मूलम् - मनः - 19
सुखाद्युपलब्धिसाधनमिन्द्रियं मनः। तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च॥ १८॥
Tags - 19
मनः, इन्द्रियसाधनम्, परमाणुरूपम्, नित्यता
दीपिका - मनोपरिमाणम्
मनसो लक्षणमाह- सुखेति। स्पर्शरहितत्वे सति क्रियावत्त्वं मनसो लक्षणम्। तद्विभजते- तच्चेति। एकैकस्यात्मन एकैकं मन इत्यात्मनामनेकत्वात्मनसोऽप्यनेकत्वमित्यर्थः। परमाणुरूपमिति। मध्यमपरिमाणवत्त्वेऽनित्यत्वप्रसङ्गादित्यर्थः।
ननु मनो विभु स्पर्शरहितत्वे सति द्रव्यत्वादाकाशादिवदिति चेन्न। मनसो विभुत्वे आत्ममनःसंयोगस्यासमवायिकारणस्याभावाज्ज्ञानानुत्पत्तिप्रसङ्ग:। न च विभुद्वयसंयोगोऽस्त्विति वाच्यम्। तत्संयोगस्य नित्यत्वेन सुषुप्त्यभावप्रसङ्गात्। पुरीतद्व्यतिरिक्तस्थले आत्ममनःसंयोगस्य सर्वदा विद्यमानत्वात्। अणुत्वे तु यदा मनः पुरीतति प्रविशति तदा सुषुप्तिः। यदा निस्सरति तदा ज्ञानोत्पत्तिरित्यणुत्वसिद्धिः।
वरदाचार्य आलोके - मनः
सुखाद्युपलब्धिसाधनमिन्द्रियं मनः। तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च।
आलोक- व्याख्या
मनसो लक्षणमाह - सुखादीति। सुखादीनामुपलब्धिः सुखाद्युलब्धिः। उपलब्धेः साधनम्- उपलब्धिसाधनम्। ‘सुखादीनाम्’ इत्यत्र षष्ठ्या विषयत्वमर्थः। प्रकृत्यर्थस्याधेयतासम्बन्धेन षष्ठ्यर्थविषयतायामन्वयः। तथा च सुखादिनिष्ठविषयता। उपलब्धिर्नाम साक्षात्कारः। षष्ठ्यर्थविषयताया उपलब्ध्यर्थसाक्षात्कारे निरूपकतासम्बन्धेनान्वयः। तथा च सुखादिनिष्ठविषयतानिरूपकसाक्षात्कारः। उपलब्धेरित्यत्र षष्ठ्याः कार्यत्वमर्थः। प्रकृत्यर्थस्य साक्षात्कारस्य षष्ठ्यर्थकार्यतायामाधेयतासम्बन्धेनान्वयः। तथा च साक्षात्कारनिष्ठकार्यता। साधनं नाम - कारणतावत्। षष्ठ्यर्थकार्यताया निरूपितत्वसम्बन्धेन साधनपदार्थैकदेशकारणतायामन्वयः। अथवा षष्ठ्या निरूपितत्वमर्थः। तस्याश्रयतासंबन्धेन कारणतायामन्वयः। तथा च साक्षात्कारनिरूपितकारणताश्रय इति बोधः। तथा च सुखादिसाक्षात्कारनिष्ठकार्यतानिरूपितकारणताश्रयः (कारणतावदभिन्नम्) इन्द्रियत्वाश्रयाभिन्नं मनः इति बोधः। तथा चाखण्डबोधः ‘सुखादिनिष्ठविषयतानिरूपक (विषयतानिरूपितविषयिताश्रय) साक्षात्कारनिष्ठकार्यतानिरूपितकारणतावदभिन्नम् इन्द्रियत्वाश्रयाभिन्नं मनः’। लक्षणम् तु सुखादिनिष्ठविषयतानिरूपकसाक्षात्कारनिष्ठकार्यतानिरूपितकारणत्वे सति इन्द्रियत्वम्। अस्य लक्षणस्य मनसि समन्वयः। तथाहि सुखादिनिष्ठविषयता केति चेत् ? ’ अहम् सुखी’ इति प्रतीतिसिद्धा विषयता। तादृशविषयतानिरूपकसाक्षात्कारः कः ? इति चेत्, ‘अहम् सुखी’ इत्याकारकसाक्षात्कारः। तादृशसाक्षात्कारनिष्ठकार्यतानिरूपितकारणत्वे सति इन्द्रियत्वं मनसि वर्तत इति लक्षणसमन्वयः। इन्द्रियत्वमात्रोक्तौ चक्षुरादावतिव्याप्तिः। अतः ‘सुखाद्युपलब्धिसाधनत्वम्’ इति विशेषणम्। चक्षुरादीनां बाह्यप्रत्यक्षत्वं प्रत्येव साधनत्वात् सुखाद्युपलब्धिसाधनत्वाभावात् तत्र नातिव्याप्तिः। सुखाद्युपलब्धिसाधनत्वमात्रोक्तौ, आत्मनि अतिव्याप्तिः। सुखादिकं प्रति आत्मनः समवायिकारणत्वात् सुखादिनिष्ठविषयतानिरूपकसाक्षात्कारनिष्ठकार्यतानिरूपिता कारणताात्मन्यपि वर्तत इति अतिव्याप्तिः। अत इन्द्रियत्वं निवेशनीयम्। आत्मन इन्द्रियत्वाभावान्नातिव्याप्तिः।
तच्चेत्यादि। आत्मनां भेदस्योक्तत्वात्, तत्तदात्मनां सुखादेर्व्यवस्थितत्वात्, सुखाद्युपलब्धिसाधनानां मनसामपि व्यवस्थितत्वावश्यम्भावेन मनसामप्यात्मभेदेन भिन्नत्वमावश्यकमित्यर्थः। प्रतिशरीरं भिन्न इतिवत् ‘प्रत्यात्मं भिन्नम्’ इति वक्तुं शक्यत्वेऽपि ‘प्रत्यात्मनियतत्वात्’ इति कथनं कुत इति चेत् ? शरीरभेदे सत्यप्यात्मभेदः कैश्चिद्वेदान्तिभिर्नाङ्गीक्रियते। एतत्पक्षे मनोभेदोऽपि नावश्यकः, आत्मन एवैकत्वात्। ततश्च मनोभेदस्यात्मभेदाधीनत्वात्, आत्मनां च सुखदुःखादिवैलक्षण्येन भेद आवश्यके प्रत्यात्मं मनोव्यवस्थाया अनिवार्यत्वेन मनोभेदसिद्धिरिति सूचनाय प्रत्यात्मनियतत्वं मनोभेदे हेतुरुक्तः। अत एव मनांस्यप्यनन्तानि। आत्मनो विभुत्वावश्यकताया अनुपदमुक्तत्वात्, मनसोऽपि विभुत्वे विभुद्वयसंयोगासंभवात् मनसो ज्ञानकारणत्वं न स्यात्। विभुद्वयसंयोगाङ्गीकारे आत्ममनस्संयोगस्य ज्ञानकरणस्य सदातनत्वप्रसक्त्या ज्ञानमपि जीवानां सदातनं स्यात्। ततश्च सुषुप्त्यनुपपत्तिः। मध्यमपरिमाणत्वे तु नाशावश्यम्भावात् कदाचिद्ज्ञानाभावोऽपि प्रसज्येत। अतो मनसोऽणुत्वमुक्तम्। न च मनसोऽणुत्वेऽपि आत्मनो विभुत्वेन मनस्संयोग अनिवार्य एवेति कथं सुषुप्त्युपपत्तिरिति वाच्यम्; मनसो विभुत्वे तस्य चलनमप्यसंभवि। अणुत्वे तु शरीरान्तस्सञ्चारस्य सुवचत्वात्, देशविशेषावच्छेदेनात्मसंयोग एव ज्ञानकारणम्, न तु यत्रकुत्रचिदवस्थितमनस्संयोगो ज्ञानकारणम् इति व्यवस्थायास्सुवचत्वेनात्मविभुत्वमात्रेण न सुषुप्त्यनुपपत्तिः। स च देशविशेषः पुरीतत्संज्ञकनाडीविशेषो वा अन्यो वेति नास्माकमाग्रह इति भावः। एवं परमाणुरूपत्वादेव नित्यम्।
ननु तमसोऽतिरिक्तद्रव्यस्य सत्त्वात् कथमेतावन्त्येव द्रव्याणि। ‘नीलं तमः’, ‘गतं तमः’, ‘आगतं तमः’ इत्याद्यनुभवाद्धि तस्य गुणवत्त्वं क्रियावत्त्वं च दृष्टम्। गुणवत्त्वं क्रियावत्त्वं च हि द्रव्यसामान्यलक्षणम्। अतः कथं नवैव द्रव्याणीति चेत्; न। रूपवतः पार्थिवद्रव्यस्य स्पर्शवत्त्वनियमात्। प्रभायां व्यभिचारान्नायं नियम इति चेत्, पार्थिवस्येत्युक्तं नावहितमायुष्मता। अपि च रूपवद्द्रव्यसाक्षात्कारं प्रत्यालोकस्य कारणत्वनियमात् तमसो रूपिद्रव्यत्वे आलोकमन्तरा कथं चाक्षुषत्वम् ? अपि च छायाया एव तमस्त्वं प्रत्यक्षसिद्धम्। रात्रिरपि भूमिच्छायैवेति तत्तत्त्वविदः। अतश्च तेजोऽभावतमसोस्समनियतत्वदर्शनात् अन्यतरेणैवोपपत्तेर्नातिरिक्तं तमः। न च तमोऽभाव एव तेजः किं न स्यादिति शङ्क्यम्, उष्णस्पर्शस्याभावपदार्थेऽसंभवात्। नीलरूपं तु भ्रान्तिरेव ‘नीलं नभः’ इतिन्यायात्। क्रियाऽपि दीपगतैव। अतो नातिरिक्तं तमः। यच्च वेदान्तिभिस्तमसोऽतिरिक्तत्वसाधनम्, तत् त्रिगुणान्तर्गततमश्शब्दसमानत्वबुद्धिकृतम्। वस्तुतस्तु गुणान्तर्गतं तमोऽन्यशास्त्रविषयं अतीन्द्रियं च। ‘नीलं तमः’ इति प्रतीतिविषयस्त्वन्यदेव।
गोवर्धन-न्यायबोधिनी - मनः
मनो निरूपयति - सुखादीति। उपलब्धिर्नाम साक्षात्कारः। तथा च सुखदुःखसाक्षात्कारकारणत्वे सति इन्द्रियत्वं मनसो लक्षणम्। इन्द्रियत्वमात्रोक्तो चक्षुरादावतिव्याप्तिः। अतः सुखेत्यादि। विशेष्यानुपादाने आत्मन्यतिव्याप्तिः। आत्मनः ज्ञानादिकं प्रति समवायिकारणत्वात्। अत इन्द्रियत्वोपादानम्।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - मनोलक्षणम्
सुखाद्युपलब्धिसाधनमिन्द्रियं मनः, तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यञ्च।
मनो लक्षयति सुखादीति। शाब्दबोधः काललक्षण इव बोध्यम्। उपलब्धिर्नाम प्रत्यक्षम्। तथा च सुखादिविषयकप्रत्यक्षनिष्ठकार्यतानिरूपितकारणताश्रयत्वे सति इन्द्रियत्वं मनसो लक्षणम्। सुखादिविषयकं यत्प्रत्यक्षम् अहं सुखी अहं दुःखीत्याकारकं प्रत्यक्षं, तत्कारणत्वे सति इन्द्रियत्वस्य मनसि सत्त्वात् समन्वयः। इन्द्रियत्वमात्रोक्तौ चक्षुरादौ इन्द्रियत्वानुपादाने आत्मनि च अतिव्याप्तिः इत्युभयोपादानम्। तथा च सुखादिविषयकप्रत्यक्षनिष्ठकार्यतानिरूपितकारणताश्रयत्वे सति इन्द्रियत्वं मनसो निष्कृष्टं लक्षणम्। तच्चेति एकैकस्यात्मनः एकैकं मन इत्यात्मनामनेकत्वात् मनसोऽप्यनेकत्वं ज्ञेयम्। मनसः अनन्तत्वपरमाणुरूपत्वनित्यत्वानां प्रयोजनं दीपिकायां व्यक्तीकृतम्। द्रव्यमेवं निरूपितम्।
टिप्पणी- सुखाद्युपलब्धिसाधनमिन्द्रियं मन इत्यत्र। ननु सुखाद्युपलब्धिसाधनमिन्द्रियम् इति मनोलक्षणे इन्द्रियत्वस्य ज्ञानकारणमनस्संयोगाश्रयत्वघटितेन्द्रियलक्षणे मनस्त्वस्य च प्रविष्टत्वेन अन्योन्याश्रयदोषप्रसङ्ग इति वाच्यम्, मनस्त्वस्य जातित्वेन इन्द्रियत्वस्य शब्देतरोद्भूतविशेषगुणानाश्रयत्वविशिष्टज्ञानकारणमनस्संयोगाश्रयत्वरूपतया इन्द्रियत्वग्रहस्य स्वपदग्राह्यमनस्त्वग्रहाधीनत्वेऽपि मनस्त्वग्रहस्य इन्द्रियत्वग्रहाधीनत्वाभावेन स्वग्रहाधीनग्रहाधीनस्वग्रहविषयत्वाभावेनात्रान्योन्याश्रयदोषो नास्ति। सुखाद्युपलब्धिसाधनत्वविशिष्टेन्द्रियत्वं मनोलक्षणमेव न मनस्त्वरूपम्। नातः मनस्त्वग्रहस्य इन्द्रियत्वग्रहाधीनतेति तद्दोषाप्रसक्तिः।