07 विशेषाः

मूलम् - विशेषाः - 7

नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव॥ ६॥

Tags - 7

विशेषाः, नित्यद्रव्यविशेषाः

दीपिका - विशेषाः

नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव।
विशेषं विभजते - नित्येति। पृथिव्यादिचतुष्टयपरमाणवः आकाशादिपञ्चकं च नित्यद्रव्याणि।

वरदाचार्य आलोके - विशेषाभावसमवायव्यविधानम्

नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव।
विशेषं वर्णयति - नित्येत्यादि। नित्यद्रव्याणि पृथिव्यादिचतुष्टयपरमाणवः, आकाशकालदिगात्ममनांसि च। एतेषां परस्परं भेदो विशेषादेव सिद्ध्यतीति तन्निरूपणे वक्ष्यामः। परमाणूनां जीवात्मनां मनसां चानन्तत्वात् तद्वृत्तयो विशेषा अप्यनन्ता एव। यद्यपि पृथिवीव्यतिरिक्तजलादिपरमाणूनां रूपरसस्पर्शा नित्याः, एकत्वसंख्यापि नित्या, सामान्यमपि नित्यम्, अथापि विशेषस्तु नित्यद्रव्यमात्रवृत्तिः, न गुणादिवृत्तिरित्येतत् विशेषनिरूपणे प्रदर्शयिष्यते*।
टिप्पणी
*ननु ‘नित्यद्रव्यवृत्तयः’ इत्यत्र द्रव्यपदं किमर्थं? परमाणुवदेव नित्यगुणा अपि निरवयवाः किल! तर्हि नित्यानां परमाणुगतगुणानां कथं भेदसिद्धिरिति चेत्; विशेषवशात् परमाणूनां परस्परभेदसिद्धौ तत्तद्गतगुणानामाश्रयभेदादेव सिद्ध्यति। शुक्लनीलादिगुणा हि भिन्ना तथैव प्रत्यक्षसिद्धाः। भिन्नयोः शुक्लपटयोर्वर्तमानयोः शुक्लरूपयोः तदाश्रयपटभेदादेव भेदः। निरवयवे द्रव्ये कारणाभावात् भेदः कथं सिद्धः? इति प्रश्न इत्यतः विशेषाः नित्यद्रव्यवृत्तयः, न तु नित्यगुणादिवृत्तय इति ज्ञेयम्।
समवायस्त्वेक एव।
समवायस्वरूपं वक्ति- समवाय इति। अयुतसिद्धानां संबन्धस्समवायः। अवयवावयविनौ, गुणगुणिनौ, क्रियाक्रियावन्तौ, जातिव्यक्तौ, विशेषनित्यद्रव्ये चायुतसिद्धाः, परस्परं पृथक्कर्तुं न शक्यन्ते। अवयविनः पटात् यदि तन्तवः पृथक् क्रियेरन्, तर्हि पटो न शिष्येत। अतस्तन्तुपटौ अयुतसिद्धौ। एवमेव गुणिनो द्रव्यात् गुणा रूपादयो न पृथक्कर्तुं शक्याः। तावता न तयोरभेदः, ‘गुणः, गुणी’ इत्यादिभिन्नपदव्यवहारात्। उभयोरभेदे हि ‘गुणी’ इति मतुबर्थकप्रत्ययो न स्यात्। नह्यविद्यमानस्यार्थस्य कृते भगवान् पाणिनिः प्रत्ययं विदध्यात्। अतस्तयोर्भेद आवश्यकः। भेदे सति संबन्ध आवश्यकः, मतुप्प्रत्ययस्य संबन्धार्थकत्वात्। भिन्नयोर्हि संबन्धमन्तरा विशिष्टप्रतीतिर्न स्यात्। अतः पृथक् कर्तुमशक्यत्वेऽपि तयोस्संबन्ध आवश्यकः। स एव समवाय इत्युच्यते। स तु नित्यः, एकश्च। कुत एतदिति समवायनिरूपणे वक्ष्यते।
अभावश्चतुर्विधः। प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्याभावश्चेति।
*अभावं विभजते- अभाव इति। न भावः = अभाव इति विग्रहः। अभावः ‘नञ्’पदजन्यप्रतीतिविषयः। ‘अस्ति’ इति प्रतीतेः यथा कश्चन विषय आवश्यकः तथा ‘नास्ति’ इति प्रतीतेरपि कश्चन विषय आवश्यकः। स एवाभाव इत्युच्यते। अभावव्यवहारस्य चतुर्धा दर्शनात् तदर्थभूतोऽभावोऽपि चतुर्विधः। ‘भूतले घटो न’ इत्येका प्रतीतिः, ‘घटः पटो न’ इत्यपरा। आद्यप्रतीत्या सिद्धोऽभावोऽत्यन्ताभाव इत्युच्यते। द्वितीयप्रतीत्या सिद्धस्तु अन्योन्याभाव इत्युच्यते। एवमेव घटोत्पत्तेः प्राक् ‘घटो नास्ति’ इति प्रतीत्या घटोत्पत्तेः पूर्वं प्रागभावसिद्धिः। एवं घटस्य नाशानन्तरमपि ‘घटो नास्ति इति प्रतीतेस्सत्त्वात् प्रध्वंसाभावः सिद्ध्यति। अतोऽभावश्चतुर्विधः।
टिप्पणी
*ननु पदानि चतुर्विधानि, अतः पदार्थोऽपि चतुर्विध एवेत्युक्तमुपक्रमे। नञा अभावो बोध्यते लोके। नञ् च न पदम्, किन्त्वव्ययम्। अव्ययानां सूचकत्वमेव, न वाचकत्वमित्यभिज्ञाः। ‘भूतले घटोऽस्ति किम्?’ इति प्रश्ने, ‘न’ इत्येव प्रत्युत्तरदानेऽपि, तस्य ‘भूतले घटो नास्ति’ इत्येवार्थः। अतः नञः केवलस्य अर्थधीजनकत्वं नास्तीत्येवाभिज्ञाः। अभावः न पदार्थः, किन्तु वाक्यार्थः, अर्थसमाजरूप एव। अत एव ‘द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां’ (वै.सू.१-१-४) इत्येव निर्देशः कृतः। एषु च द्रव्यगुणकर्मसामान्यानि सर्वव्यवहारविषयाः, समवायविशेषौ तु शास्त्रीयव्यवहारविषयौ। ननु उपरि अभावनिरूपणदर्शनात् सोऽपि संमत इति कुतो न स्यादिति चेत्; वाक्यार्थत्वेनैव तस्य निरूपणात्। अभाव एव नास्तीति न ह्युच्यते, किन्तु स न पदार्थः, किन्तु वाक्यार्थ इत्येवोच्यते। अत एव समवायानन्तरं स न निरूपितः, मध्ये प्रसङ्गादेव।
अभावस्य चतुर्विधत्वेऽपि, नञः नियतः प्रयोगः अत्यन्ताभावे, अन्योन्याभाव एव। प्रागभावस्तु भविष्यतीति प्रतीतिसिद्धः, प्रध्वंसाभावस्तु नष्ट इति प्रतीतिसिद्धः। ‘पश्चाच्छब्दो नास्तिपर्यायः’ इति न्यायेन तयोः नास्तीति व्यवहारः अनन्तरकालिकः, आर्थिकः। अत एव प्रागभावप्रध्वंसाभावौ तत्तत्समवायकारणवर्तिनौ इत्यभिप्रयन्ति। केवलभूतलादौ ‘भविष्यति’ ‘नष्टः’ इति व्यवहारौ न भवतः। उपादानभूततन्तुकपालादेर्दर्शन एव तथा प्रतीतेरवकाशः। ‘चैत्रोऽत्रेदानीं भविष्यति’ इत्यादिव्यवहारस्तु तदागमनविषयकः न चैत्रविषयकः। अत एव प्रागभावानङ्गीकारे; पटादेरुत्पत्त्यनन्तरं सामग्र्याः तत्र सत्त्वात् उत्पन्नस्य पुनरुत्पत्तिप्रसङ्गः इति भिया प्रागभावसिद्धिरित्यपि न क्षोदक्षमम्, तत्र तत्पटप्रागभावनाशादिति यथोच्यते, तदपेक्षया, तत्र तदुपादानकारणस्याभावादित्येव समीचीनमुत्तरम्। सन्त्येव खलु तत्र तन्तव इति चेत्, तन्तवः पटाधिकरणत्वेन सन्ति, न तु पृथक्। अतश्च तत्रस्थः पट एव पुनः स्वोत्पत्तौ प्रतिबन्धक इत्यपि सुवचम्। एवञ्च प्रागभावः पूर्वावस्थारूपः। प्रध्वंसाभावश्चोत्तरावस्थारूपः इति प्राचीनाः। अन्योन्याभावस्तु परस्परव्यावृत्तिरूपः। अत्यन्ताभाव एव लोके सर्वत्रेदानीमभावव्यवहारे वर्तते। अधिकं तु शास्त्रान्तरकथेत्यलं विस्तरेण।
अभावाभावस्तु प्रथमाभावप्रतियोगिस्वरूपः। अतो घटाभावाभावः घट एव। एवं भेदाभावः भेदप्रतियोगितावच्छेदकरूपः। यथा गोभेदः गोभिन्ने महिषादौ वर्तते। गोभेदाभावश्च गोमात्रे वर्तते। अत एव सः गोत्वरूपः, गोत्वं हि गव्येव वर्तते। अतो गोभेदाभावः न गोत्वातिरिक्तः इत्याद्यपि ज्ञेयम्।
अत एव ध्वंसप्रागभावाधिकरणे नात्यन्ताभाव इति प्राचां मतम्। तन्न - तथा सति पञ्चरक्तस्थले (रक्तम्, श्यामम्, रक्तम्, श्यामम्, रक्तम् इत्येवं क्रमेण क्वचिद्धटे रूपपरावृत्तिः, तत्र) मध्ये रक्ततादशायां भाविरक्तप्रागभावस्य प्रथमरक्तध्वंसस्यापि सत्त्वात् रक्तं नास्तीति प्रतीत्यापत्तिः ध्वंसप्रागभावाधिकरणेऽत्यन्ताभावाङ्गीकारे तु, अत्यन्ताभावस्य सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वेन, मध्ये रक्ततादशायां प्रतियोगिनःसत्त्वेन, एकघटसत्त्वेऽपि घटात्यन्ताभावप्रतीत्यसंभववदुपपद्यते इत्यादिनवीनमतं न साधीयः। प्रागभावस्य ‘भविष्यति’ इति प्रतीतिमात्रविषयत्त्वात्, नास्तीति प्रतीत्यविषयत्वात्। कथञ्चिदङ्गीकारेऽपि तस्य भाविरक्तमात्रविषयत्वेन निर्वाहसंभवात्। प्रागभावस्या- नादित्वप्रवादोऽपि उपादानपरंपराया आपरमाण्वनुवर्तमानतया संगच्छते। एवं प्रध्वंसाभावेऽपि उक्तं सर्वं समानम्।
टिप्पणी

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - नित्यविशेषाः

नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव।
विशेषानाह नित्यद्रव्येति पृथिव्यादिचनुष्टयपरमाणवः आकाशादिपञ्चकञ्च नित्यद्रव्याणि, नित्यद्रव्येषु वृत्तय इत्यत्र सप्तम्याः निरूपितत्वमर्थः, वृत्तयः वृत्तिमन्तः, निरूपितत्वस्य वृत्तौ स्वरूपसम्बन्धेनान्वयः, तथा च नित्यद्रव्यनिरूपितवृत्तितावन्तः असंख्याकाः विशेषा इति बोधः।