मूलम् - रसः - 21
रसनग्राह्यो गुणो रसः। स च मधुराम्ललवणकटुकषायतिक्तभेदात्षड्विधः। पृथिवीजलवृत्तिः। पृथिव्यां षड्विधः। जले मधुर एव॥ २०॥
Tags - 21
रसः, गुणः, रसनग्राह्यगुणः, षड्विधरसः
दीपिका - रसः
रसं लक्षयति- रसनेति। रसत्वेऽतिव्याप्तिवारणाय गुणपदम्। रसस्याश्रयमाह- पृथिवीति। आश्रयं विभज्य दर्शयति- तत्रेति।
वरदाचार्य आलोके - रसः
तर्कसंग्रहः
रसनग्राह्यो गुणो रसः। स च मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधः। पृथिवीजलवृत्तिः। तत्र पृथिव्यां षड्विधः। जले मधुर एव।
आलोक- व्याख्या
रसं लक्षयति - रसनेत्यादि। रसनेन ग्राह्यः = रसनग्राह्यः। ‘रसनेन’ इत्यत्र रसनपदस्य रसनेन्द्रियमर्थः। तृतीयाया जनकत्वमर्थः। प्रकृत्यर्थस्य रसनेन्द्रियस्य तृतीयार्थजनकतायाम् आधेयतासम्बन्धेनान्वयः। तथा च रसनेन्द्रियनिष्ठजनकता। ‘ग्राह्यः’ इत्यत्र ग्रहधातोः प्रत्यक्षमर्थः। ‘ण्यत्’ प्रत्ययस्य विषयतावानर्थः। प्रकृत्यर्थस्य प्रत्यक्षस्य निरूपितत्वसम्बन्धेन विषयतायामन्वयः। तृतीयार्थजनकताया ग्रहधात्वर्थैकदेशे प्रत्यक्षे निरूपकत्वसम्बन्धेनान्वयः। अथवा तृतीयाया जन्यत्वमर्थः। प्रकृत्यर्थस्य स्वनिष्ठजनकतानिरूपितत्वसंबन्धेन जन्यतायामन्वयः। जन्यतायाश्चाश्रयतासंबन्धेन प्रत्यक्षेऽन्वयः। तथा च रसनेन्द्रियनिष्ठजनकतानिरूपक(जनकतानिरूपितजन्यताश्रय) प्रत्यक्षनिरूपितविषयताश्रयाभिन्नो गुणत्ववदभिन्नो रस इति बोधः।
लक्षणं तु- ‘रसनेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयताश्रयत्वे सति गुणत्वम्। लक्षणस्यास्य मधुरादिरसे समन्वयः। रसनेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षं किम् ? इति चेत् ‘इदमाम्रफलं मधुरम्’ इत्याकारकप्रत्यक्षम्। तादृशप्रत्यक्षनिरूपितविषयत्वं रसे वर्तते। एवं गुणत्वमपि तत्र वर्तत इति लक्षणसमन्वयः। रसनग्राह्यत्वमात्रोक्तौ रसत्वे (जातौ) अतिव्याप्तिः। ‘येनेन्द्रियेण या व्यक्तिर्गृह्यते तन्निष्ठा जातिस्तदभावश्च तेनैवेन्द्रियेण गृह्यते’ इति नियमेन रसनेन्द्रियेण रसत्वमपि गृह्यत इति तत्रातिव्याप्तिः। अतो गुणत्वपदोपादानम्। रसत्वं न गुणः, किन्तु जातिरिति नातिव्याप्तिः।
नन्वेवं सत्यपि लक्षणस्यास्य जलपरमाणुगतरसेऽव्याप्तिर्दुष्परिहरा। तथाहि- जलपरमाणूनामतीन्द्रियत्वात् तद्गतो रसोऽप्यतीन्द्रियः। अतो रसनेन्द्रिय- निष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयत्वं तत्र नास्तीति अव्याप्तिरिति चेत् - न। जातिघटितलक्षणपरिष्कारात्। तथा च लक्षणम् रसनेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावद्वृत्तिजातिमत्वम्। एवञ्च नाव्याप्तिः। तथाहि- रसनेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावान् आम्ररसः। तद्वृत्तिर्या जातिरिति चेत् ? रसत्वजातिः। तादृशजातिमत्त्वं जलपरमाणुगतरसादावपि वर्तत इति लक्षणसमन्वयात् नाव्याप्तिः। नन्वेवं सत्यपि लक्षणस्यास्य पुना रूपादावतिव्याप्तिर्दुष्परिहरा। तथाहि - रसनेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावद्वृत्तिर्या जातिरिति चेत् ? यथा रसत्वजातिस्तथा गुणत्वजातिरपि भवति। तादृशजातिमत्त्वं रूपादावपि वर्तत इति तत्रातिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम् - रसनेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम्। एवञ्च नातिव्याप्तिः। तथाहि- रसनेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावान् रसः। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवति। स्वस्य स्वव्याप्यत्वाभावात्। अतस्तद्व्याप्या जातिः रसत्वजातिरेव भवति। तादृशजातिमत्त्वं रस एव वर्तते, न तु रूपादाविति नातिव्याप्तिः।
नन्वेवमप्यस्य लक्षणस्य पुनः मधुररसादावव्याप्तिर्दुष्परिहरा। तथाहि रसनेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयत्ववान् आम्लादिरसः। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत्, यथा रसत्वजातिर्भवति तथाम्लत्वजातिरपि। तादृशाम्लत्वजातिमत्वं मधुररसे नास्तीति अव्याप्तिरिति चेत् न। गुणत्वव्याप्ये साक्षात्पदस्य निवेशनात्। तथा च लक्षणम् रसनेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वम्। एवञ्च नाव्याप्तिः। तथाहि रसनेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावान् रसः। तद्वृत्तिर्या गुणत्व- साक्षाद्व्याप्या जातिरिति चेत् ? अम्लत्वजातिर्न भवति। तस्य गुणत्वव्याप्यव्याप्यत्वात्। गुणत्वसाक्षाद्व्याप्या रसत्वजातिः, तद्व्याप्या अम्लत्वजातिः। अत अम्लत्वस्य साक्षाद्व्याप्यत्वाभावात् सा जातिर्न स्वीकर्तुं शक्यते। किन्तु रसत्वमेव। तादृशजातिमत्वं मधुरादावपि वर्तत इति नाव्याप्तिः। ननु तर्हि गुणत्वं किमर्थम् ? तादृशजातिमत्त्वस्य रसत्वे रसाभावे चासंभवादिति चेत्, न, तात्पर्यग्राहकं तदिति भावनीयम्।।
निर्मलकावेरीजलादौ विलक्षणं माधुर्यमनुभवसिद्धम्। न च तत् तिक्तलवणाद्यभावमात्ररूपम्, तर्हि गुडेऽपि माधुर्यं न स्यात्। दृश्यते वैलक्षण्यमिति चेदत्रापि समानम्।
तर्कसंग्रहः
घ्राणग्राह्यो गुणो गन्धः। स द्विविधः। सुरभिरसुरभिश्चेति। पृथिवीमात्रवृत्ति:।
आलोक- व्याख्या
गन्धं लक्षयति - घ्राणेति। घ्राणेन ग्राह्य इति घ्राणग्राह्यः। ‘घ्राणेन’ इत्यत्र घ्राणपदस्य घ्राणेन्द्रियमर्थः। तृतीयाया जनकत्वं जन्यत्वं वार्थः। प्रकृत्यर्थस्य घ्राणेन्द्रियस्य तृतीयार्थजनकतायाम् आधेयतासम्बन्धेनान्वय इत्यादिकं पूर्ववदेव। ‘ग्राह्यः’ इत्यत्र ग्रहधातोः प्रत्यक्षमर्थः। ण्यत्प्रत्ययस्य विषयत्वाश्रयोऽर्थः। प्रकृत्यर्थस्य ग्रहधातोः ण्यत्प्रत्ययार्थविषयतायां निरूपितत्वसम्बन्धेनान्वयः। तथा च प्रत्यक्षनिरूपितविषयताश्रयः। तृतीयार्थजनकताया ग्रहधात्वर्थे प्रत्यक्षे निरूपकतासम्बन्धेन अथवा स्वनिरूपितजन्यताश्रयत्वसम्बन्धेनान्वयः। तथा चाखण्डबोधः घ्राणेन्द्रियनिष्ठजनकतानिरूपक(जनकतानिरूपितजन्यताश्रय)प्रत्यक्षनिरूपितविषयताश्रयो (विषयतावदभिन्नः) गुणाभिन्नो गन्ध इति। लक्षणं तु घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयताश्रयत्वे सति गुणत्वम्। घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षं किम् ? इति चेत् ‘अयं सुरभिगन्धः’ इत्याकारकप्रत्यक्षम्। तादृशप्रत्यक्षनिरूपितविषयता केति चेत् ? ‘सुरभिगन्धः’ इति प्रतीतिसिद्धा प्रत्यक्षनिरूपिता विषयता। तादृशविषयत्वं सुरभिगन्धे वर्तत इति, एवं गुणत्वमपि वर्तत इति लक्षणसमन्वयः। ‘गुणत्व’ मात्रोक्तौ रूपादावतिव्याप्तिः। अतो घ्राणेन्द्रियग्राह्यत्वमिति दलोपादानम्। तथा च रूपादीनां गुणत्वे सत्यपि घ्राणेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयत्वं तत्र नास्ति, किन्तु चक्षुरिन्द्रियग्राह्यप्रत्यक्षविषयत्वं वर्तत इति तत्र लक्षणासमन्वयात् नातिव्याप्तिः। घ्राणेन्द्रियग्राह्यत्वमात्रोक्तौ गन्धत्वेऽतिव्याप्तिर्दुर्वारा। तत्र ‘येनेन्द्रियेण या व्यक्तिर्गृह्यते तेनेन्द्रियेण तन्निष्ठा जातिस्तदभावश्च गृह्यते’ इति नियमेन घ्राणेन्द्रियग्राह्यत्वम् (घ्राणेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षविषयत्वम्) गन्धत्वेऽपि वर्तत इति तत्रातिव्याप्तिः। तन्निवारणार्थं ‘गुण’ इतिपदमुपात्तम्। गन्धत्वं न गुणः किन्तु जातिरिति नातिव्याप्तिः।
नन्वेवं सत्यपि पृथिवीपरमाणुगतगन्धेऽव्याप्तिर्दुष्परिहारा। कथमिति चेत् ? परमाणूनामतीन्द्रियत्वात् तद्गतो गन्धोऽप्यतीन्द्रियः। अतो घ्राणेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयत्वं तत्र नास्तीति लक्षणासमन्वयात् अव्याप्तिरिति चेत्, न। जातिघटितलक्षणपरिष्कारात्। तथा च लक्षणम्- ‘घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावद्वृत्तिजातिमत्त्वम्’। तथा च नाव्याप्तिः। घ्राणेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावान् गन्धः। तद्वृत्तिः का जातिरिति चेत् ? गन्धत्वजातिः। तादृशजातिमत्त्वं पृथिवीपरमाणुगतगन्धेऽपि वर्तत इति लक्षणसमन्वयात् नाव्याप्तिः।
नन्वेवं सत्यपि रूपादावतिव्याप्तिर्दुर्वारा। तथाहि - घ्राणेन्द्रियनिष्ठ- जनकतानिरूपकप्रत्यक्षनिरूपितविषयतावान् गन्धः। तद्वृत्तिर्जातिः केति चेत् यथा गन्धत्वं तथा गुणत्वजातिरपि भवति। तादृशजातिमत्त्वं रूपादावपि वर्तत इति रूपादावतिव्याप्तिरिति चेत्, न। जातौ गुणत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम् - घ्राणेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम् इति। एवञ्च नातिव्याप्तिः। तथाहि- घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्ष-निरूपितविषयतावान् गन्धः। तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् गुणत्वजातिर्न भवति। स्वस्य स्वव्याप्यत्वाभावात्। अतो गुणत्वव्याप्या जातिर्गन्धत्वजातिः। तादृशजातिमत्त्वं गन्ध एव वर्तते, न तु रूपादाविति नातिव्याप्तिः।
नन्वेवमपि लक्षणस्यास्य ‘असुरभिगन्धे’ अव्याप्तिर्दुष्परिहरा। तथाहि घ्राणेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावान् सुरभिगन्धः। तद्वृत्तिर्या गुणत्वव्याप्यजातिरिति चेत्, यथा गन्धत्वजातिः, तथा सुरभित्वजातिरपि भवति। तादृशजातिमत्त्वमसुरभिगन्धे नास्तीति पुनरव्याप्तिरिति चेत्, न। गुणत्वव्याप्ये ‘साक्षात् पदस्य निवेशनात्। तथा च लक्षणम् घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वम्। एवञ्च नाव्याप्तिः। तथाहि घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावान् गन्धः। तद्वृत्तिर्या गुणत्वसाक्षाद्व्याप्या जातिरिति चेत् सुरभित्वजातेर्ग्रहणं कर्तुं न शक्यते। तस्य गुणत्वव्याप्यव्याप्यत्वात्। किन्तु गुणत्वव्याप्या गन्धत्वजातिः। तद्व्याप्यत्वमसुरभित्वजातावपि वर्तते। तादृशजातेर्गुणत्वसाक्षाद्व्याप्यत्वं नास्ति। अतस्तन्न स्वीकर्तुं शक्यते। तादृशसाक्षाद्व्याप्यजातिर्गन्धत्वमेव। तादृशगन्धत्वजातिमत्त्वमसुरभिगन्धेऽपि वर्तत इति लक्षणसमन्वयात् नाव्याप्तिः। अत्र गुणपदप्रयोजनादिकं पूर्ववत्। जलवाय्वादौ गन्धप्रतीतिः पार्थिवभागसंबन्धौपाधिकीति पूर्वमेवोक्तम्।
तर्कसंग्रहः
त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः। स त्रिविधः। शीतोष्णानुष्णाशीतभेदात्। पृथिव्यप्तेजोवायुवृत्तिः। तत्र शीतो जले। उष्णस्तेजसि। अनुष्णाशीतः पृथिवीवाय्वोः।
आलोक-व्याख्या
स्पर्शं लक्षयति - त्वगिन्द्रियमात्रेत्यादि। त्वक्शब्दस्य चर्मण्यपि प्रयोगबाहुल्यात् इन्द्रियपदम्। त्वगिन्द्रियमेव त्वगिन्द्रियमात्रम्, तेन ग्राह्य इति विग्रहः। त्वगिन्द्रियेण इत्यत्र प्रकृतेस्त्वगिन्द्रियमर्थः। तृतीयाया जन्यत्वमर्थः। रूपलक्षणवदेव व्युत्पत्तिवैचित्र्यात्, मात्रपदस्य भेदवान्, अभावश्चार्थः। त्वगिन्द्रियस्य तृतीयार्थजन्यत्वे, मात्रपदार्थैकदेशभेदे चान्वयः। प्रकृत्यर्थस्य, त्वग्भिन्नेन्द्रियस्य च मात्रपदार्थैकदेशे स्वनिष्ठजनकतानिरूपितत्व- संबन्धेन तृतीयार्थजन्यत्वेऽन्वयः। त्वगिन्द्रियनिष्ठजनकतानिरूपितजन्यता, त्वग्भिन्नेन्द्रियनिष्ठजनकतानिरूपितजन्यता इत्यासीत्। जन्यत्वस्याश्रयतासंबन्धेन ग्रहधात्वर्थप्रत्यक्षेऽन्वयः। ण्यत्प्रत्ययस्य विषयतावानर्थः। ग्रहधात्वर्थप्रत्यक्षस्य निरूपितत्वसंबन्धेन ण्यत्प्रत्ययार्थैकदेशविषयतायामन्वयः। विषयतावतश्चाभेदसंबन्धेन प्रधानविशेष्ये स्पर्शेऽन्वयः। एवं त्वग्भिन्नेन्द्रियनिष्ठजनकता- निरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयत्वस्य मात्रपदार्थैकदेशान्तरेऽभावेऽन्वयः।
तथा च त्वगिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपित- विषयताश्रयाभिन्नः, त्वग्भिन्नेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रय- प्रत्यक्षनिरूपितविषयत्वाभावाश्रयाभिन्नो गुणाभिन्न: स्पर्श: इति शाब्दबोधः।
त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वे सति त्वग्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वे सति गुणत्वं स्पर्शस्य लक्षणम्। ‘अयं शीतः’ इत्यादिप्रत्यक्षविषये शीतस्पर्शे त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वस्य, त्वग्भिन्नचक्षुरादीन्द्रियजन्यप्रत्यक्षाविषयत्वस्य गुणत्वस्य च सत्त्वाल्लक्षणसमन्वयः। गुणत्वमात्रोक्तौ रूपादावतिव्याप्तिः। तदर्थं त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वम्। रूपस्य त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वाभावान्नातिव्याप्तिः। तावन्मात्रोक्तौ चक्षुरिन्द्रयवत् त्वगिन्द्रियस्यापि द्रव्यग्राहकत्वात् घटादावतिव्याप्तिः। अतो गुणत्वमुक्तम्। घटस्य द्रव्यत्वेन तत्र गुणत्वस्याभावान्नातिव्याप्तिः। त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वे सति गुणत्वमात्रोक्तौ घटादावतिव्याप्त्यभावेऽपि संख्यादौ त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वस्य गुणत्वस्य च सत्त्वात् अतिव्याप्तिः। तदर्थं त्वग्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वमुक्तम्। संख्यादेस्त्वग्भिन्नचक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वात्, तादृशप्रत्यक्षाविषयत्वाभावात् नातिव्याप्तिः। त्वग्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वे सति गुणत्वमात्रोक्तौ गुरुत्वादेरतीन्द्रियत्वेन त्वग्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वे सति गुणत्वसत्त्वादतिव्याप्तिः। अतस्त्व- गिन्द्रियजन्यप्रत्यक्षविषयत्वम्। गुरुत्वादेरतीन्द्रियत्वेन त्वगिन्द्रियजन्यप्रत्यक्ष- विषयत्वस्याभावान्नातिव्याप्तिः। गुणत्वानुपादाने ‘येनेन्द्रियेण यद्गृह्यते’ इत्यादिन्यायेन स्पर्शत्वस्पर्शाभावयोरतिव्याप्तिः। अतो गुणत्वम्। स्पर्शत्वे स्पर्शाभावे च गुणत्वाभावान्नातिव्याप्तिः।
अथैवमप्यन्धकारे घटपटसंयोगस्य चक्षुषाऽग्रहणात् त्वगिन्द्रियेणैव ग्रहणात् त्वगिन्द्रियग्राह्यत्वे सति त्वग्भिन्नेन्द्रियाग्राह्यत्वे सति गुणत्वसत्त्वादतिव्याप्तिरिति चेत्; न। गुणपदस्य विशेषगुणपरत्वेन, संयोगस्य सामान्यगुणत्वेनातिव्याप्तेः परिहारात्। नन्वेवं सति गुरुत्वस्य सामान्यगुणत्वेन विशेषगुणत्वविशेषणेनैवातिव्याप्तिपरिहारात् त्वगिन्द्रियग्राह्यत्वविशेषणं व्यर्थमितिचेत्, न, अदृष्टस्यातीन्द्रियत्वेन त्वग्भिन्नेन्द्रियाग्राह्यत्वात् विशेषगुणत्वात्, तत्रातिव्याप्तिपरिहाराय तद्विशेषणस्यावश्यकत्वात्। अथैवं परमाणुगतस्पर्शस्यातीन्द्रियत्वेन त्वगिन्द्रियग्राह्यत्वाभावादव्याप्तिरिति चेत्, न, त्वगिन्द्रियग्राह्यवृत्तिजातिमत्त्वस्य विवक्षणेन परमाणुस्पर्शे त्वगिन्द्रिय- ग्राह्यस्पर्शादिवृत्तिस्पर्शत्वजातिमत्त्वस्य सत्त्वेनाव्याप्तेः परिहारात्। तादृशस्पर्शवृत्तिगुणत्वजातिमादाय पुना रूपादावतिव्याप्तिवारणाय, गुणत्वव्याप्यजातिमत्त्वम्; शीतत्वादिकमादायाव्याप्तिपरिहाराय गुणत्वसाक्षा- द्व्याप्यजातिमत्त्वमपि पूर्ववत् विवक्षणीयम्।
गोवर्धन-न्यायबोधिनी - रसलक्षणम्
एवं रसादिलक्षणं विशेषणानुपादाने लक्ष्यभिन्नगुणादावतिव्याप्ति:। विशेष्यानुपादाने लक्ष्यवृत्तिरसत्वादावतिव्याप्तिः। अतो विशेषणविशेष्योरुभयोरुपादानम्।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - रसः
रसनग्राह्यो गुणो रसः, स च मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधः पृथिवीजलवृत्तिः, तत्र पृथिव्यां षड्विधः, जले तु मधुर एव।
रसं लक्षयति रसनेति। रसनेन ग्राह्यः रसनग्राह्यः, तृतीयायाः जन्यत्वम्, ग्रहधातोः प्रत्यक्षज्ञानम्, ण्यप्रत्ययस्य विषयत्वञ्चार्थः। तथा च रसनेन्द्रियजन्यप्रत्यक्षविषयत्वे सति गुणत्वं रसस्य लक्षणमिति फलितम्, तथा च रसनेन्द्रियजन्यं यत्प्रत्यक्षम् अयं मधुरः अयमाम्लः इत्याकारकं प्रत्यक्षम्, तद्विषयत्वस्य गुणत्वस्य च रसे सत्त्वात् लक्षणसमन्वयः। गुणत्वमात्रोक्तौ रूपादौ, गुणत्वानुपादाने रसत्वरसाभावयोश्च अतिव्याप्तिः, अतः दलद्वयोपादानम्।