12 तेजः

मूलम् - तेजः - 12

उष्णस्पर्शवत्तेजः। तद्द्विविधं नित्यमनित्यं च। नित्यं परमाणुरूपम्। अनित्यं कार्यरूपम्। पुनस्त्रिविधं शरीरेन्द्रियविषयभेदात्। शरीरमादित्यलोके। इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति। विषयश्चतुर्विधः भौमदिव्यौदर्याकरजभेदात्। भौमं वह्न्यादिकम्। अबिन्धनं दिव्यं विद्युदादि। भुक्तस्य परिणामहेतुरौदर्यम्। आकरजं सुवर्णादि॥ ११॥

Tags - 12

तेजः, द्रव्यस्वरूपम्, नित्यत्वम्, इन्द्रियविषयभेदः

दीपिका - तेजः

तेजसो लक्षणमाह- उष्णस्पर्शवदिति। उष्णं जलमिति प्रतीतेस्तेजस्संयोगानुविधायित्वान्नातिव्याप्तिः। विषयं विभजते-भौमेति। ननु सुवर्णं पार्थिवं पीतत्वात् गुरुत्वाच्च हरिद्रादिवत् इति चेन्न। अत्यन्तानलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन, जलमध्यस्थघृतादौ तन्नाशादर्शनेन च असति प्रतिबन्धके पार्थिवद्रवत्वनाशाग्निसंयोगयोः कार्यकारणभावावधारणात् सुवर्णस्यात्यन्तानलसंयोगे सति अनुच्छिद्यमानद्रवत्वाधिकरणत्वेन पार्थिवत्वानुपपत्तेः। पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः, रूपवत्तया वाय्वादिष्वनन्तर्भावात् तैजसत्वसिद्धिः। तत्रोष्णस्पर्शभास्वररूपयोरुपष्टम्भकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धादनुपलब्धिः। तस्मात्सुवर्णं तैजसमिति सिद्धम्।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - तेजः

उष्णस्पर्शवत्तेजः तद्विविधं नित्यमनित्यञ्चेति, नित्यं परमाणुरूपम्, अनित्यं कार्यरूपम्, पुनस्त्रिविधं शरीरेन्द्रियविषयभेदात्, शरीरमादित्यलोके, इन्द्रियं रूपग्राहकं चक्षुः, तच्च कृष्णताराग्रवर्ति। विषयश्चतुर्विधः भौमदिव्यौदर्याकरजभेदात् भौमं वह्न्यादि, दिव्यमबिन्धनं विद्युदादि, भुक्तस्य परिणामहेतुरौदर्यम् आकरजं सुवर्णादि।।
तेजसो लक्षणमाह उष्णस्पर्शेति। अन्वयबोधप्रकारः पूर्ववत्, लक्षणं तु उष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणताश्रयत्वम्, उष्णस्पर्शनिष्ठा याऽधेयता तेजसि उष्णस्पर्शोस्तीत्याकारकप्रतीतिसिद्धा उष्णस्पर्शनिष्ठाधेयता, तन्निरूपिता याऽधिकरणता, तेजोनिष्ठा अधिकरणता, तदाश्रयत्वं तेजसि वर्तत इति लक्ष्ये लक्षणसमन्वयः। अत्रापि काले जलादौ च पूर्वोक्तविधयाऽतिव्याप्तिवारणाय चन्द्रकिरणादावुत्पन्नविनष्टतेजसि चाव्याप्तिवारणाय च समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वाधिकरणवृत्तिभेदप्रतियोगितावच्छेदकीभूतजातिमत्त्वं तेजसो लक्षणमिति वक्तव्यम्। अन्यत्सर्वं पूर्ववद्बोध्यम्। चक्षुरिन्द्रियलक्षणन्तु रूपविषयकप्रत्यक्षजनकत्वे सतीन्द्रियत्वम्। रूपविषयकं यत्प्रत्यक्षम् अयं नीलः अयं पीत इत्याकारकं प्रत्यक्षम्, तज्जनकत्वे सतीन्द्रियत्वस्य चक्षुरिन्द्रिये सत्त्वात्समन्वयः, विशेषणानुपादाने घ्राणादौ विशेष्यानुपादाने आत्मनि चातिव्याप्तिरित्युभयोपादानम्।