22 गन्धः

मूलम् - गन्धः - 22

घ्राणग्राह्यो गुणो गन्धः। स च द्विविधः सुरभिरसुरभिश्च। पृथिवीमात्रवृत्तिः॥ २१॥

Tags - 22

गन्धः, गुणः, घ्राणग्राह्यगुणः, द्विविधगन्धः

दीपिका - गन्धः

गन्धं लक्षयति घ्राणेति। गन्धत्वेऽतिव्याप्तिवारणाय गुणपदम्।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - गन्धः

घ्राणग्राह्यो गुणो गन्धः, स द्विविधः, सुरभिरसुरभिश्चेति, पृथिवीमात्रवृत्तिः।।
गन्धं लक्षयति घ्राणेति। शाब्दबोधः रसलक्षणवत् ग्राह्यः। घ्राणेन्द्रियजन्यप्रत्यक्षविषयत्वे सति गुणत्वं गन्धस्य लक्षणम्। घ्राणेन्द्रियजन्यं यत्प्रत्यक्षम् अयं सुरभिः अयमसुरभिः इत्याकारकं प्रत्यक्षम्, तादृशप्रत्यक्षविषयत्वे सति गुणत्वस्य गन्धे सत्त्वात् लक्षणसमन्वयः। गुणत्वमात्रोक्तौ रूपादौ, गुणत्वानुपादाने गन्धत्वगन्धाभावयोश्च अतिव्याप्तिः, अतो दलद्वयोपादानम्।।