन (अनेकैकत्वबुद्धिर्या साऽपेक्षाबुद्धिरुच्यते। इति कारिकावल्याम्) अपेक्षाबुद्धेः नाशात् कार्यभूतं द्वित्वादिकमपि नश्यति नाशकान्तराभावेन अपेक्षाबुद्धिनाशेनैव द्वित्वादिनाशोऽङ्गीकर्तव्यः अपेक्षाबुद्धितः तस्य नाशानङ्गीकारे कालान्तरे अपेक्षाबुद्धिमन्तरापि चिरस्थायिन्याऽनयैव तत्प्रत्यक्षमुत्पद्येत, अतो नित्यगतम् अनित्यगतं वा द्वित्वादिकमनित्यमेवेति सिद्धान्तः।