मूलम् - द्रव्याणि - 3
तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशाकालदिगात्ममनांसि नवैव॥ २॥
Tags - 3
द्रव्याणि, नवद्रव्याणि, द्रव्यपरिगणना
दीपिका - नवद्रव्याणि
तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव।
द्रव्यं विभजते-तत्रेति। तत्र द्रव्यादिमध्ये। द्रव्याणि नवैवेत्यन्वयः। कानि तानीत्यत आह-पृथिवीति।
दीपिका - तमसो दशमद्रव्यत्वखण्डनम्
ननु तमसो दशमद्रव्यस्य विद्यमानत्वात्कथं नवैव द्रव्याणीति, तथाहि नीलं तमश्चलतीति अबाधितप्रतीतिबलान्नीलरूपाधारतया क्रियाधारतया च तमसो द्रव्यत्वं तावत्सिद्धम्। तत्र तमसो नाकाशादिपञ्चकेऽन्तर्भावः रूपवत्त्वात्। अत एव न वायौ, स्पर्शाभावात्सदागतिमत्त्वाभावाच्च। नापि तेजसि, भास्वररूपाभावादुष्णस्पर्शाभावाच्च। नापि जले, शीतस्पर्शाभावान्नीलरूपवत्त्वाच्च। नापि पृथिव्यां गन्धाभावात् स्पर्शरहितत्वाच्च। तस्मात्तमो दशमद्रव्यमिति चेन्न। तमसस्तेजोऽभावरूपत्वात्। तथाहि तमो न रूपिद्रव्यम्, आलोकासहकृतचक्षुर्ग्राह्यत्वात् आलोकाभाववत्। रूपिद्रव्यचाक्षुषप्रमायामालोकस्य कारणत्वात्। तस्मात्प्रौढप्रकाशकतेजस्सामान्याभावस्तमः। तत्र नीलं तमश्चलतीति प्रत्ययो भ्रमः। अतो नव द्रव्याणीति सिद्धम्।
दीपिका - लक्षणलक्षणम्
द्रव्यत्वजातिमत्त्वं गुणवत्त्वं वा द्रव्यसामान्यलक्षणम्। लक्ष्यैकदेशावृत्तित्वमव्याप्तिः, यथा गोः कपिलत्वम्। अलक्ष्ये लक्षणस्य वर्तनमतिव्याप्तिः, यथा गोः शृङ्गित्वम्। लक्ष्यमात्रावृत्तित्वमसम्भवः, यथा गोरेकशफवत्त्वम्। एतद्दूषणत्रयरहितो धर्मो लक्षणम्, यथा गोः सास्नादिमत्त्वम्। स एवासाधारणधर्म इत्युच्यते। लक्ष्यतावच्छेदकसमनियतत्वमसाधारणत्वम्। व्यावर्तकस्यैव लक्षणत्वे व्यावृत्तावभिधेयत्वादौ चातिव्याप्तिवारणाय तद्भिन्नत्वं धर्मविशेषणं देयम्। व्यवहारस्यापि लक्षणप्रयोजनत्वे तन्न देयम्, व्यावृत्तेरपि व्यवहारसाधनत्वात्।
दीपिका - गुणस्यैकार्थसमवायः
ननु गुणवत्त्वं न द्रव्यलक्षणम्, आद्यक्षणावच्छिन्नघटे उत्पन्नविनष्टघटे चाव्याप्तेरिति चेन्न, गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वस्य विवक्षितत्वात्। नन्वेवमप्येकं रूपं रसात्पृथगिति व्यवहाराद्रूपादावतिव्याप्तिरिति चेन्न, एकार्थसमवायादेव तादृशव्यवहारोपपत्तौ गुणे गुणानङ्गीकारात्।
वरदाचार्य आलोके - द्रव्यविभागः
तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव।
प्रथमोद्दिष्टं द्रव्यं विभजते - तत्रेत्यादिना। पृथिव्यादिपञ्चभूतानि संप्रतिपन्नानि। एतानि शरीरेन्द्रियविषयभेदात् जीवोपकारकाणि। षष्ठ आत्मा। तेषामात्मोपकारकत्वं कालदेशाधीनमिति कार्यसामान्यकारणतया दिक्कालौ द्वौ। आत्मनां सुखदुःखादिव्यवस्थासिद्ध्यर्थं मन इति नवैव द्रव्याणि। सूर्येऽस्तंगते भूच्छायैव तम इत्यालोकाभाव एव तमः, नातिरिक्तं द्रव्यम्। अतो नवैव द्रव्याणि।
रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश्चतुर्विंशतिर्गुणाः।
गुणान् विभजते - रूपेत्यादि। गुणः - गुणनम्, वर्धनम् अथवा पोषणम्। एकमेव द्रव्यं नील इति, महानिति, सुगन्धीति बहुधा व्यवह्रियते। अत एते गुणा इत्युच्यन्ते। अत एव सूत्रकारेण सप्तदशैवोक्ता अपि, औचित्यादितरे योजिता भाष्यकारेण। अस्तु सप्तदशैव, किं अधिकैरिति तु न मन्तव्यम्। प्रधानभूतः शब्दाख्यो गुणः सूत्रे न पठितः। अतस्सन्त्यन्येऽपि गुणा इत्येव सूत्रकाराशयः। परन्त्वत्र कति गुणा इति निष्कृष्य विचारो वा किमर्थमेतावन्त इत्याक्षेपो वा नाधिकोपयोगी। पदार्थविभागः परमत्यन्तं साधीयान्। एवं द्रव्यविभागोऽपि। इतरविभागस्त्वौचित्यात्। अत एवोत्तरत्र कर्मविभागे नैर्भर्याभावः प्रादर्शि।
उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि।
कर्म विभजते - उत्क्षेपेत्यादि। कर्मणां पञ्चत्वे, आधिक्ये वा न नैर्भयम्। गमनवदेव आगमनादिक्रियाणां हसनताडनतर्जनादिबहुविधानां क्रियाणां वक्तव्यत्वप्रसङ्गात्। यथाकथञ्चिन्निर्वाहे- चलनात्मकं कर्मैकमेव। इतरत्सर्वं निदर्शनमात्रमित्यवगन्तव्यम्। एवमत्रासंकीर्णविभागे न तात्पर्यमित्येतत् सामान्यविभागे स्पष्टम्।
परमपरं चेति द्विविधं सामान्यम्।
*सामान्यं विभजते - परमित्यादि। परत्वापरत्वे परस्परसापेक्षे, न नियते। पृथिवीत्वं हि घटत्वापेक्षया परम्, द्रव्यत्वापेक्षयाऽपरम्। अथाप्येवं विभागप्रदर्शनं- सामान्यं व्याप्यव्यापकभावापन्नमपि भवति, अनुगतप्रतीतेरपि व्याप्यव्यापकभावापन्नत्वात्। ‘प्राणी’ इत्यनुगता प्रतीतिः। गौः, अश्व, मनुष्य इत्यननुगता। प्राणित्वं त्रयानुगतम्। गोत्वाश्वत्वादिकं त्वननुगतम्। सामान्ये विद्यमानं व्याप्यव्यापकभावं प्रदर्शयितुमेवोक्तं मूले परमपरं चेति। एतदपि ‘जातिसाङ्कर्यं न दोषः, प्राणित्वाश्वत्वयोरेकत्र मेलनात्’ इति वदतां वेदबाह्यानां बौद्धादीनामुत्तरदानाय। जातिसांकर्यं तु प्रकृतिर्नानुमनुत इति विज्ञानिनः। अश्वगर्दभयोः साङ्कर्येण जाताश्वतरी न प्रसूत इति स्थितिः। एवमाम्रवृक्षादिष्वपि जातिद्वयसाङ्कर्यं नानुमनुत प्रकृतिरिति स्पष्टम्। अतश्च दोष एव सांकर्यं व्याप्यव्यापकभावानापन्नयोर्जात्योः। व्याप्यव्यापकभावापन्नयोस्त्वेकत्र मेलनं न दोषाय, पृथिवीत्वघटत्वादिवदिति प्रदर्शनाय ‘परमपरं चेति द्विविधं सामान्यमित्युक्तम्, न त्वसंकीर्णविभागपरमिदमित्यवगन्तव्यम्।
टिप्पणी
*जातिबाधकसंग्रहः
गोवर्धन-न्यायबोधिनी - तमः
द्रव्याणि विभजते। पृथिव्यप्तेज इति। नन्वन्धकारस्य दशमद्रव्यस्य सत्त्वात्कथं नवैवेति ? तथा हि नीलं तमश्चलतीति प्रतीत्या नीलरूपाश्रयत्वेन क्रियाश्रयत्वेन च तमसोद्रव्यत्वं सिद्धम्। न च क्लृप्तद्रव्येष्वन्तर्भावात्कुतो दशमद्रव्यत्वमिति वाच्यम्। तमसो रूपवत्वात् आकाशादिपञ्चकस्य वायोश्च नीरूपत्वान्न तेष्वन्तर्भावः। तमसो निर्गन्धत्वात् पृथिव्याः गन्धवत्वात् न तत्रान्तर्भावः। तमसो निस्स्पर्शत्वात् जलतेजसोः शीतोष्णस्पर्शवत्वान्न तयोरन्तर्भावः। तस्मात्तमसो दशमद्रव्यत्वं सिद्धमिति चेन्न। तमसस्तेजोऽभावत्वेनैवोपपत्तावतिरिक्तत्वकल्पनायां मानाभावात्। न च विनिगमनाविरहात्तेज एव अन्धकाराभावस्वरूपः इति वाच्यम्। तेजसोऽभावरूपत्वे सर्वानुभूतोष्णस्पर्शाश्रयद्रव्यान्तरकल्पने गौरवात्। तस्मादुष्णस्पर्शगुणाश्रयतया तेजसो द्रव्यत्वं सिद्धम्। तमसि नीलप्रतीतिस्तु भ्रान्तिरेव। एवं कर्मवत्ताप्रतीतिरपि दीपापसरणक्रियाया एव तत्र भानात्।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - द्रव्याणि
तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव।
द्रव्याणि विभजते तत्रेति, तच्छब्देन सप्तपदार्थाः प्रतिपाद्यन्ते, त्रल्प्रत्ययस्य घटकत्वमर्थः, अत्रापि पृथिव्यादिपदं पृथिवीत्वादिपरम्, नवपदस्य विभाजकधर्मनवकान्यतमवति लक्षणा, तथा च पृथिवीत्वाप्त्वतेजस्त्ववायुत्वाकाशत्वकालत्वदिक्त्वात्मत्वमनस्त्वरूपविभाजकधर्मनवकान्यतमवन्ति सप्तपदार्थघटकीभूतानि द्रव्याणि इति शाब्दबोधः। नवपदं तमःप्रभृत्यधिकद्रव्यव्यवच्छेद एव पर्यवसन्नम्। नन्वत्रापि द्रव्यादीनां सामान्यलक्षणान्यनिरूप्य तेषां विभागकरणेन ग्रन्थकर्तुः न्यूनत्वमिति चेन्न, पदार्थविभागवाक्येनैव व्यावहारिकाणां द्रव्यत्वादिसामान्यलक्षणानां लभ्यत्वेन न काचिदनुपपत्तिः।