11 आपः

मूलम् - आपः - 11

शीतस्पर्शवत्यः आपः। ता द्विविधाः नित्या अनित्याश्च। नित्याः परमाणुरूपाः। अनित्याः कार्यरूपाः। पुनस्त्रिविधाः शरीरेन्द्रियविषयभेदात्। शरीरं वरुणलोके। इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति। विषयः सरित्समुद्रादिः॥ १०॥

Tags - 11

आपः, द्रव्यस्वरूपम्, नित्यत्वम्, इन्द्रियविषयभेदः

दीपिका - आपः

अपां लक्षणमाह- शीतेति। उत्पन्नविनष्टजलेऽव्याप्तिवारणाय शीतस्पर्शसमानाधिकरणद्रव्यत्वापरजातिमत्त्वं विवक्षितम्। शीतं शिलातलमित्यादौ जलसंबन्धादेव शीतस्पर्शभानमिति नातिव्याप्तिः। अन्यत्सर्वं पूर्वरीत्या व्याख्येयम्।

वरदाचार्य आलोके - आप्त्वम्

शीतस्पर्शवत्य आपः। ताश्च द्विविधाः। नित्या अनित्याश्चेति। नित्याः परमाणुरूपाः। अनित्याः कार्यरूपाः। पुनस्त्रिविधाः शरीरेन्द्रियविषयभेदात्। शरीरं वरुणलोके। इन्द्रियं रसग्राहकं रसनम्। तच्च जिह्वाग्रवर्ति। विषयः सरित्समुद्रादिः।
आलोक-व्याख्या
अपां लक्षणमाह शीतस्पर्शवत्य इति। अप्शब्दो नित्यं बहुवचनान्तः। शीतस्पर्श आसु अस्तीति शीतस्पर्शवत्यः। ‘आसु’ इत्यत्र ‘इदं’ शब्दस्य जलमर्थः। सप्तम्या अधिकरणत्वमर्थः। प्रकृत्यर्थस्य जलस्य सप्तम्यर्थाधिकरणतायामाधेयतासम्बन्धेनान्वयः। तथा च जलनिष्ठाधिकरणता। ‘अस्ति’ इत्यत्र अस् धातोराधेयत्वमर्थः। आख्यातस्याश्रयत्वमर्थः। सप्तम्यर्थाधिकरणताया निरूपितत्वसम्बन्धेन ‘अस्’ धात्वर्थाधेयतायामन्वयः। आश्रयत्वस्य शीतस्पर्शेऽन्वयः। तथा च जलनिष्ठाधिकरणता- निरूपिताधेयताश्रयः शीतस्पर्श इति विग्रहवाक्यबोधः।
‘अन्यपदार्थप्रधानसमासादिवृत्तिस्थले’ इत्यादिपूर्वोक्तनियमानुरोधेन शीतस्पर्शवत्य इति तद्धितवृत्तौ पूर्वं विशेषणभूतं जलम् इदानीं विशेष्यं भवति। पूर्वं विशेष्यभूतः शीतस्पर्श इदानीं विशेषणं भवति। तथा च- शीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणताश्रयो जलमिति बोधः। शीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं जलस्य लक्षणम्। अस्य लक्षणस्य कासारादिजले समन्वयः। शीतस्पर्शनिष्ठाधेयता केति चेत्, ‘शीतं कासारजलम्’ इति प्रतीतिसिद्धा शीतस्पर्शनिष्ठाधेयता। तादृशाधेयतानिरूपिताधिकरणत्वं कासारादिजले वर्तत इति लक्षणसमन्वयः।।
नन्वेवं सति एतल्लक्षणस्य कालादावतिव्याप्तिः। कालस्य सर्वाधारत्वात् ‘इदानीं शीतं जलम्’ इति प्रतीतेः प्रामाणिकत्वात् शीतस्पर्शनिष्ठाधेयता- निरूपिताधिकरणत्वं कालेऽपि वर्तत इत्यतिव्याप्तिः। एवं पृथिव्यामप्यतिव्याप्तिः। कथमिति चेत् - ‘शीतं शिलातलम्’ इति प्रतीतेः हेमन्तादावनुभवसिद्धत्वात् शीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं शिलातलरूपपृथिव्यां वर्तत इत्यलक्ष्ये लक्षणस्य सत्त्वात् अतिव्याप्तिरिति चेत्, न। शीतस्पर्शनिष्ठाधेयतायां समवायसम्बन्धावच्छिन्नत्वस्य निवेशनात्। तथा च लक्षणम् – ‘समवायसम्बन्धावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वम्’ इति। एवञ्च नातिव्याप्तिः। तथाहि- शीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं यद्यपि काले वर्तते। किन्तु तत्र शीतस्पर्शनिष्ठाधेयता कालिकसम्बन्धावच्छिन्ना, न तु समवायसम्बन्धावच्छिन्ना। कुत इति चेत् ? गुणगुणिनोः समवायात्, शीतस्पर्शो जलस्य गुणः, न तु कालस्य। कालस्य सर्वाधारताप्रयोजकसम्बन्धः कालिकसम्बन्धः। अतस्तत्र शीतस्पर्शनिष्ठाधेयता कालिकसम्बन्धावच्छिन्ना। न तु समवायसम्बन्धावच्छिन्ना। समवायसम्बन्धावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं तु जल एव वर्तते, न तु काल इति काले नातिव्याप्तिः।
एवं पृथिव्यामपि नातिव्याप्तिः। कथमिति चेत् ? समवायसम्बन्धावच्छिन्ना शीतस्पर्शनिष्ठाधेयता का ? इत्युक्तौ ‘शीतं जलम्’ इति प्रतीतिसिद्धाधेयतैव। न तु ‘शीतं शिलातलम्’ इति प्रतीतिसिद्धाधेयता। समवायसंबन्धावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं जल एव वर्तते। न तु शिलातलरूपपृथिव्याम्। शिलातलरूपपृथिवीनिरूपिता शीतस्पर्शनिष्ठाधेयता तु न समवायसम्बन्धावच्छिन्ना, किन्तु स्वसमवायिसंयुक्तत्वसम्बन्धावच्छिन्ना। स्वः शीतस्पर्शः। स्वसमवायि जलम्। तत्संयोगः शिलातलरूपपृथिव्यां वर्तते। शीतस्पर्शविशिष्ट- हिमादिसम्बन्धादेव पृथिव्यां शीतस्पर्शोपलब्धिः। अतः स्वसमवायिसंयुक्तत्व- सम्बन्धावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं पृथिव्यां वर्तते। न तु समवायसम्बन्धावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वम्। समवायसम्बन्धावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं तु जल एव वर्तत इति नातिव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः पृथिव्यामतिव्याप्तिः। तथाहि— शीतस्पर्शः कश्चन गुणः। अतस्तत्र गुणत्वरूपा जातिरपि वर्तते। तथा च शीतस्पर्शनिष्ठाधेयता गुणत्वावच्छिन्नापि भवति। साऽऽधेयता तु चतुर्विंशतिगुणसाधारणी एकाऽखण्डा समवायसम्बन्धावच्छिन्ना। अतः समवायसम्बन्धावच्छिन्नशीतस्पर्शनिष्ठगुणत्वावच्छिन्नाधेयता केति चेत् चतुर्विंशतिगुणसाधारणी एकैवाखण्डाधेयतापि। तादृशाधेयता यथा शीतस्पर्शे वर्तते तथा गन्धेऽपि वर्तते। तादृशाधेयतानिरूपिताधिकरणत्वं तु पृथिव्यामपि वर्तत इति पृथिव्यां पुनरतिव्याप्तिरिति चेत् न। शीतस्पर्शनिष्ठाधेयतायां शीतस्पर्शत्त्वावच्छिन्नत्वस्य निवेशनात्। तथा च लक्षणम्- समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयता- निरूपिताधिकरणत्वम् इति। एवञ्च नातिव्याप्तिः। तथाहि- समवाय- सम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयता केति चेत् ? ‘शीतं जलम्’ इति प्रतीतिसिद्धा शीतस्पर्शनिष्ठाधेयतैव भवति। कुतः ? इति चेत्, शीतस्पर्शे आधेयताद्वयं वर्तते। एका चतुर्विंशतिगुणसाधारणी ‘गुणवत् जलम्’ इति प्रतीतिसिद्धा गुणत्वावच्छिन्ना शीतस्पर्शनिष्ठाधेयता। एवं शीतस्पर्शत्वावच्छिन्ना ‘शीतं जलम्’ इति प्रतीतिसिद्धा शीतस्पर्शमात्रनिष्ठान्याऽप्याधेयता वर्तते। तत्र गुणत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतायाः स्वीकारे तु ‘गुणवदिति प्रतीतिसिद्धाधेयता भवतीत्यतिव्याप्तिः। लक्षणे तु ‘शीतं जलम्’ इति प्रतीतिसिद्धा शीतस्पर्शनिष्ठाधेयता निविष्टा। अतः समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयता केति चेत् ? ‘शीतं जलम्’ इति प्रतीतिसिद्धैवाधेयता भवति, न तु ‘गुणवती’ इति प्रतीतिसिद्धाधेयता। अतः समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं जल एव वर्तते, नान्यत्र कुत्राऽपीति पृथिव्यां नातिव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्योत्पत्तिकालावच्छेदेन जलेऽव्याप्तिः दुष्परिहरा। ‘उत्पन्नं द्रव्यं क्षणमगुणं निष्क्रियं च तिष्ठतीति नियमात् उत्पत्तिकालावच्छेदेन जले शीतस्पर्शाभावात् समवायसम्बन्धाव- च्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं तत्र नास्तीति लक्षणस्यासमन्वयात् अव्याप्तिरिति चेत्, न। जातिघटितलक्षणस्य विवक्षणात्। तथा च लक्षणम् - समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्श-निष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिजातिमत्त्वम्’ इति। एवञ्च नाव्याप्तिः। तथाहि - यत्रास्माभिः शीतस्पर्श उपलभ्यते, तादृशद्वितीयादिक्षणावच्छिन्नजलस्य स्वीकारात्, तद्वृत्तिर्जातिः जलत्वजातिः। तादृशजातिमत्त्वमाद्यक्षणावच्छिन्ने जलेऽपि वर्तते। जलत्वजातेर्नित्यत्वात्। अतो लक्षणसमन्वयान्नाव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः पृथिव्यामेवातिव्याप्तिर्दुष्परिहरा। तथाहि- समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावत् कासारजलम्। तद्वृत्तिः का जातिरिति चेत् ? यथा जलत्वजातिस्तथा द्रव्यत्वजातिरपि भवति। तादृशजातिमत्त्वं पृथिव्यामपि वर्तत इति तत्रातिव्याप्तिरिति चेत् न। जातौ द्रव्यत्वव्याप्यत्वस्य विशेषणात्। तथा च लक्षणम्–‘समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वम्’ इति। एवञ्च नातिव्याप्तिः। समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्या का जातिरिति चेत् ? द्रव्यत्वजातिर्न भवति, स्वस्य स्वव्याप्यत्वाभावात्। अतो द्रव्यत्वव्याप्या जातिस्तु जलत्वजातिरेव। तादृशजातिमत्त्वं तु कासारादिजल एव वर्तते, न तु पृथिव्यामिति नातिव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य पुनरव्याप्तिर्दुष्परिहरा। तथाहि समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावान् कासारादिः। तद्वृत्तिर्या द्रव्यत्वव्याप्या जातिरिति चेत् ? यथा जलत्वजातिस्तथा कासारत्वजातिरपि। तादृशजातिमत्त्वं कासारजल एव वर्तते, न तु समुद्रजल इति लक्ष्यैकदेशे समुद्रजले लक्षणस्यासमन्वयात् अव्याप्तिरिति चेत् न। द्रव्यत्वव्याप्येत्यत्र ‘साक्षात्’ पदस्य विशेषणात्। तथा च लक्षणम् - ‘समवायसम्बन्धावच्छिन्न- शीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम्’ इति। एवञ्च नाव्याप्तिः। साक्षात्त्वं नाम स्वव्याप्यत्वे सति स्वव्याप्याव्याप्यत्वम्। एवं च नाव्याप्तिः। तथा हि - समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठा- धेयतानिरूपिताधिकरणतावान् कासारः। तद्वृत्तिर्या द्रव्यत्वसाक्षाद्व्याप्या जातिरिति चेत् ? कासारत्वजातिर्न भवति। सा जातिस्तु द्रव्यत्वव्याप्यव्याप्या। द्रव्यत्वव्याप्या जलत्वजातिः। तद्वयाप्या कासारत्वजातिः। द्रव्यत्वसाक्षाद्व्याप्या जातिस्तु जलत्वजातिरेव भवति। न तु कासारत्वजातिः। तस्या द्रव्यत्वसाक्षाद्व्याप्यत्वाभावात्। अतः समवायसम्बन्धावच्छिन्न- शीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्या जातिः जलत्वजातिरेव। तादृशजातिमत्त्वं समुद्रजलेऽपि वर्तत इति नाव्याप्तिः। तथा च समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम् अपां लक्षणम्।। एवं सति जलत्वजातिमत्त्वमेव अपां लक्षणं कुतो नोक्तम् ? इत्यादिकं पृथिवीलक्षण इव ज्ञेयम्।
सा द्विविधेत्यादिकं पूर्ववत्। जिह्वाग्रं नाम जिह्वाया उपरिभागः।।
तर्कसंग्रहः
उष्णस्पर्शवत्तेजः। तद्द्विविधम्। नित्यमनित्यं चेति। नित्यं परमाणुरूपम्। अनित्यं कार्यरूपम्। पुनस्त्रिविधम्। शरीरेन्द्रियविषयभेदात्। शरीरमादित्यलोके। इन्द्रियं रूपग्राहकं चक्षुः। तच्च कृष्णताराग्रवर्ति। विषयश्चतुर्विधः। भौमदिव्यौदर्याकरजभेदात्। भौमं वह्न्यादि। दिव्यमबिन्धनं विद्युदादि। भुक्तस्य परिणामहेतुरौदर्यम्। आकरजं सुवर्णादि।
आलोक व्याख्या
तेजसो लक्षणमाह - उष्णस्पर्शवदिति। उष्णस्पर्शोऽस्मिन् अस्तीति उष्णस्पर्शवत् इति विग्रहः। अस्मिन् इत्यत्र ‘इदं’ शब्दस्य तेजोऽर्थः। सप्तम्या अधिकरणत्वमर्थः। प्रकृत्यर्थस्य सप्तम्यर्थाधिकरणतायामाधेयतासम्बन्धेनान्वयः। तथा च तेजोनिष्ठाधिकरणता। ‘अस्ति ’ इत्यत्र अस् धातोराधेयत्वमर्थः। आख्यातस्याश्रयत्वमर्थः। सप्तम्यर्थाधिकरणताया अस् धात्वर्थाधेयतायां निरूपितत्वसम्बन्धेनान्वयः। आश्रयत्वस्य चोष्णस्पर्शे अन्वयः। तथा च - तेजोनिष्ठाधिकरणतानिरूपिताधेयताश्रय उष्णस्पर्श इति शाब्दबोधः। ‘अन्यपदार्थप्रधानसमासादिवृत्तिस्थले’ इत्यादिनियमानुरोधेन पूर्वं विशेष्यभूत उष्णस्पर्शः, उष्णस्पर्शवत् इति तद्धितवृत्तौ विशेषणं भवति। पूर्वं विशेषणभूतं तेज इदानीं विशेष्यं भवति। तथा च उष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणताश्रयस्तेजः इति उष्णस्पर्शवत् इति वाक्याद् बोधः। उष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं तेजसो लक्षणम्। उष्णस्पर्शनिष्ठाधेयता केति चेत् ? ‘उष्णो वह्निः’ इति प्रतीतिसिद्धाधेयता। तन्निरूपिताधिकरणत्वं वह्निरूपतेजसि वर्तत इति लक्षणसमन्वयः॥
नन्वेवं सत्यप्यस्य लक्षणस्य कालेऽतिव्याप्तिर्दुष्परिहरा। ‘कालस्य सर्वाधारत्वात्’ ‘इदानीमुष्णस्पर्शः’ इति प्रतीतेः प्रामाणिकत्वात् उष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वम् कालेऽपि वर्तत इति कालेऽतिव्याप्तिः। एवं जलेऽप्यतिव्याप्तिः। तथाहि- ‘उष्णं जलम्’ इत्यनुभवस्य विद्यमानत्वात् उष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं जलेऽपि वर्तत इति जलादावतिव्याप्तिरिति चेत्, न। उष्णस्पर्शनिष्ठाधेयतायां समवायसम्बन्धावच्छिन्नत्वस्य विशेषणात्। तथा च लक्षणम् समवायसम्बन्धावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वम्’ इति। एवञ्च नातिव्याप्तिः। तथाहि यद्यपि काले ‘इदानीं उष्णस्पर्श:’ इति प्रतीतिसत्त्वात् उष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं वर्तते। किन्तु सा उष्णस्पर्शनिष्ठाधेयता कालिकसम्बन्धावच्छिन्ना, न तु समवायसम्बन्धावच्छिन्ना। कुत इति चेत् ? गुणगुणिनोः समवायात्, उष्णस्पर्शस्य तेजोगुणत्वात्। उष्णस्पर्शो न कालस्य गुणः। सर्वाधारत्वप्रयोजकः कालिकसम्बन्धः। अतस्तत्र उष्णस्पर्शनिष्ठाधेयता कालिकसम्बन्धावच्छिन्ना, न तु समवायसम्बन्धावच्छिन्ना। समवायसम्बन्धावच्छिन्नोष्णस्पर्शनिष्ठाधेयता तु ‘उष्णो वह्निः’ इति प्रतीतिसिद्धैवाधेयता। तादृशाधेयतानिरूपिताधिकरणत्वं तु तेजस्येव वर्तते, नान्यत्र कुत्रापीति कालादौ नातिव्याप्तिः। एवं जलेऽपि नातिव्याप्तिः। कथमिति चेत् ? जले विद्यमानोष्णस्पर्शनिष्ठाधेयता तु न समवायसम्बन्धावच्छिन्ना, किन्तु स्वसमवायिसंयुक्तत्वसम्बन्धावच्छिन्ना। कुत इति चेत् ? उष्णस्पर्शविशिष्टतेजोभागसम्बन्धादेव जले उष्णस्पर्शस्योपलब्धिः। तथा च स्वम् उष्णस्पर्शः, स्वसमवायि तेजः, तत्संयोगो जले वर्तत इति तादृशसम्बन्धाव-च्छिन्नाधेयतानिरूपिताधिकरणत्वं जले वर्तते, न तु समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वा-वच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वमित्यतो जले नातिव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः पृथिव्यादावतिव्याप्तिर्दुष्परिहरा। तथाहि उष्णस्पर्शः कश्चन गुणः। तथा च उष्णस्पर्शनिष्ठाधेयता गुणत्वावच्छिन्नाऽपि भवति। एषाधेयता तु चतुर्विंशतिगुणसाधारणी एकैवाखण्डाधेयता। तादृशाधेयता यथा उष्णस्पर्शे वर्तते, तथैव गन्धेऽपि वर्तते। अतः समवायसम्बन्धावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं पृथिव्यामपि वर्तत इति पुनः पृथिव्यामतिव्याप्तिरिति चेत्, न। उष्णस्पर्शनिष्ठाधेयतायामुष्णस्पर्शत्वावच्छिन्नत्वस्यापि विशेषणात्। तथा च लक्षणम् – समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वम् इति। एवञ्च नातिव्याप्तिः। तथाहि - उष्णस्पर्शे आधेयताद्वयं वर्तते। एका गुणत्वावच्छिन्नोष्णस्पर्शनिष्ठा चतुर्विंशतिगुणसाधारणी आधेयता। अपरा च उष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शमात्रनिष्ठाधेयता। तत्र गुणत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयतायाः स्वीकारे तु ‘गुणवत्’ इति प्रतीतिसिद्धाधेयता भवति। लक्षणे तु ‘उष्णस्पर्शवत्’ इति प्रतीतिसिद्धोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शमात्रनिष्ठाधेयता निविष्टा। अतः समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयता केति चेत् ? ‘उष्णस्पर्शवत्’ इति प्रतीतिसिद्धाधेयतैव, न तु ‘गुणवत्’ इति प्रतीतिसिद्धाधेयता। तादृशाधेयतानिरूपिताधिकरणत्वं तु तेजस्येव, न तु पृथिव्यादाविति नातिव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्योत्पत्तिकालावच्छेदेन दीपादावव्याप्तिर्दुष्परिहरा। ‘उत्पन्नं द्रव्यं क्षणमगुणं निष्क्रियं च तिष्ठति’ इति नियमानुरोधेनाद्यक्षणावच्छिन्ने दीपादौ तेजस्युष्णस्पर्शाभावात् समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयता- निरूपिताधिकरणत्वम् उत्पत्तिकालिकदीपादौ नास्तीत्यव्याप्तिरिति चेत् - न। जातिघटिततया लक्षणपरिष्कारात्। तथा च लक्षणम्- समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नाधेयतानिरूपिताधिकरणतावद्वृत्तिजातिमत्त्वम् इति। एवञ्च नाव्याप्तिः। तथाहि- समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावान् द्वितीयादिक्षणावच्छिन्नो दीपादिः। तद्वृत्तिर्या जातिरिति चेत्, तेजस्त्वजातिः। तादृशजातिमत्त्वम् आद्यक्षणावच्छिन्ने दीपेऽपि वर्तते, ‘तेजस्त्वजातेर्नित्यत्वात्’ इति नाव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः पृथिव्यादावतिव्याप्तिर्दुष्परिहरा। तथाहि समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावान् वह्निः। तद्वृत्तिर्या जातिरिति चेत् ? यथा तेजस्त्वं तथा द्रव्यत्वमपि। तादृशजातिमत्त्वं पृथिव्यामपि वर्तत इति चेत्, न। जातौ द्रव्यत्वव्याप्यत्वस्य विशेषणात्। तथा च लक्षणम् ‘समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वम्’ इति। एवञ्च नातिव्याप्तिः। तथाहि - समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावान् वह्निः। तद्वृत्तिर्या द्रव्यत्वव्याप्या जातिरिति चेत् ? द्रव्यत्वजातिर्न भवति। ‘स्वस्य स्वव्याप्यत्वाभावात्’। तादृशजातिमत्त्वं तेजस्येव वर्तते, न तु पृथिव्यादाविति तत्र नातिव्याप्तिः।।
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः सुवर्णादौ तेजस्यव्याप्तिर्दुष्परिहरा। तथाहि – समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिता-धिकरणतावान् दीपः। तद्वृत्तिर्या द्रव्यत्वव्याप्या जातिरिति चेत् ? यथा तेजस्त्वजातिर्भवति, तद्वत् दीपत्वजातिरपि भवति। तादृशजातिमत्त्वं सूर्यादिरूपतेजसि नास्तीति अव्याप्तिरिति चेत्, न। द्रव्यत्वव्याप्ये ‘साक्षात्’ पदस्य विशेषणात्। तथा च लक्षणम्- ‘समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम्’ इति॥
एवञ्च नाव्याप्तिः। तथाहि - साक्षात्त्वं नाम - स्वव्याप्यत्वे सति स्वव्याप्याव्याप्यत्वम्। स्वम् - द्रव्यत्वम्, तद्व्याप्यत्वं तेजस्त्वे वर्तते। तद्व्याप्यत्वं दीपत्वे इति। अतः समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावत् तेजः। तद्वृत्तिर्या द्रव्यत्वसाक्षाद्व्याप्या जातिरिति चेत्, तेजस्त्वजातिरेव भवति। दीपत्वजातिस्तु न द्रव्यत्वसाक्षाद्व्याप्या। किन्तु द्रव्यत्वव्याप्यव्याप्या। अतस्तादृशाधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिश्चेत् तेजस्त्वजातिः। तादृशजातिमत्त्वं सुवर्णादावपि वर्तत इति नाव्याप्तिः। तथा च संपूर्णतेजोलक्षणम् ‘समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम्’ इति। तर्हि तेजस्त्वजातिमत्त्वमेव लक्षणमस्तु इत्येतत्तु पूर्ववदेव समाधेयम्॥
भौमम्- दार्वादीन्धनप्रभवम्। दिव्यम्- आकाशावच्छिन्ने मेघमण्डले जातम्, अत एव - अबिन्धनम्, न त्वप्राकृतम्। अप्राकृतम् तु दिव्यं शुद्धम् आत्मादिकमेव। उदरे भवम् - औदर्यम् - जठराग्निः। आकरः खनिः। तत्र जातम्। भास्वररूपस्य तेजोगुणत्वात् सुवर्णे लेशतो भास्वररूपदर्शनेन तैजसत्वम्।
तर्कसंग्रहः

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - आपः

शीतस्पर्शवत्य आपः, ताः द्विविधाः, नित्या अनित्याश्चेति, नित्याः परमाणुरूपाः अनित्याः कार्यरूपाः, पुनस्त्रिविधाः शरीरेन्द्रियविषयभेदात्, शरीरं वरुणलोके, इन्द्रियं रसग्राहकं रसनम् तच्च जिह्वाग्रवर्ति, विषयस्सरित्समुद्रादिः।।
अपां लक्षणमाह शीतस्पर्शेति। अन्वयबोधप्रकारः पूर्ववदेव। लक्षणन्तु शीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणताश्रयत्वम्, शीतस्पर्शनिष्ठा या आधेयता अप्सु शीतस्पर्शोऽस्तीत्याकारकप्रतीतिसिद्धा शीतस्पर्शनिष्ठाधेयता, तन्निरूपिता याऽधिकरणता अप्सु विद्यमानाधिकरणता, तदाश्रयत्वस्य अप्सु सत्त्वात्समन्वयः। अत्रापि काले पृथिव्यादौ च पूर्वोक्तविधयाऽतिव्याप्तिवारणाय उत्पन्नविनष्टजलेऽव्याप्तिवारणाय च शीतस्पर्शत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वाधिकरणवृत्तिभेदप्रतियोगितावच्छेदकीभूतजातिमत्त्वमिति लक्षणं परिष्करणीयम्, अन्यत्सर्वं पूर्ववद्बोध्यम्। रसनेन्द्रियलक्षणं तु रसविषयकप्रत्यक्षजनकत्वे सतीन्द्रियत्वम्, रसविषयकं यत्प्रत्यक्षम् अयं मधुरः अयमाम्लः इत्याकारकं प्रत्यक्षं, तज्जनकत्वे सतीन्द्रियत्वस्य रसनेन्द्रिये सत्त्वात्समन्वयः। अत्र दलद्वयप्रयोजनन्तु पूर्ववद्बोध्यम्।