16 कालः

मूलम् - कालः - 16

अतीतादिव्यवहारहेतुः कालः। स चैको विभुर्नित्यश्च॥ १५॥

Tags - 16

कालः, द्रव्यस्वरूपम्, अतीतव्यवहारः, नित्यत्वम्, विभुत्वम्

दीपिका - कालः

कालं लक्षयति- अतीतेति। सर्वाधारः कालः सर्वकार्यनिमित्तकारणं च।

वरदाचार्य आलोके - कालः

तर्कसंग्रहः
अतीतादिव्यवहारहेतुः कालः। स चैको विभुर्नित्यश्च।
आलोक- व्याख्या
कालं लक्षयति- अतीतादीति। अतीतादीनां व्यवहारः अतीतादिव्यवहारः। अतीतादिव्यवहारस्य हेतुः अतीतादिव्यवहारहेतुरित्युभयत्र षष्ठीतत्पुरुषसमासः। आदिपदेन भविष्यद्वर्तमानयोरपि ग्रहणं कर्तव्यम्। अतीतादीनामित्यत्र षष्ठ्या विषयत्वमर्थः। प्रकृत्यर्थस्यातीतादेः षष्ठ्यर्थविषयतायामाधेयतासम्बन्धेनान्वयः। तथा च अतीतादिनिष्ठविषयता इति बोधः। व्यवहारो नाम ज्ञानजनकशब्दप्रयोगः। षष्ठ्यर्थविषयताया व्यवहारपदार्थैकदेशे ज्ञाने निरूपकतासम्बन्धेन अथवा स्वनिरूपितविषयितावत्त्वसम्बन्धेनान्वयः। तथा च अतीतादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगः अथवा अतीतादिनिष्ठविषयतानिरूपितविषयिताश्रयज्ञानजनकशब्दप्रयोग इति बोधः। अतीतादिव्यवहारस्य हेतुरित्यत्र षष्ठ्याः कार्यत्वमर्थः। प्रकृत्यर्थस्य ज्ञानजनकशब्दप्रयोगस्य षष्ठ्यर्थकार्यतायामाधेयतासम्बन्धेनान्वयः। तथा च अतीतादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यता इत्यासीत्। हेतुर्नाम कारणतावान्। षष्ठ्यर्थकार्यताया हेत्वर्थैकदेशे कारणतायां निरूपितत्वसम्बन्धेनान्वयः। तथा च- अतीतादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपित कारणतावानित्यासीत्। आहत्य चाखण्डबोध: - ‘अतीतादिनिष्ठविषयता(निरूपित-विषयिताश्रय) निरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणताश्रयः (कारणतावदभिन्नः) काल:’ इति। अतीतादिनिष्ठविषयतानिरूपक (विषयतानिरूपितविषयिताश्रय) ज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणत्वं कालस्य लक्षणम्।
अस्य लक्षणस्य ‘अतीतो घटः’ इत्यत्र समन्वयः। ‘अतीतः’ इत्यत्र ‘व्यवहारे व्यवहर्तव्यस्य कारणत्वम्’ इति नियमानुरोधेन अतीतादिविषयकव्यवहारे ‘अतीतः’ इति अतीतत्वरूपकालज्ञानमावश्यकम्। अतस्तादृशातीतादिनिष्ठविषयतानिरूपकम् किं ज्ञानमिति चेत् ? ‘अतीत’ इत्याकारकज्ञानम्। तादृशज्ञानजनकशब्दप्रयोगनिष्ठकार्यता केति चेत् ? अतीतादिव्यवहारनिष्ठकार्यता। तादृशकार्यतानिरूपितकारणत्वं काले वर्तत इति लक्षणसमन्वयः।
नन्वेवं सत्यप्यस्य लक्षणस्येश्वरादावतिव्याप्तिर्दुष्परिहरा। तथा हि ‘कार्यसामान्यं प्रति कालेश्वरादृष्टादीनां कारणत्वम्’ इति नियमानुसारेण अतीतादिनिष्ठविषयतानिरूपितज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणत्वमीश्वरादावप्यस्तीति ईश्वरादावतिव्याप्तिरिति चेत्, न। कार्यतानिरूपितकारणतायाम् ‘असाधारण’ दलस्य विशेषणात्। तथा च लक्षणम्- अतीतादिनिष्ठविषयतानिरूपकज्ञानजनकशब्द-प्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणत्वम्। एवञ्च नातिव्याप्तिः। तथाहि कारणं हि साधारणकारणम्, असाधारणकारणमिति द्विविधम्। कालेश्वरादृष्टादयः साधारणकारणानि। इतराणि दण्डचक्रसलिलादीनि घटादौ असाधारणकारणानि। अतीतादिव्यवहारे अतीतादिविषयकातीतत्वरूपकालोऽसाधारणकारणम्। ईश्वरादीनां तु तत्र साधारणकारणत्वेन असाधारणकारणत्वाभावात् नेश्वरादावतिव्याप्तिः।
ननु कालादीनां कार्यसामान्यं प्रति साधारणकारणत्वं यदि, तर्हि अतीतादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणत्वं कथं कालस्य लक्षणमुच्यते, साधारणकारणस्यासाधारणकारणत्वस्य च विरुद्धत्वेनासंभवप्रसङ्गादिति चेत्, न। काले साधारणकारणत्वं तु कार्यसामान्यापेक्षया, असाधारणकारणत्वं तु कालव्यवहारं प्रति कालज्ञानस्यावश्यकत्वात् विशेषापेक्षयेति विरोधाभावात्। यथा हि दण्डादिकं घटादिकं प्रति निमित्तकारणं सदपि स्वगतरूपं प्रति समवायिकारणमपि भवति। निरूपकभेदेन तद्यथा न विरुद्धं, तथैवात्राप्यदोषात्। कार्यत्वावच्छिन्नकार्यतानिरूपिताकारणता अन्या, अन्या च व्यवहारत्वा- वच्छिन्नकार्यतानिरूपिता कारणतेति ज्ञेयम्।
यद्यप्यत्र ‘अतीत’पदस्यातीतकालवृत्तिवस्तुपरत्वात् तादृशव्यवहारकारणत्वं घटादेरपि वर्तत इति घटादावतिव्याप्तिः। न चातीतपदम् ‘कालोऽतीतः’ इति व्यवहारात् कालबोधकमेवेति शक्यम्, कालस्य नित्यत्वेन तस्यातीतत्वाभावात्, तादृशव्यवहारस्य घटाद्यौपाधिकत्वात्। तथापि ‘अतीत’पदस्यातीतत्वपरत्वात्, अतीतत्वादिनिष्ठविषयतानिरूपितविषयिताश्रयज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणताश्रयत्वस्य लक्षणत्वेनातिव्याप्त्यभावात्।
कालस्यैकत्वेऽपि उपाधिभेदादेवातीतवर्तमानभविष्यत्कालभेदः। ‘अस्ति’ इति व्यवहारप्रयोजकः कालो वर्तमानः। ‘बभूव’ इति व्यवहारप्रयोजको भूतः। ‘भविष्यति’ इति व्यवहारप्रयोजको भावी। भूते भविष्यति च कालेऽद्यतनानद्यतनत्वादिकमौपाधिकभेदापेक्षम्। वर्तमानस्त्वेक एव। यद्यपि कालोऽतीन्द्रियः, तथाप्युपाधीनां सूर्योदयादीनां प्रत्यक्षत्वात् कालोऽपि प्रत्यक्ष इव भवति। अत एव ‘जन्यानां कालोपाधित्वम्’ इत्येव नियमः, नित्यानां भूतभविष्यद्व्यवहारासंभवात्। जन्यानां कालोपाधित्वादेव तेषां खण्डकालरूपत्वम्, उपाध्युपहितयोरभेदोपचारात्, ‘अशोककालः’ इत्यादिव्यवहारः,‘अयो दहति’ इतिवत्। अयसः पार्थिवत्वात् स्वतो नहि दाहकत्वम्, किन्तु वह्निनोपहितस्य तप्तायस एव। एवञ्च खण्डकालत्वाज्जन्यानां क्वचित्कालः प्रत्यक्ष इव। अयं न्यायो दिश्यपि समानः। अत एव ‘मूर्तानां दिगुपाधित्वम्’ इत्यपि न्यायः।
तर्कसंग्रहः
प्राच्यादिव्यवहारहेतुर्दिक्। सा चैका विभ्वी नित्या च।
आलोक- व्याख्या
दिशं लक्षयति - प्राच्यादीति। प्राच्यादीनां व्यवहार इति प्राच्यादिव्यवहारः। प्राच्यादिव्यवहारस्य हेतुः प्राच्यादिव्यवहारहेतुः। आदिपदेन प्रतीची - उदिची- अवाचीनां ग्रहणं कर्तव्यम्। ‘प्राच्यादीनाम् इत्यत्र षष्ठ्या विषयत्वमर्थः। प्रकृत्यर्थस्याधेयत्वसम्बन्धेन षष्ठ्यर्थविषयतायामन्वयः। तथा च प्राच्यादिनिष्ठविषयतेति बोधः। ‘व्यवहारो’ नाम ज्ञानजनकशब्दप्रयोगः। षष्ठ्यर्थविषयताया व्यवहारपदार्थैकदेशे ज्ञाने निरूपकत्वसम्बन्धेनान्वयः। तथा च प्राच्यादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगः इति खण्डबोधः। ‘व्यवहारस्य हेतु:’ इत्यत्र षष्ठ्याः कार्यत्वमर्थः। प्रकृत्यर्थस्य षष्ठ्यर्थकार्यतायामाधेयतासम्बन्धेनान्वयः। तथा च ज्ञानजनकशब्दप्रयोगनिष्ठकार्यता इति बोधः। हेतुर्नाम कारणतावतीत्यर्थः। षष्ठ्यर्थकार्यताया निरूपितत्वसम्बन्धेन ‘कारणतावतीत्यत्रैकदेशे कारणतायामन्वयः। तथा च ज्ञानजनकशब्दप्रयोग- निष्ठकार्यतानिरूपितकारणतावती (कारणताश्रयः) इति बोधः। ‘प्राच्यादिनिष्ठ- विषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणतावदभिन्ना (कारणताश्रयः) दिक्’ इति अखण्डशाब्दबोधः। लक्षणं तु ‘प्राच्यादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणत्वम्’ इति। अस्य लक्षणस्य ‘प्राच्यां घटः’ इत्यादौ समन्वयः। ‘प्राच्यां घटः’ इत्यस्मिन् व्यवहारे व्यवहर्तव्याया दिशः कारणत्वात् प्राच्यादिविषयकव्यवहारे प्राच्यादिरूपदिग्ज्ञानमावश्यकम्। तादृशप्राच्यादिनिष्ठविषयतानिरूपकं किं ज्ञानमिति चेत् ? ‘प्राची’ इत्याद्याकारकं ज्ञानम्। तज्जनकः ‘इयं प्राची’ ‘इयमवाची’ ‘इयं प्रतीची’ ‘इयमुदीची ’ इत्याद्याकारकशब्दप्रयोगः। तादृशशब्दप्रयोगरूपव्यवहारनिष्ठकार्यता केति चेत् ? ‘इयं प्राची’ इत्याद्याकारकप्रतीतिसिद्धा व्यवहारनिष्ठकार्यता। तादृशकार्यतानिरूपितकारणत्वं दिशि वर्तत इति लक्षणसमन्वयः।
नन्वेवं सत्यपि लक्षणस्यास्येश्वरादावतिव्याप्तिर्दुर्वारा। तथाहि- कार्यसामान्यं प्रति कालेश्वरादृष्टादीनां कारणत्वात् प्राच्यादिनिष्ठविषयता- निरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितसामान्यकारणत्वमीश्वरादावप्यस्तीति अतिव्याप्तिरिति चेत्, न। कार्यतानिरूपितकारणतायाम् ‘असाधारण’ पदस्य विशेषणात्। तथा च लक्षणम्- ‘प्राच्यादिनिष्ठविषयतानिरूपकज्ञान- जनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणत्वम्’ इति। तथा च नातिव्याप्तिः। तथाहि दिशि निष्ठं कारणत्वं द्विविधं वर्तते। एकं कार्यसामान्यं प्रति कारणत्वम्। अन्यश्च विषयविधया विशेष (असाधारण) कारणत्वमपि। यद्यपि ईश्वरादीनां कार्यसामान्यं प्रति कारणत्वं वर्तते। किन्तु लक्षणेऽसाधारणकारणत्वस्य निवेशनात् प्राच्यादिव्यवहारं प्रति विषयविधया प्राच्यादिरूपदिश एवासाधारणकारणत्वात्, ईश्वरादीनां सामान्यकारणत्वात्, तत्रातिव्याप्तिः परिहृता भवति। साधारणासाधारणकारणत्वयोरविरोधादिकं काललक्षणवदेव ज्ञेयम्।
सूर्योदयाचलसन्निहिता दिक् प्राची। अत्र ‘अचल’ पदं पुराणानुसारात्। वस्तुतस्तु सूर्योदयप्रदेशावच्छिन्ना दिक् प्राची। अस्तप्रदेशावच्छिन्ना दिक् प्रतीची। ‘सर्वेषामेव वर्षाणां मेरुरुत्तरतः स्थितः’ इति वचनात्। मेरुपर्वतदेशावच्छिन्ना दिगुदीची। वर्षः देशः। भूम्या गोलरूपत्वात्। उपरि मध्ये वर्तमानो भागः सर्वेषां देशानामुत्तरभागः, तत्रैव मेरुरपि। मेरोर्व्यवहिता दिगवाची = दक्षिणा। अत्रापि दिगुपाधीनां सूर्योदयादीनां प्रत्यक्षत्वात्, दिशोऽपि प्रत्यक्षत्वभ्रमः। अत एव नूतनदेशगमने दिग्भ्रमोऽपि कदाचित् भवति। औपाधिकभेदविषयकविचारः काल इव दिश्यपि समानः। दिगुपाधिरेव देशः। अतश्च ‘प्राच्यादिदेशव्यवहारासाधारणकारणं दिक्’ इत्येव दिशो निष्कृष्टं लक्षणम्।
अत्रेदं तत्त्वम् - ‘कालेश्वरादृष्टादीनां कार्यसामान्यकारणत्वम्’ इत्यत्र ‘आदि’पदेन किं ग्राह्यम् ? दिगेकैव। तथा च कालेश्वरादृष्टदिशश्चत्वारः पदार्थाः कार्यसामान्यकारणानि। ‘Space, (स्पैच्) Time (टाइम्) संज्ञकौ दिक्कालावेव कार्यसामान्यकारणान्तर्गताविति सर्वविज्ञानिसंमतम्, दैवज्ञसंमतञ्च। ‘एतस्मिन् काले, एतस्मिन् देशे, एतस्य एतादृशं फलं भवतु’ इत्याकारकः सृष्ट्यधीशस्य संकल्प एव कार्यसामान्यं प्रति कारणम्। ‘एतस्मिन् काले’ इति कालः ‘एतस्मिन् देशे’ इति दिक् च विवक्षिता। दिगुपाधिरेव ‘देशः’ इत्युच्यते। ‘एतस्य’ इति चेतनविशेषवाची। तेन चादृष्टविशेषस्यापि कारणत्वं सिद्धम्। ‘सृष्ट्यधीशः’ इत्यनेनेश्वरः कथ्यते। ‘तेन विना तृणाग्रमपि न चलति’ इति न्यायः केनोपनिषत्प्रतिपाद्येन ‘ब्रह्म ह देवेभ्यो विजिग्ये’ (केन.२-१-१) इत्याख्यानेन सिद्ध इति कालदिगीश्वरादृष्टानि सर्वकार्यकारणानि। अत एव ‘पृथिव्यप्तेजोवाय्वाकाशात्मकपञ्चभूतानि जीवानां भोगोपकरणभूतानि निर्दिष्टानि प्रथमम्। अनन्तरं कालदिशौ निर्दिष्टे। अनन्तरं भोक्ता आत्मा। अन्ते च ‘मन एव मनुष्याणां कारणं वन्धमोक्षयोः’ इत्युक्तं सर्वभोगापवर्गव्यवस्थापकं मनो निर्दिष्टमिति वैज्ञानिकोऽयं विभागः। अत एव दशमद्रव्यस्यापि न प्रसक्तिरिति ‘सप्तपदार्था:’ इति पदार्थविभागः, ‘नव द्रव्याणि’ इति द्रव्यविभागश्चाविचाल्य एव। गुणक्रियादिविभागास्तु यथासंभवं व्यवस्थाप्याः।

गोवर्धन-न्यायबोधिनी - काललक्षणम्

कालं लक्षयति - अतीतेति। व्यवहारहेतुत्वस्य लक्षणत्वे घट इति व्यवहारहेतुभूतघटादावतिव्याप्तिः। तद्वारणाय अतीतादीति।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - काललक्षणम्

अतीतादिव्यवहारहेतुः कालः। सचैको विभुर्नित्यश्च।।
कालं लक्षयति अतीतादीति। अतीतादेः व्यवहारः तस्य हेतुः इत्यतीतादिव्यवहारहेतुः, अतीतादेरित्यत्र षष्ठ्याः विषयतानिरूपकत्वं, व्यवहारस्येत्यत्र षष्ठ्या आधेयत्वञ्चार्थः, हेतुः कार्यतानिरूपितकारणतावान्, षष्ठ्यर्थाधेयत्वस्य
कार्यतायामन्वयः तथाच, अतीतादिविषयकव्यवहारनिष्ठकार्यतानिरूपितकारणताश्रयत्वं कालस्य लक्षणमिति फलितम्, व्यवहारश्शब्दप्रयोगः। अतीतादिव्यवहारनिष्ठा या कार्यता अयमतीतः अयमनागतः अयं वर्तमानः इत्याकारकशब्दप्रयोगे विद्यमाना कार्यता, तन्निरूपिता या कारणता (व्यवहारे व्यवहर्तव्यतावच्छेदकस्य कारणत्वेन) अतीतादिकालनिष्ठा कारणता, तदाश्रयत्वस्य सर्वत्रापि काले सत्त्वात् समन्वयः। अतीतादिपदं विहाय व्यवहारहेतुत्वमात्रोक्तौ व्यवहारे व्यवहर्तव्यस्यापि कारणत्वेन घटोऽस्तीत्याकारकव्यवहारहेतुत्वस्य घटादावपि सत्वात्तत्रातिव्याप्तिः, न च अतीतादिपदनिवेशेऽपि व्यवहर्तव्ये घटादौ अतीतादिव्यवहारहेतुत्वस्याबाधितत्वेन तद्दोषतादवस्थ्यमेवेति वाच्यम्, अतीतादिव्यवहारनिष्ठकार्यतानिरूपितकारणतावज्ज्ञानीय (ज्ञानिरूपित) मुख्यविशेष्यतानिरूपितप्रकारताश्रयत्वमिति लक्षणं परिष्करणीयम्। अतीतादिव्यवहारनिष्ठकार्यतानिरूपितकारणतावत् यत् ज्ञानं अतीतकालविशिष्टो घटः इत्यादिज्ञानं तन्निरूपितघटादिनिष्ठमुख्यविशेष्यतानिरूपितप्रकारताश्रयत्वस्य अतीतादिकाले सत्त्वेन अन्यत्राभावेन च नातिव्याप्तिः लक्षणसमन्वयश्च। आदिपदाभावे अतीतव्यवहारहेतुत्वस्यानागतवर्तमानकालयोः अभावेनाव्याप्तिः, आदिपदनिवेशे तु आदिपदेनानागतादिकालस्यापि ग्राह्यतया अतीतादिव्यवहारान्यतमहेतुत्वस्य काले सर्वत्रापि सम्भवात् नाव्याप्तिः। तथा च अतीतादिव्यवहारनिष्ठकार्यतानिरूपितकारणतावज्ज्ञानीयमुख्यविशेष्यतानिरूपितप्रकारताश्रयत्वमिति लक्षणं फलितम्। अत एव कालेश्वरादृष्टादीनां कार्यमात्रं प्रति साधारणकारणत्वेन अतीतादिव्यवहारहेतुत्वस्यापि सत्त्वात्तत्रातिव्याप्तिवारणाय अतीतादिव्यवहारत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वमिति अतीतादिव्यवहारासाधारणकारणत्वं लक्षणं वक्तव्यम् इत्यपास्तम्। अन्यत्सर्वं गगनलक्षणवद्बोध्यम्।