24 रूपादिचतुष्टयः

मूलम् - रूपादिचतुष्टयः - 24

रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च। अन्यत्रापाकजं नित्यमनित्यं च। नित्यगतं नित्यम्। अनित्यगतमनित्यम्॥ २३॥

Tags - 24

रूपः, रसः, गन्धः, स्पर्शः, गुणस्वरूपम्, पाकज-अपाकज

दीपिका - पाकविचारः

रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यम्। अन्यत्रापाकजं नित्यमनित्यं च। नित्यगतं नित्यम्। अनित्यगतमनित्यम्। पाकजमिति। पाकस्तेजस्संयोगः। तेन पूर्वरूपं नश्यति, रूपान्तरमुत्पद्यत इत्यर्थः। तत्र परमाणुष्वेव पाकः। न द्व्यणुकादौ। आमनिक्षिप्ते घटे परमाणुषु रूपान्तरोत्पत्तौ श्यामघटनाशे पुनः द्व्यणुकादिक्रमेण रक्तघटोत्पत्तिः। तत्र परमाणवः समवायिकारणम्। तेजस्संयोगोऽसमवायिकारणम्। अदृष्टादिकं निमित्तकारणम्। द्व्यणुकादिरूपे द्व्यणुकं समवायिकारणम्, कारणरूपमसमवायिकारणमिति पीलुपाकवादिनो वैशेषिकाः। पूर्वघटस्य नाशं विनैव अवयविन्यवयवेषु च परमाणुपर्यन्तेषु युगपद्रूपान्तरोत्पत्तिरिति पिठरपाकवादिनो नैयायिकाः। अत एव पार्थिवपरमाणुरूपादिकमनित्यमित्यर्थः। अन्यत्र- जलादावित्यर्थः। नित्यगतमिति- परमाणुगतमित्यर्थः। अनित्यगतमिति- द्व्यणुकादिगतमित्यर्थः। रूपादिचतुष्टयमुद्भूतं प्रत्यक्षम्, अनुद्भूतमप्रत्यक्षम्। उद्भूतत्वं प्रत्यक्षत्वप्रयोजको धर्मः। तदभावोऽनुद्भूतत्वम्।

वरदाचार्य आलोके - संख्या

रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यम्। अन्यत्रापाकजं नित्यमनित्यं च। नित्यगतं नित्यम्। अनित्यगतमनित्यम्।
रूपरसगन्धस्पर्शानां साधारणाकारानाह- रूपादिचतुष्टयमित्यादिना। पाकजमिति। पृथिव्यामेव विजातीयतेजस्संयोगाख्यः पाकः, न त्वन्यत्र। नित्यगतम् परमाणुवृत्ति। रूपादीति यथासंभवं ग्राह्यम्। जलादिपरमाणुरूपस्य नित्यत्वात् पृथिवीपरमाणुगतरूपादावेव नित्यानित्यविभागः। अनित्यपृथिव्यादिचतुष्टयवृत्तिरूपादीनां त्वनित्यत्वमेव।।
तर्कसंग्रहः
एकत्वादिव्यवहारहेतुः संख्या। नवद्रव्यवृत्तिः। एकत्वादिपरार्धपर्यन्ता। एकत्वं नित्यगतं नित्यम्। अनित्यगतमनित्यम्। द्वित्वादिकं तु सर्वत्रानित्यमेव।
आलोक- व्याख्या
संख्यां निरूपयति- एकत्वादीति। ‘एकम्, द्वे, त्रीणि’ इत्यादिगणना- व्यवहारस्यासाधारणकारणं संख्येत्यर्थः। अतश्च लक्षणमपि गणनाव्यवहारा-साधारणकारणत्वं वक्तुमुचितम्। परार्धेति। चतुर्मुखस्यायुः ‘परा’ (संख्या) इत्युच्यते। तस्यार्धभागो गतः। द्वितीयो भागस्संप्रति चलतीति पौराणिकी प्रक्रिया। मनुष्यस्य गणनाशक्तेस्तदुपरिगन्तुमसंभवात् ‘परार्धपर्यन्ता’ इत्युक्तम्। अतश्च ‘एकपरार्धम्, द्विपरार्धम्, त्रिपरार्धम्’ इति गणयितुं न शक्यते, ‘परार्ध’ पदस्यानन्तपर्यायत्वात्। ‘एकमनन्तम्’ ‘द्वे अनन्ते’ ‘त्रीण्यनन्तानि’ इत्येवं न हि व्यवहर्तुं शक्यम्, अनन्तत्वविरोधादेव।
एकत्वादीनां व्यवहार एकत्वादिव्यवहारः। एकत्वादिव्यवहारस्य हेतुः एकत्वादिव्यवहारहेतुरिति विग्रहः। एकत्वादीनामित्यत्र एकत्वपदस्यैकत्वमर्थः। षष्ठ्या विषयत्वमर्थः। प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः। तथा च - एकत्वादिनिष्ठविषयता। व्यवहारो नाम ज्ञानजनकशब्दप्रयोगः। षष्ठ्यर्थविषयताया व्यवहारपदार्थैकदेशे ज्ञाने निरूपकत्वसम्बन्धेनान्वयः। तथा च एकत्वादिनिष्ठविषयतानिरूपक(विषयतानिरूपितविषयिताश्रय)ज्ञानजनकशब्दप्रयोगः। व्यवहारस्य हेतुरित्यत्र षष्ठ्याः कार्यत्वमर्थः। प्रकृत्यर्थस्य व्यवहारपदार्थज्ञानजनकशब्दप्रयोगस्य षष्ठ्यर्थकार्यतायामाधेयतासम्बन्धेनान्वयः। तथा च एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यता इति। हेतुरित्यस्य कारणतावतीत्यर्थः। षष्ठ्यर्थकार्यताया हेत्वर्थैकदेशकारणतायां निरूपितत्वसम्बन्धेनान्वयः। कारणतावत्याश्चाभेदसम्बन्धेन संख्यायामन्वयः। तथा चाखण्डबोधः – एकत्वादिनिष्ठ-विषयतानिरूपक(विषयतानिरूपितविषयिताश्रय)ज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणतावदभिन्ना संख्या। लक्षणं तु – एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्द-प्रयोगनिष्ठकार्यतानिरूपितकारणत्वम्। अस्य लक्षणस्य एकत्वादिसंख्यायां समन्वयः। एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगः कः ? इति चेत्, ‘अयमेकः’ इत्याकारकज्ञानजनकशब्दप्रयोगः। तादृशशब्दप्रयोगनिष्ठा कार्यता, संख्याव्यवहारे विषयभूतसंख्यायाः कारणत्वात्। तादृशकार्यतानिरूपितकारणत्वमेकत्वादिसंख्यायां वर्तत इति लक्षणसमन्वयः।
नन्वेवं सत्यप्यस्य लक्षणस्य कालादावतिव्याप्तिर्दुष्परिहरा। ‘कार्यसामान्यं प्रति कालेश्वरादृष्टादीनां कारणत्वम्’ इति नियमानुरोधात् एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यता केति चेत् ? ‘अयमेकः’ इत्याकारकज्ञानजनकशब्दप्रयोगनिष्ठा कार्यता। तादृशकार्यतानिरूपितकारणत्वं संख्यायां यथा, तथा कालेऽपि वर्तत इत्यलक्ष्ये लक्षणप्रसरणात् अतिव्याप्तिरिति चेत्, न। कार्यतानिरूपितकारणतायाम् असाधारणपदनिवेशनात्। तथा च लक्षणम्- एकत्वादिनिष्ठ-विषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणत्वम्। एवञ्च नातिव्याप्तिः। तथाहि कारणत्वं द्विविधं वर्तते। साधारणकारणत्वमेकम्। अन्यच्च विशेष(असाधारण)कारणत्वम्। यद्यपि एकत्वादिनिष्ठविषयतानिरूपकज्ञान- जनकशब्दप्रयोगनिष्ठकार्यतानिरूपितसामान्यकारणत्वं कालेश्वरादृष्टादीनां वर्तते, किन्तु सा कारणता साधारणकारणता। न तु विशेष(असाधारण)कारणता। ‘अयमेकः’ इत्याकारकैकत्वव्यवहारं प्रति विषयविधया संख्याया एवासाधारणकारणत्वं वर्तते। संख्यामन्तरा ‘अयमेकः’ इत्याकारकैकत्वव्यवहार एव न स्यात्। अतो विषयविधया तत्र संख्याया एवासाधारणकारणत्वात्, कालेश्वरादीनां विशेषकारणत्वाभावात् तत्र नातिव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य यादृशसंख्यया ‘अयमेकः’ इत्यादिव्यवहार एव न जातः, तादृशपरमाण्वादिगतसंख्यायामेकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्द-प्रयोगनिष्ठकार्यतानिरूपितकारणत्वं नास्तीति तत्र लक्षणासमन्वयात् अव्याप्तिरिति चेत्, न। लक्षणस्य जातिघटिततया परिष्कारात्। एकत्वादिव्यवहारजनकयोग्यताया एव लक्षणत्वात्। योग्यता नाम कारणतावच्छेदकधर्मोऽथवा जातिः। अयमंश उत्तरलक्षणेष्वपि समानः। तथा च लक्षणम् ‘एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठ-कार्यतानिरूपितासाधारणकारणतावद्वृत्ति(कारणतावच्छेदक)जातिमत्त्वम्’। तथा च नाव्याप्तिः। तथाहि एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यता-निरूपितासाधारणकारणतावती यत्र अस्माकं परिचितवस्तुगतसंख्यायाः व्यवहारः दृश्यते तादृशवस्तुगतसंख्या। तद्वृत्तिः या जातिरिति चेत्, संख्यात्वरूपा जातिः। तादृशजातिमत्त्वं अपरिचितवस्तुगतसंख्यायामपि वर्तते इति लक्षणस्य समन्वयात् नाव्याप्तिः॥
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः रूपादावतिव्याप्तिर्दुष्परिहरा। तथाहि - एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावती एकत्वादिसंख्या। तद्वृत्तिर्या जातिरिति चेत्, यथा संख्यात्वं तथा गुणत्वमपि। तादृश-जातिमत्त्वं रूपादावपि वर्तत इत्यलक्ष्ये लक्षणसमन्वयात् अतिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम्- एकत्वादिनिष्ठविषयतानिरूपकज्ञान-जनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिगुणत्वव्यप्यजातिमत्त्वम्। एवञ्च नातिव्याप्तिः। तथाहि एकत्वनिष्ठविषयता- निरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावती एकत्वादिसंख्या। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत्, गुणत्वजातिर्न भवति, स्वस्य स्वव्याप्यत्वाभावात्। अतः सा जातिः स्वीकर्तुं न शक्यते। अतस्तद्व्याप्या जातिरिति चेत् ? संख्यात्वजातिरेव स्वीकार्या। तादृशजातिमत्त्वं तु संख्यायामेव वर्तते; न तु रूपादाविति तत्र नातिव्याप्तिः।।
नन्वेवं सति लक्षणस्यास्य द्वित्वादिसंख्यायामव्याप्तिर्दुरुद्धरा। एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावती एकत्वरूपा संख्या। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? एकत्वत्वरूपा जातिरपि। तादृशजातिमत्त्वं द्वित्वरूपसंख्यायां नास्तीति अव्याप्तिरिति चेत्, न। गुणत्वव्याप्ये साक्षात्पदस्य निवेशनात्। तथा च लक्षणम्- एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वम्। एवञ्च नाव्याप्तिः। तथाहि एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावती एकत्वरूपा संख्या। तद्वृत्तिर्या गुणत्वसाक्षाद्व्याप्या जातिरिति चेत् ? एकत्वत्वजातिर्न स्वीकर्तुं शक्यते। एकत्वत्वस्य गुणत्वसाक्षाद्व्याप्यत्वाभावात्, गुणत्वव्याप्यव्याप्यत्वात्। गुणत्वव्याप्या संख्यात्वजातिः, तद्व्याप्या एकत्वत्वजातिः। अत एकत्वत्वजातिः स्वीकर्तुं न शक्यते। गुणत्वसाक्षाद्व्याप्या जातिस्तु संख्यात्वजातिरेव। तादृशसंख्यात्वजातिमत्त्वं तु द्वित्वादिरूपसंख्यास्वपि वर्तत इति लक्षणसमन्वयान्नाव्याप्तिः। संपूर्णं लक्षणम् एकत्वादिनिष्ठविषयतानिरूपक(विषयतानिरूपितविषयिताश्रय)ज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वम् इति।
तर्कसंग्रहः
मानव्यवहारासाधारणकारणं परिमाणम्। नवद्रव्यवृत्ति। तच्चतुर्विधम्। अणु महद्दीर्घं ह्रस्वं चेति।
आलोक- व्याख्या
परिमाणं निरूपयति - मानेति। मानस्य व्यवहारो मानव्यवहारः। असाधारणं च तत् कारणम् इत्यसाधारणकारणम्। मानव्यवहारस्यासाधारणकारणं मानव्यवहारासाधारणकारणम्। ‘मानस्य’ इत्यत्र मानपदस्य परिमाणमर्थः। षष्ठ्या विषयत्वमर्थः। प्रकृत्यर्थस्याधेयतासम्बन्धेन षष्ठ्यर्थविषयतायामन्वयः। तथा च परिमाणनिष्ठविषयता। व्यवहारो नाम ज्ञानजनकशब्दप्रयोगः। षष्ठ्यर्थविषयताया व्यवहारपदार्थैकदेशे ज्ञाने निरूपकत्व(स्वनिरूपितविषयिताश्रयत्व)सम्बन्धेनान्वयः। तथा च परिमाणनिष्ठविषयतानिरूपक(निरूपितविषयिताश्रय)ज्ञानजनकशब्दप्रयोग इति खण्डबोधः। व्यवहारो नाम ज्ञानजनकशब्दप्रयोगः। ‘व्यवहारस्य’ इत्यत्र षष्ठ्याः कार्यत्वमर्थः। प्रकृत्यर्थस्य व्यवहारस्य (ज्ञानजनकशब्दप्रयोगस्य) षष्ठ्यर्थकार्यतायाम् आधेयतासम्बन्धेनान्वयः। तथा च ज्ञानजनकशब्दप्रयोगनिष्ठकार्यता। असाधारणकारणम् इत्यस्य असाधारणकारणतावत् अर्थः। षष्ठ्यर्थकार्यताया हेतुपदार्थैकदेशासाधारणकारणतायां निरूपितत्वसम्बन्धेनान्वयः। असाधारणकारणतावतश्चाभेदसम्बन्धेन परिमाणेऽन्वयः। तथा चाखण्डबोधः परिमाणनिष्ठविषयतानिरूपक(विषयतानिरूपितविषयिताश्रय)ज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावदभिन्नं परिमाणम्। लक्षणं तु – परिमाणनिष्ठविषयता-निरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणत्वम्। अस्य लक्षणस्य महत्त्वाल्पत्वादिरूपपरिमाणेषु समन्वयः। तथा च माननिष्ठविषयतानिरूपकं ज्ञानं किमिति चेत् ‘अयं महान्’ इत्याकारकं ज्ञानम्। तादृशज्ञानजनकशब्दप्रयोगश्चेत् ‘अयं महान्’ इत्याकारकशब्दप्रयोगः। तादृशशब्दप्रयोगनिष्ठा कार्यता। तादृशकार्यतानिरूपितासाधारणकारणत्वं महदादिपरिमाणे वर्तत इति लक्षणसमन्वयः। लक्षणे प्रथमत एवासाधारणदलनिवेशनात् कालादावतिव्याप्तिर्न भवति। कालादीनां कार्यसामान्यं प्रति साधारणकारणत्वेन, असाधारणकारणत्वाभावात्।।
नन्वेवं सत्यप्यस्य लक्षणस्य यत्रास्माकमत्यन्तापरिचितवस्तुगतपरिमाणस्य व्यवहार एव नाभूत्, तत्र परिमाणे ‘महान् वृक्षः’ इत्यादिव्यवहारस्याभावात्, परिमाणनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणत्वं नास्तीति लक्षणासमन्वयात् अव्याप्तिरिति चेत्, न। जातिघटिततया लक्षणपरिष्कारात्। तथा च लक्षणम् – परिमाणनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यता-निरूपितासाधारणकारणतावद्वृत्तिजातिमत्त्वम्। एवञ्च नाव्याप्तिः। तथाहि- परिमाणनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावत् यत्रास्माकं परिचितं ‘महान्’ इत्याकारकमहत्त्वपरिमाणविषयकस्थलं, तत् स्वीकर्तव्यम्। तद्वृत्तिर्या जातिरिति चेत् ? परिमाणत्वजातिः। तादृशजातिमत्त्वं त्वत्यन्तापरिचितपरिमाणेऽपि वर्तत इति लक्षणसमन्वयान्नाव्याप्तिः।।

गोवर्धन-न्यायबोधिनी - पाकविशेषः

रूपादिचतुष्टयं पृथिव्यां पाकजमिति। एतत्तत्वनिर्णयश्चेत्थम्। पाको नाम विजातीयतेजस्संयोगः। स च नानाजातीयः। रूपजनको विजातीयतेजस्संयोगः। तदपेक्षया रसजनको विजातीयतेजस्संयोगः। एवं गन्धजनको विजातीयतेजस्संयोग:। एवं स्पर्शजनकोऽपि तथैव। एवंप्रकारेण भिन्नभिन्नजातीयाः पाकाः कार्यवैलक्षण्येन कल्पनीयाः। तथा हि। तृणपुञ्जनिक्षिप्त आम्रादौ ऊष्मलक्षणविजातीयतेजःसंयोगात्पूर्वहरितरूपनाशे रूपान्तरस्य पीतरूपादेरेवोत्पत्तिः। पूर्वरसस्याम्लरसस्यैवानुभवात्। क्वचित्पूर्वरूपसत्त्वेऽपि रसपरावृत्तिर्दृश्यते। विजातीयतेजःसंयोगेन पूर्वतनाम्लनाशे मधुररसस्यानुभवात्। तस्माद्रूपजनकापेक्षया रसजनको विलक्षण एव। एवं गन्धजनकोऽपि विलक्षण एवेत्यङ्गीकार्यः। रूपरसयोरपरावृत्तावपि पूर्वगन्धनाशे विजातीयतेजस्संयोगेन सुरभिगन्धोपलब्धेः। एवं स्पर्शजनकोऽपि पाकवशात्कठिनस्पर्शनाशे मृदुस्पर्शानुभवात्। तस्माद्रूपादिजनका विजातीया एव पाका यथाकार्यमुन्नेयाः?। अत एव पार्थिवपरमाणूनामेकजातित्वेऽपि पाकमहिम्ना विजातीयद्रव्यान्तरानुभवः। यथा गोभुक्ततृणादीनामापरमाण्वन्तं भङ्गे तृणारम्भकपरमाणुषु विजातीयतेजःसंयोगात्पूर्वरूपादिचतुष्टयनाशे तदनन्तरं दुग्धे यादृशं रूपादिकं वर्तते तादृशरूपरसगन्धस्पर्शजनकास्तेजःसंयोगा जायन्ते। तदनन्तरं तैरेव तादृशरूपरसादय उत्पद्यन्ते। तादृशरूपादिविशिष्टपरमाणुभिर्दुग्धद्व्यणुकमारभ्यते। ततस्त्र्यणुकादिक्रमेण महादुग्धारम्भः। एवं दुग्धारम्भकैः परमाणुभिरेव दध्यारभ्यते पाकमहिम्ना। दध्यारम्भकैः परमाणुभिरेव नवनीतादिकमिति दिक्।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - नित्यानित्यगुणभेदः

रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यम्, अन्यत्रापाकजं नित्यमनित्यञ्च, नित्यगतं नित्यम्, अनित्यगतम् अनित्यम्।।
रूपादिचतुष्टयं पृथिव्यां पाकजमिति, अत्र पृथिव्यामिति पृथिवीसामान्यबोधकशब्दोपादानेन नित्यपृथिव्यामनित्यपृथिव्याञ्च विद्यमानं रूपादिचतुष्टयं पाकजन्यत्वेन ‘यज्जन्यं तदनित्यम्’, इति व्याप्त्या अनित्यं भवतीति ज्ञायते, जलादौ विद्यमानस्य रूपादेः पाकजन्यत्वाभावेन सर्वत्रापि विद्यमानस्य तस्य नानित्यत्वनियमः, किन्तु नित्यगतं चेत् आश्रयस्य नित्यत्वेन आधेयस्य तस्यापि नित्यत्वम्, अनित्यगतं चेत् आश्रयस्यानित्यत्वेन ‘आश्रयनाशादाश्रयिनाशः’ इति नियमेन आधेयस्य तस्याप्यनित्यत्वम्। (आश्रयः समवायिकारणं, आश्रयी समवेतं कार्यम्) अन्यत्रापाकजं नित्यमनित्यञ्चेत्यत्र रूपादिचतुष्टयपदस्य पूर्वमुपात्तत्वेन सान्निध्यबलात् अन्यत्रेत्यत्रापि तत्पदयोजनमावश्यकं भवति, तथा योजने च अन्यत्र जलादौ रूपादिचतुष्टयं न सम्भवति, कुतः, पृथिव्यां तच्चतुष्टयं जले गन्धं विहाय त्रयम्, तेजसि रसगन्धौ विहाय द्वयम्, वायौ स्पर्श एक एव वर्तत इति, अतः रूपादिचतुष्टयपदस्य तच्चतुष्टयघटकमर्थः, तथाच पृथिव्यामन्यत्र च तदन्वेतीति नानुपपत्तिः।।
टिप्पणी- ननु रूपादिचतुष्टयलक्षणेषु परमाणुरूपादिचतुष्टयेऽव्याप्तिवारणाय जातिघटितत्वपरिष्कारस्यावश्यं कर्तव्यतया तल्लक्षणचतुष्टये च एतावतैव रूपत्वरसत्वादिजातिषु अतिव्याप्तिप्रसक्त्यभावेन गुणत्वदलस्य वैयर्थ्यमिति वाच्यम्, रूपलक्षणे सुवर्णत्वजातिमादाय सुवर्णेऽतिव्याप्तिवारणाय वायोरूष्मणश्च प्रत्यक्षवादिमते स्पर्शलक्षणे वायुत्वजातिमूष्मत्वजातिं वाऽदाय वायूष्मणोश्च दोषवारणाय गुणपदसार्थक्यात्, रसलक्षणे मधुररसवत्फलम् इति प्रत्यक्षविषयफलत्वजातिमादाय गन्धलक्षणे सुरभि कुसुमम् इति प्रत्यक्षविषयकुसुमत्वजातिं च आदाय फलकुसुमयोरतिव्याप्तिवारणाय च गुणपदसार्थक्यात्। न च रसगन्धलक्षणयोः विषयतायां (लौकिकसन्निकर्षप्रयोज्यत्वस्य) तत्तदिन्द्रियप्रयोज्यत्वस्य निवेशेनैव फलकुसुमादावतिव्याप्त्यभावेन गुणपदवैयर्थ्यं दुर्वारमेवेति वाच्यम्, तदा तल्लक्षणद्वये गुणपदस्य स्वरूपकीर्तनमात्रपरत्वमेव बोध्यम्।