मूलम् - दिक् - 17
प्राच्यादिव्यवहारहेतुर्दिक्। सा चैका विभ्वी नित्या च॥ १६॥
Tags - 17
दिक्, द्रव्यस्वरूपम्, दिग्व्यवहारः, नित्यत्वम्, विभुत्वम्
दीपिका - दिक्
दिशो लक्षणमाह-प्राचीति। दिगपि कार्यमात्रे निमित्तकारणम्।
गोवर्धन-न्यायबोधिनी - दिक्
दिशो लक्षणमाह - प्राचीति। उदयाचलसन्निहिता या दिक् सा प्राची। अस्ताचलसन्निहिता या दिक् सा प्रतीची। मेरोः सन्निहिता या दिक् सोदीची। मेरोर्व्यवहिता या दिक् सावाची।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - दिक्
प्राच्यादिव्यवहारहेतुः दिक्। साचैका विभ्वी नित्या च।
दिशं लक्षयति प्राच्यादीति। शाब्दबोधः काललक्षण इव ज्ञेयः। प्राच्यादिव्यवहारनिष्ठकार्यतानिरूपितकारणताश्रयत्वं दिशो लक्षणम्, प्राच्यादिव्यवहारनिष्ठा या कार्यता अयं प्राच्यः अयं प्रतीच्यः अयम् उदीच्यः अयमवाच्यः इत्याकारकव्यवहारे विद्यमाना कार्यता, तन्निरूपिता या कारणता प्राच्यादिदिक्षु विद्यमाना कारणता, तदाश्रयत्वं दिक्षु वर्तते इति समन्वयः। अत्रापि व्यवहारहेतुत्वमात्रोक्तौ घटेऽतिव्याप्तिः। आदिपदाभावे प्रतीच्यादिदिक्षु अव्याप्तिः। पूर्ववद्घटादावतिव्याप्तिवारणाय प्राच्यादिव्यवहारनिष्ठकार्यतानिरूपितरकारणतावज्ज्ञानीयमुख्यविशेष्यतानिरूपितप्रकारताश्रयत्वं निष्कृष्टलक्षणं बोध्यम्। एकत्वादिकं गगनलक्षणवद्बोध्यम्।