मूलम् - सामान्यम् - 6
परमपरं चेति द्विविधं सामान्यम्॥ ५॥
Tags - 6
सामान्य, द्विविधसामान्य, पदार्थ
दीपिका - सामान्यः
परमपरं चेति द्विविधं सामान्यम्।
सामान्यं विभजते – परमिति। नित्यत्वे सति अनेकसमवेतत्वं सामान्यलक्षणम्। परमधिकदेशवृत्ति। अपरं न्यूनदेशवृत्ति। सामान्यादिचतुष्टये जातिर्नास्ति।
वरदाचार्य आलोके - [No title]
पृथिव्यप्तेजोवायुषु पृथिवीत्वम्, अप्त्वम्, तेजस्त्वम्, वायुत्वं च तत्तदसाधारणगुणकारणतावच्छेदकतया सिद्ध्यति। गन्धसमवायिकारणं पृथिवी इति सिद्धान्तः। एवञ्च पृथिवीनिष्ठा गन्धसमवायिकारणता किञ्चिद्धर्मावच्छिन्ना, कारणतात्वात्, या या कारणता, सा किञ्चिद्धर्मावच्छिन्ना, यथा दण्डनिष्ठा घटकारणता दण्डत्वावच्छिन्ना इति सामान्यमुखव्याप्त्या पृथिवीत्वादितत्तद्धर्माणां सिद्धौ, सिद्ध्यतो धर्मस्य नित्यत्वे एकत्वे च लाघवम् इति लाघवतर्कवशात् पृथिवीत्वादीनां नित्यत्वम्, एकत्वं च सिद्ध्यति। ततश्च पृथिवीत्वादेः नित्यत्वे सति, एकत्वे सति, अनेकानुगतत्वरूपजातिलक्षणाक्रान्तत्वात् पृथिवीत्वादीनां जातित्वं सिद्ध्यति। एवमेव अप्त्व-तेजस्त्व-वायुत्वानामपि जातित्वसिद्धिर्ज्ञेया। परन्तु शब्दसमवायिकारणतावच्छेदकतया सिद्धस्य आकाशत्वस्य जातित्वं नाङ्गीक्रियते। कुतः? इति प्रश्ने, आकाशस्यैकत्वेन जातिलक्षणान्तर्गतानेकानुगतत्वरूपविशेषणाभावात्। अनेकानामनुगतव्यवहारार्थं खलु जातिरङ्गीकृता, आकाशस्य एकत्वेन तादृशव्यवहाराभावात्, तन्न जातिरिति भावः, किन्तु शब्दसमवायिकारणत्वम्। अथवा अखण्डोपाधिः। तथा च एकव्यक्तिवृत्तिधर्मो न जातिरित्युक्तं भवति। तेन एकव्यक्तिवृत्तित्वम् आकाशत्वादीनां जातित्वे बाधकमिति सिद्धम्। एवं जातित्वबाधकानि कानि ? इति जिज्ञासायां न्यायाचार्यैरुदयनैः किरणावल्यां जातिबाधककारणानि संगृहीतानि।
व्यक्तेरभेदस्तुल्यत्वं संकरोऽथानवस्थितिः।
रूपहानिरसंबन्धो जातिबाधकसंग्रहः। इति॥
(१) व्यक्तेरभेदः (२) तुल्यत्वम् (३) संकरः (४) अनवस्थितिः (५) रूपहानिः (६)असम्बन्धः इत्येतानि जातिबाधकानि इति यथाश्रुतार्थः। जाति इति पदं जातित्वजातिमत्त्वान्यतरपरं विषयानुरोधेन। आद्यत्रयं जातित्वबाधकम्, अनन्तत्रयं जातिमत्त्वबाधकम् इति विवेकः। तथा हि-
(१) व्यक्तेरभेदः - स्वाश्रयव्यक्तेः अभेदः - एकत्वम्, स्वस्य जातित्वे बाधकम्। यथा-आकाशत्वम्। स्वम् - आकाशत्वम्, तस्य आश्रयः आकाशः। स चैक एव। अत आकाशत्वं न जातिः। एवमेव कालत्वम्, दिक्त्वं च न जातिः।
(२) तुल्यत्वम्- समानव्यक्तिवृत्तित्वम्, समनियतत्वम् इत्यर्थः। यथा घटत्वं यदा जातिः, तदा कुम्भत्वम्, कलशत्वं वा जातिर्न वा इति प्रश्ने, यावत्सु घटत्वं वर्तते तावत्स्वपि कलशत्वं कुम्भत्वं च वर्तत एव। अतश्च समनियतानां भेदे प्रमाणाभावात् कलशत्वादिकं घटत्वापेक्षयातिरिक्ता जातिर्न भवति॥
(३) संकरः- सांकर्यम्। परस्परासमानधिकरणयोरेकत्र समावेशः। यथा भूतत्वमूर्तत्वे। भूतत्वं हि पृथिव्यप्तेजोवायुषु वर्तते। मूर्तत्वञ्च पृथिव्यप्तेजोवायुमनस्सु वर्तते। मनसि भूतत्वं नास्ति, भूतत्वं हि बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम्। मनसि न कोऽपि विशेषगुणोऽस्ति। आकाशे मूर्तत्वं नास्ति, मूर्तत्वं हि परिच्छिन्नपरिणामवत्त्वम्। तच्चापरिच्छिन्ने विभावाकाशे कथं स्यात्? एवञ्च तावुभौ परस्परासमानाधिकरणधर्मौ। तौ च पृथिव्यादिचतुष्टये वर्तेते। अतस्तौ जाती न भवत इति प्राचीनाः। नवीनास्तु साङ्कर्यस्य जातित्वबाधकत्वे प्रमाणाभावात् उभावपि जाती भवत एवेति वदन्ति। वस्तुतस्तु वर्णाश्रमनाशनार्थमेव सदा यतमानानां नव्यबौद्धानामेवायं वादः। एकस्मिन्नेव वृक्षत्वशिंशपात्वयोः, तथा प्राणित्वगर्दभत्वादेश्च समावेशदर्शनात्, वर्णाश्रमसाङ्कर्यमपि न दोष इति मन्यन्ते ते। परन्तु वृक्षत्वशिंशपात्वादीनां व्याप्यव्यापकभावापन्नत्वेन, द्रव्यत्वपृथिवीत्वघटत्वादीनामिवैकत्र समावेशो न दुष्यति। व्याप्यव्यापकभावानापन्नानां तु एकत्र समावेशे साङ्कर्यं दोष एव। यथा अश्वत्वगर्दभत्वयोः समावेशे, अश्वगर्दभाभ्यां जाते प्राणिनि का जातिः स्यादिति वक्तव्यम्। तस्य तु अश्वतरः, अश्वतरीत्येव व्यवहारः। तयोस्तु संततिर्न भवतीति प्रसिद्धम्। स्वगर्भोऽश्वतरीमिव इति श्रीरामायणम्। किं बहुना ! आम्रादिवृक्षसस्यादिजातयः साङ्कर्यं नानुमन्यन्त इति नवीनाः सस्यविज्ञानिनोऽपि वदन्ति। एवमेव गर्दभयोन्यामश्वाज्जाता अश्वतरी यदि गर्भिणी भवति, तदा सा म्रियत एव न सूते। अतो जातिसांकर्यं महान् दोष एवेति नवीनविज्ञानसिद्धमित्यवधार्यम्। भगवद्गीतायां प्रथमाध्याये सङ्करो नरकायैव इत्यादिना साङ्कर्यस्य महादोषत्वं विस्तरेण वर्णितम्। अतो नवीनानामदोषत्ववर्णनं परमसाहसमेवेत्यलम्।
(४) अनवस्थिति: - अनवस्थेत्यर्थः। गवि गोत्ववत्, गोत्वे गोत्वत्वं जातिरङ्गीक्रियते यदि, तर्हि गोत्वत्वेऽपि गोत्वत्वत्वं जातिः स्यात्। अतोऽप्रामाणिकानन्तातिरिक्तकल्पनापरम्परारूपानवस्थाप्रसङ्गात्, गोत्वत्वं न जातिः, किन्तु गवेतरासमवेतत्वे सति निखिलगोसमवेतत्वमेव। अननुगततद्व्यक्तित्वादावतिव्याप्तिवारणाय निखिलगोसमवेतत्वम् इति। प्राणित्वादावतिव्याप्तिवारणाय गवेतरासमवेतत्वमिति।
(५) रूपहानिः - स्वरूपहानिः, विशेषत्वस्य जातित्वे बाधिका। विशेषा हि स्वतो व्यावृत्ताः, अन्यथाऽनवस्थापत्तिः। एवञ्च तत्र व्यावर्तकधर्मान्तरापेक्षा नास्त्येवेति विशेषत्वं न जातिः। किन्तु विशेष एव तत् अथवा अखण्डोपाधिः। अत एव निर्विशेषो विशेषः इति गाथा प्रवृत्ता। न तावता निर्विशेषवस्तुसिद्धिः। प्रमेयत्वपदार्थत्वादिधर्माणामनिवारणात्॥
(६) असंबन्ध: - समवायाभावः। स च समवायत्वस्य जातित्वे बाधकः। समवायत्वस्य जातित्वे, तस्य समवायेन कः संबन्ध: ? न तावत् संयोगः, संयोगस्य गुणत्वेन द्रव्यभिन्ने असंभवात्। न चापि समवायः, तस्य स्वरूपत्वेनातिरिक्तत्वासंभवात्। न च स्वरूपमेव, तस्य समवायरूपाधिकरणानतिरेकात्। किं तर्हि ? समवाय एव सः, नातिरिक्तः। तर्हि समवायत्वं समवायश्चेति पर्यायौ भवेताम्। तर्हि किं रूपं तदिति चेत्, नित्यसंबन्धत्वमेव तत्। अतश्च सखण्डोपाधिविशेषः, तत्पदप्रवृत्तिनिमित्ततया सिद्धस्सः। अतः समवायत्वं न जातिः।
एवम् अभावत्वमपि समवायाभावात् न जातिरिति वदन्ति। किन्तु अभावो न पदार्थः, अपि तु वाक्यार्थः। न हि प्रतियोगिनमन्तरा अभावो व्यवहर्तुं शक्यः। अभावपदे श्रुते हि कस्य ? इति प्रश्नोऽनिवार्यः। घटस्य इत्युक्ते घटाभावः खलु सः। अतश्च पदार्थद्वयरूपत्वात्, अर्थसमाजरूप एव सः, नीलघटादिवत्। अतोऽभावस्यैव तादृशत्वे अभावत्वमपि नाखण्डः पदार्थः कश्चित्, किन्तु अर्थसमाज एव॥