मूलम् - रूपः - 20
चक्षुर्मात्रग्राह्यो गुणो रूपम्। तच्च शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात्सप्तविधम्। पृथिवीजलतेजोवृत्ति। तत्र पृथिव्यां सप्तविधम्। अभास्वरशुक्लं जले। भास्वरशुक्लं तेजसि॥ १९॥
Tags - 20
रूपः, गुणः, चक्षुर्ग्राह्यगुणः, सप्तविधरूपः
दीपिका - रूपः
रूपं लक्षयति- चक्षुरिति। संख्यादावतिव्याप्तिवारणाय मात्रपदम्। रूपत्वेऽतिव्याप्तिवारणाय गुणपदम्।
नन्वव्याप्यवृत्तिनीलादिसमुदाय एव चित्ररूपमिति चेन्न। रूपस्य व्याप्यवृत्तित्वनियमात्। ननु चित्रपटेऽवयवरूपस्यैव प्रतीतिरिति चेन्न। रूपरहितत्वेन पटस्याप्रत्यक्षत्वप्रसङ्गात्। न च रूपवत्समवेतत्वं प्रत्यक्षत्वप्रयोजकम् गौरवात्। तस्मात्पटस्य प्रत्यक्षत्वान्यथानुपपत्त्या चित्ररूपसिद्धिः। रूपस्याश्रयमाह-पृथिवीति। आश्रयं विभज्य दर्शयति- तत्रेति।
वरदाचार्य आलोके - रूपम्
तर्कसंग्रहः
चक्षुर्मात्रग्राह्यो गुणो रूपम्। तच्च शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात्सप्तविधम्। पृथिवीजलतेजोवृत्ति। तत्र पृथिव्यां सप्तविधम्। अभास्वरशुक्लं जले। भास्वरशुकं तेजसि।
आलोक-व्याख्या
एवं नवद्रव्याणां निरूपणेन द्रव्यनिरूपणस्य समाप्त्या, अनन्तरं यथाक्रमं गुणनिरूपणे कर्तव्ये सति, प्रथमनिर्दिष्टं रूपं लक्षयति- चक्षुरित्यादि। चक्षुरेव चक्षुर्मात्रम्। चक्षुर्मात्रेण ग्राह्यः चक्षुर्मात्रग्राह्यः। चक्षुर्मात्रेण ग्राह्य इत्यस्य लोके ‘चक्षुरिन्द्रियजन्यप्रत्यक्षविषयः चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयः’ इति बोधोऽनुभवसिद्धः। शाब्दबोधोऽप्येतदनुगुण एव वर्णनीयः। तथा हि एवकारस्य भेदवान्, अभावश्चार्थः। चक्षुः पदस्य चक्षुरिन्द्रियमर्थः। तृतीयाया जन्यत्वमर्थः। चक्षुश्शब्दार्थस्य तृतीयार्थजन्यत्वे स्वनिष्ठजनकतानिरूपितत्वसंबन्धेनान्वयः। जन्यताया आश्रयतासंबन्धेन ग्रहधात्वर्थे प्रत्यक्षेऽन्वयः। ण्यत्प्रत्ययस्य विषयतावान् अर्थः। धात्वर्थस्य प्रत्यक्षस्य निरूपितत्वसंबन्धेन विषयत्वेऽन्वयः। विषयतावतोऽभेदसंबन्धेन विशेष्ये रूपेऽन्वयः। तथा च चक्षुरिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावदभिन्नम् इति बोधः। मात्रपदेन च चक्षुरिन्द्रियनिष्ठप्रतियोगितानिरूपकभेदवन्निष्ठजनकतानिरूपित- जन्यताश्रयप्रत्यक्षनिरूपितविषयताभाववदभिन्नमिति बोध्यते। अथवा एतद्दृष्ट्या तु व्युत्पत्तिवैचित्र्याच्छाब्दबोधो वर्णनीयः। चक्षुः पदस्य स्वनिष्ठप्रतियोगितानिरूपकत्वसंबन्धेन मात्रपदार्थैकदेशे भेदेऽन्वयः। तथा च चक्षुरिन्द्रियनिष्ठप्रतियोगितानिरूपकभेदवानर्थः। भेदवतः स्वनिष्ठजनकता- निरूपितत्वसंबन्धेन तृतीयार्थे जन्यत्वेऽन्वयः। तथा च चक्षुरिन्द्रियनिष्ठ- प्रतियोगितानिरूपकभेदवन्निष्ठजनकतानिरूपितजन्यता इत्यासीत्। जन्यताया आश्रयतासंबन्धेन ग्रहधात्वर्थप्रत्यक्षे, धात्वर्थस्य च निरूपितत्वसंबन्धेन ण्यत्प्रत्ययार्थैकदेशविषयतायाञ्चान्वयः। ण्यत्प्रत्ययार्थविषयतायाः स्वनिष्ठप्रतियोगितानिरूपकत्वसंबन्धेन मात्रपदार्थैकदेशेऽभावेऽन्वयः। विषयत्वाभाववतोऽभेदसंबन्धेन रूपेऽन्वयः। तथा च मात्रपदसमभिव्याहारेण चक्षुरिन्द्रियनिष्ठप्रतियोगितानिरूपकभेदवदिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयत्वाभाववदभिन्नमिति बोधः। एवञ्च चक्षुरिन्द्रियजन्यप्रत्यक्षविषयः, चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयो गुणो रूपमिति संग्रहेण निष्कृष्टः शाब्दबोधः। सर्वमिदं लोकानुभवस्वारस्यानुरोधेन व्युत्पत्तिवैचित्र्यान्निर्वाह्यम्।
चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वे सति चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वे सति गुणत्वं रूपस्य लक्षणम्। चक्षुरिन्द्रियजन्यं यत् प्रत्यक्षम्, ‘अयं नीलः’ इत्यादिप्रत्यक्षम्। तद्विषयत्वं नैल्यादौ रूपे वर्तते। एवं चक्षुर्भिन्नं यदिन्द्रियं त्वगादीन्द्रियम्। तज्जन्यं प्रत्यक्षम् - ‘अयं शीतः ’ इत्यादिप्रत्यक्षम्। तदविषयत्वं च रूपे वर्तते, गुणत्वं च वर्तत इति लक्षणसमन्वयः। गुणत्वमात्रोक्तौ रसादावतिव्याप्तिः। तदर्थं चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वं विशेषणम्। रसे चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वा- भावान्नातिव्याप्तिः। एतावन्मात्रोक्तौ घटादावतिव्याप्तिः, तस्य चक्षुरिन्द्रिय- जन्यप्रत्यक्षविषयत्वात्। अतो गुणपदम्। घटादेर्द्रव्यत्वेन गुणत्वाभावान्नातिव्याप्तिः। चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वे सति गुणत्वमात्रोक्तौ संख्यादौ चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वस्य गुणत्वस्य च सत्त्वादतिव्याप्तिः। अतश्चक्षु- र्भिन्नेन्द्रियजन्यप्रत्यक्षविषयत्वमुक्तम्। संख्यादौ चक्षुर्भिन्नत्वगिन्द्रियजन्यप्रत्यक्ष- विषयत्वस्यैव सत्त्वेनाविषयत्वाभावान्नातिव्याप्तिः। चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वे सति गुणत्वमात्रोक्तौ, गुरुत्वस्यातीन्द्रियत्वेन केनापीन्द्रियेणाग्राह्यत्वात्, चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वस्य गुणत्वस्य च सत्त्वेन गुरुत्वादावतिव्याप्तिः। अतश्चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वविशेषणम्। गुरुत्वस्यातीन्द्रियत्वेन चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वस्य तत्राभावान्नातिव्याप्तिः। गुणत्वानुपादाने, ‘येनेन्द्रियेण यद्वस्तु गृह्यते, तेनैवेन्द्रियेण तन्निष्ठा जातिस्तदभावश्च गृह्यते’ इति न्यायात् रूपत्वजातौ, रूपाभावे च चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वस्य, चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वस्य च सत्त्वादतिव्याप्तिः। अतो गुणत्वम्। रूपत्वस्य जातित्वेन तत्र, रूपाभावे च गुणत्वाभावान्ना- तिव्याप्तिः।
नन्वेवमपि प्रभाघटसंयोगेऽतिव्याप्तिः, तस्य घटद्वयसंयोगवत् त्वगिन्द्रियग्राह्यत्वाभावात्, चक्षुरिन्द्रियग्राह्यत्वात्, गुणत्वाच्चेति चेत्, न। गुणपदस्य विशेषगुणपरत्वेन, संयोगस्य सामान्यगुणत्वेनातिव्याप्त्यभावात्। न चैवं सति गुरुत्वस्य सामान्यगुणत्वेनानेनैव वारणे चक्षुरिन्द्रियग्राह्यत्वदलं विफलमिति शङ्क्यम्, अतीन्द्रियेऽदृष्टेऽतिव्याप्तिपरिहारेण सार्थक्यात्। अदृष्टस्य चक्षुर्भिन्नेन्द्रियाग्राह्यत्वात् विशेषगुणत्वाच्च। अथैवमपि परमाणुगतरूपस्यातीन्द्रियत्वेन चक्षुरिन्द्रियग्राह्यत्वाभावात् अव्याप्तिरिति चेत्, न। चक्षुरिन्द्रियग्राह्यगुणवृत्तिजातिमत्त्वस्य विवक्षणेन रूपत्वजातिमादायाव्याप्तेः परिहारात्। एवं गुणत्वजातिमादायादृष्टादावतिव्याप्तिपरिहाराय गुणत्वव्याप्यजातिमत्त्वमपि विवक्षणीयम्। गुणत्वव्याप्यशुक्लत्वादिजातिमादायाव्याप्तिपरिहाराय गुणत्वसाक्षाद्व्याप्यजातिमत्त्वमपि विवक्षणीयम्। नन्वेवं तर्हि रूपत्वरूपाभावयोस्तादृशजातिमत्त्वाभावादतिव्याप्त्यप्रसक्त्या गुणपदं व्यर्थमिति चेत्, न। सूर्यादिगतसंख्यादेश्चक्षुरिन्द्रियमात्रग्राह्यत्वात् तादृशगुणगतैकत्वत्वादिजातिमादायातिव्याप्तिपरिहारार्थं तस्यावश्यकत्वात्। एवमपि मनसो ज्ञानसामान्यं प्रति कारणत्वात् चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षविषयत्वमेव रूपे वर्तते, न त्वविषयत्वमित्यसंभवपरिहारायेन्द्रियपदं बहिरिन्द्रियपरं वक्तव्यमित्यादिकमूह्यम्। तथा च चक्षुरिन्द्रियजन्यप्रत्यक्षविषयगुणत्वसाक्षाद्व्याप्यजातिमत्त्वे सति, चक्षुर्भिन्नबाह्येन्द्रिय-जन्यप्रत्यक्षाविषयत्वे सति विशेषगुणत्वं रूपस्य लक्षणमिति।
एवमपि ‘सुरभि चन्दनम्’ इत्यादिप्रत्यये चक्षुरिन्द्रियजन्ये सौरभ्यस्यापि ज्ञानलक्षणप्रत्यासत्या (अलौकिकसन्निकर्षेण) भानात्तत्रातिव्याप्तिवारणाय चक्षुरिन्द्रियजन्यप्रत्यक्षनिरूपितलौकिकविषयताश्रयत्वपर्यन्तं विवक्षणीयमित्यादिकमप्यूह्यम्।
चित्ररूपं तु नानारूपैस्तन्तुभिरारब्धस्य पटादेः प्रत्यक्षत्वार्थम्। नानारूपाणि नानातन्तुनिष्ठानि। पटस्तु तन्तुजन्यस्तन्तुभ्योऽतिरिक्तोऽवयवीत्युच्यते। अवयवी चैकः। तत्र रूपाभावे पटप्रत्यक्षमेव न स्यात्। चाक्षुषप्रत्यक्षं प्रति रूपस्य कारणत्वात्। अतः पटेऽतिरिक्तं रूपमङ्गीकार्यमित्यतिरिक्तचित्ररूपसिद्धिः। यद्यपि इन्द्रधनुषि दृश्यमानानि रूपाण्येव वास्तवरूपाणि, न तु शुक्लादीनीति केचिद्वदन्ति। परन्तु सर्वव्यवहाराणामनुभवरूपम् ऐन्द्रियकं ज्ञानमेव मूलम्। अयमेव विषयोऽस्य शास्त्रस्य।
ननु ‘नीलं नभः’ इति प्रतीत्याकाशस्यापि रूपं गुण इति पृथिवीजलतेजोमात्रवृत्तित्वं रूपस्य कथमिति चेत्, न। अतिदूरप्रदेशे चक्षुरिन्द्रियाप्रसरणौपाधिकस्तादृशः प्रत्ययः। अन्यथा सन्निहितेऽप्याकाशे तादृशप्रतीतिप्रसङ्गः। ग्रीष्मर्तौ हठाद्बहिः प्रदेशागृहं प्रविष्टानां किल गृहान्तः कृष्णरूपदर्शनं चक्षुरिन्द्रियप्रसरणाभावप्रयुक्तं दृष्टमिति यत्किञ्चिदेतत्।
गोवर्धन-न्यायबोधिनी - रूपलक्षणम्
रूपं लक्षयति- चक्षुर्मात्रेति। चक्षुर्मात्रग्राह्यत्वविशिष्टगुणत्वं रूपस्य लक्षणम्। विशेष्यमात्रोपादाने रसादावतिव्याप्तिः। अतश्चक्षुर्मात्रग्राह्यत्वविशेषणम्। तावन्मात्रोपादाने रूपत्वनीलत्वादावतिव्याप्तिः। यो गुणो यदिन्द्रियग्राह्यस्तन्निष्ठा जातिरपि तदिन्द्रियग्राह्येति न्यायात्। अतस्तद्वारणाय विशेष्योपादानम्। चक्षुर्मात्रग्राह्यत्वं नाम चक्षुर्भिन्नाग्राह्यत्वे सति चक्षुर्ग्राह्यत्वम्। मात्रपदानुपादाने संख्यादावतिव्याप्तिः, संख्यादावपि चक्षुर्ग्राह्यत्वविशिष्टगुणत्वस्य सत्त्वात्। अतस्तद्वारणाय मात्रपदम्। संख्यादेस्तु चक्षुर्भिन्नत्वगिन्द्रियग्राह्यत्वाच्चक्षुर्मात्रग्राह्यत्वं नास्ति। अतीन्द्रिये गुरुत्वादावतिव्याप्तिवारणाय चक्षुर्ग्राह्येति। अत्र ग्राह्यत्वं प्रत्यक्षविषयत्वम्। तथा च त्वाचसाक्षात्काराविषयत्वे सति चाक्षुषप्रत्यक्षविषयत्वमिति फलितोऽर्थः। ननु प्रभाघटसंयोगे रूपलक्षणस्य अतिव्याप्तिः तस्य चक्षुर्मात्रग्राह्यगुणत्वादिति चेन्न। गुणपदस्य विशेषगुणपरत्वात्। न चैवं विशेषगुणत्वघटितलक्षणे संख्यादावतिव्याप्त्यभावान्मात्रपदवैयर्थ्यमिति वाच्यम्। सांसिद्धिकद्रवत्वेऽतिव्याप्तिवारणाय तदुपादानात्। अथ वा चक्षुर्मात्रग्राह्यजातिमद्गुणत्वस्य लक्षणत्वान्न प्रभाघटसंयोगादावतिव्याप्तिः। संयोगत्वजातेश्चक्षुर्मात्रग्राह्यत्वाभावात्। घटपटसंयोगस्य त्वगिन्द्रियग्राह्यत्वेन तद्गतजातेरपि त्वगिन्द्रियग्राह्यत्वात्। अत्र जातिघटितलक्षणे गुणत्वानुपादाने चक्षुर्मात्रग्राह्यजातिमति सुवर्णादावतिव्याप्तिरतस्तद्वारणाय तदुपादानम्।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - इन्द्रियविशेष्यसम्बन्धः
गन्धग्राहकं घ्राणं घ्राणग्राह्यो गुणो गन्धः, रसग्राहकं रसनं रसनग्राह्यो गुणो रसः, रूपग्राहकं चक्षुः चक्षुर्मात्रग्राह्यो गुणो रूपं, स्पर्शग्राहकं त्वक् त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः इत्यादि लक्षणेषु च गन्धत्वादीनां जातित्वेन गन्धग्राहकत्वादीनां घ्राणादिलक्षणत्वेन च मनोलक्षण इव अन्योन्याश्रयदोषप्रसक्तिः वारणीया।
चक्षुर्मात्रग्राह्यो गुणो रूपम्, तच्च शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात् सप्तविधम्, पृथिवीजलतेजोवृत्ति, तत्र पृथिव्यां सप्तविधम् अभास्वरशुक्लं जले भास्वरशुक्लं तेजसि।।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - रूपलक्षणम्
अथ गुणाः निरूप्यन्ते।। रूपं लक्षयति चक्षुर्मात्रग्राह्येति। चक्षुर्मात्रेण ग्राह्यः, अत्र मात्रपदस्य इतरः योगः व्यवच्छेदश्चार्थः, इतरपदार्थैकदेशेतरत्वे चक्षुःपदार्थस्य प्रतियोगितानिरूपकत्वसंबन्धेनान्वयः, योगोऽत्र प्रत्यक्षविषयत्वम्, इतरपदार्थस्य जन्यत्वसम्बन्धेन प्रत्यक्षेऽन्वयः, तादृशविषयत्वस्य च व्यवच्छेदरूपाभावे अन्वयः, मात्रेणेत्यत्र तृतीयायाः जन्यत्वमर्थः, ग्रहधातोः प्रत्यक्षज्ञानम्, ण्यप्रत्ययस्य विषयत्वञ्चार्थः, तथाच चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वे सति चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वे सति गुणत्वं रूपस्य लक्षणमिति फलितम्। (चक्षुर्मात्रेण ग्राह्यः चक्षुर्मात्रग्राह्यः, अत्र तृतीयायाः जन्यत्वम्, ग्रहधातोः प्रत्यक्षज्ञानम्, ण्यप्रत्ययस्य विषयत्वञ्चार्थः, मात्रपदस्य चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वमर्थः, तथा च चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वे सति चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वे सति गुणत्वं रूपस्य लक्षणमिति फलितम्।) चक्षुर्भिन्नं यदिन्द्रियं त्वगिन्द्रियम्, तज्जन्यं यत्प्रत्यक्षम् अयमुष्णः अयं शीतः इत्याकारकं प्रत्यक्षम्, तद्विषयत्वं स्पर्शे वर्तते, तदविषयत्वं रूपे वर्तते, एवं चक्षुरिन्द्रियजन्यं यत्प्रत्यक्षम् अयं नीलः अयं पीतः इत्याकारकं प्रत्यक्षम्, तद्विषयत्वं गुणत्वञ्च रूपेऽस्तीति लक्षणसमन्वयः। गुणत्वमात्रोक्तौ रसादावपि गुणत्वस्य सत्त्वात्तत्रातिव्याप्तिः, तद्वारणाय विशेषणोपादानं, तन्निवेशे रसादौ गुणत्वस्य सत्त्वेऽपि चक्षुर्मात्रग्राह्यत्वस्याभावान्नातिव्याप्तिः। गुणत्वानुपादाने येनेन्द्रियेण या व्यक्तिः गृह्यते तेनेन्द्रियेण तन्निष्ठा जातिः तदाभावश्च गृह्यते इति न्यायेन रूपस्य चक्षुर्मात्रग्राह्यत्वे रूपत्वरूपाभावयोरपि चक्षुर्मात्रग्राह्यत्वात् तयोरतिव्याप्तिः, तद्वारणाय गुणत्वम्, तन्निवेशे तु रूपत्वस्य जातित्वेन रूपाभावस्याभावत्वेन तत्र गुणत्वस्याभावात् नातिव्याप्तिः। मात्रपदानुपादाने चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वानुपादाने चक्षुरिन्द्रियजन्यं यत्प्रत्यक्षम् अयमेकः इमौ द्वौ इत्याकारकं प्रत्यक्षम्, तद्विषयत्वं गुणत्वञ्च संख्यायामस्तीत्यतिव्याप्तिः, तद्वारणाय मात्रपदम्, तन्निवेशे तु चक्षुर्भिन्नेन्द्रियं त्वगिन्द्रियम्, तज्जन्यं यत्प्रत्यक्षम् अयमेकः इमौ द्वौ इत्याकारकं प्रत्यक्षम्, तद्विषयत्वस्यैव संख्यायां वर्तमानत्वेन तदविषयत्वस्य तत्राभावान्नातिव्याप्तिः। चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वानुपादाने धर्माधर्मादेरतीन्द्रियत्वेन चक्षुर्भिन्नत्वगादीन्द्रियजन्यप्रत्यक्षाविषयत्वस्य गुणत्वस्य च तयोः विद्यमानत्वात् अतिव्याप्तिः, तद्वारणाय चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वदलं निवेशनीयम्, तन्निवेशे चक्षुरिन्द्रियजन्यप्रत्यक्षं रूपादिविषयकं प्रत्यक्षमेव, न तु धर्माधर्मविषयकं प्रत्यक्षं तयोरतीन्द्रियत्वात्, अत तद्विषयत्वस्य धर्माधर्मादावभावात् नातिव्याप्तिः। एवमपि ज्ञानमात्रस्य मनोजन्यत्वेन चक्षुर्भिन्नमनइन्द्रियजन्यप्रत्यक्षविषयत्वस्यैव रूपे सत्त्वेन अविषयत्वस्याभावात् असम्भवः, तद्वारणाय चक्षुर्भिन्नेन्द्रियपदं त्वगिन्द्रियपरमिति वक्तव्यम्। तथा च त्वगिन्द्रियजन्यप्रत्यक्षाविषयत्वे सति चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वे सति गुणत्वं रूपस्य लक्षणं फलितम्। तथा च चक्षुर्भिन्नमनइन्द्रियजन्यप्रत्यक्षविषयत्वस्य सत्त्वेऽपि त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वस्याभावेन नासम्भवः।
टिप्पणी- रूपलक्षणे। त्वगिन्द्रियजन्यप्रत्यक्षाविषयत्वे सति प्रत्यक्षविषयत्वे सति गुणत्वमिति एतावन्मात्रोक्तौ ईश्वरीयप्रत्यक्षविषयतामादाय रसादावतिव्याप्तिः। तद्वारणाय जन्यप्रत्यक्षविषयत्वमिति लक्षणकरणेऽपि योगजप्रत्यक्षविषयतामादाय पुनः रसादावतिव्याप्तिः। तद्वारणाय इन्द्रियजन्यप्रत्यक्षविषयत्वमिति लक्षणकरणेऽपि रासनप्रत्यक्षविषयतामादाय रसादावतिव्याप्तिः। अतः चक्षुरिन्द्रियजन्यप्रत्यक्ष विषयत्वरूपस्य (कृत्स्नस्यापि ) दलस्य आवश्यकता अस्त्येव।