मूलम् - स्पर्शः - 23
त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः। स च त्रिविधः शीतोष्णानुष्णाशीतभेदात्। पृथिव्यप्तेजोवायुवृत्तिः। तत्र शीतो जले। उष्णस्तेजसि। अनुष्णाशीतः पृथिवीवाय्वोः॥ २२॥
Tags - 23
स्पर्शः, गुणः, त्वगिन्द्रियमात्रग्राह्य, त्रिविधस्पर्शः
दीपिका - स्पर्शः
स्पर्शं लक्षयति- त्वगिति। स्पर्शत्वेऽतिव्याप्तिवारणाय गुणपदम्। संयोगादावतिव्याप्तिवारणाय मात्रपदम्।
वरदाचार्य आलोके - स्पर्शलक्षणविशेषः
नन्वेवं सति स्पर्शत्वस्पर्शाभावयोः तादृशजातिमत्त्वाभावेनातिव्याप्तिवारणात् गुणपदं व्यर्थमिति चेत्, न। त्वगिन्द्रियमात्रग्राह्ये उष्णजलगतोष्ण- स्पर्शवत्तेजस्संयोगगतसंयोगत्वजातिमादाय संयोगादावतिव्याप्तिपरिहाराय विशेषणगुणार्थकगुणपदस्यावश्यकत्वात्। एवमिन्द्रियपदं बाह्येन्द्रियपरं वक्तव्यम्। मनसो ज्ञानसामान्यकारणत्वात् स्पर्शप्रत्यक्षस्य त्वग्भिन्नमनोजन्यत्वेनाव्याप्त्यापत्तेः। तथा च त्वगिन्द्रियजन्यप्रत्यक्षविषयवृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वे सति त्वग्भिन्नबाह्येन्द्रियजन्यप्रत्यक्षाविषयत्वे सति, विशेषगुणत्वं स्पर्शस्य लक्षणमिति बोध्यम्।
अनुष्णाशीतेति नामान्तरालाभादुक्तम्। नाप्युष्णं, नापि शीतमित्यर्थः। तथा च चित्ररूपतुल्यमिदम्। अत एव चित्रस्पर्श इत्यपि वक्तुं शक्यम्। चक्षुरिन्द्रियवत् त्वगिन्द्रियस्यापि द्रव्यग्राहकत्वात्, अवयविद्रव्ये चित्ररूपवत् चित्रस्पर्शोऽप्यावश्यकः। घ्राणश्रोत्ररसनानां द्रव्याग्राहकत्वान्न चित्रगन्धादीनामावश्यकता।
तर्कसंग्रहः
गोवर्धन-न्यायबोधिनी - स्पर्शलक्षणम्
स्पर्शं लक्षयति - त्वगिन्द्रियमात्रेति। अत्रापि मात्रपदं संख्यादावतिव्याप्तिवारणाय। अन्यत्सर्व पूर्ववद्बोध्यम्।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - स्पर्शलक्षणम्
त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः, स त्रिविधः शीतोष्णानुष्णाशीतभेदात्, पृथिवीजलतेजोवायुवृत्तिः, तत्र शीतो जले, उष्णस्तेजसि, अनुष्णाशीतः पृथिवीवाय्वोः।
स्पर्शं लक्षयति त्वगिन्द्रियेति। शाब्दबोधप्रकारः रूपलक्षण इव बोध्यः। त्वग्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वे सति त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वे सति गुणत्वं स्पर्शस्य लक्षणम्। त्वग्भिन्नं यदिन्द्रियं चक्षुरिन्द्रियम्, तज्जन्यं यत्प्रत्यक्षम् अयं नीलः अयं पीतः इत्याकारकं प्रत्यक्षम्, तद्विषयत्वं रूपे वर्तते अविषयत्वं स्पर्शे वर्तते, त्वगिन्द्रियजन्यं यत्प्रत्यक्षम् अयमुष्णः अयं शीतः इत्याकारकं प्रत्यक्षम्, तद्विषयत्वं गुणत्वञ्च स्पर्शेऽस्तीति लक्षणसमन्वयः। गुणत्वमात्रोक्तौ रूपादावतिव्याप्तिः। गुणत्वानुपादाने ‘येनेन्द्रियेण’ इति न्यायेन स्पर्शत्वस्पर्शाभावयोः अतिव्याप्तिः। मात्रपदानुपादाने संख्यादावतिव्याप्तिः। त्वग्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वे सति गुणत्वमात्रोक्तौ धर्माधर्मादावतिव्याप्तिः, अतः दलत्रयोपादानम्। त्वग्भिन्नेन्द्रियपदेन मनइन्द्रियमादाय पूर्ववदसम्भववारणाय चक्षुरिन्द्रियजन्यप्रत्यक्षाविषयत्वे सति त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वे सति गुणत्वं स्पर्शस्य लक्षणमिति वक्तव्यम्।
रूपरसगन्धस्पर्शलक्षणेषु चतुर्षु च परमाणुगतेषु रूपरसगन्धस्पर्शेषु तत्तदिन्द्रियग्राह्यत्वस्याभावेनाव्याप्तिवारणाय जातिघटितलक्षणपरिष्कारः कर्तव्यः। तत्प्रकारश्च, त्वगिन्द्रियजन्यप्रत्यक्षविषयतानवच्छेदकीभूता चक्षुरिन्द्रियजन्यप्रत्यक्षविषयतावच्छेदकीभूता या जातिः तद्वत्त्वे सति गुणत्वमिति रूपलक्षणे, रसनेन्द्रियजन्यप्रत्यक्षविषयतावच्छेदकीभूतजातिमत्त्वे सति गुणत्वमिति रसलक्षणे, घ्राणेन्द्रियजन्यप्रत्यक्षविषयतावच्छेदकजातिमत्त्वे सति गुणत्वमिति गन्धलक्षणे, चक्षुरिन्द्रियजन्यप्रत्यक्षविषयतानवच्छेदकीभूता त्वगिन्द्रियजन्यप्रत्यक्षविषयतावच्छेदकीभूता या जातिः तद्वत्त्वे सति गुणत्वमिति स्पर्शलक्षणे च ग्राह्यः।।