04 गुणाः

मूलम् - गुणाः - 4

रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्неहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश्चतुर्विंशतिर्गुणाः॥ ३॥

Tags - 4

गुणाः, चतुर्विंशतिगुणाः, द्रव्यगुणाः

दीपिका - गुणविभागः

गुणान् विभजते – रूपेति। द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः, गुणत्वजातिमान्वा। ननु लघुत्वमृदुत्वकठिनत्वादीनां विद्यमानत्वात्कथं चतुर्विंशतिर्गुणा इति चेन्न। लघुत्वस्य गुरुत्वाभावरूपत्वात्, मृदुत्वकठिनत्वयोरवयवसंयोगविशेषरूपत्वात्।

कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - चतुर्विंशतिगुणाः

रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराः चतुर्विंशतिः गुणाः।
गुणान् विभजते रूपेति, अन्वयक्रमः पूर्ववत्, अखण्‍डशाब्दबोधस्तु- रूपत्वरसत्वगन्धत्वस्पर्शत्वसंख्यात्वपरिमाणत्वपृथक्त्वत्वसंयोगत्वविभागत्वपरत्वत्वापरत्वत्वगुरुत्वत्वद्रवत्वत्वस्नेहत्वशब्दत्वबुद्धित्वसुखत्वदुःखत्वेच्छात्वद्वेषत्वप्रयत्नत्वधर्मत्वाधर्मत्वसंस्कारत्वरूपविभाजकधर्मचतुर्विंशत्यन्यतमवन्तो गुणा इति। अत्रापि चतुर्विंशतिपदं लघुत्वमृदुत्वाद्यतिरिक्तगुणव्यवच्छेदार्थमेवेति ज्ञेयम्।