मूलम् - कर्माणि - 5
उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि॥ ४॥
Tags - 5
कर्म, पञ्चकर्माणि, द्रव्यकर्म
दीपिका - कर्माणि
उत्क्षेपणापक्षेपणाऽऽकुञ्चनप्रसारणगमनानि पञ्च कर्माणि।
कर्म विभजते- उत्क्षेपणेति। संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म, कर्मत्वजातिमद्वा। भ्रमणादीनामपि गमनेऽन्तर्भावात् न पञ्चत्वविरोधः।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - कर्मविभागः
उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि।
कर्म विभजते उत्क्षेपणेति। उत्क्षेपणत्वापक्षेपणत्वाकुञ्चनत्वप्रसारणत्वगमनत्वरूपविभाजकधर्मपञ्चकान्यतमवन्ति कर्माणीति शाब्दबोधः। पञ्चपदम् उत्क्षेपणाद्यतिरिक्तकर्मव्यवच्छेदार्थमेव, अन्वयक्रमः पूर्ववदेव।।