मूलम् - सप्तपदार्थाः - 2
द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः सप्तपदार्थाः॥ १॥
Tags - 2
पदार्थपरिगणना, सप्तपदार्थाः, न्यायशास्त्र
दीपिका - पदार्थलक्षणम्
द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्तपदार्थाः।
पदार्थान्विभजते-द्रव्येति। पदस्यार्थः पदार्थ इति व्युत्पत्त्याऽभिधेयत्वं पदार्थसामान्यलक्षणं लभ्यते।
ननु विभागादेव सप्तत्वे सिद्धे पुनस्सप्तपदग्रहणं व्यर्थमिति चेन्न, अधिकसंख्याव्यवच्छेदार्थकत्वात्। नन्वतिरिक्तः पदार्थः प्रमितो वा न वा ? नाऽद्यः, प्रमितस्य निषेधायोगात्। न द्वितीयः, प्रतियोगिप्रमितिं विना निषेधानुपपत्तेरिति चेन्न। पदार्थत्वं द्रव्यादिसप्तान्यतमत्वव्याप्यमिति व्यवच्छेदार्थकत्वात्। ननु सप्तान्यतमत्वं सप्तभिन्नभिन्नत्वमिति वक्तव्यम्। एवं च सप्तभिन्नस्यैवाप्रसिद्धत्वात् कथं सप्तान्यतमत्वव्याप्तिनिश्चय इति चेन्न, द्रव्यादिसप्तान्यतमत्वं नाम द्रव्यादिभेदसप्तकाभाववत्त्वम्, अतो दोषविरहात्। एवमग्रेऽपि द्रष्टव्यम्।
वरदाचार्य आलोके - पदार्थविभागः
द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्थाः।
अथ यथाप्रतिज्ञं ग्रन्थमारभते- द्रव्येत्यादि। अत्र ‘पदार्थाः’ इत्यत्र पदानामर्थाः पदार्था इति विग्रहः। लोके विद्यमानानां सर्वेषामपि पदार्थानाम् एषु सप्तस्वेवान्तर्भावः। पदानि किलद्रव्यवाचीनि, गुणवाचीनि, कर्मवाचीनि, सामान्यवाचीनि इति चतुर्विधानीति महाभाष्यादिषु अभिहितम्। घटादिपदानि द्रव्यवाचीनि नीलादिपदानि गुणवाचीनि, पाचकादिपदानि क्रियावाचीनि, गवादिपदानि जातिवाचीनि। एवञ्च द्रव्यम् गुणः, कर्म, सामान्यम् इत्यसङ्कीर्णप्रवृत्तिनिमित्तमूलकानि पदानि चतुर्विधानि। द्रव्यवाचिपदान्येव संज्ञापदानि, यदृच्छापदानि, केवलरूढपदानीति चोच्यन्ते। एवं पदानां चतुर्विधत्वात् पदार्था अपि चत्वारः प्रथमं सिद्धाः। एवमपि पदार्थानां भेदस्य अन्ते विशेषाधीनत्वात्, भेदसिद्ध्यर्थो विशेषः, भिन्नानां गुणगुण्यादीनां संबन्धरूपतया समवायश्चेति द्वौ शास्त्रव्यवहारसिद्धौ मिलित्वा पदार्थाः षट् संपन्नाः। अनन्तरं निषेधव्यवहारविषयतया अभावाख्यः सप्तमः पदार्थश्चेति पदार्थाः सप्त इति सिद्धम्। लोके पदार्थश्चेत् कश्चित् प्रामाणिकः, स एषु सप्तस्वन्तर्भवेत्, इति नियमार्थं ‘सप्त’ इति कीर्तनम्। तथा च ‘यत्र यत्र पदार्थत्वम्, तत्र द्रव्यादिसप्तान्यतमत्वम्’ इति व्याप्तिर्ज्ञेया॥
यथाप्रतिज्ञं प्रमाणप्रमेयस्वरूपं प्रतिपादयितुमुपक्रममाणः प्रथमं प्रमेयपदवाच्यान् पदार्थान् विभजते- द्रव्येत्यादि। द्रव्यादिपदं च तत्तत्संज्ञापरम्। सप्तत्वं न संख्यारूपम्, संख्याया गुणत्वेन द्रव्यमात्रे तत्संभवात्; गुणकर्मादिष्वसंभवात्। किन्तु बुद्धिविशेषविषयत्वरूपम्। एवमेव ‘चतुर्विंशतिर्गुणाः’ इत्यादौ। तथा च पदार्था:- पदजन्योपस्थितिविषया अर्था द्रव्यगुणकर्मसामान्यविशेषसमवायाभावरूपसप्तसंज्ञान्यतमसंज्ञावन्त इति बोधः। तर्कशास्त्रं प्रविविक्षूणां लक्षणवाक्यव्यतिरिक्तवाक्यानां शाब्दबोधप्रदर्शने वृथायासः, अनतिप्रयोजनञ्चेत्यत्रैवोपरम्यते।
एवं पदानां चतुर्विधत्वात् पदार्था अपि द्रव्यगुणकर्मसामान्यानि चत्वारः। एवं भेदसाधकतया विशेषः, संबन्धरूपतया समवाय इति षडेव भावपदार्थाः। भावानां निषेधस्य चतुर्विधत्वात्, अभावश्चतुर्विधोऽपि अभावत्वेनैक एव। अत एव कुत्रचित् ‘पदार्थो द्विविध: भावोऽभावश्चेति। भावष्षड्विधः, अभावस्तु चतुर्विध:’ इत्येवमपि विभागो दृश्यते।
आहत्य तु पदार्थास्सप्तैव, एतदतिरिक्तस्यासंभवादेव। एतेष्वपि आद्यानि चत्वारि लोकव्यवहारसिद्धानि, एतेषां निषेधस्यापि लोकव्यवहारसिद्धत्वादभावोऽपि लोकव्यवहारेणैव सिद्धः। विशेषसमवायौ तु शास्त्रव्यवहारसिद्धाविति ज्ञेयम्।
एवं पदार्थविभागस्य व्यवस्थितत्वादेव शक्तिसादृश्यादीनामतिरिक्तपदार्थत्वाशङ्कनं समाधानञ्च वृथैव श्रमः। ‘निशितः खड्गश्छेदने शक्तः, अनिशितो न शक्तः’ इति खलु दृश्यते। तेन ज्ञायते कारणस्य सामीचीन्यमेव शक्तिपदस्यार्थ इति। एवं बद्धपादः पुरुषो गन्तुं न शक्नोति। किं तत्रातिरिक्ता शक्तिर्दृश्यते ? गमनप्रतिबन्धको बन्धः। प्रतिबन्धकेऽसति गच्छत्येव। किं बहुना ? अबद्धपादोऽपि उपविष्टः पुरुषो न गच्छति। तस्य किं गमने शक्तिरस्ति, उत न ? अबद्धपादो गमने शक्तोऽपि, यदि नेच्छति तदा शक्तस्सन्नपि न गच्छति। तथैव निशितोऽपि खड्गः पुरुषानधिष्ठितो न किञ्चिच्छिनत्ति। किं स खड्गश्छेदने शक्तः, उत न ? क्रियावेशाभावान्न छिनत्तीति चेत्, तर्हि शक्तिपदार्थः कः ? न हि शक्तिश्चक्षुषा दृश्यते। दण्डचक्रादिकं हि पुरुषाधिष्ठितं चेत् घटोत्पादने शक्तं भवति। अन्यदा तु न शक्तम्। दण्डः खलु पुरुषाधिष्ठितोऽपि कदाचित् घटं जनयति, कदाचित्तु घटं नाशयति च। किं दण्डो घटजनने शक्तः, उत घटनाशने ? परस्परविरुद्धा शक्तिः कथमेकत्र समवेयात् ? अतस्साधनानां समीचीनतैव शक्तिः। सैव स्वरूपयोग्यतेत्युच्यते। फलोपधानं तु तत्तत्पुरुषकालेश्वरादृष्टाद्यधीनमिति शक्तिर्नातिरिक्तः पदार्थः।
ननु सादृश्यस्य का गतिरिति चेत्, सद्गतिरेव। तत्तु ‘इव’ इत्यव्ययद्योत्यम्। अत एव नातिरिक्तपदार्थः। किं तर्हि ? ‘सदृश’ इति पदमेव ज्ञापयति बुद्धिविशेषविषयत्वरूपं तदिति। द्वे वस्तुनी यन्मूलतया तोलयति जनः, तदेव किल सादृश्यम्। एवञ्च तद्द्रष्टृपुरुषबुद्ध्यपेक्षाधीनम्, न हि सर्वः सर्वं सदृशतया पश्यति। यां चन्द्रमुखीं पश्यति कश्चित्, तामेवान्यो वानरमुखीं पश्यतीति प्रसिद्धं किल लोके। अतस्सादृश्यमपेक्षावुद्धिविशेषविषयत्वरूपमेव। अतस्तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्वमित्यादिव्यर्थचर्चाया नावकाशः। एतदधिकं तु न न्यायशास्त्रस्य विषय इत्युपरन्तव्यम्।
विशिष्य चायं प्रकरणग्रन्थः, न वादग्रन्थः। अथापि निदर्शनार्थमयं विचारः प्रदर्शितः प्रमेयस्वरूपपरिशीलनेन। न्यायवैशेषिके किल तर्कपदवाच्ये। वैशेषिकं पदार्थनिरूपणप्रधानम्। न्यायस्तु प्रमाणनिरूपणप्रधानमिति, न सांकर्यं तयोः शास्त्रयोः।
गोवर्धन-न्यायबोधिनी - सप्तपदार्थाः
अथ पदार्थान्विभजते - द्रव्येति। अत्र सप्तग्रहणं पदार्थत्वं द्रव्यादिसप्तान्यतमत्वव्याप्यमिति व्याप्तिलाभाय। ननु शक्तिपदार्थस्याष्टमस्य सत्त्वात्कथं सप्तैवेति। तथाहि वह्निसंयुक्तेन्धनादौ सत्यपि मणिसंयोगे दाहो न जायते। तच्छून्ये तु जायते। अतो मणिसमवधाने दाहानुकूला शक्तिर्नश्यति। मण्यभावदशायां दाहानुकूला शक्तिरुत्पद्यते। तस्माच्छक्तिरतिरिक्तः पदार्थ इति चेन्न। मणेः प्रतिबन्धकत्वेन तदभावस्य कारणत्वेनैव निर्वाहे मण्यसमवधानसमवधानाभ्यामनन्तशक्तितत्प्रागभावतद्ध्वंसकल्पनाया अन्याय्यत्वात्। तस्मात्सप्तैव पदार्था इति सिद्धम्।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - पदार्थविभागः
द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्तपदार्थाः।
पदार्थान्विभजते द्रव्येति। ननु सामान्यलक्षणज्ञानाभावे विशेषजिज्ञासा नोदेति विशेषजिज्ञासाऽभावे विशेषविभागोऽनुपपन्नः, यथा अत्रैव गन्धवती पृथिवीत्यनेन पृथिव्याः गन्धवत्वरूपसामान्यलक्षणकथनानन्तरमेव
सा कतिविधेति विशेषजिज्ञासाया उदयात् तन्निवृत्यर्थं नित्याऽनित्या चेति विशेषविभागः कृतः तथात्र पदार्थविभागात्प्राक् पदार्थसामान्यलक्षणस्यानिरूपणेन पदार्थविभागोऽनुपपन्न इति चेन्न, विभागवाक्यघटकपदार्थपदमेव पदस्यार्थः पदार्थ इति। विभागवाक्यघटकपदार्थपदस्य विभागवाक्यान्तोच्चरितत्वेन सामान्यलक्षणस्य विभागवाक्यात्प्रागवश्यवक्तव्यत्वेन अनुपपत्तिः तदवस्थैवेति वाच्यम्, अग्निहोत्रं जुहोति, यवागूं पचतीत्यत्रेव पाठक्रमादर्थक्रमस्य प्राबल्यमङ्गीकृत्य विभागवाक्यानन्तरोच्चरितपदार्थपदस्य प्रथमं योजनयाऽनुपपत्तिर्वारणीया, योजनाप्रकारश्च पदार्थाः द्रव्यगुणकर्मसामान्यविशेषसमवायाभावास्सप्तेति, अथवा, पूर्वोक्ततर्कसङ्ग्रहपदेनैव पूर्वोक्तव्युत्पत्या प्रतिपाद्यत्वरूपसामान्यलक्षणं विभागवाक्यात्प्रागेव लभ्यत इति नानुपपत्तिः।
पदार्थविभागवाक्यस्य शाब्दबोधप्रकार इत्थम्, अत्र द्रव्यादिपदं भावप्रधाननिर्देशेन द्रव्यत्वादिपरम्, सप्तपदस्य विभाजकधर्मसप्तकान्यतमवति लक्षणाङ्गीकार्या, द्रव्यत्वादीनां विभाजकधर्मसप्तकान्यतमत्वावच्छिन्नेऽभेदसम्बन्धेनान्वयः, तथा च द्रव्यत्वगुणत्वकर्मत्वसामान्यत्वविशेषत्वसमवायत्वाभावत्वरूपविभाजकधर्मसप्तकान्यतमवदभिन्नाः पदार्थाः इति शाब्दबोधः (विभागवाक्यघटकपदार्थतावच्छेदकधर्माः विभाजकधर्माः) सप्तपदन्तु अतिरिक्तपदार्थव्यवच्छेदे पर्यवसन्नम्। ननु द्रव्यादिपदानां द्रव्याद्यर्थकत्वस्वीकारेणैव सामंजस्ये द्रव्यत्वादिपरत्वमफलमिति चेन्न कस्मिन्नपि पदार्थे द्रव्यादिसप्तकाभेदस्य असम्भवेन तत्परत्वमङ्गीकृत्य तादृशबोधस्यावश्यमङ्गीकर्तव्यत्वात्।