मूलम् - आत्मा - 18
ज्ञानाधिकरणमात्मा। स द्विविधः परमात्मा जीवात्मा च। तत्रेश्वरः सर्वज्ञः परमात्मैक एव। जीवात्मा प्रतिशरीरं भिन्नो विभुर्नित्यश्च॥ १७॥
Tags - 18
आत्मा, ज्ञानाधिकरणम्, परमात्मा, जीवात्मा, द्विविधात्मा
दीपिका - आत्मा
आत्मनो लक्षणमाह-ज्ञानेति। आत्मानं विभजते- स द्विविध इति। परमात्मनो लक्षणमाह-तत्रेति। नित्यज्ञानाधिकरणत्वमीश्वरत्वम्।
दीपिका - ईश्वरस्यप्रमाणम्
नन्वीश्वरसद्भावे किं प्रमाणम्। न तावत्प्रत्यक्षम्। तद्धि बाह्यमान्तरं वा। नाद्यः, अरूपिद्रव्यत्वात्। न द्वितीयः, आत्मसुखदुःखादिव्यतिरिक्तत्वात्। नाप्यनुमानं लिङ्गाभावात् इति चेन्न। अङ्कुरादिकं सकर्तृकं कार्यत्वात् घटवदित्यनुमानस्य प्रमाणत्वात्। उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वं कर्तृत्वम्। उपादानं समवायिकारणम्। सकलपरमाण्वादिसूक्ष्मदर्शित्वात् सर्वज्ञत्वम्। “यः सर्वज्ञः स सर्ववित्” इत्यागमोऽपि तत्र प्रमाणम्।
दीपिका - जीवलक्षणम्
जीवस्य लक्षणमाह- जीव इति। सुखाद्याश्रयत्वं जीवलक्षणम्। ननु “मनुष्योऽहं ब्राह्मणोऽहम्" इत्यादौ सर्वत्राहंप्रत्यये शरीरस्यैव विषयत्वाच्छरीरमेवात्मेति चेन्न। शरीरस्य आत्मत्वे करपादादिनाशे सति शरीरनाशादात्मनोऽपि नाशप्रसङ्गात्। नापीन्द्रियाणामात्मत्वम्। “योऽहं घटमद्राक्षं सोऽहमिदानीं स्पृशामि" इत्यनुसंधानाभावप्रसङ्गात्। अन्यानुभूतेऽर्थे अन्यस्यानुसंधानायोगात्। तस्माद्देहेन्द्रियव्यतिरिक्तो जीवः। सुखदुःखादिवैचित्र्यात्प्रतिशरीरं भिन्नः। स च न परमाणुः। सर्वशरीरव्यापिसुखाद्यनुपलब्धिप्रसङ्गात्। न मध्यमपरिमाणवान्। तथा सत्यनित्यत्वप्रसङ्गेन (कृतनाशा)कृतहानाकृताभ्यागमप्रसङ्गात्। तस्मान्नित्यो विभुर्जीवः।
वरदाचार्य आलोके - ईश्वरसिद्धिः
नित्येन विभुनेश्वरेणैव तत्तदुपाध्यवच्छिन्नेन सर्वनिर्वाह आकाशकालदिशो मा सन्त्वित्यादिकं तु विनिगमनाविरहात् ईश्वरनिराकरण एव पर्यवस्येत्। अतस्तत्तद्व्यवहारस्यासाधारणत्वात्तत्कारणतया सिद्धधर्मिग्राहकप्रमाणसिद्धत्वेन दिक्कालयोर्नान्यथासिद्धिः। आकाशस्तु शब्दसमवायिकारणतया सिद्धः।
तर्कसंग्रहः
ज्ञानाधिकरणमात्मा। स द्विविधः। जीवात्मा परमात्मा चेति। तत्रेश्वरस्सर्वज्ञः परमात्मा एक एव। जीवस्तु प्रतिशरीरं भिन्नो विभुर्नित्यश्च।
आलोक-व्याख्या
आत्मनो लक्षणमाह - ज्ञानाधिकरणम् इति। ज्ञानस्याधिकरणम् ज्ञानाधिकरणम् इति विग्रहः। ’ ज्ञानस्य’ इत्यत्र षष्ठ्या आधेयत्वमर्थः। प्रकृत्यर्थस्य ज्ञानस्य षष्ठ्यर्थाधेयतायां निष्ठत्वसम्बन्धेनान्वयः। तथा च ज्ञाननिष्ठाधेयता। अधिकरणं नाम अधिकरणतावान्। षष्ठ्यर्थाधेयताया अधिकरणतावान् इत्यत्रैकदेशेऽधिकरणतायां निरूपितत्वसम्बन्धेनान्वयः। तथा च - ज्ञाननिष्ठाधेयतानिरूपिताधिकरणताश्रयः (अधिकरणतावदभिन्नः) आत्मा। अथवा षष्ठ्या निरूपितत्वमर्थः। निरूपितत्वस्य चाश्रयतासम्बन्धेनाधिकरणतायामन्वयः। तथा च ज्ञाननिरूपिताधिकरणता(श्रयः)वदभिन्न आत्मेति बोधः। लक्षणं तु - ज्ञाननिष्ठाधेयतानिरूपिताधिकरणत्वम्। लक्षणसमन्वयः- ज्ञाननिष्ठाधेयता केति चेत् ? ‘अहं जानामि’ ‘ज्ञानवान् अहम्’ इति प्रतीतिसिद्धाधेयता। तादृशाधेयता- निरूपिताधिकरणत्वमहंपदार्थे आत्मनि वर्तत इति लक्षणसमन्वयः।
नन्वेवं सत्यपि लक्षणस्यास्य कालादावतिव्याप्तिर्दुष्परिहरा। ज्ञाननिष्ठाधेयता केति चेत् ‘इदानीं घटज्ञानवानहम्’ इति प्रतीतिसिद्धाधेयता। तादृशाधेयतानिरूपिताधिकरणत्वं कालेऽपि, कालस्य सर्वाधारत्वात् इति तत्राऽतिव्याप्तिरिति चेत्, न। ज्ञाननिष्ठाधेयतायां समवायसम्बन्धावच्छिन्नत्वस्य विशेषणात्। तथा च लक्षणम् ‘समवायसम्बन्धावच्छिन्न- ज्ञाननिष्ठाधेयतानिरूपिताधिकरणत्वम्’। तथा च नातिव्याप्तिः। तथाहि यद्यपि ज्ञाननिष्ठाधेयतानिरूपिताधिकरणत्वं काले वर्तते। किन्तु तत्र ज्ञाननिष्ठाधेयता कालिकसम्बन्धावच्छिन्ना, न तु समवायसम्बन्धावच्छिन्ना। कुतः ? इति चेत्, गुणगुणिनोः समवायात्। ज्ञानस्यात्मगुणत्वात्। ज्ञानं न कालस्य गुणः। अतः समवायसम्बन्धावच्छिन्नज्ञाननिष्ठाधेयता केति चेत् ? ‘ज्ञानवानहम्’ इति प्रतीतिसिद्धा आधेयता। तादृशाधेयतानिरूपिताधिकरणत्वमात्मन्येव वर्तते, न तु कालादाविति नातिव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य पुनर्घटरूपपृथिव्यामतिव्याप्तिर्दुर्वारा। तथाहि - ज्ञानं कश्चन गुणः। तथा च ज्ञाननिष्ठाधेयता गुणत्वावच्छिन्नापि भवति। गुणत्वावच्छिन्नज्ञाननिष्ठाधेयता केति चेत् ? ‘गुणवान्’ इति प्रतीतिसिद्धा चतुर्विंशतिगुणसाधारणी एकैवाखण्डाधेयता। सा समवायसम्बन्धावच्छिन्नापि। अतः समवायसम्बन्धावच्छिन्नगुणत्वावच्छिन्नज्ञाननिष्ठाधेयता यथा ज्ञाने वर्तते तद्वत् गन्धादावपि वर्तते। तादृशाधेयतानिरूपिताधिकरणत्वं घटरूपपृथिव्यामपि वर्तत इति पृथिव्यादावतिव्याप्तिरिति चेत् - न। ज्ञाननिष्ठाधेयतायां ज्ञानत्वावच्छिन्नत्वस्य निवेशनात्। तथा च लक्षणम्- ‘समवायसम्बन्धावच्छिन्नज्ञानत्वावच्छिन्नज्ञाननिष्ठाधेयता- निरूपिताधिकरणत्वम्’। एवञ्च नातिव्याप्तिः। तथाहि समवायसम्बन्धावच्छिन्नज्ञानत्वावच्छिन्नज्ञाननिष्ठाधेयता केति चेत् ? तत्राधेयताद्वयं वर्तते। एका चतुर्विंशतिगुणसाधारणी ‘गुणवान्’ इति प्रतीतिसिद्धा गुणत्वावच्छिन्ना ज्ञाननिष्ठाधेयता। एवं ज्ञानत्वावच्छिन्ना ‘ज्ञानवान्’ इति प्रतीतिसिद्धा ज्ञानमात्रनिष्ठाधेयतान्या। तत्र गुणत्वावच्छिन्नज्ञाननिष्ठाधेयतायाः स्वीकारे तु ‘गुणवान्’ इति प्रतीतिसिद्धाधेयता भवति। लक्षणेऽस्माभिस्तावत् ‘ज्ञानवान्’ इति प्रतीतिसिद्धा ज्ञाननिष्ठाधेयता ज्ञानत्वावच्छिन्ना निविष्टा, न तु ‘गुणवान्’ इति प्रतीतिसिद्धाधेयता। तादृशाधेयतानिरूपिताधिकरणत्वं त्वात्मन्येव वर्तते, न तु घटादिरूपपृथिव्यामिति तत्र नातिव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य सुषुप्तिकालावच्छेदेनात्मन्यव्याप्तिर्दुष्परिहरा। तथाहि आत्मनो नित्यत्वाङ्गीकारेऽपि ज्ञानस्यानित्यत्वात् सुषुप्तौ ज्ञाननाशात्, समवायसम्बन्धावच्छिन्नज्ञानत्वावच्छिन्नज्ञाननिष्ठाधेयतानिरूपिताधिकरणत्वं सुषुप्तिकालिकात्मनि नास्तीत्यव्याप्तिरिति चेत् न। जातिघटितलक्षणपरिष्कारात्। तथा च लक्षणम्- ‘समवायसम्बन्धावच्छिन्नज्ञानत्वावच्छिन्नज्ञाननिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिजातिमत्त्वम्’। एवञ्च नातिव्याप्तिः। तथाहि- समवायसम्बन्धावच्छिन्न- ज्ञानत्वावच्छिन्नज्ञाननिष्ठाधेयतानिरूपिताधिकरणतावान्, यत्रास्माकं ज्ञानमुपलभ्यते तादृशजाग्रदावस्थाविशिष्टात्मा स्वीकार्यः। तद्वृत्तिर्या जातिरिति चेत्, आत्मत्वजातिः। तादृशजातिमत्त्वं सुषुप्तिकालावच्छेदेनात्मन्यपि वर्तत इति लक्षणसमन्वयात् नाव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः पृथिव्यादावतिव्याप्तिर्दुष्परिहरा। तथाहि-समवायसम्बन्धावच्छिन्नज्ञानत्वावच्छिन्नज्ञाननिष्ठाधेयतानिरूपिताधिकरणतावान् आत्मा। तद्वृत्तिर्या जातिरिति चेत् ? आत्मत्वजातिर्यथा, तद्वत् द्रव्यत्वजातिरपि भवति। तादृशजातिमत्त्वं पृथिव्यादावपि वर्तत इत्यतिव्याप्तिरिति चेत् - न। जातौ द्रव्यत्वव्याप्यत्वस्य विशेषणात्। तथा च लक्षणम्- ‘समवायसम्बन्धावच्छिन्नज्ञानत्वावच्छिन्नज्ञाननिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्यजातिमत्वम्’। एवञ्च नातिव्याप्तिः। तथाहि- समवायसम्बन्धावच्छिन्नज्ञानत्वावच्छिन्नज्ञाननिष्ठाधेयतानिरूपिताधिकरणतावान् आत्मा। तद्वृत्तिर्या द्रव्यत्वव्याप्या जातिरिति चेत् ? आत्मत्वजातिरेव भवति, न तु द्रव्यत्वजातिः। स्वस्य स्वव्याप्यत्वाभावात्। एवं सत्ताऽपि तद्व्याप्यजातिर्न भवति, तस्या द्रव्यत्वव्यापकत्वात्। अतस्तादृशद्रव्यत्वव्याप्या जातिः केति चेत् ? आत्मत्वजातिरेव भवति। तादृशजातिमत्त्वमात्मन्येव वर्तत इति पृथिव्यादौ नातिव्याप्तिः।
आत्मपदस्य परमात्मन्यपि प्रयोगात्, तत्पदं जीवपरमात्मसाधारणम्। अत आत्मा द्विविधः - जीवात्मा परमात्मा चेति। परमात्मा त्वेक एव। ‘तु’ शब्दो जीववैलक्षण्यसूचकः। स एव सर्वजगन्नियन्ता यतः, तत ‘ईश्वरः’ अत एव सर्वज्ञश्च। अत एव एक एव, ईश्वरद्वये परस्परवैमत्यावश्यम्भावात् ‘राजद्वयं राज्यविनाशहेतुः’ इति न्यायात्। सर्वांशेऽप्युभयोरैकमत्यान्न विरोधप्रसङ्ग इति यदि तर्हि द्वितीयवैयर्थ्यम्, एकेनैव सर्वजगन्नियमनादिनिर्वाहात्। अतस्स एक एव। ईश्वरभिन्नत्वे सति चेतनत्वं जीवलक्षणम्। चेतनत्वमात्रोक्तौ ईश्वरे, चेतनत्वानुपादाने घटादौ चातिव्याप्तिः।
टिप्पणी
ईश्वरानुमानम्- ननु ईश्वरसद्भावे किं प्रमाणमिति चेत्, जीवसद्भावे वा किं प्रमाणम्? ‘अयमहमस्मि’ इति सर्वेषां स्वविषयकानुभवस्य सत्त्वात्, परमात्मनः अप्रत्यक्षत्वेऽपि स्वात्मनो मानसप्रत्यक्षसिद्धत्वमस्त्येवेति शक्यं वक्तुम्। मन्यन्ते बहवस्तथा, परन्तु देहादेरेव तथा निर्देशात्, तदतिरिक्तात्मनः केनाप्यननुभवात्। योगिनामेव तत्संभवात्। अत एव सूत्रकारोऽपि ‘इच्छाद्वेषप्रयत्न सुखदुःखज्ञानान्यात्मनो लिङ्गम्’ (न्या.सू-१-१-१०) इत्यात्मनोऽनुमेयत्वमेवाह। स्वात्मनः प्रत्यक्षत्वेऽपि परात्मनोऽप्रत्यक्षत्वात्तथोक्तमिति समादधते केचित्। तर्हि सर्वेऽपि आत्मज्ञानिनो भवेयुः। लेशतो भवेच्चेत्तत्परिणामः कीदृशो भवेदित्यपरिचयादेव तथा वदन्ति ते। वस्तुतः, इदानीन्तनपण्डितानां शरीरातिरिक्तात्मज्ञानमनुमितिरूपम्, शब्दरूपं वा न प्रत्यक्षरूपम्। एवं स्वस्वरूपज्ञानस्यैवाभावे, ईश्वरसिद्धिः सुतरामनुमानेनैव वक्तव्या।
यद्यप्ययं विषयः न्यायशास्त्रसीमातीत एव। अत एव न्यायसूत्रेषु, भाष्ये वा नेश्वरसाधनं दृश्यते। ‘इन्द्रियार्थसन्निकर्षोत्पन्नं प्रत्यक्षम्’ (न्या.सू.१-१-४.)। इत्यादिसूत्रेणैवेदं स्पष्टीकृतम्, ईश्वरीयप्रत्यक्षस्यालक्ष्यत्वाभिप्रायात्। तथापि, ईश्वरनिराकरणव्यग्राणां मुखपिधानस्य वेदैकशरणैर्वेदान्तिभिः कर्तुमशक्यत्वात्, स भारः तार्किकाणामुपरि अवशात्पतितः। तद्भारं स्वीकुर्वद्भिः न्यायाचार्यैरुदयनैः, तदर्थमेव व्यरचि न्यायकुसुमाञ्जलिनामकः प्रौढो ग्रन्थः। तदनुसारेणेश्वरानुमानं संग्रहेण प्रदर्श्यते ‘क्षित्यङ्कुरादिकम् अस्मद्विलक्षणपुरुषकर्तृकम्, अस्मदाद्यकर्तृकत्वे सति सकर्तृकत्वात’ इति परिशेषानुमानमेव ईश्वरे प्रमाणम्। क्षितिपदं विविधविचित्ररचनविश्वस्योपलक्षकम्। तत्र निदर्शनतया अङ्कुरमुच्यते। भूमौ प्रतिक्षणमुत्पद्यमानान्यङ्कुराणि सर्वेऽपि पश्यन्ति। अत्र तादृशः को वा चेतनो दृश्यते। न चैतत् स्वभावादेव भवतीति वक्तुं शक्यम्। तथा कथनं तु पलायनवादायते। पराजयमङ्गीकर्तुमशक्नुवताम् अहंकारिणामयं वाद इत्यर्थः। ‘स्वभावः’ इत्यत्र ‘स्व’ शब्दार्थः कः ? तत्तद्वस्त्वेव ‘स्व’ शब्दार्थ इति यथा - अङ्कुरकारणभूतं बीजमेव स्वशब्दार्थ इति चेत्, बीजं कथमङ्कुरमुत्पादयतीत्येव प्रश्नः। बीजस्यायं स्वभाव इति चेत्, तत्र ‘स्व’शब्दस्यार्थः कः? बीजमेवेति चेत्, तत् कथमङ्कुरमुत्पादयतीत्येव प्रश्नः। बीजस्यायं स्वभाव इति कथनेऽन्योन्याश्रयः, आत्माश्रयो वानिवार्यः। एतावता कालेनादृष्टमङ्कुरमिदानीं दृश्यते चेत्, तत् कार्यमेव भवति। कार्यं च लोके कस्यचित्पुरुषस्य प्रयत्नेनैव भवेदिति घटपटादौ दृष्टम्। अत्र स कः ? इत्येव प्रश्नः। मृत्सलिलादि तत्तत्सामग्रीसंमेलनादेव तद्भवतीति चेत्, मृदादयः किल न चेतनाः। ते कथं चेतनाधिष्ठानमन्तरा कार्यं कुर्युः ? तेषामयं स्वभाव इति चेत्, तत्र स्वपदार्थः कः? अतो बहुदूरं गत्वापि कश्चन चेतनस्सर्वं सुव्यवस्थितं चालयिता वर्तत एवेत्यङ्गीकार्यम्।
ननु भोः! किमियं बिभीषिका। अद्यतना महाविज्ञानिनोऽपि स्वभाववादमेवाङ्गीकुर्वन्ति। किमधिकं वक्तव्यमिति चेत्- सत्यम्। जानीम एव भवतां कूटस्थम्। तेष्वपि प्राचीना महाविज्ञानिनो नैवमवदन्। आगच्छता कालेनैवायं नास्तिकवादो वर्धमानः परिदृश्यते। अत एव ज्ञायते जगदिदं महते परिवर्तनाय सज्जीभवदस्तीति ‘Nature’ इत्युच्यमानमेव देववाण्यां स्वभाव इत्युच्यते। स एव प्रकृतिरित्युच्यते। तत्तद्वस्तूनां स्वभावाः खलु परस्परविलक्षणा प्रश्नानर्हा विचित्राश्च दृश्यन्ते। तत्र सर्वत्र स्वभावपदे वर्तमानः स्वपदार्थः यत्रान्ते पर्यवस्येत्, तत्र वर्तमानः पदार्थो न जडः। किन्तु स सर्वघटकः सर्वज्ञः सर्वशक्त ईश्वर इत्युच्यते। अत एव स जीवादत्यन्तविलक्षणश्च। न हि न्यायदर्शने ईश्वरतुल्यः कश्चिदन्यस्सर्वज्ञः अङ्गीक्रियते। न्यायदर्शनस्यावधिरप्ययमेव। ईश्वरानङ्गीकारस्तु अहङ्कारात्, अज्ञानाद्वा भवेदित्येव परमं रहस्यम्। अहंकारः खलु वक्तुरात्मानं स्वेतरेभ्यस्सर्वेभ्यो व्यावर्त्यमानं स्वमात्रविषयकं करोतीति सर्वेषामनुभवसिद्धम्। एतत् कियदत्यल्पम् ? इति गाढमालोचयतां सुज्ञं भवेत्। एवमत्यल्पस्यास्य जीवस्य ज्ञानं वा कियद् बृहद्भवेत्। एतादृशाहङ्काराज्ञानयोर्नाश एवेश्वरो ज्ञातुं शक्येत क्रमेणेत्येव त्रिकालसत्यम्॥
अतश्च अस्मिन् ब्रह्माण्डे वर्तमानास्सर्वे अणवो वा विभवो वा पदार्थाः, सर्वे स्वस्वकक्ष्यायां स्थित्वा परस्पराविरोधेन यदधीनास्सदा चलन्ति, स एवान्तिम Nature ईश्वर इति ज्ञातव्यम्। अतश्च विलक्षणात् बीजादारभ्य सूर्यचन्द्रादयोऽपि तदधीना एव चलन्तीत्युच्यते। ‘एतस्य वा अक्षरस्य प्रशासने गार्गि’(बृ.५-८-९) इत्यारभ्य ‘यो वा एतदक्षरमविदित्वास्माल्लोकात्प्रति स कृपणः, अथ य एतदक्षरं विदित्वाऽस्माल्लोकात्प्रैति स ब्राह्मण:’ इत्युपसंहरति भगवती श्रुतिः। एवं विज्ञानस्यान्तिमभूमौ वर्तमानमेवोच्यते ‘विज्ञानेनात्मानं वेदयते’ (म.ना.) इत्यत्र। अतश्चास्मदाद्यकर्तृकत्वे सति संकर्तृकत्वादित्युक्तानुमानेनेश्वरसिद्धिः। अधिकमन्यत्र द्रष्टव्यम्। इदं सर्वेषां कथं सुसाध्यमिति चेत्, केनोक्तं सुसाध्यमिति। तर्हि किमुत्तरमिति चेत्, श्रद्धैवेति गृह्यताम्। अन्ततः क्रियतां सत्सङ्गः।।
आलोक-व्याख्या
तथा च सर्वज्ञत्वमीश्वरलक्षणम्। जीवस्त्वित्यादि। अत्रापि ‘तु’ शब्दो परमात्मवैलक्षण्यसूचकः। तच्च असर्वज्ञत्वरूपम्, अनेकत्वरूपञ्च। जीवानामनेकत्वे कारणं प्रतिशरीरं भिन्न इति। शरीराणि प्रत्यक्षत एव परस्परं भिन्नान्यनन्तानि च। अतस्तत्तच्छरीरावच्छिन्नात्मानोऽप्यनन्ताः। शरीरं हि सुखदुःखादिभोगकारणम्। सुखदुःखादिकं च प्रतिजीवं विलक्षणं दृष्टम्, प्रतिजीवं पुण्यपापकर्मणां विलक्षणत्वात्। अतश्शरीराण्यपि भिन्नानि, आत्मानोऽपि भिन्नाः। तथा च ‘भिन्नाः’ इत्यत्र भेदो न शरीरमात्रप्रतियोगिकः, अपितु इतरशरीरावच्छिन्नजीवप्रतियोगिकः। शरीराज्जीवस्य भेदस्तु, शरीरस्य पाञ्चभौतिकस्य जडत्वात्, आत्मनश्चाजडत्वस्य ‘ज्ञानाधिकरणमात्मा’ इति लक्षणकरणेनैव सिद्धत्वात् पृथङ्न वक्तव्यमित्यभिप्रायः। ‘प्रतिशरीरं भिन्नः’ इत्यनेन, यद्यच्छरीरं तत्सर्वं तदवच्छिन्नचेतनाधिष्ठितम्, तच्छरीरभिन्नशरीराधिष्ठितचेतनानधिष्ठितं च। एवञ्च भिन्नभिन्नशरीराणामधिष्ठातृतया भिन्नभिन्नजीवानां सिद्धिः। शरीराणामानन्त्याच्च जीवानन्त्यसिद्धिः। तथा च शरीरभेद एव जीवभेदे प्रमाणम्। शरीरभेदश्च सुखदुःखवैलक्षण्यादित्युक्तमेव। ‘प्रतिग्रामं देवालयोऽस्ति’ इति कथने, ग्रामश्चेद्देवालयः स्यादेवेत्यर्थलाभात्, ‘यत्र यत्र ग्रामत्वम्, तत्र सर्वत्र देवालयवत्त्वम्’ इति व्याप्तिलाभः। तद्वदत्रापि ‘प्रतिशरीरं भिन्नः’ इत्यत्रापि शरीराणां भेदन, ग्रामभेदेन देवालयभेदवत् तदवच्छिन्नजीवानामपि भेदः सिद्धः। विभुरिति। युगपदेव पादे शिरसि च वेदनानुभवात् जीवानामणुत्वं न युज्यते। मध्यमपरिमाणत्वे चानित्यत्वप्रसङ्गः। जीवानामनित्यत्वे च मोक्षार्थप्रयत्नाद्यनुपपत्तिरिति अर्थात् विभुत्वसिद्धिः। विभुत्वादेव नित्यत्वसिद्धिश्च मध्यमपरिमाणस्यैवानित्यत्वेन व्याप्तेः।
तर्कसंग्रहः
गोवर्धन-न्यायबोधिनी - आत्मा
आत्मानं निरूपयति - ज्ञानाधिकरणमिति। अधिकरणपदं समवायेन ज्ञानाश्रयत्वलाभार्थम्।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - ज्ञानाधिकरणता
ज्ञानाधिकरणमात्मा, स द्विविधः, जीवात्मा परमात्मा चेति, तत्रेश्वरः सर्वज्ञः परमात्मा एक एव, जीवस्तु प्रतिशरीरं भिन्नो विभुर्नित्यश्च।
आत्मानं लक्षयति ज्ञानाधिकरणमिति। अत्राधिकरणपदं समवायेन ज्ञानाश्रयत्वलाभाय नत्वतिव्याप्त्यादिदोषवारणाय। ज्ञानस्याधिकरणं ज्ञानाधिकरणम्, अधिकरणपदस्याधेयतानिरूपिताधिकरणतावानर्थः, षष्ठ्यर्थः आधेयत्वम्, अस्य च आधेयतायामन्वयः। तथा च ज्ञाननिष्ठा याऽधेयता अहं जानामि इत्याकारकप्रतीतिसिद्धा ज्ञाननिष्ठाऽधेयता, तन्निरूपिता याऽधिकरणता आत्मनिष्ठाधिकरणता, तदाश्रयत्वम् आत्मनि वर्तते इति लक्ष्ये लक्षणसमन्वयः। कालिकसम्बन्धावच्छिन्नज्ञाननिष्ठाधेयतां गुणत्वावच्छिन्नाधेयतां च आदाय कालादावतिव्याप्तिवारणाय समवायसम्बन्धावच्छिन्नत्वं ज्ञानत्वावच्छिन्नत्वञ्च ज्ञाननिष्ठाधेयतायां विशेषणं देयम्। उत्पन्नविनष्टस्यात्मनः अभावेन तत्र अव्याप्तिवारणाय जातिघटितलक्षणं न कर्तव्यम्। तथा च समवायसम्बन्धावच्छिन्नज्ञानत्वावच्छिन्नाधेयतानिरूपिताधिकरणताश्रयत्वमात्रं आत्मनो निष्कृष्टं लक्षणं बोध्यम्। आत्मानं विभजते- स द्विविध इति। नित्यज्ञानाधिकरणत्वमीश्वरत्वम्, तत्तद्व्यक्तित्वेन सर्वविषयकज्ञानाश्रयत्वं सर्वज्ञत्वम्। जीवस्य शरीरभेदेन भेदः सुखदुःखवैलक्षण्येनाङ्गीकार्यः। जीवानां विभुत्वनित्यत्वाङ्गीकारप्रयोजनं दीपिकायां विशदीकृतम्।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - जीवभेदः
टिप्पणी- जीवस्तु प्रतिशरीरं भिन्न इत्यत्र। ननु प्रतिद्रव्यं सत्तेत्यत्र सत्तायां द्रव्यत्वव्यापकत्वस्येव अत्रापि आत्मभेदे शरीरत्वव्यापकत्वस्य भानमङ्गीकार्यम्, तादृशभानाङ्गीकारे तु आत्मशरीरयोः भेदस्य स्वतस्सिद्धत्वेन जीवात्मनः एकत्वेऽपि शरीरत्वव्यापकत्वस्य जीवात्मभेदेऽक्षतत्वेन शरीरभेदेन जीवभेदबोधकत्वम् अस्य वाक्यस्य न सम्भवतीति चेन्न, अत्र प्रतिपदसमभिव्यापहृतशरीरपदस्य स्वावच्छेदकयत्किञ्चिच्छरीरभेदव्यापकत्वमित्यर्थः, तस्य भेदेऽन्वयः, तथाच, स्वावच्छेदकयत्किञ्चिच्छरीरभेदव्यापकभेदप्रतियोगी जीवात्मेति बोधः, अत्र स्वाश्रयशरीरत्वं व्याप्यतावच्छेदकसम्बन्धः स्वाश्रयावच्छेदकत्वं व्यापकतावच्छेदसम्बन्धः। एषा पट्टाभिरामप्रदर्शिता रीतिः।
प्रत्यात्मनियतत्वादनन्तमित्यत्र। प्रतिपदसमभिव्याहृतात्मपदस्य आत्मत्वव्यापकसंख्यासजातीयमर्थः, नियतत्वञ्च संख्यावत्त्वम्, संख्यासाजात्यञ्च बहुत्वत्वव्याप्यजात्या बोध्यम्। संख्यावत्त्वञ्च संख्यापर्याप्त्यधिकरणत्वं ग्राह्यम्। अन्यथा मनसः एकत्वेऽपि आत्ममनस्साधारणसंख्यामादाय मनसि तादृशसंख्यावत्त्वमापद्येत। तथाच आत्मत्वव्यापकसंख्यासजातीयसंख्याप्रर्याप्त्यधिकरणत्वं प्रत्यात्मनियतत्वमिति सिद्धम्। अतः संख्यात्वव्याप्यधर्मावच्छिन्नप्रकारतानिरूपिता या अस्मदादिनिश्चयीया विशेष्यता तच्छून्यत्वम् आनन्त्यम्। एषापि पट्टाभिरामप्रदर्शिता रीतिरेव।