15 आकाशम्

मूलम् - आकाशम् - 15

शब्दगुणकमाकाशम्। तच्चैकं विभु नित्यं च॥ १४॥

Tags - 15

आकाशः, द्रव्यस्वरूपम्, शब्दगुणः, नित्यत्वम्, विभुत्वम्

दीपिका - आकाशम्

आकाशं लक्षयति- शब्दगुणकमिति। नन्वाकाशमपि पृथिव्यादिवन्नाना किं नेत्याह- तच्चैकमिति। भेदे प्रमाणाभावादित्यर्थः। एकत्वादेव सर्वत्र शब्दोपलब्धेर्विभुत्वमङ्गीकर्तव्यमित्याह- विभ्विति। सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वम्। मूर्तत्वं परिच्छिन्नपरिमाणवत्त्वं क्रियावत्त्वं वा। विभुत्वादेवाऽऽत्मवन्नित्यमित्याह नित्यं चेति।

वरदाचार्य आलोके - आकाशलक्षणम्

आलोक- व्याख्या
आकाशं लक्षयति- शब्दगुणकमिति। शब्दो गुणो यस्मिन्, तत् इति शब्दगुणकम्। ‘यस्मिन्’ इत्यत्र यच्छब्दस्याकाशमर्थः। सप्तम्या अधिकरणत्वमर्थः। प्रकृत्यर्थस्याकाशस्य सप्तम्यर्थाधिकरणतायामाधेयतासम्बन्धेनान्वयः। तथा च आकाशनिष्ठाधिकरणता। सप्तम्यर्थाधिकरणताया निरूपकतासम्बन्धेन शब्देऽन्वयः। शब्दस्य च गुणेऽभेदसम्बन्धेनान्वयः। तथा च आकाशनिष्ठाधिकरणतानिरूपकः शब्दभिन्नो गुण इति अखण्डबोधः। ‘विग्रहवाक्यात् यादृशविशेष्यविशेषणभावापन्नो बोधो जायते समासादिवृत्तिवाक्यात् तद्विपरीतविशेष्यविशेषणभावापन्नो बोधो जायते’ इति नियमात् पूर्वं विशेषणभूत आकाश इदानीं विशेष्यो भवति। पूर्वं विशेष्यभूतो गुण इदानीं विशेषणं भवति। तथा च शब्दभिन्नगुणनिरूपिताधिकरणताश्रय आकाशः इति समस्तवाक्याद् बोधः।
अथवा - ‘यस्मिन्’ इत्यत्र यच्छब्दस्य आकाशोऽर्थः। सप्तम्या अधिकरणत्वमर्थः। प्रकृत्यर्थस्याधेयतासम्बन्धेन सप्तम्यर्थाधिकरणतायामन्वयः। तथा च आकाशनिष्ठाधिकरणता। सप्तम्यर्थाधिकरणतायाः स्वनिरूपिताधेयताश्रयत्वसम्बन्धेन शब्देऽन्वयः। तथा च - यच्छब्दार्थाकाशनिष्ठाधिकरणतानिरूपिताधेयताश्रयो गुणः शब्दभिन्न इति बोधः। ‘विग्रहवाक्यात्’ इत्यादिपूर्वोक्तनियमेन शब्दभिन्नगुणनिष्ठाधेयतानिरूपिताधिकरणताश्रय आकाश इति बोधः।
अथवा यस्मिन्नित्यत्र सप्तम्या आधेयत्वमर्थः। प्रकृत्यर्थस्य निरूपितत्वसंबन्धेनाधेयतायामन्वयः। आधेयताया आश्रयतासंबन्धेन शब्देऽन्वयः। तथा च आकाशनिरूपिताधेयताश्रयः शब्दाभिन्नो गुण इति विग्रहवाक्यबोधः। समासात्तु शब्दनिष्ठाधेयतानिरूपकमाकाशमिति बोधः।
फलतः सर्वं समानार्थकम्। लक्षणे तु गुणपदनिवेशनस्य प्रयोजनाभावात्, शब्दनिष्ठाधेयतानिरूपिताधिकरणत्वम् इत्येव लक्षणम्। शब्दनिष्ठाधेयता केति चेत् ? ‘आकाशे शब्दो वर्तते’ इति प्रतीतिसिद्धाधेयता। तादृशाधेयतानिरूपिताधिकरणत्वमाकाशे वर्तत इति लक्षणसमन्वयः।
नन्वेवं सत्यप्यस्य लक्षणस्य पृथिव्यादावतिव्याप्तिर्दुष्परिहरा। तथाहि ‘अयं भेरीशब्दः’ ‘वीणानादः’ इत्यादिप्रतीतेः प्रमाणिकत्वात्, ‘भूतले घटः’ इत्यादाविव ‘भेर्याम्’ इत्यत्र सप्तम्या अधिकरणत्वार्थकत्वेन शब्दस्य भेर्यादिपृथिवीधर्मत्वसिद्ध्या शब्दनिष्ठाधेयता केति चेत् ‘भेर्यां शब्दो जायते’ इति प्रतीतिसिद्धाधेयता। तादृशाधेयतानिरूपिताधिकरणत्वं भेरीरूपपृथिव्यामपि वर्तत इति पृथिव्यामतिव्याप्तिः। एवम् ’ इदानीं शब्द:’ इति प्रतीत्या कालस्य सर्वाधारत्वेन पूर्ववत् कालेऽप्यतिव्याप्तिरिति चेत्, न। शब्दनिष्ठाधेयतायां समवायसम्बन्धावच्छिन्नत्वस्य निवेशनात्। तथा च लक्षणम्- समवायसम्बन्धावच्छिन्नशब्दनिष्ठाधेयतानिरूपिताधिकरणत्वम् इति। तथा च नातिव्याप्तिः। तथाहि समवायसम्बन्धावच्छिन्नशब्दनिष्ठाधेयता का ? इत्युक्तौ ‘शब्दवदाकाशम्’ इति प्रतीतिसिद्धाधेयता। ‘भेर्यां शब्दो वर्तते’ इति प्रतीतिसिद्धाधेयता, न समवायसम्बन्धावच्छिन्ना। किन्तु स्वसमवायिसंयुक्तत्वसम्बन्धावच्छिन्ना। स्वम् - शब्दः। स्वसमवायि आकाशम्। तत्संयोगो भेर्यां वर्तत इति शब्दविशिष्टाकाशसंयोगात् ‘भेर्यां शब्दः’ इति व्यवहारः, जले गन्धः’ इत्यादिव्यवहारवत्। अतस्तत्र विद्यमानाधेयता स्वसमवायिसंयुक्तत्वसम्बन्धावच्छिन्ना, न तु समवायसम्बन्धावच्छिन्ना। कुत इति चेत् ? गुणगुणिनोरेव समवायात्। शब्दस्य आकाशगुणत्वात्। अतः तादृशसमवायसम्बन्धावच्छिन्नशब्दनिष्ठाधेयतानिरूपिताधिकरणत्वं तु आकाशे वर्तते, न तु भेरीरूपपृथिव्यामिति तत्र नातिव्याप्तिः। एवं काले कालिकसंबन्धावच्छिन्नशब्दनिष्ठाधेयतानिरूपिताधिकरणत्वमेव, न तु समवायसंबन्धावच्छिन्नशब्दनिष्ठाधेयतानिरूपिताधिकरणत्वमिति काले नातिव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य पुनर्जलादावतिव्याप्तिर्दुष्परिहरा। तथाहि शब्दः कश्चन गुणः। तथा च शब्दनिष्ठाधेयता गुणत्वावच्छिन्नाऽपि भवति। एतादृशगुणत्वावच्छिन्नशब्दनिष्ठाधेयता केति चेत् ? ‘गुणवत्’ इति प्रतीतिसिद्धा चतुर्विंशतिगुणसाधारणी एकैवाखण्डाधेयता। तादृशाधेयता यथा शब्दे वर्तते तथा स्पर्शादावपि वर्तते। अतः स्पर्शदिनिष्ठाधेयतानिरूपिताधिकरणत्वं जलादिष्वपि वर्तत इति तत्रातिव्याप्तिरिति चेत्, न। शब्दनिष्ठाधेयतायां शब्दत्वावच्छिन्नत्वस्य निवेशनात्। तथा च लक्षणम् समवायसम्बन्धावच्छिन्नशब्दत्वावच्छिन्नशब्दनिष्ठाधेयतानिरूपिताधिकरणत्वम्। एवञ्च नातिव्याप्तिः। तथाहि - समवायसम्बन्धावच्छिन्नशब्दत्वावच्छिन्नशब्दनिष्ठाधेयता केति चेत्, तत्र आधेयताद्वयं वर्तते। एका गुणत्वावच्छिन्नशब्दनिष्ठा चतुर्विंशतिगुणसाधारणी ‘गुणवत्’ इति प्रतीतिसिद्धाधेयता। एवं शब्दत्वावच्छिन्नशब्दमात्रनिष्ठाधेयता ‘शब्दवत्’ इति प्रतीतिसिद्धाधेयता चापरा। लक्षणे तु ‘शब्दवत्’ इति प्रतीतिसिद्धा शब्दमात्रनिष्ठा शब्दत्वावच्छिन्नाधेयता निविष्टा। अतः तादृशसमवायसम्बन्धावच्छिन्नशब्दत्वावच्छिन्नशब्दनिष्ठाधेयता केति चेत् ‘शब्दवत्’ इति प्रतीतिसिद्धाधेयता, न तु ‘गुणवत्’ इति प्रतीतिसिद्धाधेयता। तादृशाधेयतानिरूपिताधिकरणत्वं तु आकाश एव वर्तते, नान्यत्र कुत्राऽपीति जले नातिव्याप्तिः। आकाशादेर्नित्यत्वादेकत्वाच्चात्र लक्षणे जातिघटितपरिष्कारावश्यकता नास्ति॥
न चात्र मध्ये गुणपदं निवेश्य लक्षणं वक्तव्यम्। किन्तु शब्दनिष्ठाधेयतानिरूपिताधिकरणत्वमात्रोक्तौ पर्याप्तम्। आकाशे शब्द एक एव विशेषगुण इति द्योतनार्थम्, गुणपदस्य विशेषगुणपरत्वाभिप्रायेण उक्तत्वात्। तेन शब्दाश्रयतया आकाशसिद्धिरित्यादिकमन्यत्र द्रष्टव्यम्। अथवा ये मीमांसकाः शब्दस्य द्रव्यत्वमङ्गीकुर्वन्ति तन्मतनिराकरणार्थम्। शब्दो न द्रव्यं, किन्तु गुण एव इति ज्ञापनार्थं गुणपदम्। अतो लक्षणे गुणपदं नावश्यकम्।
एकम् - एकत्वसंख्याविशिष्टम्। अत एव - विभु, जगति सर्वत्रापि शब्दोत्पत्तिदर्शनात्, अपरिच्छिन्नपरिमाणवत्। अत एव नित्यं च - मध्यमपरिमाणवत एव लोके नाशदर्शनात्। आकाशस्यैकत्वेऽपि घटाद्युपाधिभेदादेव घटाकाशम् मठाकाशम् इत्यादिभेदव्यवहारः। एवं कर्णविवरावच्छिन्नमाकाशं श्रोत्रेन्द्रियमित्युच्यते। तच्च शब्दग्राहकम्। एवं पञ्चेन्द्रियाणि पाञ्चभौतिकानि। ‘नीलं नभः’ इति प्रतीतिर्भ्रान्तिरेव समीपे पुरतस्तथादर्शनात्।

गोवर्धन-न्यायबोधिनी - आकाशलक्षणम्

आकाशं लक्षयति- शब्दगणकमिति। अत्र गुणपदमाकाशे शब्द एवं विशेषगुण इति द्योतनाय न त्वतिव्याप्तिवारणाय। समवायेन शब्दवत्त्वमात्रस्य सम्यक्त्वात्। तदुक्तं –
रूपं गन्धो रसः स्पर्शः स्नेहः सांसिद्धिको द्रवः।
बुद्ध्यादिभावनान्ताश्च शब्दो वैशेषिका गुणाः।
इति। तच्चैकमिति। अनेकत्वे मानाभावादिति भावः। विभ्विति। सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वम्। मूर्तत्वं च क्रियाश्रयत्वम्। पृथिव्यप्तेजोवायुमनांसि मूर्तानि। पृथिव्यप्तेजोवाय्वाकाशपञ्चकं भूतपदवाच्यम्। भूतत्वं नाम बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम्।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - गगनलक्षणम्

शब्दगुणकमाकाशम्। तच्चैकं विभु नित्यञ्च।
आकाशं लक्षयति शब्दगुणकमिति, अत्र गुणपदं गगने शब्द एक एव विशेषगुणोऽस्तीति द्योतनायैव, न तु दोषवारणाय प्रयुक्तम्। शाब्दबोधः शब्दाभिन्नगुणाश्रयाभिन्नमिति। शब्दनिष्ठाधेयतानिरूपिताधिकरणताश्रयत्वं आकाशस्य लक्षणम्, शब्दनिष्ठा याऽधेयता आकाशे शब्दोस्तीत्याकारकप्रतीतिसिद्धा शब्दनिष्ठाधेयता, तन्निरूपिता या अधिकरणता आकाशनिष्ठाऽधिकरणता, तदाश्रयत्वमाकाशे वर्तत इति लक्षणसमन्वयः। अत्रापि कालिकसम्बन्धावच्छिन्नाधेयतामादाय काले गुणत्वावच्छिन्नाधेयतामादाय जलादौ चातिव्याप्तिवारणाय क्रमेण समवायसम्बन्धावच्छिन्नत्वशब्दत्वावच्छिन्नत्वयोः शब्दनिष्ठाधेयतायां विशेषणत्वमङ्गीकार्यम्। उत्पन्नविनष्टाकाशस्याभावेन अव्याप्तिप्रसक्त्यभावेन जातिघटितलक्षणकरणावश्यकता नास्ति। तथाच समवायसम्बन्धावच्छिन्नशब्दत्वावच्छिन्नाधेयतानिरूपिताधिकरणताश्रयत्वम् आकाशस्य लक्षणमिति फलितम्। तच्चैकमिति, एकत्वञ्चात्र स्वसजातीयधर्म्यन्तररहितत्वम्, आकाशत्वसमानाधिकरणोभयावृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदशून्यत्वं वा विवक्षणीयम्। विभ्विति, सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वम्, पृथिव्यप्तेजेवायुमनोरूपसर्वमूर्तद्रव्यसंयोगित्वस्य सत्त्वात्समन्वयः। नित्यत्वमुपदर्शितमेव।