13 वायुः

मूलम् - वायुः - 13

रूपरहितस्पर्शवान्वायुः। स द्विविधो नित्योऽनित्यश्च। नित्यः परमाणुरूपः। अनित्यः कार्यरूपः। पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात्। शरीरं वायुलोके। इन्द्रियं स्पर्शग्राहकं त्वक्सर्वशरीरवर्ति। विषयो वृक्षादिकम्पनहेतुः॥ १२॥

Tags - 13

वायुः, द्रव्यस्वरूपम्, नित्यत्वम्, इन्द्रियविषयभेदः

दीपिका - वायुलक्षणम्

वायुं लक्षयति- रूपरहितेति। आकाशादावतिव्याप्तिवारणाय स्पर्शवानिति। पृथिव्यादावतिव्याप्तिवारणाय रूपरहित इति। प्राणस्य कुत्रान्तर्भाव इत्यत आह- शरीरेति। स चेति। एक एव प्राणः स्थानभेदात्प्राणापानादिशब्दैः व्यवह्रियत इत्यर्थः।
स्पर्शानुमेयो वायुः। तथाहि योऽयं वायौ वाति सत्यनुष्णाशीतस्पर्श उपलभ्यते, स क्वचिदाश्रितो गुणत्वाद्रूपवत्। न चास्य आश्रयः पृथिवी, उद्भूतस्पर्शवत्पार्थिवस्योद्भूतरूपवत्त्वनियमात्। न जलतेजसी, अनुष्णाशीतस्पर्शवत्त्वात्। न विभुचतुष्टयं, सर्वत्रोपलब्धिप्रसङ्गात्। न मनः, परमाणुस्पर्शस्यातीन्द्रियत्वात्। तस्माद्यः प्रतीयमानस्पर्शाश्रयः स वायुः। ननु वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् घटवदिति चेन्न। उद्भूतरूपवत्त्वस्योपाधित्वात्। यत्र द्रव्यत्वे सति बहिरिन्द्रियजन्यप्रत्यक्षत्वं तत्रोद्भूतरूपवत्त्वमिति साध्यव्यापकत्वम्। पक्षे साधनाव्यापकत्वम्। न चैवं तप्तवारिस्थतेजसोऽप्यप्रत्यक्षत्वापत्तिः, इष्टत्वात्। तस्माद्रूपरहितत्वाद्वायुरप्रत्यक्षः।

दीपिका - पृथिव्यादिचतुष्टयस्योत्पत्तिविनाशक्रमः

इदानीं कार्यरूपपृथिव्यादिचतुष्टयस्योत्पत्तिविनाशक्रमः कथ्यते। ईश्वरस्य चिकीर्षावशात्परमाणुषु क्रिया जायते। ततः परमाणुद्वयसंयोगे सति द्व्यणुकमुत्पद्यते। त्रिभिरेव द्व्यणुकैस्त्र्यणुकमुत्पद्यते। एवं चतुरणुकादिक्रमेण महती पृथिवी, महत्य आपः, महत्तेजः, महान्वायुरुत्पद्यते। एवमुत्पन्नस्य कार्यद्रव्यस्य संजिहीर्षावशात् क्रियया परमाणुद्वयविभागे सति द्व्यणुकनाशः इत्येवं पृथिव्यादिनाशः। असमवायिकारणनाशात् द्व्यणुकनाशः। समवायिकारणनाशात् त्र्यणुकनाश इति संप्रदायः। सर्वत्रासमवायिकारणनाशात् द्रव्यनाश इति नवीनाः।

दीपिका - परमाणुसिद्धिः

किं पुनः परमाणुसद्भावे प्रमाणम्। उच्यते- जालसूर्यमरीचिस्थं (सर्वतः) सूक्ष्मतमं यत् द्रव्यम् उपलभ्यते तत्सावयवम् चाक्षुषद्रव्यत्वात् घटवत्। त्र्यणुकावयवोऽपि सावयवो महदारम्भकत्वात् कपालवत्। यो द्व्यणुकावयवः स परमाणुः। स च नित्यः। तस्यापि कार्यत्वेऽनवस्थाप्रसङ्गात्। सृष्टिप्रलयसद्भावे “धाता यथापूर्वमकल्पयत्” इत्यादि श्रुतिरेव प्रमाणम्। सर्वकार्यद्रव्यध्वंसोऽवान्तरप्रलयः। सर्वभावकार्यध्वंसो महाप्रलयः इति विवेकः।

वरदाचार्य आलोके - वायुः

रूपरहितस्पर्शवान् वायुः। सद्विविधः। नित्योऽनित्यश्चेति। नित्यः परमाणुरूपः। अनित्यः कार्यरूपः। पुनस्त्रिविधः। शरीरेन्द्रियविषयभेदात्। शरीरं वायुलोके। इन्द्रियं स्पर्शग्राहकं त्वक्। तच्च सर्वशरीरवर्ति। विषयो वृक्षादिकम्पनहेतुर्वायुः, शरीरान्तस्संचारी वायुः प्राणश्च। स चैकोऽप्युपाधिभेदात् प्राणापानादिसंज्ञां लभते।
आलोक व्याख्या
वायोर्लक्षणमाह - रूपरहितेत्यादि। ‘रूपरहितस्पर्शवान्’ इति कर्मधारयः, व्यस्तं पदं वा। स्पर्शोऽस्मिन् अस्तीति स्पर्शवान् इति विग्रहः। ‘अस्मिन्’ इत्यत्र इदंशब्दस्य वायुरर्थः। सप्तम्या अधिकरणत्वमर्थः। प्रकृत्यर्थस्याधेयतासम्बन्धेन सप्तम्यर्थाधिकरणतायामन्वयः। तथा च वायुनिष्ठाधिकरणता इत्यासीत्। ‘अस्ती’ त्यत्र ‘अस्’ धातोराधेयत्वमर्थः। सप्तम्यर्थाधिकरणताया अस् धात्वर्थाधेतायां निरूपितत्वसम्बन्धेनान्वयः। आख्यातस्याश्रयत्वमर्थः। आश्रयत्वस्य स्पर्शेऽन्वयः। तथा च ‘वायुनिष्ठाधिकरणतानिरूपिताधेयताश्रयः स्पर्श:’ इति विग्रहवाक्यबोधः। ‘अन्यपदार्थप्रधानसमासादिवृत्तिस्थले विग्रहवाक्यात्’ इत्यादिपूर्वोक्तनियमेन पूर्वं विशेषणभूतो वायुः, स्पर्शवान् इति तद्धितवृत्तिस्थले विशेष्यो भवति। पूर्वं विशेष्यभूतः स्पर्श इदानीं विशेषणं भवति। तथा च ’ स्पर्शनिष्ठाधेयतानिरूपिताधिकरणताश्रयो वायुः’ इति स्पर्शवान् इति वाक्याद् बोधः॥
‘रूपरहितः’ इत्यत्र ‘रूपेण रहित:’ इति तृतीयातत्पुरुषः। ‘रूपेण’ इत्यत्र प्रकृते रूपमर्थः। तृतीयायाः प्रतियोगित्वमर्थः। प्रकृत्यर्थस्य तृतीयार्थप्रतियोगितायामाधेयतासम्बन्धेनान्वयः। तथा च ‘रूपनिष्ठा प्रतियोगिता’ इत्यासीत्। ‘रहितः’ इत्यत्र रहधातोरत्यन्ताभावोऽर्थः। तदुत्तरवर्ति ‘क्त’प्रत्ययस्याश्रयत्वमर्थः। तृतीयार्थप्रतियोगिताया रहधात्वर्थात्यन्ताभावे निरूपकतासम्बन्धेनान्वयः। तथा च रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रय इति ‘रूपेण रहितः’ इति व्यस्तप्रयोगाद् बोधः। ‘रूपरहितः ’ इति तत्पुरुषसमासे तु ‘रूप’ इति पूर्वपदस्य रूपनिष्ठप्रतियोगितानिरूपके लक्षणा। अभावेन सहाभेदसंबन्धेनान्वय इति विशेषः। एवञ्चाहत्य ‘रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति स्पर्शनिष्ठाधेयता- निरूपिताधिकरणताश्रयो वायुः’ इति अखण्डबोधः। ‘रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति स्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं वायोर्लक्षणम्। लक्षणस्यास्य लक्ष्ये वायौ समन्वयः। तथाहि स्पर्शनिष्ठाधेयता का ? इति चेत् ‘स्पर्शवान् वायुः’ इति प्रतीतिसिद्धाधेयता। तादृशाधेयतानिरूपिताधिकरणत्वं वायौ वर्तते। एवं वायौ रूपाभावात् रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वमपि वर्तत इति लक्षणसमन्वयः। तत्र स्पर्शवत्त्वमात्रोक्तौ पृथिव्यादौ स्पर्शस्य सत्त्वादतिव्याप्तिः। अतो रूपरहितत्वमुक्तम्। पृथिव्यां रूपस्य सत्त्वेन रूपरहितत्त्वस्याभावान्नातिव्याप्तिः। रूपरहितत्वमात्रोक्तावाकाशादौ रूपाभावात् अतिव्याप्तिः। अतः स्पर्शवत्त्वमुक्तम्। आकाशादौ स्पर्शस्याभावात् नातिव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य कालेऽतिव्याप्तिर्दुर्वारा। तथाहि कालस्य सर्वाधारत्वात् ‘इदानीं स्पर्शः’ इति प्रतीतेः प्रामाणिकत्वात्। स्पर्शनिष्ठाधेयता का ? इति चेत् ‘इदानीं स्पर्शः’ इति प्रतीतिसिद्धाधेयता। तादृशाधेयतानिरूपिताधिकरणत्वं कालेऽपि वर्तते, एवं रूपरहितत्वमपि वर्तत इत्यतिव्याप्तिरिति चेत्, न। स्पर्शनिष्ठाधेयतायां समवायसम्बन्धावच्छिन्नत्वस्य निवेशनात्। तथा च लक्षणम्- ‘रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वम्’। एवञ्च नातिव्याप्तिः। तथाहि यद्यपि काले रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति, स्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं वर्तते, तथापि तादृशाधेयता कालिकसम्बन्धावच्छिन्ना। न तु समवायसम्बन्धावच्छिन्ना। कुत इति चेत् ? गुणगुणिनोः समवायात्, स्पर्शस्य वायोर्गुणत्वात्। स्पर्शो न कालस्य गुणः। कालनिष्ठाधिकरणतानिरूपितस्पर्शनिष्ठाधेयता कालिकसम्बन्धावच्छिन्ना, न तु समवायसम्बन्धावच्छिन्ना। अतश्च समवायसम्बन्धावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिता-धिकरणत्वं तु वायावेव वर्तते, न तु काल इति नातिव्याप्तिः।।
नन्वेवं सत्यपि पुनरस्य लक्षणस्य कालादावतिव्याप्तिर्दुरुद्धरा। तथाहि स्पर्शः कश्चन गुणः। तत्र वर्तमाना समवायसम्बन्धावच्छिन्नाधेयता केति चेत् ? ‘गुणवान्’ इति प्रतीतिसिद्धा गुणत्वावच्छिन्नाधेयताऽपि भवति। तादृशाधेयता यथा स्पर्शे वर्तते तथा संख्यादावपि वर्तते, चतुर्विंशतिगुणसाधारणी एकैवाखण्डाधेयता इत्युक्तत्वात्। समवायसम्बन्धावच्छिन्नगुणत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं कालेऽपि वर्तते। ‘एकः कालः’ इति कालस्य एकत्वसंख्याधारत्वात्। तत्र रूपरहितत्वस्यापि सत्त्वात् कालेऽतिव्याप्तिरिति चेत्, न। स्पर्शनिष्ठाधेयतायां स्पर्शत्वावच्छिन्नत्वस्यापि निवेशनात्। तथा च लक्षणम् ‘रूपनिष्ठप्रतियोगितानिरूपकाभावश्रयत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वम्’ इति।। एवञ्च नातिव्याप्तिः। तथाहि - रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वं यद्यपि कालेऽस्ति। परन्तु समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयता केति चेत् ? स्पर्शे किलाधेयताद्वयं वर्तते। एका ‘गुणवान्’ इति प्रतीतिसिद्धा चतुर्विंशतिगुणसाधारणी स्पर्शनिष्ठाधेयता। एवं ‘स्पर्शवान्’ इति प्रतीतिसिद्धा स्पर्शत्वावच्छिन्नस्पर्शमात्रनिष्ठाधेयताप्यन्या वर्तते। तत्र गुणत्वावच्छिन्न- स्पर्शनिष्ठाधेयतायाः स्वीकारे तु ‘गुणवान्’ इति प्रतीतिसिद्धाधेयता भवति। लक्षणे तु स्पर्शत्वावच्छिन्नत्वस्य निवेशनात् समवायसम्बन्धावच्छिन्नस्पर्श- त्वावच्छिन्नस्पर्शनिष्ठाधेयता केति चेत् ? ‘स्पर्शवान्’ इति प्रतीतिसिद्धस्पर्शमात्र- निष्ठाधेयतैव भवति, न तु ‘गुणवान्’ इति प्रतीतिसिद्धाधेयता। तादृशाधेयता- निरूपिताधिकरणत्वं तु वायावेव वर्तते, न तु काल इति नातिव्याप्तिः।।
नन्वेवमपि ‘उत्पन्नं द्रव्यम्’ इत्यादिन्यायात् उत्पत्तिक्षणावच्छिन्ने वायौ स्पर्शस्याभावात् समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठा- धेयतानिरूपिताधिकरणत्वस्याभावादव्याप्तिरिति चेत्, न। ‘रूपनिष्ठप्रतियोगितानिरूपकाभावश्रयत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिजातिमत्वस्यैव लक्षणत्वात्। तथा च समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधे- यतानिरूपिताधिकरणतावान् वायुः, तद्वृत्तिर्जातिः- वायुत्वरूपा जातिः, तादृशजातिमत्त्वमुत्पत्तिक्षणावच्छिन्ने वायावपि वर्तते, जातेर्नित्यत्वात्। अतो नाव्याप्तिः।
अथैवमपि आकाशादावतिव्याप्तिः, समवायसम्बन्धावच्छिन्न- स्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावान् वायुः, तद्वृत्तिर्जातिः केति चेत् ? द्रव्यत्वजातिरपि वायौ द्रव्यत्वसत्त्वात्। तद्वत्त्वमाकाशादौ वर्तते, रूपाभावोऽपि वर्तत इत्यतिव्याप्तिरिति चेत्, न। जातौ द्रव्यत्वव्याप्यत्वस्य विशेषणात्। तथा च लक्षणम्- ‘रूपनिष्ठप्रतियोगितानिरूपकाभावश्रयत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वं पर्यवसन्नम्। एवं सति समवायसंबन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्या जातिर्वायुत्वजातिरेव, न तु द्रव्यत्वजातिः। स्वस्य स्वव्याप्यत्वाभावात्। वायुत्वजातेराकाशादावभावान्नातिव्याप्तिः। नन्वेवमपि तादृशद्रव्यत्वव्याप्यजातिपदेन प्राणत्वजातेः स्वीकारे, तादृशजातिमत्त्वमितरवायुषु नास्तीत्यव्याप्तिरिति चेन्न, द्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वविवक्षणात्। तथा च लक्षणम्-‘रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम् इति। तथा च प्राणत्वं तु द्रव्यत्वव्याप्यव्याप्यजातिः, न तु द्रव्यत्वसाक्षाद्व्याप्या जातिः। तादृशी तु वायुत्वजातिरेवेति नाव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः पृथिव्यादावतिव्याप्तिर्दुर्वारा। तथाहि-यद्यपि पृथिव्यां समवायसम्बन्धेन रूपस्य विद्यमानत्वेऽपि संयोगसम्बन्धेन रूपस्याभावात् रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति
समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वमपि वर्तत इति लक्षणस्य पृथिव्यामतिव्याप्तिरिति चेत्, न। रूपनिष्ठप्रतियोगितायां समवायसम्बन्धावच्छिन्नत्वस्य निवेशनात्। तथा च लक्षणम्- समवायसम्बन्धावच्छिन्नरूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्व- साक्षाद्व्याप्यजातिमत्त्वम्। एवञ्च नातिव्याप्तिः। तथाहि समवायसम्बन्धावच्छिन्नरूपनिष्ठप्रतियेगिता केति चेत् ? ‘वायौ रूपं नास्ति’ इति प्रतीतिसिद्धा प्रतियोगिता। पृथिव्यां समवायसम्बन्धावच्छिन्नरूपनिष्ठ- प्रतियोगितानिरूपकाभावाश्रयत्वं नास्ति। समवायेन तत्र रूपस्य विद्यमानत्वात्। किन्तु तत्र विद्यमाना प्रतियोगिता संयोगसम्बन्धावच्छिन्ना, न तु समवायसम्बन्धावच्छिन्ना। पृथिव्याम् ‘संयोगेन रूपं नास्ति’ इति प्रतीतेः संभवेऽपि ‘रूपं नास्ति’ इति प्रतीतेरसंभवात्। अतः समवायसम्बन्धावच्छिन्नरूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्व- साक्षाद्व्याप्यजातिमत्त्वं तु वायावेव वर्तत इति पृथिव्यां नातिव्याप्तिः।
नन्वेवं सत्यपि पुनः पृथिव्यामतिव्याप्तिर्दुष्परिहरा। तथाहि- पृथिव्यां सप्तविधरूपं वर्तते। नीलरूपं पीतरूपं रक्तरूपमित्यादि। अतस्तादृशनीलरूपविशिष्टस्य घटस्य स्वीकारे तत्र पीतरूपात्यन्ताभावो वर्तते। पीतघटे नीलात्यन्ताभावो वर्तते। समवायसम्बन्धेनैव पीतघटे नीलात्यन्ताभावो वर्तते। अतः समवायसम्बन्धावच्छिन्नरूपनिष्ठप्रतियोगिता केति चेत् ? पीतघटे नीलरूपं नास्तीति प्रतीतिसिद्धा प्रतियोगिता। तादृशप्रतियोगितानिरूपकाभावाश्रयत्वं पीतघटरूपपृथिव्यामपि वर्तते। एवं च समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरण-तावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यपृथिवीत्वजातिमत्त्वमपि पीतघटे वर्तत इति अतिव्याप्तिरिति चेत्, न। रूपनिष्ठप्रतियोगितायां रूपत्वावच्छिन्नत्वस्य निवेशनात्। तथा च लक्षणम्- समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति, समवायसंबन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम्। एवञ्च नातिव्याप्तिः। तथाहि - समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठा प्रतियोगिता केति चेत् ? ‘वायौ रूपं नास्ति’ इति प्रतीतिसिद्धरूपसामान्यनिष्ठा प्रतियोगिता। पीतघटे ‘रूपं नास्ति’ इति प्रतीतेरसंभवेन समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठा प्रतियोगिता तत्र न भवति। पीतघटे नीलरूपं नास्तीति प्रतीतिसिद्धाभावीया नीलरूपनिष्ठा प्रतियोगिता तु नीलरूपत्वावच्छिन्ना, न तु रूपत्वावच्छिन्ना। अतः पीतघटे यद्यपि नीलरूपत्वावच्छिन्ननीलरूपनिष्ठ- प्रतियोगितानिरूपकाभावाश्रयत्वं वर्तते। अथापि तत्र पीतरूपस्य सत्त्वात् रूपत्वावच्छिन्नरूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वं नास्ति, पीतरूपस्य सत्त्वात्। अतः समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठप्रतियोगिता केति चेत् ? रूपं नास्तीति प्रतीतिसिद्धा रूपसामान्यनिष्ठा प्रतियोगिता। तादृशप्रतियोगितानिरूपकाभावाश्रयत्वम् एवं समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वं च (वायुत्वजातिमत्त्वम्) वायावेव वर्तते, न तु पृथिव्यामिति नातिव्याप्तिः।
नन्वेवमपि रूपत्वावच्छिन्नरूपनिष्ठप्रतियोगितानिरूपकाभावः कः ? इति चेत्, ‘रूपघटोभयं नास्ति’ इति प्रतीतिसिद्धो रूपघटोभयाभावोऽपि तत्र प्रतियोगितावच्छेदकता रूपत्वे, घटत्वे, उभयत्वे च वर्तते। अतः प्रतियोगिता रूपत्वावच्छिन्ना भवत्येव। तादृशप्रतियोगितानिरूपकाभावाश्रयत्वे सति स्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यपृथिवीत्वजातिमत्त्वस्यापि घटादौ सत्त्वात् घटादौ रूपसत्त्वेऽपि घटे घटाभावात्, एकसत्त्वेऽपि द्वयं नास्तीति नियमेन ‘रूपघटोभयं नास्ति’ इति प्रतीतेः प्रामाणिकत्वाद्घटादावुक्तलक्षणस्यातिव्याप्तिर्दुष्परिहरेति चेत्, न। प्रतियोगितावच्छेदकतायां पर्याप्तेर्निवेशनात्। तथा च रूपत्वपर्याप्तावच्छेदकताकप्रतियोगिताकाभावाश्रयत्वे सति स्पर्शत्वा- वच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वं वायोर्लक्षणम्। एवञ्च ‘रूपघटोभयं नास्ति’ इति प्रतीतिसिद्धाभावीयप्रतियोगितावच्छेदकताया रूपत्वघटत्वोभयत्वेषु त्रिषु पर्याप्तत्वात् रूपत्वपर्याप्तावच्छेदकताकप्रतियोगिताकाभावो रूपाभाव एव भवति, न तु रूपघटोभयाभाव इति नातिव्याप्तिः।
अथैवमपि प्रत्येकापर्याप्तस्य समुदायपर्याप्तत्वासंभवात् उक्तोभयाभावीयप्रतियोगितावच्छेदकतायाः प्रत्येकं पर्याप्तत्वेन रूपत्वेऽपि सा पर्याप्तैवेति, रूपघटोभयाभावोऽपि रूपत्वपर्याप्तावच्छेदकताकप्रतियोगिताकाभावो भवत्येवेति अतिव्याप्तिस्तदवस्थैवेति चेत्, न। रूपत्वमात्रपर्याप्तावच्छेदकताकप्रतियोगिताकाभावाश्रयत्वनिवेशनात्। एतादृशस्त्वभावः ‘रूपं नास्ति’ इति प्रतीतिसिद्धाभाव एव, न तूभयाभावः। उभयाभावीयप्रतियोगितायास्त्रिषु पर्याप्तत्वेन रूपत्वमात्रपर्याप्तत्वाभावान्नोभायाभाव: स्वीकर्तुं शक्यत इति नातिव्याप्तिः। अधिकमन्यत्र। तथा च - समवायसंबन्धावच्छिन्नरूपत्वमात्रपर्याप्तावच्छेदकताकप्रतियोगिताकाभावाश्रयत्वे सति स्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वं वायोर्लक्षणम् इत्याद्यूह्यम्।
नन्वेवं सत्यप्यस्य लक्षणस्य पुनरुत्पत्तिकालावच्छिन्ने घटेऽतिव्याप्तिर्दुर्वारा। ‘उत्पन्नं द्रव्यं क्षणमगुणं निष्क्रियं च तिष्ठति’ इति नियमात् उत्पत्तिकालावच्छिन्ने घटे रूपसामान्याभावात् समवायसम्बन्धावच्छिन्न- रूपत्वमात्रपर्याप्तावच्छेदकताकप्रतियोगिताकाभावाश्रयत्वे सति समवाय- सम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वं वर्तते। अतस्तत्र उत्पत्तिकालावच्छिन्नघटरूपपृथिव्यामतिव्याप्तिर्दुर्वारेति चेत्, न। ‘रूपरहितः’ इत्यस्य दलस्य जातिघटितपरिष्कारात्। केवलरूपशून्यत्वं न लक्षणं, किन्तु रूपसमानाधिकरणजातिशून्यत्वमिति लक्षणम्। रूपसमानाधिकरणजातिशून्यत्वं नाम रूपनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिजातिशून्यत्वम्। तथा च लक्षणम् समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिजातिशून्यत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्व- साक्षाद्व्याप्यजातिमत्त्वम्। तथा च नातिव्याप्तिः। तथाहि समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठाधेयतानिरूपिताधिकरणतावान् कः? इति चेत्, द्वितीयादिक्षणावच्छिन्नो घटोऽपि भवति। तद्वृत्तिर्या जातिरिति चेत् ? पृथिवीत्वजातिरेव। तादृशजातिमत्त्वमेव वर्तत उत्पत्तिकालावच्छिन्ने घटे। तत्र रूपसमानाधिकरणजातिशून्यत्वाभावात्। रूपसमानाधिकरणजातिशून्यत्वं (पृथिवीत्वादिजातिशून्यत्वं ) तु वायावेव वर्तत इति पृथिव्यां लक्षणासमन्वयान्नातिव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः असंभवरूपदोषो दुर्निवारः। तथाहि-समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठाधेयतानिरूपिताधिकरणतावान् घटः। तद्वृत्तिर्या जातिरिति चेत्, यथा पृथिवीत्वजाति; तथा द्रव्यत्वजातिः सत्ताजातिश्च। तादृशजातेः स्वीकारे तादृशजातिमत्त्वमेव वायौ वर्तते, जातिशून्यत्वं नास्तीति लक्षणस्यासमन्वयात् असंभवो दोष इति चेत्, न। जातौ द्रव्यत्वव्याप्यत्वस्य निवेशनात्। तथा च लक्षणम् - समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्यजातिशून्यत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम्। एवञ्च नासंभवः। तथाहि- समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठाधेयतानिरूपिताधिकरणतावान् घटः। तद्वृत्तिर्या द्रव्यत्वव्याप्या जातिरिति चेत् ? सत्ताजातिर्न भवति, तस्या द्रव्यत्वव्यापकत्वेन द्रव्यत्वव्याप्यत्वाभावात्। एवं द्रव्यत्वजातिरपि न भवति। स्वस्य स्वव्याप्यत्वाभावात्। अतो द्रव्यत्वव्याप्या जातिरिति चेत् पृथिवीत्वादिजातिः स्वीकर्तव्या। तादृशजातिशून्यत्वं वायौ वर्तत एव। एवं समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्या (वायुत्व) जातिरपि वर्तत इति लक्षणसमन्वयात् नासंभवः।
अथैवमपि समवायसंबन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठाधेयता-निरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्यपटत्वजातिशून्यत्वस्य समवायसंबन्धा- वच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यपृथिवीत्वजातिमत्त्वस्य च घटादौ सत्त्वात्पुनः घटादावतिव्याप्तिरिति चेत्, न। द्रव्यत्वसाक्षाद्व्याप्यजातिशून्यत्वस्य विवक्षणात्। पटत्वं तु, न द्रव्यत्वसाक्षाद्व्याप्यजातिः, तस्या द्रव्यत्वव्याप्यव्याप्यत्वात्। किन्तु पृथिवीत्वादिरेव। तच्छून्यत्वं घटादौ नास्तीति नातिव्याप्तिः। वायौ तु तच्छून्यत्वं वर्तत एवेति लक्षणसमन्वय इति दिक्। तथा च वायोर्निष्कृष्टं लक्षणम् समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिशून्यत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम् इति। अत्र रूपसमानाधिकरणजातिशून्यत्वं वा रूपानधिकरणवृत्तिजातिमत्त्वं वा, किं विवक्षितम् ? इत्यादिकं तु कुशाग्रमतिभिः स्वयमूह्यम्।
उपाधिभेदात्- हृदयादिशरीरावयवभेदात्। ‘हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः। उदानः कण्ठदेशस्थो व्यानस्सर्वशरीरगः।’ इत्याद्यत्र द्रष्टव्यम्। प्राणशब्दः पञ्चवायुसाधारणः ‘पञ्च प्राणाः’ इत्यादि प्रसिद्धेः। एवं वायुविशेषवाची च ‘प्राणापान’ इत्यादावपि प्राणस्य पाठात्।
तर्कसंग्रहः
शब्दगुणकमाकाशम्। तच्चैकं विभु नित्यं च।

गोवर्धन-न्यायबोधिनी - लक्षणदोषाः

एवं पृथिव्यादित्रिकं निरूप्य वायुं निरूपयति रूपरहितेति। रूपरहितत्वे सति स्पर्शवत्वं वायोर्लक्षणम्। सामानाधिकरण्यसंबन्धेन रूपत्वावच्छिन्नप्रतियोगिताकाभावविशिष्टस्पर्शवत्त्वं लक्षणमिति फलितार्थः। विशेषणानुपादाने पृथिव्यादित्रिकेऽतिव्याप्तिः। तत्रापि स्पर्शवत्वसत्वात्। अतस्तद्वारणाय विशेषणोपादानम्। तावन्मात्रोपादाने आकाशादावतिव्याप्तिस्तत्रापि रूपरहितत्वसत्त्वात्। अत उक्तं स्पर्शवत्वमिति। अतिव्याप्तिर्नाम अलक्ष्ये लक्षणस्य सत्त्वम्। यथा गोः श्रृङ्गित्वं लक्षणं उक्तं चेदलक्ष्यभूतगोभिन्नमहिषादावतिव्याप्तिस्तत्रापि श्रृङ्गित्वस्य सत्त्वात्। अव्याप्तिर्नाम लक्ष्यैकदेशावृत्तित्वम्। लक्ष्यतावच्छेदकाश्रये क्वचिल्लक्ष्ये लक्षणासत्वमेवाव्याप्तिरित्यर्थः। यथा गोर्नीलरूपवत्वं लक्षणमुक्तं चेत् श्वेतगवि नीलरूपाभावादव्याप्तिः। असंभवो नाम लक्ष्यमात्रे कुत्रापि लक्षणासत्वम्। यथा गोरेकशफवत्त्वम् लक्षणमुक्तं चेत् गोसामान्यस्य द्विशफवत्त्वेन एकशफवत्वस्य कुत्राप्यसत्त्वादसंभवः। अतिव्याप्त्यव्याप्त्यसंभवानां निष्कृष्टलक्षणन्तु लक्ष्यतावच्छेदकसमानाधिकरणत्वे सति लक्ष्यतावच्छेदकावच्छिन्नप्रतियोगिताकभेदसामानाधिकरण्यमतिव्याप्तिः। लक्ष्यतावच्छेदकसमानाधिकरणत्वे सति लक्ष्यतावच्छेदकसमानाधिकरणात्यन्ताभावप्रतियोगित्वमव्याप्तिः। लक्ष्यतावच्छेदकव्यापकीभूताभावप्रतियोगित्वम् असंभव इति।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - वायुलक्षणम्

रूपरहितस्पर्शवान्वायुः। स द्विविधः नित्योऽनित्यश्चेति। नित्यः परमाणुरूपः अनित्यः कार्यरूपः। पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात्। शरीरं वायुलोके। इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवृत्तिः। विषयो वृक्षादिकम्पनहेतुः वायुः, शरीरान्तस्संञ्चारी वायुः प्राणश्च। स चैकोऽप्युपाधिभेदात्प्राणापानादिसंज्ञां लभते।
वायुं निरूपयति रूपरहितेति, रूपेण रहितः रूपरहितः तृतीयायाः प्रतियोगितानिरूपकत्वम्, रहधातोः अत्यन्ताभावः, क्तप्रत्ययस्य आश्रयत्वञ्चार्थः, रूपस्य आधेयत्वसम्बन्धेन प्रतियोगितायामन्वयः, तथा च रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति स्पर्शवत्त्वं वायोर्लक्षणमिति फलितम्, तदभावं प्रति तत्प्रतियोगीति न्यायेन रूपाभावं प्रति रूपस्य प्रतियोगित्वेन रूपनिष्ठप्रतियोगितानिरूपको योऽभाव इत्युक्तौ वायौ रूपं नास्तीति प्रतीतिसिद्धो रूपाभावः तदाश्रयत्वे सति स्पर्शवत्त्वस्य वायौ सत्त्वाल्लक्ष्ये लक्षणसमन्वयः। विशेषणमात्रोपादाने रूपाभाववत्त्वस्य गगनादौ सत्त्वादतिव्याप्तिः, विशेष्यनिवेशे तु स्पर्शवत्त्वस्य तत्राभावान्नातिव्याप्तिः। विशेष्यमात्रोपादाने पृथिव्यादित्रिके स्पर्शवत्त्वस्य सत्त्वादतिव्याप्तिः, अतः विशेषणोपादानम्, तन्निवेशे रूपरहितत्वस्य तत्राभावान्नातिव्याप्तिः।
अत्रापि स्पर्शवत्त्वं समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वाधिकरणवृत्तिभेदप्रतियोगितावच्छेदकजातिमत्त्वरूपमेव परिष्करणीयम्। अत्राधेयतायां समवायसम्बन्धावच्छिन्नत्वानिवेशे कालिकसम्बन्धावच्छिन्नाधेयतामादाय स्पर्शत्वावच्छिन्नत्वानिवेशे गुणत्वावच्छिन्नाधेयतामादाय च काले रूपरहितत्वस्यापि सत्त्वात्तत्रातिव्याप्तिः, अतः तद्विशेषणद्वयोपादानम्। उत्पन्नविनष्टवायावव्याप्तिवारणायैव जातिघटितलक्षणपरिष्कारः कार्यः। सत्त्वादिजातिमादायाकाशादावतिव्याप्तिवारणाय जातौ द्रव्यत्वव्याप्यत्वं न्यूनदेशवृत्तित्वरूपं निवेशनीयम्। रूपरहितत्वदलस्याप्यत्र घटकत्वेन नीरूपपदार्थेषु दोषवारणेनैव स्पर्शवत्त्वदलघटकविशेषणानां सार्थक्यं बोध्यम्।
अत्र रूपनिष्ठप्रतियोगितायां समवायसम्बन्धावच्छिन्नत्वं निवेशनीयम् अन्यथा रूपनिष्ठप्रतियोगितानिरूपको योऽभाव इत्युक्तौ संयोगसम्बन्धेन रूपं नास्तीत्याकारकप्रतीतिसिद्धः संयोगसम्बन्धावच्छिन्नरूपत्वावच्छिन्नप्रतियोगितानिरूपकाभावः, तदाश्रयत्वस्य पृथिव्यादौ सत्त्वात् तत्रातिव्याप्तिः भवति, तन्निवेशे तु समवायसम्बन्धावच्छिन्नरूपनिष्ठप्रतियोगितानिरूपकाभावः समवायसम्बन्धेन रूपं नास्तीति प्रतीतिसिद्धाभाव एव न तु संयोगसम्बन्धेन रूपाभावः, एतदीयप्रतियोगितायाः समवायसम्बन्धानवच्छिन्नत्वात्, अतः तादृशाभावाश्रयत्वस्य पृथिव्यादावभावेनातिव्याप्त्यभावात्। न चैवमपि पृथिव्यादावतिव्याप्तिः, समवायसम्बन्धावच्छिन्ना रूपनिष्ठा या प्रतियोगितेत्युक्तौ रूपघटत्वोभयं नास्तीत्याकारकप्रतीतिसिद्धाभावीया रूपघटत्वोभयत्वावच्छिन्ना प्रतियोगिता गृह्यते, तन्निरूपकाभावः रूपघटत्वोभयाभावः एकसत्वे द्वयं नास्तीति प्रतीत्या पृथिव्यादौ रूपस्य सत्त्वेऽपि घटत्वादेः (उदासीनस्य) अभावेन तादृशोभयाभावाश्रयत्वस्य स्पर्शवत्त्वस्य च तत्र विद्यमानत्वात् इति चेन्न। रूपनिष्ठप्रतियोगितायां रूपत्वावच्छिन्नत्वस्य निवेशनीयत्वात्, तन्निविशे तु रूपघटत्वोभयाभावीयप्रतियोगितायाः, रूपघटत्वोभयत्वावच्छिन्नत्वेन रूपत्वावच्छिन्नप्रतियोगिताको योऽभाव इत्युक्तौ न तादृशोभयाभावः, किन्तु रूपं नास्तीत्याकारकसामान्याभाव एव भवति, एतदाश्रयत्वस्य पृथिव्यादावभावान्नातिव्याप्तिः। न च तथापि रूपघटत्वोभयाभावीयप्रतियोगितायां रूपत्वमुभयत्वञ्चावच्छेदकमिति रूपत्वावाच्छिन्नत्वनिवेशेऽपि निरुक्तोभयत्वावच्छिन्नप्रतियोगितामादाय तत्रातिव्याप्तिः तदवस्थैवेति वाच्यम्, रूपत्वातिरिक्तधर्मानवच्छिन्नत्वस्य तदर्थत्वात्, तादृशोभयाभावीयप्रतियोगितायाः रूपत्वातिरिक्तोभयत्वरूपधर्मावच्छिन्नत्वेन तदनवच्छिन्नप्रतियोगिताकाभावपदेन रूपसामान्याभावस्यैव ग्राह्यतया तदाश्रयत्वस्य पृथिव्यादावभावेनातिव्याप्त्यभावात्। न चैवमपि पृथिव्यादावतिव्याप्तिः, कथम्, समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नप्रतियोगिताकाभावनिष्ठा याऽधेयतेत्युक्तौ तादृशरूपाभावनिष्ठा कालिकसम्बन्धावच्छिन्नाधेयता गृह्यते तन्निरूपिताधिकरणताश्रयत्वस्य (जन्यानां कालोपाधित्वम्, इति न्यायेन) पृथिव्यादौ सत्त्वात् तत्र स्पर्शवत्त्वस्य च सत्त्वात् अतिव्याप्तिरिति वाच्यम्। रूपाभावनिष्ठाधेयतायां स्वरूपसम्बन्धावच्छिन्नत्वस्य विशेषणीयत्वात्, तन्निवेशे पृथिव्यादौ कालिकसम्बन्धेन रूपाभावस्य सत्त्वेऽपि स्वरूपसम्बन्धेन तस्याभावान्नातिव्याप्तिः।
नन्वेवमपि घटादावतिव्याप्तिः, (उत्पन्नं द्रव्यं क्षणमगुणं निष्क्रियञ्च तिष्टति इति न्यायेन) उत्पत्तिक्षणावच्छेदेन तत्र रूपाभावाश्रयत्वस्य द्वितीयादिक्षणावच्छेदेन स्पर्शवत्त्वस्य च सत्त्वात् इति वाच्यम्, रूपाभावनिष्ठाधेयतानिरूपिताधिकरणतायां निरवच्छिन्नत्वस्य विशेषणीयत्वात् तथा च घटादिनिष्ठायाः रूपाभावाधिकरणताया उत्पत्तिकालावच्छिन्नतया निरवच्छिन्नतदधिकरणत्वस्य घटादावभावेनातिव्याप्त्यभावात्। अथवा, रूपरहित इत्यनेन रूपानधिकरणत्वस्य विवक्षितत्वात्, भेदस्य व्याप्यवृत्तित्वात् व्याप्यवृत्तेरवच्छेदकसद्भावे प्रमाणाभावाच्च घटादौ निरुक्तरीत्याऽतिव्याप्तेरभावात्, स्वप्रतियोग्यनधिकणं यद्रूपाभावाधिकरणं तत्त्वमिति विवक्षणात् घटादौ नातिव्याप्तिः, स्वपदं रूपाभावपरं, उत्पत्तिकालावच्छेदेन रूपाभावाधिकरणीभूतघटस्य स्वपदग्राह्यरूपाभावप्रतियोगिभूतरूपस्य द्वितीयादिक्षणावच्छेदेनाधिकरणतया तद्भिन्नत्वस्य घटादावभावात्।
नन्वेवमपि उत्पन्नविनष्टवायावव्याप्तिवारणाय स्पर्शवत्त्वस्य स्पर्शाधिकरणवृत्तिद्रव्यत्वव्याप्यजातिमत्त्वरूपत्वेन परिष्करणीयतया उत्पन्नविनष्टघटे निरवच्छिन्नरूपाभावाधिकरणत्वस्य समवायेन स्पर्शाभावेऽपि स्पर्शसमानाधिकरणद्रव्यत्वव्याप्यपृथिवीत्वजातिमत्त्वस्य च सत्त्वात्तत्रातिव्याप्तिरिति वाच्यम्, रूपासमानाधिकरणत्वस्य स्पर्शसमानाधिकरणद्रव्यत्वव्याप्यजातौ विशेषणीयत्वात्, तथा च स्पर्शसमानाधिकरणद्रव्यत्वव्याप्यपृथिवीत्वजातेः रूपाधिकरणघटादिवृत्तित्वेन रूपासामानाधिकरण्यस्य पृथिवीत्वादिजातावभावेन पूर्वोक्तरीत्या घटादौ नातिप्रसङ्गः। न चैवं सति गगनत्वस्य एकव्यक्तिवृत्तित्वेन जातित्वाभावेन द्रव्यत्वादेर्जातित्वेऽपि रूपासामानाधिकरण्याभावेन रूपासमानाधिकरणजातिमत्वस्य गगनादावभावात् स्पर्शवत्त्वदलमनर्थकमिति वाच्यम्, रूपासमानाधिकरणगुणत्वादिजातिमादाय रूपादावतिव्याप्तिवारणायैव स्पर्शवत्त्वदलसार्थक्यात्, तन्निवेशे तु गुणे गुणानङ्गीकारेण रूपादौ स्पर्शाभावान्नातिव्याप्तिः। न चैवमपि रूपासमानाधिकरणजातौ द्रव्यत्वव्याप्यत्वविशेषणेनैव गुणत्वादिजातिमादाय रूपादावतिव्याप्तिवारणसम्भवात् स्पर्शवत्त्वदलमनर्थकमिति वाच्यम्, आत्मत्वजातिं मनस्त्वजातिं वाऽदायात्मनि मनसि वा अतिव्याप्तिवारणाय तत्सार्थक्यात्, तन्निवेशे तु आत्मत्वमनस्त्वादौ स्पर्शसामानाधिकरण्यस्याभावात् नातिव्याप्तिः। तथा च समवायसम्बन्धावच्छिन्न- रूपत्वातिरिक्तधर्मानवच्छिन्नप्रतियोगिताकाभावनिष्ठस्वरूपसम्बन्धावच्छिन्नाधेयतानिरूपितनिरवच्छिन्नाधिकारणताश्रयत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वाधिकरणवृत्तिभेदप्रतियोगितावच्छेदकीभूतजातिमत्त्वम्, रूपासमानाधिकरणा (रूपनिष्ठाधेयतानिरूपिताधिकरणतावदवृत्तिः) द्रव्यत्वव्याप्या (द्रव्यत्वाधिकरणवृत्तिभेदप्रतियोगितावच्छेदकीभूता) या जातिः तादृशजातिमत्त्वम्, इति वा पर्यवसन्नम् वायोर्लक्षणं बोध्यम्। त्वगिन्द्रियलक्षणं तु स्पर्शविषयकप्रत्यक्षजनकत्वे सति इन्द्रियत्वमिति बोध्यम्। स्पर्शविषयकं यत् प्रत्यक्षम् अयमुष्णः अयं शीतः इत्याकारकं प्रत्यक्षं, तादृशप्रत्यक्षजनकत्वे सतीन्द्रियत्वस्य त्वगिन्द्रिये सत्त्वात्समन्वयः। विशेष्यमात्रोपादाने चक्षुरादौ विशेषणमात्रोपादाने आत्मनि च अतिव्याप्तिः इत्युभयोपादानम्। अन्यत्सर्वं पृथिवीलक्षणवत् बोध्यम्।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - प्रतियोगिता

टिप्पणी- वायुलक्षणे। प्रतियोगितात्वेन रूपनिष्ठप्रतियोगिताम् अभावत्वेनाभावञ्च अप्रवेश्य रूपनिष्ठा या तन्निरूपको यः तदाश्रयत्वमिति लक्षणकरणे प्रथमयत्पदेन रूपवान्नेति प्रतीतिसिद्धभेदप्रतियोगितावच्छेकतां द्वितीययत्पदेन रूपनिष्ठप्रतियोगिताञ्च आदाय पृथिव्यादित्रिके स्पर्शवत्त्वस्यापि सत्त्वात् अतिव्याप्तिर्वक्तव्या, तद्वारणाय प्रतियोगितात्वादिना तत्तन्निवेशः कर्तव्यः। रूपनिष्ठा या प्रतियोगिता तन्निरूपको यः तदाश्रयत्वमिति लक्षणकरणे तु रूपनिष्ठप्रतियोगिताकसमवायानुयोगित्वमादाय पृथिव्यादित्रिके स्पर्शवत्त्वस्यापि सत्त्वात् अतिव्याप्तिः वक्तव्या, अतः अभावत्वेनाभावनिवेश आवश्यकः। रूपनिष्ठा या तन्निरूपको योऽभावः तदाश्रयत्वमिति लक्षणकरणे तु ‘रूपद्रवत्वप्रत्यक्षयोगिस्यात्प्रथमत्रिकम्’ इत्यनेन रूपस्यापि पृथिव्यादित्रिकलक्षणत्वाङ्गीकारेण रूपनिष्ठलक्षणतानिरूपकलक्ष्यतामादाय पृथिव्यादित्रिकेऽतिव्याप्तिः वक्तव्या, लक्ष्यताया अपि तदभावाभावरूपत्वेन प्रतियोगिता निवेशनीया। नचैवं सति प्रतियोगितात्वावच्छिन्नस्य अभावत्वावच्छिन्नस्य च निवेशेऽपि रूपनिष्ठप्रतियोगितानिरूपकसमवायरूपाभावात्मकाभावमादाय पृथिव्यादित्रिकेऽतिव्याप्तिः दुर्वारेति वाच्यम्, अभावत्वस्य भावभिन्नत्वरूपस्य निवेशनीयत्वात्। नचैवं रूपनिष्ठलक्षणतानिरूपकलक्ष्यतामादाय पूर्वोक्तातिव्याप्तिः न संगच्छत इति वाच्यम्, गुणत्वाभावे रूपस्य स्वाभाववत्त्वसम्बन्धेन विद्यमानतया स्वनिष्ठाधिकरणतानिरूपितत्ववत् स्वनिरूपितत्वस्याप्याधेयतायामङ्गीकृतत्वेन स्वाभाववत्त्वसम्बन्धावच्छिन्नरूपनिष्ठाधेयतानिरूपकगुणत्वाभाववत्त्वमादाय पृथिव्यादित्रिके स्पर्शवत्त्वस्यापि सत्त्वात् तत्र दोषवारणायैव प्रतियोगितात्वेन प्रतियोगितानिवेशः कर्तव्यः। न च समवायसम्बन्धावच्छिन्ना रूपनिष्ठा या तन्निरूपकाभावाश्रयत्वमिति लक्षणप्रकरणे तु ध्वंसप्रागभावनिरूपितप्रतियोगितायाः समवायसम्बन्धानवच्छिन्नतया रूपध्वंसादिकमादाय पृथिव्यादावतिव्याप्त्यभावेन अत्यन्ताभावत्वेनाभावनिवेशावश्यकत्वाभावेन प्रकृते समवायसम्बन्धावच्छिन्नरूपनिष्ठकार्यतानिरूपकरूपप्रागभावाश्रयत्वमादाय पृथिव्यादावतिव्याप्तेः। समवायसम्बन्धेन जायमानरूपं प्रति रूपप्रागभावस्य कारणत्वात् स्वनिष्ठकारणतानिरूपितत्वस्येव स्वनिरूपितत्वस्यापि कार्यतायाम् अङ्गीकृतत्वाच्च। अथवा समवायसम्बन्धावच्छिन्नत्वघटितपूर्वोक्तलक्षणे अभावत्वेनाभावघटिते प्रतियोगितात्वावच्छिन्ननिवेशे प्रयोजनाभावेऽपि क्षत्यभावेन तदा प्रतियोगितापदस्य स्वरूपकीर्तनमात्रपरत्वमेवेति ध्येयम्।