10 पृथिवी

मूलम् - पृथिवी - 10

तत्र गन्धवती पृथिवी। सा द्विविधा नित्याऽनित्या च। नित्या परमाणुरूपा। अनित्या कार्यरूपा। पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात्। शरीरमस्मदादीनाम्। इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति। विषयो मृत्पाषाणादिः॥ ९॥

Tags - 10

पृथिवी, द्रव्यस्वरूपम्, नित्यत्वम्, इन्द्रियविषयभेदः

दीपिका - पृथिवीलक्षणम्

तत्रोद्देशक्रमानुसारात्प्रथमं पृथिव्या लक्षणमाह - तत्रेति। नाम्ना पदार्थसंकीर्तनमुद्देशः। उद्देशक्रमे च सर्वत्रेच्छैव नियामिका।
ननु सुरभ्यसुरभ्यवयवारब्धद्रव्ये परस्परविरोधेन गन्धानुत्पादादव्याप्तिः। न च तत्र गन्धप्रतीत्यनुपपत्तिरिति वाच्यम्। अवयवगन्धस्वैव तत्र प्रतीतिसंभवेन चित्रगन्धानङ्गीकारात्। किञ्च उत्पन्नविनष्टघटादावव्याप्तिरिति चेन्न। गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वस्य विवक्षितत्वात्। ननु जलादावपि गन्धप्रतीतेरतिव्याप्तिरिति चेन्न। अन्वयव्यतिरेकाभ्यां पृथिवीगन्धस्यैव तत्र भानाङ्गीकारात्। ननु कालस्य सर्वाधारतया सर्वेषां लक्षणानां कालेऽतिव्याप्तिरिति चेन्न। सर्वाधारताप्रयोजकभिन्नसंबन्धेन लक्षणत्वस्य विवक्षितत्वात्। पृथिवीं विभजते - सा द्विविधेति। नित्यत्वं ध्वंसाप्रतियोगित्वम्। अनित्यत्वं ध्वंसप्रतियोगित्वम्। प्रकारान्तरेण विभजते-पुनरिति। आत्मनो भोगायतनं शरीरम्। यदवच्छिन्नात्मनि भोगो जायते तद्भोगायतनम्। सुखदुःखान्यतरसाक्षात्कारो भोगः। शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनस्संयोगाश्रयत्वमिन्द्रियत्वम्। शरीरेन्द्रियभिन्नो विषयः। एवं च गन्धवच्छरीरं पार्थिवशरीरम्, गन्धवदिन्द्रियं पार्थिवेन्द्रियम्, गन्धवान्विषयः पार्थिवविषयः इति तत्तल्लक्षणं बोध्यम्। पार्थिवशरीरं दर्शयति - शरीरमिति। पार्थिवेन्द्रियं दर्शयति - इन्द्रियमिति। गन्धग्राहकमिति प्रयोजनम्। घ्राणमिति संज्ञा। नासाग्रेत्याश्रयोक्तिः। एवमुत्तरत्र ज्ञेयम्। पार्थिवविषयं दर्शयति - मृत्पाषाणादिरिति।

वरदाचार्य आलोके - पृथिवीत्वम्

तर्कसंग्रहः
तत्र गन्धवती पृथिवी। सा द्विविधा नित्या अनित्या चेति। नित्या परमाणुरूपा। अनित्या कार्यरूपा। पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात्। शरीरमस्मदादीनाम्। इन्द्रियं गन्धग्राहकं घ्राणम्। तच्च नासाग्रवर्ति। विषयो मृत्पाषाणादिः।
आलोक-व्याख्या
एवं पदार्थान् विभज्य, विभक्तानां यथाक्रमं लक्षणं परीक्षां च प्रदर्शयति। तत्र आद्ये द्रव्ये आद्यां पृथिवीं लक्षयति गन्धवतीति। गुणवत्त्वं क्रियावत्त्वं वा द्रव्यसामान्यलक्षणमित्युच्यते। परन्तु क्रियायास्सार्वत्रिकत्वाभावात् आकाशादिविभुषु क्रियाया असंभवात्, तदपेक्षया गुणवत्त्वं लक्षणं वरम्, द्रव्येषु नियमेन कस्यचिद्गुणस्य सत्त्वात्। संख्यापरिमाणपृथक्त्वसंयोगविभागानां नवद्रव्यसामान्यगुणत्वात्। ननु उत्पन्नं द्रव्यं क्षणं निर्गुणं निष्क्रियं च तिष्ठति इति नियमेनाद्यक्षणावच्छिन्ने घटे रूपादेरभावेन जातिघटितपरिष्कारस्यावश्यकत्वे, क्रियावत्त्वलक्षणस्यापि जातिघटितपरिष्कारान्न दोष इति चेत्, सत्यम्, कालदिगात्मादिकं द्रव्यं तु सर्वथा क्रियाशून्यं भवति। गुणशून्यं तु आद्यक्षणावच्छिन्नघटादिमात्रम्, न त्वन्यत्। तदपि न प्रत्यक्षसिद्धम्, द्रव्यगुणयोः, द्रव्यक्रिययोश्च कार्यकारणभावव्यवस्थार्थं युक्तिमात्रेण सिद्धमिति विशेषः। अतः क्रियावत्त्वापेक्षया गुणवत्त्वमेव द्रव्यलक्षणमुचितम्।
द्रव्येषु प्रथमोद्दिष्टायाः पृथिव्या लक्षणमाह गन्धवतीत्यादि। गन्धोऽस्याम् अस्तीति गन्धवती। ‘अस्याम्’ इत्यत्रेदम्शब्दस्य पृथिवीरूपोऽर्थः। सप्तम्या अधिकरणत्वमर्थः। प्रकृत्यर्थस्य पृथिव्याः सप्तम्यर्थाधिकरणतायामाधेयता(निष्ठत्व)संबन्धेनान्वयः। तथा च पृथिवीनिष्ठाधिकरणता। ‘अस्ति’ इत्यत्र ‘अस्’धातोराधेयत्वमर्थः। ‘ति’इत्याख्यातस्य आश्रयत्वमर्थः। सप्तम्यर्थाधिकरणताया ‘अस्’ धात्वर्थाधेयतायां निरूपितत्वसम्बन्धेनान्वयः। आश्रयतायाश्च गन्धे अन्वयः। तथा च पृथिवीनिष्ठाधिकरणतानिरूपिताधेयताश्रयो गन्धः इति विग्रहवाक्यार्थबोध:।
‘अन्यपदार्थप्रधानसमासादिवृत्तिस्थले विग्रहवाक्यात् यादृश- विशेषणविशेष्यभावापन्नो बोघो जायते, समासादिवृत्तिवाक्यात् तद्विपरीतविशेषणविशेष्यभावापन्नो बोघो जायते’ इति नियमानुरोधेन पूर्वं विशेष्यभूतो गन्धः, गन्धवतीति तद्धितवृत्तौ विशेषणं भवति। पूर्वं विशेषणीभूता पृथिवी चेदानीं विशेष्या भवति। तथा च गन्धनिष्ठाधेयतानिरूपिताधिकरणताश्रयः पृथिवी इति शाब्दबोधः। गन्धनिष्ठाधेयतानिरूपिताधिकरणत्वं पृथिव्याः लक्षणम्। अस्य लक्षणस्य सुरभिकुसुमादिरूपपृथिव्यां समन्वयः। गन्धनिष्ठाधेयता का इति चेत् सौरभ्यनिष्ठाधेयता। तन्निरूपिताधिकरणता कुसुमरूपपृथिव्यां वर्तते इति लक्षणसमन्वयः।
अव्याप्तिः, अतिव्याप्तिः, असंभवश्चेति लक्षणस्य त्रयो दोषा भवन्ति। तत्र (१) लक्ष्यैकदेशावृत्तित्वमव्याप्तिः। यथा गोः कपिलरूपवत्त्वं यदि लक्षणमुच्यते, तदा लक्ष्यैकदेशे श्वेतगवि कपिलरूपाभावादव्याप्तिः। (२) लक्ष्यवृत्तित्वे सति अलक्ष्येऽपि लक्षणस्य सत्त्वमतिव्याप्तिः। यथा गोः श्रृङ्गित्वं यदि लक्षणमुच्यते। तदा लक्ष्येषु गोषु सर्वेषु शृङ्गित्वसत्त्वेऽपि, अलक्ष्ये महिष्यादावपि शृङ्गित्वसत्त्वादतिव्याप्तिः। (३) असंभवो नाम लक्ष्येषु कुत्राप्यसत्त्वम्। यथा गोः एकशफवत्त्वं लक्षणमुच्यते चेत्, लक्ष्यभूतेषु गोषु कुत्रापि एकशफवत्त्वाभावादसंभवः। एतादृशदूषणत्रयरहितधर्म एव लक्षणमित्युच्यते। यथा गोः सास्नादिमत्त्वम्। अत्रोक्तदोषत्रयरहितत्त्वमस्ति। असाधारणधर्मो लक्षणम्। अथवा लक्ष्यतावच्छेदकसमनियतधर्मो लक्षणम्। यथा यत्र यत्र गोत्वम्, तत्र सास्नादिमत्त्वम्, यत्र यत्र सास्नादिमत्त्वम् तत्र गोत्वमिति लक्ष्यतावच्छेदकगोत्वसमनियतत्त्वं सास्त्रादिमत्त्वे वर्तत इति तत् गोर्लक्षणम्। एवमत्रापि गन्धवत्त्वं पृथिव्या लक्षणम्।
ननूक्तपृथिवीलक्षणस्य कालेऽतिव्याप्तिर्दुर्वारा। तथाहि- सर्वाधारत्वात् ‘इदानीं गन्धः’ इति प्रतीतेः प्रामाणिकत्वात् गन्धनिष्ठाधेयतानिरूपिताधिकरणत्वं कालेऽपि वर्तते इति कालेऽतिव्याप्तिः। एवं जलादावप्यतिव्याप्तिर्दुष्परिहरा। तथाहि - ‘सुरभि जलम्’ इति प्रतीतेः प्रसिद्धत्वात् गन्धनिष्ठाधेयतानिरूपिताधिकरणत्वं जलेऽपि वर्तत इत्यतिव्याप्तिरिति चेत्, न। गन्धनिष्ठाधेयतायां समवायसम्बन्धावच्छिन्नत्वस्य निवेशनात्। तथा च लक्षणम्- समवायसम्बन्धावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणत्वम् इति। एवञ्च नातिव्याप्तिः। तथाहि- गन्धनिष्ठाधेयतानिरूपिताधिकरणत्वं यद्यपि काले वर्तते, किन्तु गन्धनिष्ठाधेयता तत्र कालिकसम्बन्धावच्छिन्ना, न तु समवायसम्बन्धावच्छिन्ना। गुणगुणिनोः समवायात्; गन्धस्य च पृथिवीगुणत्वात्। गन्धो न कालस्य गुणः। कालस्य सर्वाधारताप्रयोजकसंबन्धः कालिक एव। अतः समवायसम्बन्धावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणत्वं पृथिव्यामेव वर्तते। न तु काल इति काले नातिव्याप्तिः।
एवं जलेऽपि नातिव्याप्तिः। तथाहि समवायसम्बन्धावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणत्वं पृथिव्यामेव वर्तते, न तु जले। जले दृश्यमाना गन्धनिष्ठाधेयता तु न समवायसम्बन्धावच्छिन्ना। अपि तु स्वसमवायिसंयुक्तत्वसम्बन्धावच्छिन्ना। स्वम्- गन्धः। तत्समवायिनी कुसुमादिरूपा पृथिवी। तत्संयोगो जले वर्तत इति तादृशगन्धविशिष्टपृथिवीभागस्य संबन्धादेव जले गन्धोपलब्धिः। अतः स्वसमवायिसंयुक्तत्वसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणत्वं जले वर्तते, न तु समवायसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणत्वम्। अतोऽलक्ष्ये जलादौ लक्षणासमन्वयात् नातिव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः जलादावतिव्याप्तिर्दुष्परिहरा। तथाहि- गन्धः कश्चन गुणः। अतस्तत्र गुणत्वरूपो धर्मोऽपि वर्तते। तथा च गन्धनिष्ठाधेयता गुणत्वावच्छिन्नाऽपि भवति। सा त्वाधेयता चतुर्विंशतिगुणसाधारणी एका। अतस्तादृशसमवायसम्बन्धावच्छिन्नगन्धनिष्ठाधेयता केति चेत् चतुर्विंशतिगुणसाधारणी एकैवाखण्डाधेयता। अतः समवायसम्बन्धावच्छिन्नगुणत्वावच्छिन्नगन्धनिष्ठाधेयता यथा गन्धे, तथा रसेऽपि वर्तते। तादृशाधेयतानिरूपिताधिकरणत्वं तु जलेऽपि वर्तते। जले रसस्य गुणस्य सत्वादिति पुनः जलेऽतिव्याप्तिरिति चेत्, न। गन्धनिष्ठाधेयतायां गन्धत्वावच्छिन्नत्वस्यापि निवेशनात्। तथा च लक्षणम्- समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणत्वम्। एवञ्च नातिव्याप्तिः। तथाहि- समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयता केति चेत्, गन्धे आधेयता द्वयं वर्तते। एका चतुर्विंशतिगुणसाधारणी गुणत्वावच्छिन्ना गन्धनिष्ठाधेयता। एवं गन्धत्वावच्छिन्नगन्धनिष्ठाधेयताऽपि चान्या वर्तते। तत्र गुणत्वावच्छिन्नगन्धनिष्ठाधेयतायाः स्वीकारे तु ‘गुणवती’ इति प्रतीतिसिद्धाधेयता भवति। लक्षणे तू ‘गन्धवती’ इति प्रतीतिसिद्धा गन्धत्वावच्छिन्ना गन्धमात्रनिष्ठाधेयता निविष्टा। तादृशसमवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयता केति चेत् ‘गन्धवती’ इति प्रतीतिसिद्धाधेयता, न तु ‘गुणवती’ इति प्रतीतिसिद्धा। तादृशाधेयतानिरूपिताधिकरणत्वं तु पृथिव्यामेव वर्तते, न तु जलादाविति नातिव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्याद्यक्षणावच्छेदेन घटेऽव्याप्तिर्दुष्परिहरा। यद्यपि घटः पृथिवी। तथाऽपि तत्राद्यक्षणावच्छेदेन गन्धाभावो वर्तते। ‘उत्पन्नं द्रव्यं क्षणमगुणं निष्क्रियं च तिष्ठति’ इति नियमात् उत्पत्तिकालावच्छेदेन घटे गन्धो नास्तीति समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणत्वमाद्यक्षणावच्छिन्ने घटे नास्तीत्यव्याप्तिरिति चेत्, न। जातिघटिततया लक्षणस्य परिष्कारात्। तथा च लक्षणम्- समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिजातिमत्त्वम्। एवञ्च नाव्याप्तिः। तथाहि यत्र घटे गन्धोऽस्माभिर्गृह्यते, तादृशघटस्य स्वीकारात् समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणतावान् द्वितीयादिक्षणाद्यवच्छिन्नो घटः। तद्वृत्तिर्या जातिरिति चेत् पृथिवीत्वजातिः। तादृशजातिमत्त्वमाद्यक्षणावच्छिन्ने घटेऽपि वर्तते, पृथिवीत्वजातेस्तु नित्यत्वात् इत्याद्यक्षणावच्छिन्नेऽपि घटे लक्षणसमन्वयात् नाव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः जलादावतिव्याप्तिर्दुष्परिहरा। तथाहि- समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणतावान् द्वितीयादिक्षणावच्छिन्नो घटः। तद्वृत्तिर्या जातिरिति चेत्, यथा पृथिवीत्वजातिस्तथा द्रव्यत्वजातिरपि भवति। द्रव्यत्वजातेः स्वीकारे तादृशजातिमत्त्वं जलेऽपि वर्तते, ‘जलं द्रव्यम्’ इति प्रतीतेः सत्त्वात्। अत अतिव्याप्तिरिति चेत्, न। लक्षणे द्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षणात्। तथा च लक्षणम्- समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वम् इति। एवञ्च नातिव्याप्तिः। तथाहि समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्न- गन्धनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्या जातिः केति चेत् ? द्रव्यत्वजातिर्न भवति। व्याप्यत्वं हि न्यूनदेशवृत्तित्त्वम्। अतः स्वस्य स्वव्याप्यत्वाभावात्, तादृशद्रव्यत्वव्याप्याजातिः केति चेत् ? पृथिवीत्वजातिरेव। तादृशजातिमत्त्वं घटादावेव वर्तते, न तु जलादाविति नातिव्याप्तिः।
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः पटादावव्याप्तिः दुस्त्यजा। तथाहि- समवायसंबन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणतावान् घटः। तद्वृत्तिर्द्रव्यत्वव्याप्या का जातिरिति चेत्, यथा पृथिवीत्वं भवति, तद्वत् घटत्वमपि भवति, तस्यापि द्रव्यत्वन्यूनदेशवृत्तित्वात्। तादृशजातिमत्त्वं तु घट एव वर्तते, न तु पटादावित्यव्याप्तिरिति चेत्, न। लक्षणे द्रव्यत्वव्याप्येत्यत्र ‘द्रव्यत्वसाक्षाद्व्याप्य’ इति निवेशनात्। तथा च लक्षणम्- ‘समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम्’ इति। द्रव्यत्वसाक्षाद्व्याप्यत्वं नाम द्रव्यत्वव्याप्यत्वे सति द्रव्यत्वव्याप्याव्याप्यत्वम्। एवञ्च नाव्याप्तिः। तथाहि– समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणतावान् घटः। तद्वृत्तिर्या द्रव्यत्वसाक्षाद्व्याप्या जातिरिति चेत् पृथिवीत्वजातिरेव भवति, न तु घटत्वजातिः। सा जातिस्तु द्रव्यत्वव्याप्यपृथिवीत्वापेक्षयापि व्याप्या। अतो द्रव्यत्वसाक्षाद्व्याप्यजातिपदेन घटत्वं स्वीकर्तुं न शक्यते। तस्य द्रव्यत्वव्याप्यपृथिवीत्वव्याप्यत्वात् द्रव्यत्वसाक्षाद्व्याप्यत्वाभावात्, साक्षाद्व्याप्यजातिस्तु पृथिवीत्वजातिरेव। तादृशजातिमत्त्वं पटादावपि वर्तते इति नाव्याप्तिः। तथा च समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम् इति निष्कृष्टलक्षणमिति दिक्।
नन्वेवं सति पृथिवीत्वजातिमत्त्वं पृथिव्या लक्षणमित्येवोच्यताम्। किमर्थमेतावान् श्रम इति चेत् ? पृथिवीत्वजातेः परिचयार्थमेव तथा कथनात्। एवं ज्ञानवैशद्यर्थं च तथोक्तम्। इदमुत्तरलक्षणेष्वपि समानम्॥
ननु गन्धवत्त्वं पृथिव्या लक्षणं चेत् पृथिवी नाम गन्धवती भवत्येव। तथा च पृथिवीपदस्य गन्धवद्वाचकत्वात्, ‘गन्धवती गन्धवती’ इत्युक्तं भवतीति कथं शाब्दबोध इति चेत्, न, पृथिवीपदं हि जातिवाचकम्। न हि गन्धवत्पदपृथिवीपदे समानार्थके। गन्धवत्पदं हि गुणपुरस्कारेण पृथिवीमभिधत्ते, पृथिवीपदं हि पृथिवीत्वजातिपुरस्कारेण पृथिवीमभिधत्ते। पृथिवीपदप्रवृत्तिनिमित्तं पृथिवीत्वजातिः*। गन्धवत्पदप्रवृत्तिनिमित्तं गन्धो गुण इति ते पदे न पर्याय इति न कश्चन दोषः।
टिप्पणी
*पृथिवीत्वजातिः - पृथिवीत्वजातिर्नाम का ? तत्तत्पदेषु त्वपदयोजनया, सा जातिर्भवतीति प्रायो मन्यन्ते, तदा हि भूतत्वमूर्तत्वादिकमपि जातिः स्यात्। महर्षिस्तु ‘समानप्रसवात्मिका जातिः’ (न्या. सू. २-२-७०) इत्युक्तवान्। अश्वादश्व एव जायते, न त्वन्यः। गजात् गज एव। एवं यस्मात् स्वजातीयमेव स्वमुत्पादयति, तस्य कारणभूतं तत्त्वमेव जातिरित्युच्यते। आम्रबीजात् आम्रवृक्ष एव जायते, न तु अश्वत्थवृक्षः। एवमश्वादश्व एव जायते, न तु गर्दभः। तथैव मनुष्यात् मनुष्य एव जायते, न त्वन्यः। अतः सुष्ठुक्तम् समानप्रसवात्मिका जातिः इति। यद्यपि भाष्ये ‘समानबुद्धिप्रसवात्मिका’ इति विवरणं दृश्यते। तत्त्वानुषङ्गिकम् अनुगतबुद्धिहेतुत्वं वदति। अनुगतबुद्धिस्तु उपाधिभिरपि भवितुमर्हति। तदपेक्षया समानजातीयप्रसवहेतुरेव जातिरित्येव स्वरसम्। छान्दोग्ये(६-१२) वटबीजदृष्टान्तेनेदं प्रदर्शितं द्रष्टव्यम्। जातिसाङ्कर्यस्य दोषत्वं चैतादृशजातीनां साङ्कर्य एवाभिमतम्, न तूपाधीनाम्। अत एव भूतत्वमूर्तत्वयोर्जातित्वं निराकृतम्, पृथिव्यादिचतुष्टय उभयसमावेशात्।
एवं सांकर्यं प्रकृतिरेव न सहत इत्ययमप्यंशोऽवधेयः। अत एव ‘स्वगर्भोऽश्वतरीमिव’ इति श्रीमद्रामायणोक्तिरपि सांकर्यं प्रतिषेधति। वडवायां गर्दभाज्जाता अश्वतरीत्युच्यते। सा यदा गर्भिणी भवति, तदा तेन गर्भेण हता भवति। अतः सांकर्यं प्रकृतिरेव (Nature) नानुमनुते। एतत्तत्त्वमितोऽपि बहुविचारार्हम्। ग्रन्थबाहुल्यभीत्या विरम्यते।
अत एव सांकर्यस्य जातिबाधकत्वे प्रमाणं नास्तीत्यादि नवीनानां साहसमपि धर्मविरुद्धमित्याद्यन्यत्र विस्तरः। प्रकृतमनुसरामः। पृथिवीत्वं कथं जातिर्भवति ? ‘समानप्रसवात्मिका’ इत्यस्यात्र कोऽर्थ इति चेत्, वस्तुतः पृथिवीत्वजातिः न प्रत्यक्षसिद्धा। ‘आकृतिर्जातिलिङ्गाख्या’ (न्या. सू. २-२-६९) इति हि पारमर्ष सूत्रम्। लोकेऽपि हि कुशला जना अवयवसन्निवेशविशेषं सूक्ष्मं ज्ञात्वैव जातिं निश्चिन्वन्ति। जगति दृश्यमानाया विशालायाः पृथिव्याः, पार्थिवानां घटपटादीनां वा न ह्याकारसाम्यादिकं वक्तुं शक्यम्। अत एव गन्धसमवायिकारणतावच्छेदकतयैव पृथिवीत्वं साधयन्ति कुशलाः। गन्धस्य हि पृथिव्येव समवायिकारणम्। अतश्च पृथिवीनिष्ठा गन्धसमवायिकारणता किञ्चिद्धर्मावच्छिन्ना, कारणतात्वात्, या या कारणता, सा किञ्चिद्धर्मावच्छिन्ना’ इति ह्यनुमानं द्रष्टव्यम्। एवमनुमानात् पृथिवीत्वसिद्धौ ‘सिद्ध्यतो धर्मस्य नित्यत्वे एकत्वे जातित्वे च लाघवम्’ इति लाघवतर्कवशादेव पृथिवीत्वजातिसिद्धिः। एवमप्त्वादावपि ज्ञेयम्।
आलोक- व्याख्या
सा - पृथिवी, द्विविधा - द्विप्रकारा। परमाणुरूपा - परमाणुस्वरूपा*।
टिप्पणी
*जालसूर्यमरीचिस्थं यत्सूक्ष्मं दृश्यते रजः।
तस्य षष्ठस्तु यो भागः परमाणुः स कीर्तितः।
इत्युक्तं परमाणुस्वरूपम्। नन्वेतादृशपरमाणुसत्त्वे किं प्रमाणम् ? न हि तत्प्रत्यक्षेणैव सिद्धम्, तथानङ्गीकारात्। कुतोऽनङ्गीकार इति चेत्, अत्यन्तसूक्ष्माणां क्रिमिकीटादीनां चक्षुषाऽग्रहणेन प्रत्यक्षे महत्त्वस्य कारणत्वमावश्यकम्। परमाणोर्महत्त्वे, ततोऽपि सूक्ष्मा रजःकणा अप्यङ्गीकार्याः। अस्तु तर्हि तादृशा रजःकणाः, अत एव षष्ठतमो भागः परमाणुः इत्यपि न साधीय इति चेत् ? न तस्याणुद्वयजन्यत्वे, तत् दीर्घाकारं दृश्येत, वर्तुलं च न स्यात्। अतस्तस्य वर्तुलत्वान्यथानुपपत्या द्वणुकत्रयजन्यत्वमावश्यकम्। तथा च जालसूर्यमरीचिस्थं रजः महत्, चाक्षुषत्वात् इत्यनुमानेन, तस्य सावयवत्वसिद्धौ तदपि सावयवम्, महदारम्भकत्वात् इत्यनुमानेन तस्याप्यवयवसिद्धिः। तस्याणुद्वयजन्यत्वेऽचतुरस्रत्वं स्यात् चक्षुर्ग्राह्यस्यावयविनः। अतो महत्परिमाणकं त्र्यणुकं परमाणुषट्कजन्यमिति निश्चीयते। अत एव अणु, महत्, ह्रस्वम्, दीर्घम् इति परिमाणं चतुर्धा विभक्तम्। महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् इति बादरायणसूत्रेऽस्यानुवादोऽपि दृश्यते। अतश्च परमाणुद्वयेन द्वणुकोत्पत्तिः। द्व्यणुकद्वयेन त्र्यणुकोत्पत्तौ, तच्चतुरस्रं स्यादिति द्वणुकत्रयेण जातमवयवि त्र्यणुकमिति युज्यते। ततश्च चाक्षुषत्वात् त्र्यणुकस्य महत्त्वावश्यकत्वे, चक्षुषा दृश्येषु स एवात्यन्तं सूक्ष्मः स्यादिति व्यवहारे त्र्यणुकमेवाणुरुच्यते। एवं परिमाणस्य तारतम्यदर्शनात् अणु, अणुतरम्, अणुतमम् इति त्र्यणुकद्व्यणुकपरमाणूनां सिद्धिः। परमाणोरपि सावयवत्वेऽनवस्थाप्रसङ्गः। न चेष्टापत्तिः, तर्हि सर्षपपर्वतयोरुभयोरप्यनन्तावयवघटितत्वात्, तयोस्तारतम्यं दुरुपपादं स्यात्। अवयवधारायाः कुत्रचिद्विश्रान्त सत्यां तु, सर्षपोऽल्पावयवजन्यः, पर्वतस्तु अधिकावयवजन्य इति तारतम्यं सूपपादम्। अतोऽवयवधाराया यत्र विश्रान्तिः स एव परमाणुरित्युच्यत इति परमाणुसिद्धिः, ततो द्वणुकम्, ततश्च त्र्यणुकम् इति परम्परासिद्धिः। एवम् अणुः, अणुतरः, अणुतमः इति अन्तिमावयवस्य परमाणुसंज्ञा। एतस्य निरवयवाच्च नित्यत्वसिद्धिः, अवयवजन्यत्वाभावात्। जन्यत्वस्यानित्यत्वव्याप्तत्वात् इदमनित्यम्, जन्यत्वात् इति हि प्रसिद्धम्। ननु तर्हि जन्यस्य ध्वंसस्यापि विनाशप्रसङ्गः। न चेष्टापत्तिः, घटध्वंसस्य नाशे घटस्य पुनरुद्भवप्रसङ्गात्। दुःखध्वंसरूपस्य मोक्षस्यापि नाशप्रसङ्गात्, मोक्षः परमपुरुषार्थो न स्यात्। ननु महाप्रलये सर्वनाशात्, परमाणूनामपि नाशावश्यकत्वे, कथं तेषां नित्यत्वमिति चेत्; कार्यवर्गस्यैव प्रलये नाशात् परमाणूनां नित्यत्वेन कार्यत्वाभावात् तदा परमाणूनामनाशात्। तर्हि प्रलये एकमेवाद्वितीयम् इति परमात्ममात्रस्य सत्त्वश्रुतेः कथं परमाणूनां तदा सत्त्वमिति चेत्, तर्हि प्रलये जीवात्मनामपि नाशापत्तिः। इष्टमेव तदिति चेत्; स्वनाशायैव स्वस्य प्रवृत्तिः स्यादिति को वा मतिमान् स्वनाशाय यतते इत्यलमनया शास्त्रान्तरकथया। अतः परमाणवो नित्या एवेत्येतच्छास्त्रमर्यादा ज्ञेया।
परस्परं तु शास्त्राणां सांङ्कर्यं नैव भावयेत्।
अर्धप्रज्ञैस्तथा सर्वं कृतं सीमातिलङ्घनात्॥
आलोक- व्याख्या
कार्यरूपा- कार्यस्वरूपा (अवयविरूपा)*। पदार्थानां साधर्म्य-वैधर्म्यतत्त्वज्ञानस्य शरीरेन्द्रियाद्यतिरिक्तात्मज्ञानोपयोगित्वाभिप्रायेण तदनुगुणं पृथिवीं विभजते - पुनरित्यादि। एवमेव जलादिलक्षणेऽपि। विषयो नामोपभोगसाधनम्। उपभोगो नाम सुखदुःखानुभवः।
टिप्पणी
*अवयवातिरिक्तावयविसाधनम् – अवयवजन्यत्वात्, अवयविरूपा पृथिवी अनित्या=कार्यरूपा। ननु अवयवातिरिक्तावयविसत्त्वे किं मानम् ? न च तर्हि अवयवधारायाः परमाणौ विश्रान्त्या, तेषामतीन्द्रियत्वात्, तदतिरिक्तावयव्यनङ्गीकारे अवयविनोऽपि अतीन्द्रियत्वापत्त्या घटादेरप्रत्यक्षत्वं स्यादिति शङ्क्यम्, प्रत्येकं परमाणूनामप्रत्यक्षत्वेऽपि तत्सङ्घातरूपस्य घटादेः प्रत्यक्षत्वे विरोधाभावात्। एकस्य केशस्याप्रत्यक्षत्वेऽपि तत्समुदायस्य प्रत्यक्षत्ववदुपपत्तेरिति चेत्, न, केशस्यैकस्यापि नातीन्द्रियत्वम्। तस्याप्रत्यक्षत्वं दूरत्वादिदोषप्रयुक्तम्, न त्वतीन्द्रियत्वं केशस्य, समीपे तस्य प्रत्यक्षत्वात्। प्रकृते तु न तथा परमाणूनामतीन्द्रियत्वात्, तत्सङ्घातस्याप्यप्रत्यक्षत्वात्। ननु तर्हि भवतां मतेऽतीन्द्रियैरवयवैर्जन्योऽवयवी त्र्यणुकः कथमैन्द्रियको भवेदिति चेत्, न अवयवापेक्षयावयविनामत्यन्तभेदात्। एकत्र प्रत्यक्षत्वाप्रत्यक्षयोरभावात्। परमाणौ महत्त्वाभावान्न प्रत्यक्षत्वम्। त्र्यणुके तु महत्त्वात् प्रत्यक्षत्वम्। नन्वेवं सति चक्षुरिन्द्रियरूपतेजसि महत्त्वसत्त्वेऽपि कथमप्रत्यक्षत्वमिति चेत् ? तत्रत्यरूपस्यानुद्भूतत्वात्। द्रव्यप्रत्यक्षे उद्भूतरूपसमानाधिकरणमहत्त्वस्यैव कारणत्वात्। चक्षुरादौ महत्त्वे सत्यपि उद्भूतरूपाभावात्, न प्रत्यक्षत्वम्। परमाणौ तूद्भूतरूपसत्त्वेऽपि महत्त्वाभावान्न प्रत्यक्षत्वमिति विवेकः। परमाणुगतरूपस्योद्भूतत्वे किं प्रमाणमिति चत् ? तज्जन्ये त्र्यणुकादौ रूपस्योद्भूतत्वदर्शनमेव प्रमाणम्।
उद्भूतत्वं च प्रत्यक्षत्वप्रयोजकधर्मविशेषः, न तु जातिविशेषः। उद्भूतत्वस्य जातित्वे, साङ्कर्यप्रसङ्गः। उद्भूतत्वं विहाय रूपत्वम् अनुद्भूतरूपे। रूपत्वं विहाय उद्भूतत्वमुद्भूतस्पर्शादौ। उद्भूतत्वरूपत्वयोः समावेश उद्भूतरूपे।
ननु परमाणुगतरूपस्यानुद्भूतत्वे का हानिरिति चेत्, त्र्यणुकरूपस्यानुद्भूतत्वप्रसङ्ग एव हानिः। न च परमाणौ महत्त्वाभावेऽपि त्र्यणुके महत्त्ववद्, रूपेऽपि तथात्वमस्तु काममिति शङ्क्यम्, परमाणौ महत्त्वाभावमात्रेणैव तदप्रत्यक्षत्वोपपत्तौ परमाणुरूपस्यापि अनुद्भूतत्वे प्रमाणाभावात्।
ननु राशि-सेना-वनादौ अतिरिक्तावयविनोऽनङ्गीकारेणैव एकत्वव्यवहारस्य निर्वाहात् किमर्थमतिरिक्तोऽवयव्यङ्गीक्रियत इति चेत्, न तत्स्थले एकत्वव्यवहारस्य गौणत्वात्। तथैव घटादावप्यस्तु इति चेत्, न यत्र कुत्रचित् मुख्यस्य एकत्वस्य सिद्धावेवान्यत्र गौणत्वसंभवात्। आकाशादावेकत्वं तु न प्रत्यक्षसिद्धम्। अन्यत्र कुत्र सिद्धमेकत्वम् ? कुत्रचित् सिद्धावेव अन्यत्रौपचारिकं तदुपपादयितुं शक्यम्। अतोऽतिरिक्तोऽवयवी अङ्गीकार्य एव॥
अपि च- पुरोवर्तिघटादिना सह चक्षुस्संयोगो घटैकदेशेन किल वर्तते। तर्हि प्रत्यक्षं घटैकदेशविषयकमेव स्यात्, न तु घटविषयकम् अतिरिक्तस्य घटाख्यस्यावयविनोऽभावात्। अतिरिक्तावयव्यङ्गीकारे तु चक्षुस्संयोगो घटेन सह जात एव। संयोगस्याव्याप्यवृत्तित्वस्वभावात् तस्य कार्त्स्न्येन ग्रहणं कदापि कथमपि केनापि कर्तुं न शक्यम्। बाल्यात्प्रभृत्यसकृत्तादृशपदार्थानामनुभवेन बुद्धौ तादृशावयविनो गृहीतत्वेन, तद्दृष्टान्तेनैव बुद्धिः कार्यं करोति। यथा मनुजेन स्वपृष्ठभागस्य कदाप्यदृष्टत्वेऽपि तद्विषयकानुभव एव तद्ज्ञानं सदापादयति, बुद्धौ मुद्रितत्वात्, तद्वदेव प्रकृतेऽपि। अतोऽतिरिक्तावयवी अवश्यमङ्गीकार्यः॥

गोवर्धन-न्यायबोधिनी - लक्षणनिर्णयः

गन्धवतीति। गन्धवत्वं पृथिव्याः लक्षणम्। लक्ष्या पृथिवी। पृथिवीत्वं लक्ष्यतावच्छेदकम्। पृथिवीत्वावच्छिन्ना लक्ष्यता। यद्धर्मावच्छिन्नं लक्ष्यं स धर्मो लक्ष्यतावच्छेदकः। यो धर्मो यस्याऽवच्छेदकः सः तद्धर्मावच्छिन्नेति न्यायात्। तथा च लक्ष्यतावच्छेदकं पृथिवीत्वं, पृथिवीत्वावच्छिन्ना लक्ष्यता॥ एवं शीतस्पर्शवत्त्वादिलक्षणेषु जलादीनां लक्ष्यता जलत्वादीनां लक्ष्यतावच्छेदकत्वं च बोध्यम्।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - पृथिवीलक्षणम्

तत्र गन्धवती पृथिवी। सा द्विविधा नित्याऽनित्या चेति, नित्या परमाणुरूपा, अनित्या कार्यरूपा, पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात्, शरीरमस्मदादीनाम्, इन्द्रियं गन्धग्राहकं घ्राणम्। तच्च नासाग्रवर्ति, विषयो मृत्पाषाणादिः।
पृथिवीं लक्षयति गन्धवतीति। तच्छब्देन नवद्रव्याणि प्रतिपाद्यन्ते, त्रल्प्रत्ययस्य घटकत्वम्, निपातातिरिक्तनामार्थयोरभेदसम्बन्धेनान्वयः इति न्यायेन नवद्रव्यघटकीभूता गन्धाधिकरणाभिन्ना पृथिवीति शाब्दबोधः। पृथिव्याः किं वा लक्षणमित्युक्तौ गन्धवत्त्वं लक्षणम्, गन्धवत्त्वञ्च गन्धनिष्ठाधेयतानिरूपिताधिकरणताश्रयत्वम्, अत्र गन्धः आधेयः, पृथिवी अधिकरणम्, गन्धे आधेयता वर्तते पृथिव्यामधिकरणता वर्तते, आधेयताया अधिकरणतायाश्च निरूप्यनिरूपकभावः सम्बन्धः, स च कश्चन स्वरुपसम्बन्धविशेषः तथा च गन्धनिष्ठा या आधेयता पृथिव्यां गन्धोऽस्तीत्याकारकप्रतीतिसिद्धा गन्धनिष्ठाऽधेयता, तन्निरूपिता या अधिकरणता पृथिवीनिष्ठाऽधिकरणता, तदाश्रया पृथिवी, तदाश्रयत्वं पृथिव्यां वर्तत इति लक्ष्ये लक्षणसमन्वयः। नन्वेवं सति कालेऽतिव्याप्तिः, सर्वाधारः काल इत्याकारकन्यायेन कालिकसम्बन्धेन कालस्य सर्वाधारत्वेन गन्धस्यापि सर्वान्तर्गतत्वेन गन्धनिष्ठा या आधेयता इत्युक्तौ कालिकसम्बन्धवच्छिन्ना गन्धनिष्ठाधेयता गृह्यते, तन्निरूपिता या अधिकरणता इत्युक्तौ कालनिष्ठाधिकरणता, तदाश्रयत्वस्य काले वर्तमानत्वादिति चेन्न, तद्वारणाय गन्धनिष्ठाधेयतायां समवायसम्बन्धावच्छिन्नत्वस्य निवेशनीयत्वात्, तन्निवेशे च काले कालिकसम्बन्धेन गन्धस्य विद्यमानत्वेन कालिकसम्बन्धावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणताश्रयत्वस्य विद्यमानत्वेऽपि काले समवायसम्बन्धेन गन्धाभावेन समवायसम्बन्धावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणताश्रयत्वाभावेन अतिव्याप्तेरभावात्। न चैवमपि जलादावतिव्याप्तिः, कथम्, गन्धे द्वे आधेयते वर्तेते एका गन्धत्वावच्छिन्ना, अपरा गुणत्वावच्छिन्नाधेयता, तत्र गन्धनिष्ठा या आधेयता इत्युक्तौ गुणत्वावच्छिन्नाधेयता गृह्यते, एकधर्मावच्छिन्नाधेयता एकैवेति न्यायेन गन्धशीतस्पर्शादिनिष्ठा या गुणत्वावच्छिन्नाधेयताया एकत्वात्, तन्निरूपिता याऽधिकरणता जलादिनिष्ठाधिकरणता, तदाश्रयत्वस्य जलादौ विद्यमानत्वादिति वाच्यम्, तस्यामेवाधेयतायां गन्धत्वावच्छिन्नत्वस्यापि निवेशनीयत्वात्, तन्निवेशे तु जलादौ शीतस्पर्शादिगुणानां सत्वेन गुणत्वावच्छिन्नाधेयतानिरूपिताश्रयत्वस्य सत्वेऽपि गन्धस्याभावेन गन्धत्वावच्छिन्नाधेयतानिरूपिताधिकरणताश्रयत्वस्याभावेन अतिव्याप्तेरभावात्। न च तथापि उत्पन्नविनिष्टघटादावव्याप्तिः। उत्पन्नं द्रव्यं क्षणमगुणं निष्क्रियञ्च तिष्ठतीति न्यायेन उत्पत्तिक्षणे तत्र गुणस्यानुत्पन्नत्वेन द्वितीयक्षणे घटस्यैव नष्टत्वेन समवायसम्बन्धावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकारणताश्रयत्वस्याभावात्, न चैष नियमोनाङ्गीक्रियत इति वाच्यम्। उत्पत्तिक्षण एव द्रव्ये गुणादिस्वीकारे द्रव्यस्य स्वगतगुणादिकं प्रति कारणत्वाभावप्रसङ्गः, द्रव्यस्य तथा गुणादिपूर्ववृत्तित्वाभावात् इति वाच्यम्, समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिजातिमत्त्वस्य लक्षणत्वेन विवक्षितत्वात्, उत्पन्नविनष्टघटे समवायसम्बन्धेन गन्धाश्रयत्वविरहेऽपि तादृशाधिकरणतावत्पुष्पादिवृत्तिपृथिवीत्वजातिमत्त्वस्य उत्पन्नविनष्टघटेऽपि विद्यमानत्वेनाव्याप्त्यभावात्। अत एव सुरभ्यसुरभ्यवयवारब्धद्रव्येऽपि नाव्याप्तिः।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - पृथिवीलक्षणविशेषः

न चैवमपि जलादावतिव्याप्तिः तदवस्थैव, तादृशाधिकरणतावत्पुष्पादिवृत्तिसत्तारूपजातिमत्त्वस्य जलादावपि सत्वादिति वाच्यम्। जातै गन्धसामानाधिकरण्यस्येव द्रव्यत्वव्याप्यत्वस्यापि निवेशनीयित्वात् तन्निवेशे तु सत्ताजातेः द्रव्यत्वाभाववद्गुणादिवृत्तित्वेन द्रव्यत्वाभाववदवृत्तित्वरूपव्याप्यत्वस्यासम्भवेन न तां जातिमादायातिप्रसक्तिः। न चैवमपि गन्धसमानाधिकरणद्रव्यत्वाभाववदवृत्तिद्रव्यत्वजातिमत्वस्य जलादौ सत्वात् पुनरप्यतिव्याप्तिः तत्र दुर्वारेति वाच्यम्, तत्र व्याप्यत्वं न तदभाववदवृत्तित्वरूपं निवेश्यते, किन्तु (न्यूनदेशवृत्तित्वरूपं) तदधिकरणवृत्तिभेदप्रतियोगितावच्छेदकत्वरूपं तत् निवेश्यते, तथा च द्रव्यत्वाधिकरणं घटः तद्वृत्तिर्यो भेदः द्रव्यं नेत्याकारकप्रतीतिसिद्धो भेदः न सम्भवति, किन्तु पटो नेति भेदः तत्प्रतियेगितावच्छेदकीभूतजातिः पटत्वादिजातिरेव नतु द्रव्यत्वजातिः, द्रव्यत्वाधिकरणे सत्तावन्नेति भेदस्याप्यसम्भवेन सत्ताजातिरपि तद्वृत्तिभेदप्रतियोगितावच्छेदकीभुता न भवति, अतः सत्ताजातिं द्रव्यत्वजातिं वाऽदाय जलादौ नातिव्याप्तिः। न च तथापि जातित्वेन जातिमनिवेश्य गन्धसमानाधिकरणः द्रव्यत्वव्याप्यो यो धर्मः तादृशधर्मवत्त्वम् इत्येतावदेव लक्षणं भवत्विति वाच्यम्, द्रव्यत्वाधिकरणाकाशादिनिष्ठभेदप्रतियोगितावच्छेदकीभूतपृथिवीजलान्यतरत्वरूपधर्ममादाय जलादावतिप्रसङ्गात्। न च समवायेन तादृशधर्मवत्त्वं निवेश्यते, तादृशान्यतरत्वस्य भेदरूपतया स्वरूपसम्बन्धेनैव तस्य जलादौ विद्यमानतया समवायसम्बन्धेन तादृशधर्मवत्त्वस्य जलादावविद्यमानत्वेन अतिप्रसङ्गानापादकत्वेन च एतदेव लक्षणमुच्यत इति वाच्यम् , द्रव्यत्वाधिकरणं वाय्वादिः तद्वृत्तिर्यो भेदः पृथिवीजलसंयोगवान्नेति भेदः, तत्प्रतियोगितावच्छेदकीभूतः गन्धसमानाधिकरणो यो धर्मः पृथिवीजलसंयोगरूपो धर्मः समवायसम्बन्धेन तादृशधर्मवत्त्वस्य जलादौ सत्त्वादतिव्याप्त्यापत्तेः, जातित्वेन जातिनिवेशे तु पृथिवीजलान्यतरत्वरूपस्य पृथिवीजलसंयोगरूपस्य वा धर्मस्य जातिरूपत्वाभावेन जलादावतिव्याप्त्यभावात्। पृथिव्यां लक्षणसमन्वयप्रकारस्त्वित्थं, द्रव्यत्वाधिकरणं जलादिकं, तद्वृत्तिर्यो भेदः पृथिवी नेति भेदः, तत्प्रतियोगितावच्छेदकीभूता गन्धाधिकरणवृत्तिर्या जातिः पृथिवीत्वरूपा जातिः तादृशजातिमत्त्वस्य पृथिव्यां सर्वत्रापि विद्यमानत्वाल्लक्षणसमन्वयः, नातिप्रसङ्गश्च। तथा च समवायसंबन्धावच्छिन्नगन्धत्वावच्छिन्नाधेयतानिरूपिताधिकरणतावद्वृत्तिः द्रव्यत्वाधिरणवृत्तिभेदप्रतियोगितावच्छेदकीभूता या जातिः तादृशजातिमत्त्वं पृथिव्याः लक्षणमिति पर्यवसन्नम्।

टिप्पणी- गन्धवती पृथिवीत्यत्र शाब्दबोधप्रकारः। गन्धोऽस्यामस्तीति गन्धवती, इदं शब्देन पृथिवी प्रतिपाद्यते, सप्तम्या अधिकरणत्वम्, अस् धातोराधेयत्वम्, तदुत्तरवर्त्तितिप्प्रत्ययस्याश्रयत्वम्, पृथिव्याः अधिकरणत्वे आधेयत्वसम्बन्धेनान्वयः, पृथिवीनिष्ठाधिकरणतायाः आधेयत्वे निरूपकत्वसम्बन्धेनान्वयः, तिबर्थाश्रयत्वस्य स्वरूपसम्बन्धेन गन्धेऽन्वयः, तथा च पृथिवीनिष्ठाधिकरणतानिरूपकाधेयताश्रयो गन्ध इति विग्रहवाक्यजन्यो बोधः, विग्रहवाक्याद्यादृशविशेषणविशेष्यभावापन्नपदार्थविषयकबोधो जायते समासवाक्यात्तद्विपरीतबोधो जायते, इति नियमानुरोधेन गन्धवतीति समासवाक्यात् तद्विपरीतः गन्धनिष्ठाधेयतानिरूपिताधिकरणताश्रयाभिन्ना पृथिवीति शाब्दबोधो जायते।
पृथिवीलक्षणे आधेयतात्वेनाधेयताम् अधिकरणतात्वेनाधिकरणतां च अप्रवेश्य गन्धनिष्ठा या तन्निरूपिता या तदाश्रयत्वमित्येतावत एव लक्षणत्वस्वीकारे गन्धनिष्ठाधिकरणतानिरूपिताधेयतामादाय गन्धत्वेऽतिव्याप्तिप्रसङ्गः। समवायसम्बन्धावच्छिन्नगन्धनिष्ठप्रकारतानिरूपितप्रकारितामादाय गन्धवती पृथिवीति ज्ञानेऽतिप्रसङ्गः, अतः आधेयतात्वादिना आधेयत्वादिनिवेशः कार्यः। गन्धनिष्ठा या तन्निरूपिता या अधिकरणता तदाश्रयत्वमिति लक्षणाङ्गीकारे तु स्वनिष्ठाधेयतानिरूपितत्ववत् स्वनिरूपितत्वस्याप्यधिकरणतायामङ्गीकृतत्वेन गन्धनिष्ठलक्षणतानिष्ठाधेयतानिरूपिताधिकरणत्वस्येव गन्धनिष्ठलक्षणतानिरूपिताधिकरणत्वस्यापि गन्धे सत्त्वात्तत्रातिव्याप्तिप्रसङ्गः, समवायसम्बन्धावच्छिन्ना गन्धनिष्ठा या तन्निरूपिता या अधिकरणतेति लक्षणकरणेऽपि गन्धनिष्ठसमवायसम्बन्धावच्छिन्नलक्षणतानिरूपिताधिकरणतामादाय गन्ध एवातिप्रसङ्गः, अतः आधेयतात्वेनाधेयता प्रवेशनीया। गन्धनिष्ठाधेयतानिरूपितावच्छेदकतामादाय गन्धत्वेऽतिप्रसङ्गः, आधेयतायां समवायसम्बन्धावच्छिन्नत्वनिवेशेपि एनामाधेयतावच्छेदकतामादायैव गन्धत्वेऽतिव्याप्तिर्वक्तव्या, अतः अधिकरणतात्वेनाधिकरणता प्रवेशनीया। ननु गन्धनिष्ठाधेयतानिरूपिताधिकरणताश्रयत्वमिति निष्कृष्टलक्षणेऽपि (स्वनिष्ठाधेयतानिरूपितत्ववत् स्वनिरूपितत्वमप्यधिकरणतायां सम्भवतीति न्यायानुसारेण) गन्धनिष्ठाधेयत्वनिष्ठाधेयतानिरूपिताधिकरणत्वस्येव गन्धनिष्ठाधेयतानिरूपिताधिकरणत्वस्यापि गन्धे सत्वादतिव्याप्तिस्सम्भवतीति चेन्न, गन्धनिष्ठाधेयत्वानिरूपिता गन्धनिष्ठाधेयतानिरूपिता या अधिकरणता तदाश्रयत्वमिति वा गन्धनिरूपिताधिकरणत्वमिति वा लक्षणाङ्गीकरणे निरुक्तदोषाभावात् इति।
उत्पन्नविनष्टघटेऽव्याप्तिवारणाय समवायस्वसमवायिसमवेतत्वान्यतरसम्बन्धेन गन्धविशिष्टत्वमिति लघुलक्षणं वा परिष्करणीयम् तथाच उत्पन्नविनष्टघटे समवायसम्बन्धेन गन्धाभावेऽपि स्वसमवायिसमवेतत्वसम्बन्धेन गन्धविशिष्टत्वं सम्भवतीति नाव्याप्तिः। स्वपदं अवयवगतगन्धपरं बोध्यम्, प्रथमसम्बन्धानुपादाने परमाणुषु द्वितीयसम्बन्धानुपादाने उत्पन्नविनष्टघटेचाव्याप्तिरित्युभयोपादानम्। अस्मिन् लक्षणे जातिघटितलक्षणकरणावश्यकता नास्ति।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - पृथिवीविभागः

पृथिवीं विभजते सा द्विविधेति, अत्र नित्यानित्यपदे नित्यत्वानित्यत्वपरे, इति पदार्थश्चाभेदः, चकारः विरोधद्योतकः, विधापदस्य विभाजकधर्मद्वयान्यतरवति लक्षणा, द्विपदं तत्तात्पर्यग्राहकं, तथा च नित्यत्वानित्यत्वरूपविभाजकधर्मद्वयान्यतरवदभिन्ना पृथिवीति शाब्दबोधः (उत्पत्तिशून्यत्वे सति नाशशून्यत्वं नित्यत्वम्, उत्पत्तिमत्त्वे सति नाशवत्त्वमनित्यत्वम्)। परमाणुरूपा नित्या, द्व्यणुकादिब्रह्माण्डान्तकार्यरूपा पृथिवी अनित्या। प्रकारान्तरेण विभजते पुनरिति, अत्रापि शरीरादिपदानां शरीरत्वादिपरत्वम्, भेदपदार्थो विशेषधर्मः, पञ्चम्याः अभेदोऽर्थः। तस्य च विधापदलक्ष्यतावच्छेदकविभाजकधर्मत्रयान्यतमवत्त्वेऽन्वयः, तथा च शरीरत्वेन्द्रियत्वविषयत्वरूपविशेषधर्माभिन्नविभाजकधर्मत्रयान्यतमवती पृथिवीति शाब्दबोधः (धर्मे विभाजकत्वञ्च विभागवाक्यघटकपदजन्योपस्थितिनिरूपितविशेष्यतानिरूपितप्रकारताश्रयत्वम्)। अत्र शरीरेन्द्रियविषयभेदेन विभागः पृथिवीसामान्यस्यैव, नानित्यपृथिव्याः, पुनः पदस्वारस्यात्। पार्थिवशरीरं दर्शयति शरीरमिति, अस्मदादीनामित्यत्र षष्ठ्याः अवच्छेदकत्वमित्यर्थः, तथा च अस्मदाद्यात्मावच्छेदकं शरीरं पार्थिवशरीरमित्यर्थः। पार्थिवेन्द्रियं दर्शयतीन्द्रियमिति, गन्धस्य ग्राहकं गन्धग्राहकम्, षष्ठ्याः विषयतानिरूपकत्वम्, ग्रहधातोः प्रत्यक्षं, ण्वुल्प्रत्ययस्य जनकत्वञ्चार्थः, तथा च गन्धविषयकप्रत्यक्षजनकत्वे सतीन्द्रियत्वं घ्राणेन्द्रियस्य लक्षणमिति फलितम्, गन्धविषयकं यत्प्रत्यक्षम् अयं सुरभिः अयमसुरभिरित्याकारकं प्रत्यक्षम्, तज्जनकत्वे सतीन्द्रियत्वं घ्राणेन्द्रिये वर्तत इति लक्ष्ये लक्षणसमन्वयः। इन्द्रियत्वमात्रोपादाने चक्षुरादावपीन्द्रियत्वस्य सत्त्वात्तत्रातिव्याप्तिः, तद्वारणाय गन्धविषयकप्रत्यक्षजनकत्वदलम्, तन्निवेशे तु चक्षुरादाविन्द्रियत्वस्य सत्त्वेऽपि गन्धग्राहकत्वस्याभावान्नातिव्याप्तिः। तावन्मात्रोपादाने आत्मनो ज्ञानमात्रं प्रति समवायिकारणत्वेन गन्धविषयकप्रत्यक्षस्यापि ज्ञानान्तर्गतत्वेन तज्जनकत्वस्याप्यात्मनि सत्त्वेन आत्मन्यतिव्याप्तिः, अतः इन्द्रियत्वोपादानम्, तन्निवेशे तु आत्मनि इन्द्रियत्वाभावान्नातिव्याप्तिः। न चैवमपि (आत्मा मनसा संयुज्यते, मनः इन्द्रियेण, इन्द्रियमर्थेन, ततः प्रत्यक्षमुत्पद्यते, इति न्यायानुसारेण) मनसि गन्धग्राहकत्वस्य इन्द्रियत्वस्य च सत्त्वान्मनस्यतिव्याप्तिरिति वाच्यम्, इन्द्रियपदेन बहिरिन्द्रियत्वस्य विवक्षणीयत्वात्, मनसि बहिरिन्द्रियत्वस्याभावान्नातिव्याप्तिः। बहिरिन्द्रियत्वञ्च मनोभिन्नेन्द्रियत्वम्। यद्वा शब्दरूपादिचतुष्टयान्यतमसाक्षात्कारजनकत्वे सतीन्द्रियत्वम्, अथवा, सुखादिसाक्षात्काराजनकत्वे सतीन्द्रियत्वम् तत्। गन्धग्राहकमिति प्रयोजनकथनं, घ्राणमिति संज्ञा, नासाग्रेत्याश्रयोक्तिः। विषयं दर्शयति विषय इति, शरीरेन्द्रियभिन्नत्वं विषयलक्षणम्, परमाणुरूपनित्यपृथिव्या अपि विषय एवान्तर्भावो ग्राह्यः। एवं पृथिवी निरूपिता।
टिप्पणी- सा द्विविधा नित्याऽनित्या चेत्यत्र, नित्यत्वानित्यत्वरूपविभाजकधर्मद्वयान्यतरवती पृथिवीति शाब्दबोधाङ्गीकारे घटः द्विविधः नित्योऽनित्यश्चेति वाक्यस्य प्रामाण्यापत्तिः, अत्रापि विषयस्याबाधितत्वात्, अतः तद्वारणाय उद्देश्यतावच्छेदकसामानाधिकरण्यस्य विधेयभूतविभाजकधर्मेषु सर्वेष्वप्यन्वयोऽङ्गीकार्यः, अत्र घटत्वसामानधिकरण्यस्य नित्यत्वेऽभावान्नापत्तिः। एवमपि घटो द्विविधः पृथिवी द्रव्यं चेति वाक्यस्य प्रामाण्यापत्तिर्दुर्वारा, तद्वारणाय उद्देश्यतावच्छेदकव्याप्यत्वस्य विधेयभूतविभाजकधर्मान्यतरत्वावच्छिन्ने
(अन्यतमतत्वावच्छिन्ने) अन्वयः अङ्गीकार्यः। एवमपि द्रव्यं द्विविधं घटः पटश्चेति वाक्यस्य प्रामाण्यापत्तिः, तद्वारणाय उद्देश्यतावच्छेदकव्यापकत्वस्यापि पूर्वोक्ते अन्यतरत्वावच्छिन्ने (अन्यतमत्वावच्छिन्ने) भानमङ्गीकार्यम्। एवमपि घटो द्विविधः कम्बुग्रीवादिमान् तद्धटश्चेति वाक्यस्य प्रामाण्यापत्तिः तत्र निरुक्तव्याप्यत्वव्यापकत्वसामानाधिकरण्यानामबाधितत्वात्, अतस्तद्वारणाय विभाजकधर्मेषु परस्परविरुद्धत्वस्यापि भानमङ्गीकार्यम्। विधेयभूतयावद्विभाजकधर्मेषु उद्देश्यतावच्छेदकसामानाधिकरण्यभानाङ्गीकारेण घटो द्विविधः पृथिवी जलञ्चेत्याद्यापत्तेः दुरुपपादतया विभाजकधर्मेषु परस्परविरुद्धत्वभानाङ्गीकारेण घटो द्विविधः पृथिवी द्वयञ्चेत्यद्यापत्तेरपि दुरुपपादतया व्याप्यत्वभानाङ्गीकारावश्यकता नास्ति। अत एव नित्यत्वानित्यत्वयोः पृथिवीत्वाभाववज्जलादिवृत्तित्वेन व्याप्यत्वासम्भवेन नित्यानित्यपदयोः नित्यानित्यपृथिवीत्वपरत्वमावश्यकमित्यपि प्रत्युक्तम्। तथाच प्रकृते पृथिवीत्वव्यापकं यत् अनित्यत्वविरुद्धपृथिवीत्वसमानाधिकरणनित्यत्व-नित्यत्वविरुद्ध पृथिवीत्वसमानाधिकरणानित्यत्वरूपविभाजकधर्मद्वयान्यतरत्वावच्छिन्नं तद्विशिष्टा पृथिवीति शाब्दबोधः, सामानाधिकरण्यस्य प्रत्येकं यावद्विभाजकधर्मेषु व्यापकत्वस्य च प्रकारविधया संसर्गविधया वा भानमङ्गीकार्यम्।
शरीरेन्द्रियविषयभेदादित्यत्र शाब्दबोधप्रकारः। पुनश्शब्दः पूर्वोक्तविभाजकधर्मभेदबोधकः, भेदः परस्परभिन्नार्थकशब्दसमुदायः, शरीरादिपदानां शरीरादिपदनिष्ठानुपूर्व्यवच्छिन्नार्थकत्वम्, अस्य चाभेदसम्बन्धेन भेदपदार्थेऽन्वयः, पञ्चम्याः ज्ञानज्ञाप्यत्वमर्थः, ज्ञानज्ञाप्यत्वञ्च ज्ञानजन्यशाब्दबोधविषयत्वम्, अस्य च विधापदार्थभूतविभाजकधर्मेऽन्वयः तथा च शरीरपदेन्द्रियपदविषयपदाभिन्नपरस्परविरुद्धार्थकशब्दसमुदायजन्यशाब्दबोधविषयपूर्वोक्तविभाजकधर्मभिन्नविभाजकधर्मत्रयान्यतमवदभिन्ना पृथिवीति शाब्दबोधः। व्यापकत्वादिबोधः पूर्ववत् ग्राह्यः। एवम् उत्तरत्र आधेयत्वाधिकरणत्वघटितेषु जलादिलक्षणेषु आधेयतात्वेनाधेयतानिवेशस्य अधिकरणतात्वेनाधिकरणतानिवेशस्य च फलं पूर्वोक्तरीत्या बोध्यम्। कार्यत्वकारणत्वघटितेषु कालादिलक्षणेष्वपि कार्यतात्वेन कार्यतानिवेशस्य कारणतात्वेन कारणतानिवेशस्यापि फलं पूर्ववदेव ग्राह्यम्। विभागवाक्यस्थलेषु शाब्दबोधप्रकारः तत्र सामानाधिकरण्यव्यापकत्वपरस्परविरुद्धत्वादीनां प्रयोजनानि च पूर्ववदेव ग्राह्यानि।