मूलम् - मङ्गलाचरणम् - 1
निधाय हृदि विश्वेशं विधाय गुरुवन्दनम्। बालानां सुखबोधाय क्रियते तर्कसंग्रहः॥
Tags - 1
मङ्गलाचरणम्, गुरुवन्दनम्, पाठारम्भः
दीपिका - मङ्गलाचारः
तर्कसंग्रहः
निधाय हृदि विश्वेशं विधाय गुरुवन्दनम्।
बालानां सुखबोधाय क्रियते तर्कसंग्रहः।।
तर्कसंग्रहदीपिका
विश्वेश्वरं साम्बमूर्तिं प्रणिपत्य गिरां गुरुम्।
टीकां शिशुहितां कुर्वे तर्कसङ्ग्रहदीपिकाम्।।
चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थं शिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकमिष्टदेवतानमस्कारात्मकं मङ्गलं शिष्यशिक्षायै ग्रन्थतो निबध्नंश्चिकीर्षितं प्रतिजानीते - निधायेति।
दीपिका - मङ्गलकर्तव्यता
ननु मङ्गलस्य समाप्तिसाधनत्वं नास्ति। मङ्गले कृतेऽपि कादम्बर्यादौ निर्विघ्नपरिसमाप्त्यदर्शनात्, मङ्गलाभावेऽपि किरणावल्यादौ समाप्तिदर्शनाच्च अन्वयव्यतिरेकाभ्यां व्यभिचारात् इति चेन्न। कादम्बर्यादौ विघ्नबाहुल्यात्समाप्त्यभावः, किरणावल्यादौ ग्रन्थाद्बहिरेव मङ्गलं कृतम्। अतो न व्यभिचारः।
ननु मङ्गलस्य कर्तव्यत्वे किं प्रमाणमिति चेन्न, शिष्टाचारानुमितश्रुतेरेव प्रमाणत्वात्। तथाहि - मङ्गलं वेदबोधितकर्तव्यताकम् अलौकिकाविगीतशिष्टाचारविषयत्वात् दर्शादिवत्। भोजनादौ व्यभिचारवारणायालौकिकेति। रात्रिश्राद्धादौ व्यभिचारवारणायाविगीतेति। शिष्टपदं स्पष्टार्थम्, “न कुर्यान्निष्फलं कर्म” इति जलताडनादेरपि निषिद्धत्वात्।
दीपिका - उद्देशनिरूपणम्
तर्क्यन्ते प्रतिपाद्यन्ते इति तर्काः द्रव्यादिपदार्थाः तेषां संग्रहः संक्षेपेण स्वरूपकथनं क्रियत इत्यर्थः। कस्मै प्रयोजनायेत्यत आह- सुखबोधायेति। सुखेनानायासेन बोधः पदार्थतत्त्वज्ञानं तस्मा इत्यर्थः। ननु बहुषु तर्कग्रन्थेषु सत्सु किमर्थमपूर्वोऽयं ग्रन्थः क्रियत इत्यत आह- बालानामिति। तेषामतिविस्तृतत्वात्तत्र बालानां बोधो न जायत इत्यर्थः। ग्रहणधारणपटुर्बालः, न तु स्तनन्धयः। किंकृत्वा क्रियत इत्यत आह - निधायेति। विश्वेशं- जगन्नियन्तारम्, हृदि निधाय- मनसि नितरां स्थापयित्वा, सदा तद्ध्यानपरो भूत्वेत्यर्थः। गुरूणां- विद्यागुरूणाम्, वन्दनं- नमस्कारम्, विधाय कृत्वेत्यर्थः।
वरदाचार्य आलोके - कारणसम्भावना
तर्कसङ्ग्रहः – आलोकव्याख्या
॥ श्रीः॥
श्रीमदन्नंभट्टविरचितः तर्कसंग्रहः
नव्यमङ्गलाभिजन-वरदाचार्य विरचिताभ्यां
‘आलोक’ व्याख्या-टिप्पणीभ्यां संवलितः
निधाय हृदि विश्वेशं विधाय गुरुवन्दनम्।
बालानां सुखबोधाय क्रियते तर्कसंग्रहः।
वरदाचार्य आलोके - नमस्कारः
आलोक-व्याख्या
श्रीहयास्यं हृदि ध्यात्वा गुरूणां चरणौ तथा।
आलोकेन तु बालेभ्यो योज्यते तर्कसंग्रहः।
वरदाचार्य आलोके - मङ्गलकारणत्वम्
चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थमिष्टदेवतानमस्कारादिगर्भं *मङ्गलमाचरति-निधायेत्यादि।
टिप्पणी
*मङ्गलवादः - मणिग्रन्थादारभ्य मुक्तावलीपर्यन्तेषु प्रायस्सर्वेषु ग्रन्थारम्भे मङ्गलस्य अवश्यकर्तव्यता तस्य समाप्तिं प्रति कारणत्वविचारश्च विस्तरेण दृश्यते। मङ्गलसमाप्त्योः कार्यकारणभावश्च अन्वयव्यतिरेकसहचाराभ्यां समर्थ्यते। यत्सत्त्वे यत्सत्त्वं अन्वयसहचारः, यदभावे यदभावः व्यतिरेकसहचारः। आभ्यां कार्यकारणभावः सिद्ध्यति। यथा मृद्दण्डादिसत्त्वे घटो भवति, मृद्दण्डाभावे घटो न भवेदिति दृष्टान्तः। प्रकृते मङ्गलसत्त्वे समाप्तिसत्त्वं, मङ्गलाभावे समाप्त्यभावश्च बहुलं दर्शनात् तयोः कार्यकारणभावः सिद्ध्यतीति वक्तव्यम्। परन्तु बाणभट्टविरचितायां कादम्बर्यां मङ्गलं ‘दृश्यते, समाप्तिस्तु न दृश्यते इत्यन्वयव्यभिचारः। प्राचीनन्यायसूत्रभाष्यादिग्रन्थेषु बहुषु मङ्गलाभावेऽपि समाप्तेर्दर्शनात् व्यतिरेकव्यभिचारश्च स्पष्टः। एवं द्विविधव्यभिचारसत्त्वे कथं तयोः कार्यकारणभावः, कथं वास्तिकैर्मङ्गलाचरणम् ? इति पूर्वपक्ष्याशयः।
कारणाधिकरणवृत्त्यत्यन्ताभावाप्रतियोगित्वं कार्यस्य अथवा स्वाधिकरणवृत्त्यत्यन्ताभावाप्रतियोगिकार्यकत्वं कारणस्य अन्वयसहचारस्य लक्षणम्। स्वं कारणं दण्डचक्रकुलालादि, तदधिकरणं देशः। तत्र वर्तते यः अभावः इति चेत्, घटाभावः न भवति, तत्र घटस्य जननात्। अतः पटाद्यभाव एव ग्राह्यः। तत् प्रतियोगी पटः, घटोऽप्रतियोगी भवतीति तादृशकार्यकत्वम् अन्वयसहचारः। अत एव स्वाधिकरणवृत्त्यत्यन्ताभावप्रतियोगिकार्यकत्वम् अन्वयव्यभिचारः। एवम् कार्याधिकरणवृत्त्यत्यन्ताभावप्रतियोगित्वं कारणस्य व्यतिरेकव्यभिचारः। यथा घटाधिकरणदेशे नियमेन दण्डादेरावश्यकत्वात्, तत्र वर्तमानोऽभावो रासभादेरेव भवति। तत्प्रतियोगि रासभादि। अप्रतियोगित्वं दण्डादेर्भवतीति दण्डादेर्घटकारणत्वं, रासभादेस्तदकारणत्वं च सिद्ध्यति॥
प्रकृते मङ्गलसमाप्त्योः कार्यकारणभावे वक्तव्ये, कादम्बर्यादौ मङ्गलसत्वेऽपि समाप्तेरदर्शनात् अन्वयव्यभिचारः। स्वं मङ्गलं तदधिकरणं कादम्बरी। तत्र वर्तते समाप्त्यभावः। तत् प्रतियोगि समाप्तिरूपं कार्यम्। तद्विशिष्टत्वरूपं तत्कत्वं मङ्गले वर्तत इति अन्वयव्यभिचारः। तथा कार्यं समाप्तिः। तदधिकरणं नास्तिकग्रन्थः। तत्र मङ्गलाभावो वर्तते। तत् प्रतियोगि मङ्गलमिति व्यतिरेकव्यभिचारः। अतश्च समाप्तिं प्रति मङ्गलं कथं कारणं भवेत् ?
न च कादम्बर्यादौ अदृष्टादिकारणवैकल्यात् न समाप्तिः। एवं नास्तिकग्रन्थादौ जन्मान्तरीयादृष्टवशादेव समाप्तिरिति न दोष इति वाच्यम्; मङ्गलसमाप्त्योः कार्यकारणभावविनिश्चये सिद्ध एव तथा वक्तुं शक्यम्। पूर्वोक्तव्यभिचाराभ्यां कार्यकारणभावस्य असिद्धत्वात् तथा वक्तुमशक्यत्वात्, अन्योन्याश्रय एव विश्रान्तेरिति चेत्; मैवम्, कार्यकारणभावस्य प्रत्यक्षेणैव निर्णेयत्व एव स्यादयं दोषः। प्रत्यक्षेण तदसंभवेऽपि अनुमानेनैव साध्यते। न चान्वयव्यतिरेकव्यभिचारयोः सत्त्वे कथमनुमानेन तत्साधनसंभव इति शङ्क्यम्। मङ्गले कृतेऽपि समाप्त्यभावस्य अदृष्टविशेषप्रयुक्तत्वात् अन्वयव्यभिचारस्य कारणताग्रहं प्रति न हि प्रतिबन्धकत्वसंभवः। नास्तिकग्रन्थादौ तथैव अदृष्टविशेषवशादेव समाप्तेस्संभवात् नानुमानप्रतिबन्धकत्वसंभवः।
किञ्च ‘आशीर्नमस्क्रिया वस्तुनिर्देशो वापि’ इति मङ्गलत्रैविध्यस्य च सत्त्वेन मङ्गलाभावस्य निश्चेतुमशक्यत्वेन अन्ततः संशये पर्यवसानात्, संशयस्य च पक्षतारूपत्वेन अनुमितिं प्रति अप्रतिबन्धकत्वेन अनुमानेनैव मङ्गलसमाप्त्योः कार्यकारणभावः साध्यते॥
‘मङ्गलं समाप्तिफलकं, समाप्त्यन्याफलकत्वे सति सफलत्वात्’ इति परिशेषानुमानेन तयोः कार्यकारणभावसिद्धिः। ‘मङ्गलं सफलम्, बलवदनिष्टाननुबन्धित्वे सति शिष्टा(प्रामाणिकजना) चारविषयत्वात्, दर्शश्राद्धादिवत्’ इत्यनुमानेन उक्तानुमाने विशेष्यासिद्धिपरिहारः। श्येनादियागादेरपि शिष्टाचारविषयत्वात् तस्य च नरकादि हेतुत्वात्, तावन्मात्रेण प्रवृत्तेरसंभवेन सफलत्वसाधनस्यायुक्तत्वात्, तद्वारणाय बलवदनिष्टाननुबन्धित्वविशेषणम्। एवं ‘मङ्गलं समाप्तिफलकम्, समाप्त्युद्देशेनैवानुष्ठीयमानत्वात्, यत् यदुद्देशेन अनुष्ठीयते तत् तत्फलकम्, यथा धान्योद्देशेन क्रियमाणं कृष्यादि’ इत्यनुमानेन समाप्त्यन्याफलकत्वसिद्ध्या, उक्तपरिशेषानुमानेन मङ्गलसमाप्त्योः कार्यकारणभावस्य सिद्ध्या, कादम्बर्यादौ कारणान्तरेणापि समाप्त्यभावस्य संभवेन नान्वयव्यभिचाररूपदोषः। नास्तिकग्रन्थादौ च सुकृतविशेषवशादेव तत्संभवेन न व्यतिरेकव्यभिचारदोषः। तस्मात् उक्तानुमानेन कार्यकारणभावसिद्धेर्निष्प्रत्यूहत्वात् न दोषः॥
नव्यास्तु- मङ्गलस्य विघ्नध्वंसं प्रत्येव कारणत्वम्, न तु समाप्तिं प्रति। समाप्तिं प्रति तु आयुःप्रभृतीनामेव कारणत्वम्। एवञ्च नास्तिकग्रन्थादौ स्वत एव विघ्नाप्रसक्त्या विघ्नध्वंससंभवेऽपि न समाप्तेर्विरोधः। विघ्नध्वंसवत् विघ्नात्यन्ताभावस्य, विघ्नप्रागभावस्य च कारणत्वात्, नास्तिकग्रन्थे विघ्नात्यन्ताभावप्रागभावान्यतरसंभवेन समाप्तेः, जन्मान्तरीयमङ्गलकल्पनादिक्लेशो नास्तीति वदन्ति। परन्तु, प्राचीनमते मङ्गलस्य विघ्नध्वंसद्वारैव समाप्तिजनकत्वात्, द्वारेण द्वारिणोऽन्यथासिद्धौ यागादेरपि स्वर्गादिसाधनत्वं दुर्वचं स्यादिति वेदप्रामाण्यस्यैव तिलाञ्जलिप्रसङ्गः। अतो मङ्गलं समाप्तिं प्रत्येव कारणम्। दोषस्तु पूर्वोक्तरीत्यैव परिहार्यः॥
वरदाचार्य आलोके - मङ्गलवादः
आलोक-व्याख्या
विश्वेशः = काशीक्षेत्राधिनाथो विश्वनाथः। देवं विश्वनाथं हृदि निधाय = ध्यात्वेत्यर्थः। ‘निधानं = निक्षेप’ इत्यर्थमादाय, हृदये विश्वनाथस्य निधानासंभवात् निधानं नाम वृत्तित्वप्रकारकाहार्यज्ञानमिति केचन वदन्ति। आहार्यज्ञानं नाम बलात्कारेण संपाद्यमानं ज्ञानम्, आरोपात्मकम्। बहिर्देवालये विद्यमानाया विश्वनाथार्चामूर्तेः हृदये निधानासंभवाभिप्रायेण तथाभिप्रयन्ति ते। अर्चामूर्तिर्नाम, बाह्यपूजाया आलम्बनीभूता स्थूला मूर्तिः। परन्त्वस्य अतिस्थूलदृष्टित्वात्, निधाय = ध्यात्वा इत्येव वरम्। हृदयम् चित्तं, मनो वा। परमात्मनो ध्यानस्य हृदयमुत्तमं स्थानमिति ध्यानरहस्यविदः। अतः ‘विश्वनाथं हृदि ध्यात्वा’ इत्येव स्वरसम्।
विश्वेशमित्यत्र द्वितीयाया विषयत्वमर्थः। प्रकृत्यर्थस्याधेयता(वृत्तिता) संबन्धेनान्वयः। विषयताया निरूपकतासंबन्धेन ‘ल्यप्’ प्रत्ययस्य प्रकृतिभूतधाधात्वर्थध्यानेऽन्वयः। निधायेति ‘ल्यप्’ प्रत्ययस्य उत्तरकालिकत्वमर्थः। तस्य चाश्रयतासंबन्धेन कृधात्वर्थकृतावन्वयः। हृदि इत्यत्र सप्तम्या अधिकरणत्वमर्थः। तस्य च निरूपकतासंबन्धेन ध्यानेऽन्वयः। तथा च विश्वनाथनिष्ठविषयतानिरूपकहृदधिकरणक(हृन्निष्ठाधिकरणतानिरूपक) ध्यानोत्तरकालिकी कृतिः इति विश्वेशं हृदि निधाय इति वाक्याद् बोधः।
अथ विद्यागुरूणां वन्दनमाह- विधायेत्यादिना। गुरोः वन्दनं= गुरुवन्दनमिति षष्ठीतत्पुरुषः। गुरोरित्यत्र कर्मणि षष्ठी। तस्या विषयत्वमर्थः। विषयत्वस्य च निरूपकतासंबन्धेन वन्दनक्रियायामन्वयः। वन्दनं नाम स्वावधिकोत्कृष्टत्वप्रकारकज्ञानानुकूलव्यापार इति संप्रदायः।
‘स्वस्मात् उत्कृष्टो गुरुः’ इति ज्ञानात्किल शिष्यो गुरुं वन्दते। उत्कृष्टः उत्कर्षस्याश्रयः। अत्रोत्कर्षस्य पूर्वावधिः स्वात्मा, उत्तरावधिर्गुरुः। अतः स्वावधिकोत्कृष्टत्वप्रकारकज्ञाने उत्कृष्टत्वं प्रकारः, गुरुः विशेष्यः। यदा शिष्यो गुरुं वन्दते, तदा पार्श्वस्थाः मन्यन्ते, अस्य नन्तुः, नम्ये गुरावुत्कृष्टत्वज्ञानं वर्तते, अतो वन्दत इति। अतः परेषामयं शिष्यः, स्वावधिकोत्कृष्टत्वप्रकारकं ज्ञानं जनयति। अतश्च परेषां तादृशज्ञानप्रयोजकं भवति शिष्यस्य वन्दनम्। एतेन ‘गुरुं प्रकाशयेद्धीमान्’ इति शास्त्रार्थः सूचितः।
वस्तुतः स्वावधिकोत्कृष्टत्वप्रकारकज्ञानं स्वपदार्थनिष्ठं सत् नमनक्रियां जनयति। अतः ‘स्वावधिकोत्कृष्टत्वप्रकारकस्य ज्ञानस्यानुकूलः प्रयोजको वन्दनरूपव्यापारः’ इत्यर्थापेक्षया, स्वावधिकोत्कृष्टत्वप्रकारकज्ञानम् अनुकूलम् (प्रयोजकं) यत्र (नमनादिरूपव्यापारे) इति समासेन, तादृशज्ञानस्य वन्दनप्रयोजकत्वं वाच्यम्। एवं शिष्यस्य स्वावधिकोत्कृष्टत्वप्रकारकज्ञानमेव वन्दनरूपव्यापारस्य प्रयोजकं भवति।
अथवा ‘तादृशज्ञानानुकूलिव्यापारः’ इत्यर्थो वाच्यः। अनुकूलम् (प्रयोजकम्) अस्यास्तीति अनुकूली, प्रयोज्य इत्यर्थः। ज्ञानस्यानुकूली = ज्ञानानुकूली, ज्ञानप्रयोज्यो व्यापारः। ज्ञानमित्यत्र षष्ठ्या निरूपितत्वमर्थः। अनुकूलित्वं प्रयोज्यत्वम्। तथा च स्वावधिकोत्कृष्टत्वप्रकारकज्ञानप्रयोज्यव्यापारो वन्दनमिति स्वरसम्। ‘वन्दनं विधाय’ इत्यत्रापि, ल्यप उत्तरकालिकत्वमर्थः। तथा च ‘गुरुविषयकवन्दनोत्तरकालिकी कृति:’ इति गुरुवन्दनं विधाय इति वाक्यस्यार्थः।
ग्रन्थरचनोद्देशं प्रकटयति- बालानामित्यादि। सुखं बोधः, सुखेन वा बोधः-सुखबोध इति समासः। सुखं नाम आयासाभावः, न तु आनन्दविशेषः, तात्पर्यानुसारात्। एतद्ग्रन्थाध्ययनकाले अध्येतुरायासाभावो विवक्षितः। बालानामित्यत्र षष्ठ्याः समवेतत्वम् अर्थः। तस्य चाश्रयतासंबन्धेन सुखेऽन्वयः। बोधायेत्यत्र चतुर्थ्याः प्रयोजकत्वमर्थः। तस्याप्याश्रयतासंबन्धेन कृतावन्वयः॥
‘तर्क्यन्ते = प्रतिपाद्यन्ते इति तर्काः = द्रव्यादिपदार्थाः’ इति संप्रदायः। वस्तुतस्तु तर्कः- तर्कशास्त्रम्, न्यायवैशेषिकशास्त्रयोः अनुगतं नाम। एतयोः समानतन्त्रत्वं सर्वसम्मतम्। न्यायशास्त्रं प्रमाणविचारप्रधानम्। वैशेषिकशास्त्रं च प्रमेयविचारप्रधानम्। उभयोः परस्परसापेक्षत्वं च स्पष्टम्। उभयमपि तर्कप्रधानम्। अतः तर्कसंग्रहः- तर्कशास्त्रसंग्रह इति स्वरसम्। ‘मया’ इत्यध्याहार्यं कर्तृवाचकं पदम्। अस्मच्छब्दस्य कर्ता अन्नंभट्ट इत्यर्थः। तृतीयायाः समवेतत्वमर्थः। तस्य चाश्रयतासंबन्धेन कृतावन्वयः। तथा चाहत्य संपूर्णवाक्यबोधः विश्वनाथनिष्ठविषयतानिरूपकहृदयाधिकरणकध्यानोत्तरकालिकी गुरुविषयकस्वावधिकोत्कृष्टत्वप्रकारकज्ञानप्रयोज्यवन्दनोत्तरकालिकी, बालसमवेतानायाससमानाधिकरणबोधप्रयोजिका, अन्नंभट्टसमवेता या कृति:, तद्विषयस्तर्कशास्त्रसंग्रहो ग्रन्थ इति॥
गोवर्धन-न्यायबोधिनी - मङ्गलाचरणम्
(निखिल)अखिलागमसंचारि श्रीकृष्णाख्यं परं महः।
ध्यात्वा गोवर्धनसुधीस्तनुते न्यायबोधिनीम्॥
चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थमिष्टदेवतानमस्कारात्मकं मङ्गलं शिष्यशिक्षायै ग्रन्थादौ निबध्नाति निधायेति।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - उपोद्घातः
तर्कसङ्गग्रहसर्वस्वम्
तर्कसङ्ग्रहे प्रत्यक्षपरिच्छेदः
निधाय हृदि विश्वेशं विधाय गुरुवन्दनम्।
बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः।।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - नमस्कारविधिः
तर्कसङ्ग्रहसर्वस्वे प्रत्यक्षपरिच्छेदः
श्रीरामशास्त्रीकुरुगण्टिवंश्यः श्रीसूर्यनारायणसूरिसूनुः।
ध्यायाम्यहं श्रीशमिभास्यमीशम् श्रीदक्षिणामूर्तिमुदारमूर्तिम्।।
श्रीन्यायाम्बुधिमन्थनोत्थितमहाविज्ञानधारासुधा-
धाराधारतयाऽतिधीरहृदयं स्याद्द्वैतविद्याम्बुधेः।
वेमूर्यन्वयवार्धिपूर्णशशिनस्सौजन्यवारांनिधेः
रामब्रह्मसुधीन्द्रदेशिकवरपादाब्जसेवारतः।।
अन्नम्भट्टबुधप्रोक्तसंग्रहार्थप्रकाशकम्
तर्कसङ्ग्रहसर्वस्वं कुर्वे बालसुबोधकम्।।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - अनुबन्धचतुष्टयम्
प्रारीप्सितग्रन्थस्य निरन्तराय परिसमाप्त्यर्थमाचरितं मङ्गलं शिष्यशिक्षायै ग्रन्थतो निबध्नन् प्रेक्षावत्प्रवृत्तिप्रयोजकीभूतमनुबन्धचतुष्टयं दर्शयन् चिकीर्षितं प्रतिजानीते निधायेति। अनुबन्धचतुष्टयञ्च विषयप्रयोजनसंबन्धाधिकारिरूपं भवति तत्र तर्कसङ्ग्रहपदेन द्रव्यादिपदार्थरूपविषयः प्रतिपाद्यप्रतिपादकभावरूपसम्बन्धश्च निर्दिष्टौ, बालानामित्यनेनाधिकारी, सुखबोधायेत्यत्र पदार्थतत्वज्ञानरूपप्रयोजनञ्च निर्दिष्टम्।
ननु शिष्टाचारात् ग्रन्थादौ मङ्गलस्य कर्तव्यत्वेऽपि केवलस्येश्वरध्यानस्य गुरुवन्दनस्य वा केवलस्य पर्याप्तत्वेन उभयादरे किं बीजमिति चेन्न, केवलविश्वेश्वरध्यानमात्रादरे। यस्य देवे पराभक्तिः यथा देवे तथा गुरौ, इति स्मरणात् गुरुवन्दनस्यापि कर्तव्यताप्राप्त्या तदभावे गुरुतिरस्कारः प्रसज्येतेति तदादरणम्। गुरुवन्दनमात्रादरे प्रत्यक्षमेकं चार्वाका, इति चार्वाकादीनां प्रत्यक्षमात्राङ्गीकर्तृत्वेन तन्मतेऽनुमानादिप्रमाणसिद्धेश्वराद्यनङ्गीकरणात् तन्मते गुरुवन्दनादीनामेवेश्वरध्यानादिस्थानीयतया अत्र गुरुवन्दनमात्रादरे एतन्मतेऽपीश्वराद्यनङ्गीकरणम् केषाञ्चित्प्रसज्येत तत्प्रसक्तौ च अत्र आस्तिका न प्रवर्तेरन् इति। विश्वेश्वरध्यानादरणम्।
निधायेति श्लोकस्य शाब्दबोधप्रकार इत्थम्। निधाय हृदि विश्वेशमित्यत्र निपूर्वकधाधातोः ध्यानमर्थः, तदुत्तरवर्तिल्यपः उत्तरकालिकत्वम्, हृत्पदं मनःपरम्, सप्तम्यर्थः सप्तम्यधिकरण इति सूत्रादधिकरणत्वम्, विश्वस्येश इत्यत्र षष्ठ्याः निरूपितत्वाम्, ईशशब्दस्य नियामकतावानर्थः, तादृशनिरूपितत्वस्य नियामकतायां स्वरूपसम्बन्धेनान्वयः, ईशमित्यत्र द्वितीयायाः कर्मत्वम् तच्चात्र विषयतारूपम्, (सविषयार्थबोधकधातुसमभिव्याहृतद्वितीयार्थीभूतकर्मत्वं विषयतारूपम् इति न्यायात्) हृच्छब्दोत्तरवर्तिसप्तम्यर्थीभूताधिकरणत्वस्य धाधात्वर्थीभूतध्याने निरूपकत्वसम्बन्धेनान्वयः, तथा च हृदधिकरणकविश्वनिरूपितकारणतावद्विषयकध्यानोत्तरकालिकीति फलितम्। विधाय गुरुवन्दनमित्यत्र। विपूर्वकधाधातोः विधानमर्थः, तत्र ल्यपः उत्तरकालिकत्वम्, गुरूणां वन्दनमित्यत्र षष्ठ्याः कर्मत्वम्, द्वितीयायाः विषयत्वम्, तस्य विपूर्वकधाधात्वर्थीभूतकृतौ निरूपकत्वसम्बन्धेनान्वयः, तथा च गुरूद्देश्यकवन्दनविषयककृत्युत्तरकालिकीति फलितम्। बालानां सुखबोधायेत्यत्र। बालानामित्यत्र षष्ठ्याः समवेतत्वम्, सुखबोधः अनायसपूर्वकपदार्थज्ञानम्, चतुर्थ्याः प्रयोजकत्वम्, तथा च बालसमवेतानायासपूर्वकबोधफलिकेति फलितम्। क्रियते तर्कसङ्ग्रह इत्यत्र मयेत्यध्याहार्यं, अस्मच्छब्दस्यान्नंभट्टः, तृतीयायाः समवेतत्वं, कृञ् धातोः कृतिरर्थः, तदुत्तरवर्त्याख्यातस्य वर्तमानकालिकत्वं विषयत्वञ्चार्थः, तर्क्यन्ते प्रतिपाद्यन्त इति तर्काः पदार्थाः, तेषां सङ्ग्रहः संक्षेपेण स्वरूपकथनम्, समवेतत्वस्य वर्तमानकालिकत्वस्य च कृतावन्वयः, कृतेः निरूपितत्वसम्बन्धेन विषयतायां, विषयतायाः तर्कसङ्ग्रहे स्वरूपसम्बन्धेन चान्वयः, अयं कैश्चित्खण्डशाब्दबोध इति व्यवह्रियते, वस्तुतस्तु अस्य वृत्तिज्ञानत्वव्यवहारस्समुचितः। अखण्डशाब्दबोधप्रकारस्त्वित्थम्, हृदधिकरणकविश्वनिरूपितकारणतावद्विषयकध्यानोत्तरकालिकी, गुरूद्देश्यकवन्दनविषयककृत्युत्तरकालिकी, बालसमवेतानायासपूर्वकपदार्थतत्वज्ञानफलिका, अन्नंभट्टसमवेता, वर्तमानकालिकी, या कृतिः तादृशकृतिविषयः तर्कसङ्ग्रहः। इति।
कुरुगण्टि-श्रीनिवास-दीपिका-सर्वस्वम् - ध्यानस्वरूपम्
टिप्पणी-
विजातीयज्ञानानन्तरितसजातीयज्ञानपरम्परा ध्यानम्। ननु ध्यानस्य पर्यवसाने ज्ञानरूपतया एतन्मते आत्मन एव ज्ञानाधिकरणत्वेन हृदधिकरणत्वं ध्याने न सम्भवतीति चेन्न समवायसम्बन्धेन हृदधिकरणत्वं ज्ञाने न निवेश्यते किन्तु हृदधिकरणकत्वस्य विश्वेश्वरेऽन्वये स्वविषयकज्ञानजनकत्वसम्बन्धेन तस्यान्वयः कर्तव्यः स्वपदं विश्वेश्वरपरं, तस्य ध्यानेऽन्वये तु स्वाश्रयसंयुक्तत्वसम्बन्धेन तस्यान्वयो वक्तव्यः, स्वपदं ध्यानपरम्। यद्वा जनकत्वसम्बन्धेन हृदधिकरणकत्वस्य ध्यानेऽन्वयः कार्यः। अथवा हृत्पदेनात्मैव लक्ष्यते, हृत्पदशक्यमनस्सम्बन्धरूपलक्षणाया आत्मनि सत्वात्। यद्वा हृदीत्यत्र सप्तम्याः जन्यत्वमेवार्थो वक्तव्यः, तस्य ध्यानेऽन्वयः कार्यः। नन्वेवं हृत्पदस्याव्यावर्तकतापत्तिः, ज्ञानमात्रस्य मनोजन्यत्वेन तज्जन्यत्वकथनस्य निष्फलत्वादिति चेन्न, हृत्पदस्य हृदयरूपशरीरावयवार्थकत्वेन निपूर्वकधाधातोः वृत्तित्वप्रकारकाहार्यज्ञानार्थकत्वेन सप्तम्या निरूपितत्वार्थकत्वेन च शरीरावयवरूपहृदयनिरूपितवृत्तित्वप्रकारकाहार्यज्ञानोत्तरकालिकत्वस्य कृतौ लाभात् न कस्याप्यव्यावर्तकत्वशङ्काप्रसक्तिः। स्वोत्कृष्टत्वप्रकारकज्ञानानुकूलव्यापारो वन्दनम्। ग्रहणधारणपटुः बालः। सङ्ग्रहः संक्षेपेणस्वरूपकथनं तच्च बहुतरार्थबोधकन्यूनसंख्याकशब्दसन्दर्भः।