चन्द्र-ज-सिंहः - पद-कृत्यम्

{ “name”: “tarkasangraha”, “author”: “annambhatta”, “data”: [ { “id”: “1”, “category”: “”, “topic”: “मङ्गलाचरणम्”, “text”: “निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् । बालानां सुखबोधाय क्रियते तर्कसंग्रहः ।।”, “teeka”: “श्रीगणेशं नमस्कृत्य पार्वतीशंकरं परम् । मया चन्द्रजसिंहेन क्रियते पदकृत्यकम् ।।\nयस्माददिदमहं मन्ये बालानामुपकारकम् ।तस्माद्धितकरं वाक्यं वक्तव्यं विदुषा सदा ।।\nविश्वेशम्=जगत्कर्तारं श्रीसाम्बमूर्तिम्, हृदि=मनसि, निधाय=नितरां धारयित्वा, गुरुवन्दनं च विधाय=कृत्वेत्यर्थः । बालेति । अत्राधीतव्याकरण-काव्य-कोषोऽनधीतन्यायशास्त्रो बालः । व्यासादावतिव्याप्तिवारणायानधीतन्यायेति । स्तनन्धयेऽतिप्रसक्तिवारणायाधीतव्याकरणेति । सुखेति । सुखेन=अनायासेन, बोधाय=पदार्थतत्वज्ञानायेत्यर्थः । तर्क्यन्ते प्रमितिविषयीक्रियन्ते इति तर्काः=द्रव्यादिपदार्थाः, तेषां संग्रहः = संक्षेपेणोद्देशलक्षणपरीक्षा यस्मिन् स ग्रन्थः । नाममात्रेण वस्तुसंकीर्तनम् उद्देशः । यथा— द्रव्यम्, गुणः, इति । असाधारणधर्मो लक्षणम् । यथा गन्धवत्त्वं पृथिव्याः । लक्षितस्य लक्षणं सम्भवति न वेति विचारः परीक्षा । अत्र उद्देशस्य फलं पक्षज्ञानम्, लक्षणस्य इतरभेदज्ञानं लक्षणे दोषपरिहारः परीक्षायाः फलमिति मन्तव्यम् ।”
}, { “id”: “2”, “category”: “पदार्थः”, “topic”: “पदार्थः”, “text”: “द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्तपदार्थाः ।”, “teeka”: ""
}, { “id”: “3”, “category”: “पदार्थः > १. द्रव्यम्”, “topic”: “द्रव्यम्”, “text”: “तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्मामनांसि नवैव ।”, “teeka”: “तत्रेति । तत्र=सप्तपदार्थमध्ये इत्यर्थः । द्रव्याणि नवैवेत्यन्वयः । एवं तत्रेति पदम् ‘चतुर्विंशतिर्गुणाः’ इत्यनेनाप्यन्वेति । द्रव्यत्वजातिमत्त्वम्, गुणवत्त्वम्, समवायिकारणत्वं वा द्रव्यसामान्यलक्षणम् ।”
}, { “id”: “4”, “category”: “पदार्थः > २. गुणः”, “topic”: “गुणः”, “text”: “रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश्चतुर्विंशतिर्गुणाः ।”, “teeka”: ""
}, { “id”: “5”, “category”: “पदार्थः > ३. कर्म”, “topic”: “कर्म”, “text”: “उत्क्षेपणाऽपक्षेपणाऽऽकुञ्चनप्रसारणगमनानि पञ्च कर्माणि ।”, “teeka”: ""
}, { “id”: “6”, “category”: “पदार्थः > ४. सामान्यम्”, “topic”: “सामान्यम्”, “text”: “परमपरञ्चेति द्विविधं सामान्यम् ।”, “teeka”: “परमपरं चेति । परसामान्यमपरसामान्यमित्यर्थः । परत्त्वं च अधिकदेशवृत्तित्वम् । अपरत्वं न्यूनदेशवृत्तित्वम् ।”
}, { “id”: “7”, “category”: “पदार्थः > ५. विशेषः”, “topic”: “विशेषः”, “text”: “नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव ।”, “teeka”: ""
}, { “id”: “8”, “category”: “पदार्थः > ६. समवायः”, “topic”: “समवायः”, “text”: “समवायस्त्वेक एव ।”, “teeka”: ""
}, { “id”: “9”, “category”: “पदार्थः > ७. अभावः”, “topic”: “अभावः”, “text”: “अभावश्चतुर्विधः-प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावश्चेति ।”, “teeka”: ""
}, { “id”: “10”, “category”: “पदार्थः > १. द्रव्यम् > १. पृथिवी”, “topic”: “पृथिवी”, “text”: “तत्र गन्धवती पृथिवी । सा द्विविधा नित्याऽनित्या च । नित्या परमाणुरूपा । अनित्या कार्यरूपा । पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् । शरीरमस्मदादीनाम् । इन्द्रियं गन्धग्राहकं घ्राणं नासाऽग्रवर्ति । विषयो मृत्पाषाणादिः ।”, “teeka”: “तत्रेति । तदेव हि लक्षणं यद् अव्याप्ति-अतिव्याप्ति-असम्भवरूपदोषत्रयशून्यम् । यथा गोः सास्नादिमत्त्वम् । अव्याप्तिश्च लक्ष्यैकदेशावृत्तित्वम् । अत एव गोः न कपिलत्वं लक्षणम्, तस्य अव्याप्तिग्रस्तत्वात् । अतिव्याप्तिश्च लक्ष्यवृत्तित्वे सति अलक्ष्यवृत्तित्वम् । अत एव गोः न शृङ्गित्वं लक्षणम्, तस्य अतिव्याप्तिग्रस्तत्वात् । असम्भवश्च लक्ष्यमात्रावृत्तित्वम् । यथा गोः एकशफवत्त्वं न लक्षणम्, तस्य असम्भवग्रस्तत्वात् । नित्येति । ध्वंसभिन्नत्वे सति ध्वंसाप्रतियोगित्वं नित्यत्वम् । ध्वंसेऽतिव्याप्तिवारणाय ध्वंसभिन्नेति विशेषणम् । घटादावतिव्याप्तिवारणाय विशेष्यदलम् । ध्वंसप्रतियोगित्वम्, प्रागभावप्रतियोगित्वं वा अनित्यत्वम् । यद् भोगायतनं तदेव शरीरम्, चेष्टाश्रयो वा । इन्द्रियमिति । चक्षुरादावतिव्याप्तिवारणाय गन्धग्राहकमिति । कालादावतिप्रसक्तिवारणाय इन्द्रियमिति । विषय इति । शरीरेन्द्रियभिन्नत्वे सति उपभोगसाधनं विषयः । शरीरादावतिव्याप्तिनिरासाय सत्यन्तम् । परमाण्वादावतिव्याप्तिवारणाय विशेष्यदलम् । कालादिवारणाय जन्यत्वे सति इत्यपि बोध्यम् ।”
}, { “id”: “11”, “category”: “पदार्थः > १. द्रव्यम् > २. अप्”, “topic”: “अप्”, “text”: “शीतस्पर्शवत्य आपः । ता द्विविधाः । नित्या अनित्याश्च । नित्याः परमाणुरूपाः । अनित्याः कार्यरूपाः । पुनस्त्रिविधाः शरीरेन्द्रियविषयभेदात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहकं रसनं जिह्वाऽग्रवर्ति । विषयः सरित्समुद्रादिः ।”, “teeka”: “शीतेति । तेज आदावतिव्याप्तिवारणाय शीतेति । आकाशेऽतिव्याप्तिवारणाय स्पर्शेति । कालादावतिप्रसक्तिवारणाय समवायसम्बन्धेनेति पदं देयम् । इन्द्रियमिति । त्वगादावतिव्याप्तिवारणाय रसग्राहकमिति । रसनेन्द्रियरससन्निकर्षादौ अतिव्याप्तिनिरासाय इन्द्रियमिति । सरिदिति । आदिना तडागहिमकरकादीनां संग्रहः ।”
}, { “id”: “12”, “category”: “पदार्थः > १. द्रवम् > ३. तेजः”, “topic”: “तेजः”, “text”: “उष्णस्पर्शवत्तेजः । तच्च द्विविधं नित्यमनित्यञ्च । नित्यं परमाणुरूपम्, अनित्यं कार्यरूपम् । पुनस्त्रिविधं-शरीरेन्द्रियविषयभेदात् । शरीरमादित्यलोके प्रसिद्धम् । इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति । विषयश्चतुर्विधः-भौम-दिव्यौ-दर्या-करजभेदात् । भौमं वह्न्यादिकम् । अबिन्धनं दिव्यं विद्युदादि । भुक्तस्य परिणामहेतुरौदर्यम् । आकरजं सुवर्णादि ।”, “teeka”: “उष्णेति । जलादावतिव्याप्तिवारणाय उष्णेति । कालादवतिप्रसङ्गवारणाय ‘समवायसम्बन्धेन’ इति पदं देयम् । इन्द्रियमिति । घ्राणादौ अतिव्याप्तिवारणाय रूपग्राहकमिति । कालादौ अतिव्याप्तिनिरसनाय इन्द्रियमिति । भेदाद् इति पदं प्रत्येकमभिसम्बध्यते । भौममिति । आदिपदेन खद्योतगततेजः प्रभृतेः परिग्रहः । विद्युदादीति । आदिना अर्कचन्द्रादीनां परिग्रहः । भुक्तस्य=अन्नादेः, पीतस्य जलस्य परिणामः=जीर्णता, तस्य हेतुः उदर्यमित्यर्थः । सुवर्णेति । आदिना रजतादिपरिग्रहः ।”
}, { “id”: “13”, “category”: “पदार्थः > १. द्रव्यम् > ४. वायुः”, “topic”: “वायुः”, “text”: “रूपरहितः स्पर्शवान्वायुः । स द्विविधो नित्योऽनित्यश्च । नित्यः परमाणुरूपः । अनित्यः कार्यरूपः । पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात् । शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं त्वक्, सर्वशरीरवर्ति । विषयो वृक्षादिकम्पनहेतुः । शरीराऽन्तःसञ्चारी वायुः प्राणः, स चैकोऽपि उपाधिभेदात् प्राणाऽपानादिसंज्ञां लभते ।”, “teeka”: “रूपेति । घटादिवारणाय विशेषणम् । आकाशादिवारणाय विशेष्यम् । इन्द्रियमिति । चक्षुरादिवारणाय स्पर्शग्राहकमिति । कालादावतिव्याप्तिवारणाय इन्द्रियमिति । वृक्षेति । आदिपदेन जलादिपरिग्रहः । शरीरान्तरिति । महावाय्वादौ अतिव्याप्तिवारणाय विशेषणम् । मन आदिवारणाय विशेष्यम् । धनञ्जयवारणाय सञ्चारीति । उपाधीति । मुखनासिकाभ्यां निर्गमनप्रवेशनात् प्राणः । जलादेरधोनयनादपानः । भुक्तपरिणामाय जाठरानलस्य समुन्नयनात् समानः । अन्नादेरूर्ध्वनयनात् उदानः । नाडीमुखेषु वितननाद् व्यानः इति क्रियारूपोपाधिभेदात् तथा व्यवह्रियत इत्यर्थः ।”
}, { “id”: “14”, “category”: “पदार्थः > १. द्रव्यम् > ५. आकाशः”, “topic”: “आकाशः”, “text”: “शब्दगुणकमाकाशम् । तच्चैकं विभु नित्यं च ।”, “teeka”: “शब्देति । शब्दो गुणो यस्य तत्तथा । असम्भववारणाय शब्दगुणोभयम् । विभ्विति सर्वमूर्त्तद्रव्यसंयोगि ।”
}, { “id”: “15”, “category”: “पदार्थः > १. द्रव्यम् > ६. कालः”, “topic”: “कालः”, “text”: “अतीतादिव्यवहारहेतुः कालः । स चैको विभुर्नित्यश्च ।”, “teeka”: “अतीतेति । अतीत इत्यादिः यो व्यवहारः ‘अतीतः भविष्यन् वर्त्तमानः’ इत्यात्मकः, तस्य असाधारणहेतुः काल इत्यर्थः । ननु इदं लक्षणम् आकाशेऽतिव्याप्तम्, व्यवहारस्य शब्दात्मकत्वाद् इति चेत्, न अत्र हेतुपदेन निमित्तहेतुविवक्षणात् । न च एवमपि कण्ठताल्वाद्यभिघातेऽतिव्याप्तिरिति वाच्यम्, विभुत्वस्यापि निवेशात् ।”
}, { “id”: “16”, “category”: “पदार्थः > १. द्रव्यम् > ७. दिक्”, “topic”: “दिक्”, “text”: “प्राच्यादिव्यवहारहेतुर्दिक् । सा चैका नित्या विभ्वी च ।”, “teeka”: “प्राच्येति । इयं प्राची, इयम् अवाची, इयम् प्रतीची, इयम् उदीची इत्यादिव्यवहारासाधारणं कारणं दिग् इत्यर्थः । हेतुर्दिग् इत्युच्यमाने परमाण्वादौ अतिव्याप्तिः स्यात् तद्वारणाय प्राच्यादिव्यवहारहेतुरिति । आकाशदिवारणाय असाधारणेत्यपि बोध्यम् ।”
}, { “id”: “17”, “category”: “पदार्थः > १. द्रव्यम् > ८. आत्मा”, “topic”: “आत्मा”, “text”: “ज्ञानाऽधिकरणमात्मा । स द्विविधः परमात्मा जीवात्मा चेति । तत्रेश्वरः सर्वज्ञः, परमात्मा एक एव । जीवस्तु प्रतिशरीरं भिन्नो विभुर्नित्यश्च ।”, “teeka”: “ज्ञानेति । भूतलादिवारणाय ज्ञानेति । कालादिवारणाय समवायेन इत्यपि ज्ञेयम् । ईश्वर इति । समवायसम्बन्धेन नित्यज्ञानवान् ईश्वरः । जीव इति । सुखादिसमवायिकारणं जीव इत्यर्थः ।”
}, { “id”: “18”, “category”: “पदार्थः > १. द्रव्यम् > ९. मनः”, “topic”: “मनः”, “text”: “सुखाद्युपलब्धिसाधनमिन्द्रियं मनः । तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यञ्च ।”, “teeka”: “सुखेति । आत्ममनः संयोगादिवारणाय इन्द्रियमिति । चक्षुरादिवारणाय सुखेति ।”
}, { “id”: “19”, “category”: “पदार्थः > २. गुणः > १. रूपम्”, “topic”: “रूपम्”, “text”: “चक्षुर्मात्रग्राह्यो गुणो रूपम् । तच्च शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात् सप्तविधम् । पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम्, अभास्वरशुक्लं जले । भास्वरशुक्लं तेजसि ।”, “teeka”: “चक्षुर्मात्रेति । रूपत्वादिवारणाय गुणपदम् । रसादिवारणाय चक्षुर्ग्राह्य इति । संख्यादिवारणाय मात्रपदम् । यद्यपि प्रभाभित्तिसंयोगवारणाय गुणपदेन विशेषगुणस्य विवक्षणीयतया तत एव संख्यादिवारणं सम्भवतीति मात्रपदं व्यर्थम्, तथापि सांसिद्धिकद्रवत्ववारणाय तत आवश्यकम् । वस्तुतस्तु परमाणुरूपेऽतिव्याप्तिवारणाय चक्षुर्मात्रग्राह्यजातिमत्त्वस्य विवक्षणीयतया विशेषपदं न देयम् । त्र्यणुकादिवारणाय गुणपदन्तु देयमेव । सप्तेति । रूपमित्यनुषज्यते ।”
}, { “id”: “20”, “category”: “पदार्थः > २. गुणः > २, रसः”, “topic”: “रसः”, “text”: “रसनाग्राह्यो गुणो रसः । स च मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधः । पृथिवीजलवृत्तिः । तत्र पृथिव्यां षड्विधः । जले मधुर एव ।”, “teeka”: “रसनेति । रसत्वादिवारणाय गुण इति । रूपादावतिव्याप्तिवारणाय रसनेति । तत्रेति । पृथिवीजलयोरित्यर्थः । षड्विधः इति । अत्र रस इत्यनुवर्तते ।”
}, { “id”: “21”, “category”: “पदार्थः > २. गुणः > ३. गन्धः”, “topic”: “गन्धः”, “text”: “घ्राणग्राह्यो गुणो गन्धः । स च द्विविधः सुरभिरसुरभिश्च । पृथिवीमात्रवृत्तिः ।”, “teeka”: “घ्राणेति । गन्धत्वादावतिव्याप्तिवारणाय गुण इति । रूपादावतिव्याप्तिवारणाय घ्राणग्राह्य इति । पृथिवीति । पृथिवीसम्बन्धसत्त्वे गन्धप्रतीतिसत्त्वम् । पृथिवीसम्बन्धाभावे गन्धप्रतीत्यभाव इत्यन्वयव्यतिरेकाभ्यां पृथिवीगन्धस्यैव जले प्रतीतिर्बोध्या । एवं वायौ अपि । ननु देशान्तरस्थे कस्तूरीकुसुमसम्बद्धपवनस्य एतद्देशे सत्त्वेऽपि पृथिवीसम्बन्धाभावाद् गन्धप्रतीत्यनुपपत्तिः । न च वाय्वानीतत्र्यणुकादिसम्बन्धोऽस्त्येव इति वाच्यम्, कस्तूर्यां न्यूनतापत्तेः, कुसुमस्य च सच्छिद्रत्त्वापत्तेः, इति चेत् ? न, भोक्त्रदृष्टविशेषेण पूर्ववत् त्र्यणुकान्तराद्युत्पत्तेः कर्पूरादौ तु तदभावान्न तथात्वम् इति ।”
}, { “id”: “22”, “category”: “पदार्थः > २. गुणः > ४. स्पर्शः”, “topic”: “स्पर्शः”, “text”: “त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः । स च त्रिविधः शीतोष्णाऽनुष्णाशीतभेदात् । पृथिव्यप्तेजोवायुवृत्तिः । तत्र शीतो जले । उष्णस्तेजसि । अनुष्णाऽशीतः पृथिवीवाय्योः ।”, “teeka”: “त्वगिन्द्रियेति । स्पर्शत्वादावतिव्याप्तिवारणाय गुण इति । रूपादावतिव्याप्तिवारणाय त्वगिन्द्रियेति । संख्यादिवारणाय मात्रपदम् । तत्रेति । पृथिव्यादिचतुष्टये । शीत इति=शीतस्पर्शः, उष्ण इति=उष्णस्पर्शः ।”
}, { “id”: “23”, “category”: “पदार्थः २ > गुणाः १ तः ४”, “topic”: “रूपादिचतुष्टयस्य अनित्यत्वम्”, “text”: “रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यञ्च । अन्यत्राऽपाकजं नित्यमनित्यञ्च । नित्यगतनित्यम् । अनित्यगतमनित्यम् ।”, “teeka”: ""
}, { “id”: “24”, “category”: “पदार्थः > २. गुणः > ५. संख्या”, “topic”: “संख्या”, “text”: “एकत्वादिव्यवहारहेतुः संख्या । सा नवद्रव्यवृत्तिः । एकत्वादिपरार्धपर्यन्ता । एकत्वं नित्यमनित्यञ्च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् । द्वित्वादिकं तु सर्वत्राऽनित्यमेव ।”, “teeka”: “एकत्वादीति । एकत्वम् इत्यादिर्यो व्यवहारः—एको द्वौ बहवः इत्याद्यात्मकः तस्य हेतुः संख्या इत्यर्थः । घटादिवारणाय एकत्वादीति । कालादिवारणाय असाधारणेत्यपि देयम् । ननु संख्यायाः अवधिः अस्ति न वा इत्यत आह एकत्वादिति । तथा च -\nएकं दश शत चैव सहस्रमयुतं तथा । \nलक्षं च नियुतं चैव कोटिरर्बुदमेव च ।।\nवृन्दं खर्वो निखर्वश्च शंखःपद्मश्च सागरः ।\nअन्त्यं मध्यं परार्द्धं च दशवृद्ध्या यथाक्रमम् ।।\nइति महदुक्तेः परार्द्धपर्यन्तैव संख्या इति भावः ।”
}, { “id”: “25”, “category”: “पदार्थः > २. गुणः > ६. परिमाणम्”, “topic”: “परिमाणम्”, “text”: “मानव्यवहारासाधारणं कारणं परिमाणम् । नवद्रव्यवृत्ति । तच्चतुर्विधम् अणुमहद्दीर्घंह्रश्वञ्चेति ।”, “teeka”: “मानेति । मानं परिमितिस्तस्या यो व्यवहारः इदम् महत् इदम् अणु इत्याद्यात्मकः तस्य कारणं परिमाणमित्यर्थः । दण्डादिवारणाय मानेति । कालादिवारणाय असाधारणेति । शब्दत्ववारणाय कारणमिति । नवद्रव्येति । चतुर्विधम् । अपि परममध्यभेदेन द्विविधम् । तत्र परमाणुह्रस्वत्वे परमाणुमनसोः मध्यमाणुह्रस्वत्वे द्व्यणुके, परममहत्त्वदीर्घत्वे गगनादौ, मध्यममहत्त्वदीर्घत्वे घटादौ । एतन्मौक्तिकाद् इदं मौक्तिकम् अणु इति व्यवहारस्य अपकृष्टमहत्त्वाश्रयत्वाद् गौणत्वं बोध्यम् । एकमेव केतनाद् व्यजनं ह्रस्वम् इत्यत्रापि निकृष्टदीर्घत्वाद् गौणत्वम् ।”
}, { “id”: “26”, “category”: “पदार्थः > २. गुणः > ७. पृथक्त्वम्”, “topic”: “पृथक्त्वम्”, “text”: “पृथग्व्यवहारासाधारणं कारणं पृथक्त्वम् । सर्वद्रव्यवृत्तिः ।”, “teeka”: “पृथगिति । अयमस्मात् पृथगिति यो व्यवहारः तस्य कारणं पृथक्त्वमित्यर्थः । दण्डादिवारणाय पृथगित्यादि । कालादिवारणाय असाधारणेति । पृथग्व्यवहारत्ववारणाय कारणमिति ।”
}, { “id”: “27”, “category”: “पदार्थः > २. गुणः > ८. संयोगः”, “topic”: “संयोगः”, “text”: “संयुक्तव्यवहारहेतुः संयोगः । सर्वद्रव्यवृत्तिः ।”, “teeka”: “इमौ संयुक्तौ इति यो व्यवहारः तस्य हेतुः संयोग इत्यर्थः । दणडादिवारणाय संयुक्तव्यवहारेति । कालादिवारणाय असाधारणेत्यपि देयम् । संयुक्तव्यवहारत्वेऽतिप्रसक्तिवारणाय हेतुरिति । उपदर्शितलक्षणचतुष्टयेऽसाधारणपदं देयम् । क्वचित् पुस्तके परिमाणपृथक्त्वलक्षणे ईश्वरेच्छादिवारणाय असाधारणेति दृश्यते, तत्तु आधुनिकैर्न्यस्तमिति बोध्यम् ।”
}, { “id”: “28”, “category”: “पदार्थः > २. गुणः > ९. विभागः”, “topic”: “विभागः”, “text”: “संयोगनाशको गुणो विभागः । सर्वद्रव्यवृत्तिः ।”, “teeka”: “संयोगेति । संयोगनाशजनक इत्यर्थः । कालेऽतिप्रसक्तिवारणाय गुणपदम् । ईश्वरेच्छादिवारणाय असाधारणेत्यपि बोध्यम् । ननु असाधारणपदोपादाने गुणपदस्य वैयथ्यं स्यादिति चेन्न, क्रियायाम् अतिव्याप्तिवारणाय तस्यापि आवश्यकत्वात् ।”
}, { “id”: “29”, “category”: “पदार्थः २ > गुणः > १०. परत्वम्, ११. अपरत्वम्”, “topic”: “परत्वापरत्वम्”, “text”: “पराऽपरव्यवहारा-साधारणकारणे परत्वाऽपरत्वे । पृथिव्यादिचतुष्टयमनोवृत्तिनी । ते द्विविधे-दिक्कृते कालकृते च । दूरस्थे दिक्कृतं परत्वम् । समीपस्थे दिक्कृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वम् । कनिष्ठे कालकृतमपरत्वम् ।”, “teeka”: “परापरेति । परव्यवहारासाधारणकारणं परत्वत्वम्, अपरव्यवहारासाधारणं कारणमपरत्वमित्यर्थः । दण्डदादिवारणाय परव्यवहारेति कालादिवारणाय असाधारणेति । परव्यवहारत्ववारणाय कारणेति । एवमेव द्वितीयेऽपि बोध्यम् ।”
}, { “id”: “30”, “category”: “पदार्थः > २. गुणः > १२. गुरुत्वम्”, “topic”: “गुरुत्वम्”, “text”: “आद्यपतनाऽसमवायिकारणं गुरुत्वम् । पृथिवीजलवृत्तिः ।”, “teeka”: “आद्यपतनेति । दण्डादिवारणाय असमवायीति । रूपादिवारणाय पतनेति । वेगेऽतिव्याप्तिवारणाय आद्येति ।”
}, { “id”: “31”, “category”: “पदार्थः > २. गुणः > १३. द्रवत्वम्”, “topic”: “द्रवत्वम्”, “text”: “आद्यस्यन्दनासमवायिकारणं द्रवत्वम् । पृथिव्यप्तेजोवृत्ति । तद् द्विविधं सासिद्धिकं नैमित्तिकञ्च । सांसिद्धिकं जले, नैमित्तिकं पृथिवीतेजसोः । पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वं, तेजसि सुवर्णादौ ।”, “teeka”: “आद्यस्यन्देति । दण्डादिवारणाय असमवायीति । रसादिवारणाय स्यन्दनेति ।”
}, { “id”: “32”, “category”: “पदार्थः > २. गुणः > १४. स्नेहः”, “topic”: “स्नेहः”, “text”: “चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः ।”, “teeka”: “चूर्णादीति । चूर्णम् = पिष्टम् तदेव आदि यस्य मृत्तिकादेः स चूर्णादिः तस्य पिण्डीभावः=संयोगविशेषः, तस्य हेतुः =निमित्तकारणं स्नेह इत्यर्थः । कालादौ अतिव्याप्तिवारणाय गुणपदम् । रूपादावतिव्याप्तिवारणाय पिण्डीभावेति । चूर्णपदं स्पष्टार्थम् ।”
}, { “id”: “33”, “category”: “पदार्थः > २. गुणः > १५. शब्दः”, “topic”: “शब्दः”, “text”: “श्रोत्रग्राह्यो गुणः शब्दः । आकाशमात्रवृत्तिः । स द्विविधो-ध्वन्यात्मको वर्णात्मकश्च । तत्र ध्वन्यात्मको भेर्यादौ । वर्णात्मकः संस्कृतभाषादिरूपः ।”, “teeka”: “श्रोत्रेति । शब्दत्वेऽतिव्याप्तिवारणाय गुण इति । रूपादिवारणाय श्रोत्रग्राह्य इति । वस्तुतस्तु श्रोत्रोत्पन्नशब्दस्यैव श्रोत्रग्राह्यत्वेन तद्भिन्नेऽतिव्याप्तिवारणाय श्रोत्रग्राह्यजातिमत्त्वे तात्पर्याद् गुणपदमनुपादेयमेव ।”
}, { “id”: “34”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः”, “topic”: “बुद्धिः”, “text”: “सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् । सा द्विविधा-स्मृतिरनुभवश्च ।”, “teeka”: “सर्वेति । बुद्धिलक्षणमाह सर्वेति । सर्वे ये व्यवहाराः आहारविहारादयः तेषां हेतुर्बुद्धिः इत्यर्थः । दण्डादिवारणाय सर्वव्यवहारेति । कालादिवारणाय असाधारणेति देयम् ।”
}, { “id”: “35”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > १. स्मृतिः”, “topic”: “स्मृतिः”, “text”: “संस्कारमात्रजन्यं ज्ञानं स्मृतिः ।”, “teeka”: “संस्कारमात्रेति । संस्कारध्वंसेऽतिव्याप्तिवारणाय ज्ञानमिति । अनुभवेऽतिव्याप्तिवारणाय संस्कारजन्यमिति । तथापि प्रत्यभिज्ञायामतिव्याप्तिवारणाय संस्कारमात्रजन्यत्वं विवक्षणीयम् । क्वचित्तथैव पाठः । न चैवं सत्यसम्भवः, तस्य संस्कारजन्यत्वे सति इन्द्रियार्थसन्निकर्षा जन्यार्थकत्वात् ।”
}, { “id”: “36”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः”, “topic”: “अनुभवः”, “text”: “तद्भिन्नं ज्ञानमनुभवः । स द्विविधः यथार्थोऽयथार्थश्च ।”, “teeka”: “तदिति । स्मृतित्वावच्छिन्नमित्यर्थः । तेन यत्किञ्चित्स्मृतिभिन्नत्वस्य स्मृतौ सत्त्वेऽपि न क्षतिः । घटादावतिव्याप्तिवारणाय ज्ञानमिति । स्मृतिवारणाय तद्भिन्नमिति ।”
}, { “id”: “37”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः”, “topic”: “यथार्थः (प्रमा)”, “text”: “तद्वति तत्प्रकारकोऽनुभवो यथार्थः । यथा-रजते ‘इदं रजतम्’ इति ज्ञानम् । सैव प्रमेत्युच्यते ।”, “teeka”: “तद्वतीति । तद्वति तत्प्रकारो यस्य स तथेत्यर्थः । तद्वद्विशेष्यकतत्प्रकारक इति यावत् । स्मृतिवारणाय अनुभव इति । अयथार्थानुभववारणाय तद्वतीति । निर्विकल्पकेऽतिव्याप्तिवारणाय तत्प्रकारक इति ।”
}, { “id”: “38”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > २. अयथार्थः”, “topic”: “अयथार्थः (अप्रमा)”, “text”: “तदभाववति तत्प्रकारकोऽनुवभोऽयथार्थः । यथा-शुक्तौ ‘इदं रजतम्’ इति ज्ञानम् । सैवाऽप्रमेत्युच्यते ।”, “teeka”: “तदभावेति । तदभाववद्विशेष्यकतत्प्रकारकः अनुभवः अयथार्थानुभव इत्यर्थः । यथा शुक्तौ ‘इदं रजतम्’ इति ज्ञानम् । स्मृतिवारणाय अनुभव इति । यथार्थानुभवेऽतिव्याप्तिनिरसनाय तदभाववतीति । निर्विकल्पकवारणाय तत्प्रकारक इति ।”
}, { “id”: “39”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः”, “topic”: “चतुर्विधः यथार्थः”, “text”: “यथार्थाऽनुभवश्चतुर्विधः-प्रत्यक्षाऽनुमित्युपमितिशाब्दभेदात् । तत्करणमपि चतुर्विधं प्रत्यक्षाऽनुमानोपमानशाब्दभेदात् ।”, “teeka”: “यथार्थेति । यथार्थानुभवः प्रत्यक्षमेव इति चार्वाकाः । अनुमितिरपि इति काणाद-बौद्धाः । उपमितिरपि इति नैयायिकैकदेशिनः । शब्दोऽपि इति नैयायिकाः । अर्थापत्तिरपि इति प्राभाकराः । अनुपलब्धिकोऽपि इति भाट्टवेदान्तिनौ । साम्भविक-ऐतिह्यकौ अपि इति पाराणिकाः । चेष्टिकोऽपि इति तान्त्रिकाः । एतेषां मतेऽस्वरसं सम्भाव्य तस्य चातुर्विधं दर्शितम् । तदिति । यथार्थानुभवात्मकप्रमायाः करणम् इत्यर्थः ।”
}, { “id”: “40”, “category”: “कारणम् > करणम्”, “topic”: “करणम्”, “text”: “असाधारणं कारणं करणम् ।”, “teeka”: “कालादिवारणाय असाधारणमिति । व्यापारेऽतिव्याप्तिवारणाय व्यापारवदित्यपि देयम् । व्यापारश्च द्रव्यान्यत्वे सति तज्जन्यत्वे सति तज्जन्यजनकः । ईश्वरेच्छादिवारणाय तज्जन्यत्वे सतीति । कुलालजन्यत्वे सति कुलालजन्यघटजनकत्वं कुलालजन्यत्वं कुलालपुत्रस्यापि अस्ति, अतः तत्रातिव्याप्तिवारणाय प्रथमं सत्यन्तम् । दण्डरूपादिवारणाय तज्जन्यजनक इति ।”
}, { “id”: “41”, “category”: “कारणम्”, “topic”: “कारणम्”, “text”: “कार्यनियतपूर्ववृत्तिः कारणम् ।”, “teeka”: “कार्येति । कार्याद् नियता=अवश्यम्भाविनी, पूर्ववृत्तिः=पूर्वक्षणवृत्तिर्यस्य तत् तथेत्यर्थः । अनियतरासभादिवारणाय नियतेति । कार्यवारणाय पूर्वेति । दण्डत्ववारणाय अनन्यथासिद्धत्व-विशेषणस्य आवश्यकत्वेन तत एव रासभादिवारणसम्भवे नियतपदम् अनर्थकमेव । एवं च अनन्यथासिद्धकार्यपूर्ववृत्तिकारणम् इति फलितम् । अनन्यथासिद्धत्वम् अन्यथासिद्धिशून्यत्वम् । अन्यथासिद्धिश्च अवश्यक्लृप्तनियतपूर्ववर्तिभिः दण्डादिभिः एव घटरूपकार्यसम्भवे तत्सहभूतत्वं दण्डत्वादौ, तद् अन्यथासिद्धम् ।”
}, { “id”: “42”, “category”: “पदार्थः > ७. अभावः > १. प्रागभावः X कार्यम्”, “topic”: “कार्यम्”, “text”: “कार्यं प्रागभावप्रतियोगी ।”, “teeka”: “कार्यमिति । कालादिवारणाय प्रागिति । असम्भववारणाय प्रतियोगीति ।”
}, { “id”: “43”, “category”: “कारणम्”, “topic”: “कारणम्”, “text”: “कारणं त्रिविधं-समवाय्यसमवायिनिमित्तभेदात् ।”, “teeka”: ""
}, { “id”: “44”, “category”: “कारणम् > १. समवायिकारणम्”, “topic”: “समवायिकारणम्”, “text”: “यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । यथा तन्तवः पटस्य, पटश्च स्वगतरूपादेः ।”, “teeka”: “यदिति । यस्मिन् समवायसम्बन्धेन वर्तमानं तदित्यर्थः । चक्रादिवारणाय समवेतमिति ।”
}, { “id”: “45”, “category”: “कारणम् > २. समवायिकारणम्”, “topic”: “असमवायिकारणम्”, “text”: “कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत् कारणमसमवायिकारणम् । यथा तन्तुसंयोगः पटस्य, तन्तुरूपं पटरूपस्य ।”, “teeka”: “कार्येति । कार्येण कारणेन वा सह एकस्मिन् अर्थे समवेतत्वे सति आत्मविशेषगुणभिन्नत्वे सति यत् कारणं तद् असमवायिकारणम् । तन्तुसंयोगादावव्याप्तिवारणाय कार्येणेति । तन्तुरूपादावव्याप्तिवारणाय कारणेनेति । आत्मविशेषगुणेऽतिव्याप्तिवारणाय आत्मविशेषगुणभिन्नत्वे सतीति । विशेषवारणाय कारणमिति ।”
}, { “id”: “46”, “category”: “कारणम् > ३. निमित्तकारणम्”, “topic”: “निमित्तकारणम्”, “text”: “तदुभयभिन्नं कारणं निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य ।”, “teeka”: “तदुभयेति । समवाय्यसमवायिकारणवारणाय तदुभयभिन्नमिति । शेषादावतिव्याप्तिवारणाय कारणमिति ।”
}, { “id”: “47”, “category”: “कारणम् > करणम्”, “topic”: “करणम्”, “text”: “तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् ।”, “teeka”: “तदेतदिति । यस्मात् कारणात् करणत्वघटकं कारणमुपदर्शितं तस्माद् एतत् त्रिविधसाधकमध्ये यत्साधकतमं तदेव करणमिति भावः ।”
}, { “id”: “48”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > १. प्रत्यक्षम् ~ करणम् > प्रत्यक्षम्”, “topic”: “प्रत्यक्षम्”, “text”: “तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् । इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । तद् द्विविधं निर्विकल्पकं सविकल्पकञ्चेति ।”, “teeka”: “तत्रेति । प्रमाणचतुष्टयमध्ये । दण्डादिवारणाय ज्ञानेति । अनुमानादिवारणाय प्रत्यक्षेति ।इन्द्रियार्थसन्निकर्षजन्यम् । इन्द्रियम्=चक्षुरादिकम्, अर्थः=घटादिः, तयोः सन्निकर्षः=संयोगादिः, तज्जन्यं ज्ञानं प्रत्यक्षमित्यर्थः । सन्निकर्षध्वंसवारणाय ज्ञानमिति । अनुमित्यादिवारणाय इन्द्रियार्थसन्निकर्षेति । ननु सोपनेत्रचक्षुषा कथं पदार्थग्रहणम् ? चक्षुष उपनेत्रादिरुद्धत्वेन पदार्थेन सह सन्निकर्षाभावात्, कथं वा स्वच्छजाह्नवीसलिलावृतमत्स्यादेश्चक्षुषो ग्रहणम् ? इति चेन्न स्वच्छद्रव्यस्य तेजोनिरोधकत्वाभावेन तदन्तः चक्षुःप्रवेशसम्भवात् । न चेश्वरप्रत्यक्षेऽव्याप्तिरिति वाच्यम्, अत्र जन्यप्रत्यक्षस्यैव लक्षितत्वात् ।”
}, { “id”: “49”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > १. प्रत्यक्षम् ~ करणम् > प्रत्यक्षम् > १. निर्विकल्पम्”, “topic”: “निर्विकल्पम्”, “text”: “तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम् । यथेदं किञ्चित् ।”, “teeka”: “तत्रेति । सविकल्पकेऽतिव्याप्तिवारणाय निष्प्रकारकमिति । प्रकारवारणाय ज्ञानमिति ।”
}, { “id”: “50”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > १. प्रत्यक्षम् ~ करणम् > प्रत्यक्षम् > १. सविकल्पम्”, “topic”: “सविकल्पम्”, “text”: “सप्रकारकं ज्ञानं सविकल्पकम् । यथा डित्थोऽयं ब्राह्मणोऽयं श्यामोऽयं पाचकोऽयमिति ।”, “teeka”: “सप्रकारकमिति । घटादिवारणाय ज्ञानमिति । निर्विकल्पकवारणाय सप्रकारकमिति ।”
}, { “id”: “51”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > १. प्रत्यक्षम् ~ सन्निकर्षः”, “topic”: “षड्विधः सन्निकर्षः”, “text”: “प्रत्यक्षज्ञानहेतुरिन्द्रियाऽर्थसन्निकर्षः षड्विधः । संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति ।”, “teeka”: “प्रत्यक्षेति । तच्च प्रत्यक्षं षड्विधं घ्राणज-रासन-चाक्षुष-श्रौत्र-त्वाच-मानस-भेदात् । ननु प्रत्यक्षकारणीभूतेन्द्रियनिष्ठप्रत्यक्षसामानाधिकरण्यघटकः सन्निकर्षः कः ? इत्यपेक्षायां तं विभज्य दर्शयति प्रत्यक्षेति । लौकिकप्रत्यक्षेत्यर्थः ।”
}, { “id”: “52”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > १. प्रत्यक्षम् ~ सन्निकर्षः > १. संयोगः”, “topic”: “संयोगः”, “text”: “चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः ।”, “teeka”: “संयोगमुदाहरति चक्षुषेति । तथा च द्रव्यचाक्षुषत्वाचमानसेषु संयोग एव सन्निकर्ष इति भावः ।”
}, { “id”: “53”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > १. प्रत्यक्षम् ~ सन्निकर्षः > २. संयुक्तसमवायः”, “topic”: “संयुक्तसमवायः”, “text”: “घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः, चक्षुःसंयुक्ते घटे रूपस्य समवायात् ।”, “teeka”: “घटरूपेति । चक्षुषा इत्यनुषज्यते । तथा च द्रव्यसमवेतचाक्षुष-त्वाच-मानस-रासन-घ्राणजेषु संयुक्तसमवाय एव सन्निकर्ष इति भावः ।”
}, { “id”: “54”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > १. प्रत्यक्षम् ~ सन्निकर्षः > ३. संयुक्तसमवेतसमवायः”, “topic”: “संयुक्तसमवेतसमवायः”, “text”: “रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः । चक्षुः संयुक्ते घटे रूपं समवेतं,तत्र रूपत्वस्य समवायात् ।”, “teeka”: “रूपत्वेति । रूपत्वात्मकं यत् सामान्यं तत्प्रत्यक्ष इत्यर्थः । अत्रापि चक्षुषा इत्यनुषज्यते । तथा च द्रव्यसमवेतचाक्षुष-रासन-घ्राणज-स्पार्शन-मानसेषु संयुक्तसमवेतसमवाय एव सन्निकर्ष इति भावः । अथ द्रव्यतत्समवेतप्रत्यक्षेऽपि संयुक्तसमवेतसमवाय एव सन्निकर्षोऽस्तु चेन्नैतत्, ईश्वरात्मादेरनध्यक्षत्वप्रसंगात् ।”
}, { “id”: “55”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > १. प्रत्यक्षम् ~ सन्निकर्षः > ४. समवायः”, “topic”: “समवायः”, “text”: “श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः । कर्णविवरवर्त्याकाशस्य श्रोत्रत्वात् । शब्दस्याकाशगुणत्वात्, गुणगुणिनोश्च समवायात् ।”, “teeka”: “समवायसन्निकर्षमुदाहरति श्रोत्रेणेति । जननीये इति शेषः । ननु श्रोत्रशब्दयोः कथं समवाय इत्यपेक्षमाणं प्रति तमुपाद्य दर्शयति कर्णेति । अथ समवायस्य शब्दप्रत्यक्षे को व्यापार इति चेत् ? शब्दश्रोत्रमनसंयोगो वेति गृहाण ।”
}, { “id”: “56”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > १. प्रत्यक्षम् ~ सन्निकर्षः > ५. समवेतसमवायः”, “topic”: “समवेतसमवायः”, “text”: “शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः । श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् ।”, “teeka”: “शब्दत्वेति । श्रोत्रेण जननीये इत्यनुकर्षशेषौ ।”
}, { “id”: “57”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > १. प्रत्यक्षम् ~ सन्निकर्षः > ६. विशेषणविशेष्यभावः”, “topic”: “विशेषणविशेष्यभावः”, “text”: “अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः । ‘घटाऽभाववद् भूतलम्’ इत्यत्र चक्षुः संयुक्ते भूतले घटाऽभावस्य विशेषणत्वात् ।”, “teeka”: “अभावेति । विशेषणभावो विशेष्यभावश्चेति बोध्यम् । इन्द्रियसम्बद्धविशेषणत्वाम् इन्द्रियसम्बद्धविशेष्यत्वमिति यावत् । विशेषणभावसन्निकर्षमुपपाद्य दर्शयति घटाभाववदिति । ‘इह भूतले घटो नास्ति’ इत्यादौ विशेष्यतासन्निकर्षोऽवधेयः सप्तम्यन्तस्य विशेषणत्वात् ।”
}, { “id”: “58”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > १. प्रत्यक्षम्”, “topic”: “प्रत्यक्षप्रमाणम्”, “text”: “एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षं, तत्करणमिन्द्रियं तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् ।”, “teeka”: “प्रत्यक्षप्रमाणमुपसंहरति एवमिति । उपदर्शितक्रमेणेत्यर्थः । ननु सिद्धान्ते प्रत्यक्षज्ञानकरणम् इन्द्रियार्थसन्निकर्षः किं स्यादिति चेन्नेत्याह तत्करणमिति । प्रत्यक्षप्रमाणं निगमयति तस्मादिति । प्रत्यक्षप्रमाणकत्वादित्यर्थः । सिद्धमिति न्यायसिद्धान्ते सिद्धमित्यर्थः ।”
}, { “id”: “59”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम्”, “topic”: “अनुमानम्”, “text”: “अनुमितिकरणमनुमानम् । परामर्शजन्यं ज्ञानमनुमितिः । व्याप्तिविशिष्टपक्षधर्मता-ज्ञानं परामर्शः । यथा ‘वह्निव्याप्यधूमवानयं पर्वतः’ इति ज्ञानं परामर्शः । तज्जन्यं पर्वतो वह्निमान्, इति ज्ञानमनुमितिः ।”, “teeka”: “प्रत्यक्षानुमानयोः कार्यकारणभावसङ्गतिमभिप्रेत्य प्रत्यक्षानन्तरम् अनुमानं निरूपयति अनुमितीति । अनुमितेः करणम् अनुमानमित्यर्थः । तच्च लिङ्गपरामर्श एवेति निवेदयिष्यते । कुठारादौ अतिव्याप्तिवारणाय अनुमितीति । प्रत्यक्षादौ अतिव्याप्तिवारणाय अन्विति । ननु अनुमितेरेव दुर्निरूपत्वात् तद्घटितानुमानम् अपि दुर्निरूपम् इत्यत आह परामर्शेति । प्रत्यक्षादौ अतिव्याप्तिवारणाय परामर्शजन्यमिति । परामर्शध्वंसवारणाय ज्ञानमिति । परामर्शप्रत्यक्षवारणाय हेत्वविषयकम् इत्यपि बोध्यम् । व्याप्तिविशिष्टेति । विषयितासम्बन्धेन व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्श इत्यर्थः । घटादिज्ञानवारणाय पक्षधर्मतेति । धूमवान् पर्वत इत्यादिज्ञानवारणाय व्याप्तिविशिष्टेति । तदिति । परामर्शजन्यम् इत्यर्थः ।”
}, { “id”: “60”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ व्याप्तिः”, “topic”: “व्याप्तिः”, “text”: “‘यत्र यत्र धूमस्तत्र तत्र वह्निः’ इति साहचर्यनियमो व्याप्तिः । अनुमानं द्विविधं-स्वार्थं परार्थं च ।”, “teeka”: “यत्र यत्रेति । यत्र यत्र धूमस्तत्र तत्राग्निरिति व्याप्तेरभिनयः साहचर्यनियम इति लक्षणम् । सहचरतीति सहचरस्तस्य भावः साहचर्यम्, सामानाधिकरण्यम् इति यावत्, तस्य निगमः व्याप्तिः इत्यर्थः । स च अव्यभिचरितत्वम्, तच्च व्यभिचाराभावः । व्यभिचारश्च साध्याभाववद्वृत्तित्वम् । तथा च साध्याभाववद्वृत्तित्वं व्याप्तिरिति पर्यवसन्नम् । महानसं वह्निमत् धूमात् इत्यादौ, साध्यो वह्निः तदभाववान् जलह्रदादिः तदवृत्तित्वं नौकादौ, अवृत्तित्वं प्रकृते हेतुभूते धूमे इति कृत्वा लक्षणसमन्वयः । धूमवान् वह्नेरित्यादौ साध्यो धूमः तदभाववत् अयोगोलकः तद्वृत्तित्वमेव वह्न्यादौ इति नातिव्याप्तिः । अथ कथम् अनुमानम् अनुमितिकरणम्, कथं वा तस्माद् अनुमितेर्जनिः ? इति जिज्ञासमानं प्रति लाघवादनुमानविभागमुखेनैव बुबोधयिषुः अनुमानं विभजते अनुमानं द्विविधमिति । तद्द्वैध्यं दर्शयति स्वार्थमिति ।”
}, { “id”: “61”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ पक्षधर्मता”, “topic”: “पक्षधर्मता”, “text”: “व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ।”, “teeka”: “ननु ज्ञातेयं व्याप्तिः पक्षधर्मताज्ञानमित्यत्र का नाम पक्षधर्मता ? इत्यपेक्षमाणं प्रति तत्स्वरूपं निरूपयति व्याप्यस्येति । व्याप्यो नाम व्याप्त्याश्रयः, स च धूमादिरेव, तस्य पर्वतादिवृत्तित्वं पक्षधर्मतेत्यर्थः ।”
}, { “id”: “62”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् > १. स्वार्थः”, “topic”: “स्वार्थः”, “text”: “तत्र स्वार्थ स्वानुमितिहेतुः । तथाहि स्वयमेव भूयोदर्शनेन ‘यत्र यत्र धूमस्तत्र तत्राग्निः’ इति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस्तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति- ‘यत्र यत्र धूमस्तत्र तत्राग्निः’ इति । तदनन्तरं ‘वह्निव्याप्य धूमवानयं पर्वतः’ इति ज्ञानमुत्पद्यते, अयमेव लिङ्गपरामर्श इत्युच्यते । तस्मात्पर्वतो वह्निमान्, इति ज्ञानमनुमितिरुत्पद्यते । तदेतत्स्वार्थानुमानम् ।”, “teeka”: “स्वार्थमिति । स्वस्य अर्थः प्रयोजनं यस्मात् तत् स्वार्थमिति समासः । स्वप्रयोजनं च स्वस्यानुमेयप्रतिपत्तिः । एवं परार्थमित्यस्यापि । अयमिति व्याप्तिबलेन लीनम् अर्थं गमयति लिङ्गम्, तच्च धूमादि । तस्य परामर्शः=ज्ञानविशेषः । तस्मादिति । लिङ्गपरामर्शाद् इत्यर्थः । स्वार्थानुमानम् उपसंहरति तदेतदिति । यस्माद् इदं स्वप्रतिपत्तिहेतुः तस्माद् एतत् स्वार्थानुमानम् ।”
}, { “id”: “63”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् > २. परार्थः”, “topic”: “परार्थः”, “text”: “यत्तु स्वयं धूमादग्निमनुमाय परं प्रति बोधयितुं पञ्चावयववाक्यं प्रयुज्यते, तत्परार्थानुमानम् । यथा-पर्वतो वह्निमान्, धूमवत्वात्, यो यो धूमवान् स स वह्निमान् यथा महानसम्, तथा चायम्, तस्मात्तथा इति । अनेन प्रतिपादिताल्लिङ्गात्परोऽप्यग्निं प्रतिपद्यते ।”, “teeka”: “क्रमप्राप्तं परार्थानुमानमाह यत्तु इति । यत्तु पञ्चावयववाक्यं प्रयुज्यते तत् परार्थानुमानम् इति सम्बन्धः । पञ्चावयवेति । अथावयवत्वं नाम द्रव्यसमवायिकारणत्वम्, प्रतिज्ञादिषु तदसम्भवात् कथमेतेऽवयवाः स्युः, इति चेदनुमानवाक्यैकदेशत्वात्त अवयवा इत्युपचर्यते इति गृहाण । ननु एवमपि पञ्चावयववाक्यस्य अनुमानत्वमेव न विचारसहम्, तस्य लिङ्गपरामर्शत्वाभावाद् इति चेत् ? मैवम्, लिङ्गपरामर्शप्रयोजकलिङ्गप्रतिपादकत्वेन अनुमानम्, इत्युपचारमात्रत्वात् तदुदाहरति यथेति तथा चायमिति । अयं च पर्वतः=वह्निव्याप्यधूमवान् इत्यर्थः ।”
}, { “id”: “64”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ पञ्चावयवाः”, “topic”: “पञ्चावयवाः”, “text”: “प्रतिज्ञा-हेतू-दाहरणो-पनय-निगमनानि पञ्चावयवाः । (१) पर्वतो वह्निमान्, इति प्रतिज्ञा । (२) धूमवत्वादिति हेतुः । (३) यो यो धूमवान् स स वह्निमानित्युदाहरणम् । (४) तथा चायमित्युपनयः । (५) तस्मात्तथेति निगमनम् ।”, “teeka”: “ननु पञ्चावयववाक्यम् इत्यत्र के ते पञ्चावयवाः ? अतः तान् दर्शयति प्रतिज्ञेति । प्रतिज्ञाद्यन्यतमत्वम् अवयवत्वम् । साध्यविशिष्टपक्षबोधकवचनम् प्रतिज्ञा । पञ्चम्यन्तं तृतीयान्तं वा लिङ्गवचनं हेतुः । व्याप्तिप्रतिपादकदृष्टान्तवचनम् उदाहरणम् । उदाहृतव्याप्तिविशिष्टत्वेन हेतोः पक्षधर्मताप्रतिपादकवचनम् उपनयः । पक्षे साध्यस्य अबाधितत्वप्रतिपादकवचनं निगमनम् । इदमेव लक्षणं हृदि निधाय प्रतिज्ञादीन् विशिष्य दर्शयति पर्वतो वह्निमानिति ।”
}, { “id”: “65”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ लिङ्गपरामर्शः”, “topic”: “लिङ्गपरामर्शः”, “text”: “स्वार्थानुमिति-परार्थानुमित्योर्लिङ्गपरामर्श एव करणम् । तस्मात् लिङ्गपरामर्शोऽनुमानम् ।”, “teeka”: “स्वार्थेति । ज्ञायमानं लिङ्गम् अनुमितिकरणम् इति वृद्धोक्तं न युक्तम् इयं यज्ञशाला वह्निमती, अतीतधूमाद् इत्यादौ लिङ्गाभावेऽपि अनुमितिदर्शनाद् इत्यभिप्रायवान् लिङ्गपरामर्श एव करणम् इति व्याचष्टे लिङ्गपरामर्शेति । अनुमानमुपसंहरति तस्मादिति । अनुमितिकरणत्वादित्यर्थः । अयमेव तृतीयज्ञानमित्युच्यते । तथाहि महानसादौ धूमाग्न्योर्व्याप्तौ गृह्यमाणायां यद् धूमज्ञानं तद् आदिमम् । पक्षे यद् धूमज्ञानं तद् द्वितीयम् । अत्रैव वह्निव्याप्यत्वेन यद्धूमज्ञानं तत् तृतीयम् । इदमेव लिङ्गपरामर्श इत्युच्यते । अनुमानमिति । व्यापारवत् कारणं करणमिति मते व्याप्तिज्ञानमेवानुमानम्, लिङ्गपरामर्शो व्यापार इत्यवधेयम् ।”
}, { “id”: “66”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ लिङ्गम्”, “topic”: “लिङ्गम्”, “text”: “लिङ्गं त्रिविधम्-अन्वयवेतिरेकि, केवलान्वयि, केवलव्यतिरेकि चेति ।”, “teeka”: “लिङ्गमिति । लिङ्गभेदमाह-त्रिविधमिति । तत्सत्त्वे तत्सत्ता अन्वयः (हेतुसत्त्वे साध्यसत्ता अन्वयः) हेत्वभावे (तदभावे) साध्याभावः (तदभावः) व्यतिरेकः ।”
}, { “id”: “67”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ लिङ्गम् > १. अन्वयव्यतिरेकि”, “topic”: “अन्वयव्यतिरेकि”, “text”: “अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयवेतिरेकि । यथा-वह्नौ साध्ये धूमवत्वम् । ‘यत्र धूमस्तत्राग्निर्यथा महानसम्’ इत्वन्वयव्याप्तिः । यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा ह्रदः इति व्यतिरेकव्याप्तिः ।”, “teeka”: “अन्वयव्यतिरेकिणो लक्षणमाह अन्वयेति । तृतीयायाः प्रयोज्यत्वमर्थः । साध्यासाधनयोः साहचर्यमन्वयः, तदभावयोः साहचर्यं व्यतिरेकः । तथा चान्वयप्रयोज्यव्याप्तिमद्व्यतिरेकप्रयोज्यव्याप्तिमदन्वयव्यतिरेकीत्यर्थः । केवलव्यतिरेकिण्यतिव्याप्तिवारणाय अन्वयेनेति । केवलान्वयिनि व्यभिचारवारणाय व्यतिरेकणेति । तथा च अन्वयव्याप्तिरूपदर्शितैव । व्यतिरेकव्याप्तिश्च साध्याभाव-व्यापकीभूताभावप्रतियोगित्वम् इत्यर्थः । तदुक्तम् -\nव्याप्यव्यापकभावो हि भावयोर्यादृगिष्यते ।\nतयोरभावयोस्तस्माद् विपरीतः प्रतीयते ।।\nअन्वयः साधनं व्याप्यं साध्यं व्यापकमिष्यते ।\nसाध्याभावोऽन्यथा व्याप्यो व्यापकः साधनात्ययः ।।”
}, { “id”: “68”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ लिङ्गम् > २. केवलान्वयि”, “topic”: “केवलान्वयि”, “text”: “अन्वयमात्रव्याप्तिकं केवलान्वयि । यथा-घटोऽभिधेयः प्रमेयत्वात् पटवत् । अत्र प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्तिर्नास्ति, सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च ।”, “teeka”: “अन्वयेति । अन्वयेनेव व्याप्तिर्यस्मिन् तत् तथा । प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्तिं निराकरोति अत्रेति । अभिधेयत्वसाधकानुमान इत्यर्थः । कुतस्तन्निषेधोऽतस्तत्र हेतुमाह सर्वस्येति । पदार्थमात्रस्येत्यर्थः । तथा च सकलपदाभिधेयत्वस्य ईश्वरप्रमाविषयत्वस्य च अत्यन्ताभावाप्रतियोगिकत्वरूप-केवलान्वयित्वेन तदभावाप्रसिद्ध्या तद्घटितव्यतिरेकव्याप्तिर्न सम्भवत्येवेति भावः ।”
}, { “id”: “69”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ लिङ्गम् > ३. केवलव्यतिरेकि”, “topic”: “केवलव्यतिरेकि”, “text”: “व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि । यथा- ‘पृथिवीतरेभ्यो भिद्यते गन्धवत्वात्, यदितरेभ्यो न भिद्यते न तद् गन्धवत्, यथा जलम् । न चेयं तथा । तस्मान्न तथेति ।’ अत्र यद्गन्धवत् तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति । पृथिवी मात्रस्य पक्षत्वात् ।”, “teeka”: “व्यतिरेकेति । व्यतिरेकेणैव व्याप्तिर्यस्मिँस्तत् तथा । अन्वयव्यतिरेकिणि अतिव्याप्तिवारणाय मात्रेति । न चेयं तथेति । इयम्=पृथिवी, न तथा=न गन्धाभाववती इत्यर्थः । तस्माद् न तथेति । गन्धाभाववत्त्वाभावाद् इतरभेदाभाववती नेत्यर्थः । ननु अत्र किमिति न अन्वयव्याप्तिः इत्याशङ्क्य परिहरति अत्रेति । इतरभेदासाधकानुमान इत्यर्थः इदमुपलक्षणम्-जीवच्छरीरं सात्मकम् प्राणादिमत्त्वाद् यन्नैवं तन्नैवं यथा घटः । प्रत्यक्षादिकं प्रमाणम् इति व्यवहर्त्तव्यम्, प्रमाकरणत्वाद् यत् न एवं तद् न एवम्, यथा प्रत्यक्षाभासः । विवादास्पदम् आकाशम् इति व्यवहर्तव्यम् शब्दवत्त्वाद् इत्यादिकमपि केवलव्यतिरेकीति द्रष्टव्यम् ।”
}, { “id”: “70”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ पक्षः”, “topic”: “पक्षः”, “text”: “सन्दिग्धसाध्यवान् पक्षः । यथा-धूमवत्वे हेतौ पर्वतः ।”, “teeka”: “सन्दिग्धेति । अथ पृथिवी मात्रस्य पक्षत्वाद् इत्यत्र किं नाम पक्षता ? इत्यपेक्षायामाह सन्दिग्धेति । सपक्षवारणाय सन्दिग्धेति ।”
}, { “id”: “71”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ सपक्षः”, “topic”: “सपक्षः”, “text”: “निश्चितसाध्यवान् सपक्षः । यथा-तत्रैव महानसम् ।”, “teeka”: “निश्चितेति । पक्षेऽतिव्याप्तिवारणाय निश्चितेति । तत्रेवेति । धूमवत्त्वे हेतौ एवेत्यर्थः ।”
}, { “id”: “72”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ विपक्षः”, “topic”: “विपक्षः”, “text”: “निश्चितसाध्याभाववान् विपक्षः । यथा- तत्रैव महाह्रदः ।”, “teeka”: “निश्चितसाध्याभावेति । सपक्षेऽतिव्याप्तिवारणाय साध्याभावेति । पक्षेऽतिव्याप्तिवारणाय निश्चितेति । तत्रैव=धूमवत्त्वे एव ।”
}, { “id”: “73”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ हेत्वाभासः”, “topic”: “हेत्वाभासः”, “text”: “सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः ।”, “teeka”: “हेतुं निरूप्य प्रसङ्गाद् हेत्वाभासान् आह सव्यभिचारेति । अत्रेदं बोध्यम्, अन्वयव्यतिरेकि तु पञ्च रूपोपपन्नं स्वसाध्यं साधयितुं क्षमते तानि कानि ? इति चेत् श्रूयताम्-पक्षधर्मत्वम्, सपक्षसत्त्वम्, विपक्षाद् व्यावृत्तिः, अबाधितविषयत्वम्, असत्प्रतिपक्षत्वं चेति । अबाधितः, साध्यरूपो विषयो यस्य तत् तथोक्तं तस्य भावः तत्त्वम् । एवं साध्याभावसाधकं हेत्वन्तरं यस्य स सत्प्रतिपक्ष इत्युच्यते, स नास्ति यस्य सः असत्प्रतिपक्षः तस्य भावः सत्त्वम् । केवलान्वयि तु चतूरूपोपपन्नमेव स्वसाध्यं साधयितुं क्षमते, तस्य विपक्षविपर्य्ययेण तद्व्यावृत्तिविपर्ययात् केवलव्यतिरेक्यापि तथा, तस्य सपक्षविपर्ययेण तत्सत्त्वविपर्ययादिति । उपदर्शितरूपाणां मध्ये कतिपयरूपोपपन्नत्वाद् हेतुवदाभासन्ते इति हेत्वाभासाः । तत्त्वं च अनुमिति-तत्करणान्तरप्रतिबन्धकयथार्थः ज्ञानविषयत्वम् । बाधस्थले वह्निरनुष्ण इति अनुमितिप्रतिबन्धकं यद् ज्ञानम् उष्णत्ववद्वह्नौ अनुष्णत्वसाधकं द्रव्यत्वम् इत्याकारकं तद्विषयत्वस्य विषयतासम्बम्धेन द्रव्यत्वरूपहेत्वाभासे सत्त्वाद् लक्षणसमन्वयः । सद्धेतुवारणाय यथार्थेति । घटादिवारणाय अनुमितितत्करणेति । व्यभिचारिणि अव्याप्तिवारणाय तत्करणान्यतरेति ।”
}, { “id”: “74”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ हेत्वाभासः > १. सव्यभिचारः”, “topic”: “सव्यभिचारः”, “text”: “सव्यभिचारोऽनैकान्तिकः । स त्रिविधः । साधारणासाधारणानुपसंहारिभेदात् ।”, “teeka”: ""
}, { “id”: “75”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ हेत्वाभासः > १. सव्यभिचारः > १. साधारणः”, “topic”: “साधारणः”, “text”: “तत्र साध्याभाववद्वृत्तिः साधारणोऽनैकान्तिकः । यथा- पर्वतो बह्निमान् प्रमेयत्वादिति । अत्र प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात् ।”, “teeka”: “तत्रेति । साधाराणादित्रितयमध्ये इत्यर्थः । अथ विरुद्धेऽतिप्रसक्तिरिति मास्म दृश्यः, सपक्षवृत्तित्वस्यापि निवेशात् । अथैवमपि स्वरूपासिद्धेर्दूषणं जागर्तीति मा वह गर्वम्, पक्षवृत्तित्वस्यापि तथात्वात् ।”
}, { “id”: “76”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ हेत्वाभासः > १. सव्यभिचारः > २. असाधारणः”, “topic”: “असाधारणः”, “text”: “सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारणः । यथा-शब्दो नित्यः शब्दत्वादिति । शब्दत्वं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्तिः ।”, “teeka”: “सर्वपक्षेति । सर्वे ये सपक्षा विपक्षास्तेभ्यो व्यावर्त्तते इति सपक्षविपक्षव्यावृत्तः केवलव्यतिरेकवारणाय तद्भिन्न इत्यपि देयम् ।”
}, { “id”: “77”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ हेत्वाभासः > १. सव्यभिचारः > ३. अनुपसंहारी”, “topic”: “अनुपसंहारी”, “text”: “अन्वयव्यतिरिक्तदष्टान्त-रहितोऽनुपसंहारी । यथा सर्वमनित्यं प्रमेयत्वादिति । अत्र सर्वस्यापि प्रमेयत्वाद् दष्टान्तो नास्ति ।”, “teeka”: “अन्वयेति । केवलान्वयिनि अतिव्याप्तिवारणाय अन्वयेति । केवलव्यतिरेकिणि अतिव्याप्तिवारणाय व्यतिरेकेति । अत्रेति । उपदर्शितानुमान इत्यर्थः ।”
}, { “id”: “78”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ हेत्वाभासः > २. विरुद्धः”, “topic”: “विरुद्धः”, “text”: “साध्याभावव्याप्तो हेतुर्विरुद्धः । यथा-शब्दो नित्यः कृतकत्वादिति । अत्र कृतकत्वं हि नित्यत्वाभावेनाऽनित्यत्वेन व्याप्तम् ।”, “teeka”: “विरुद्धं लक्षयति साध्येति । सद्धेतुवारणाय साध्याभावव्याप्त इति । सत्प्रतिपक्षवारणाय सत्प्रतिपक्षभिन्न इत्यपि बोध्यम् । कृतेति । कार्यत्वादित्यर्थः । व्याप्तमिति यद् यत् कृतकन्तत् तदनित्यम् इति व्याप्तिर्भवत्येव तथेति भावः ।”
}, { “id”: “79”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ हेत्वाभासः > ३. सत्प्रतिपक्षः”, “topic”: “सत्प्रतिपक्षः”, “text”: “यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः । यथा शब्दो नित्यः श्रावणत्वाच्छब्दवत् । शब्दोऽनित्यः कार्यत्वाद् घटवत् ।”, “teeka”: “सत्प्रतिपक्षं लक्षयति । यस्य=हेतोः, साध्याभावसाधकम्=साध्याभावस्यानुमापकम्, हेत्वन्तरम्=प्रतिपक्षो हेतुर्विद्यते स हेतुः सत्प्रतिपक्ष इत्यर्थः । अयमेव प्रकरणसम इत्युच्यते । विरुद्धवारणाय हेत्वन्तरं यस्येति । वह्न्यादिवारणाय साध्याभावेति ।”
}, { “id”: “80”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ हेत्वाभासः > ४. असिद्धः”, “topic”: “असिद्धः”, “text”: “असिद्धस्त्रिविधः । आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति ।”, “teeka”: “असिद्धं विभजते असिद्ध इति । आश्रयासिद्धाद्यन्यतमत्वम् ।”
}, { “id”: “81”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ हेत्वाभासः > ४. असिद्धः > १. आश्रयासिद्धः”, “topic”: “आश्रयासिद्धः”, “text”: “आश्रयासिद्धो यथा-गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत् । अत्र गगनारविन्दमाश्रयः स च नास्त्येव ।”, “teeka”: “आश्रयसिद्ध इति । आश्रयासिद्धत्वं च पक्षतावच्छेदकाभाववत्त्वम् । भवति वहि अरविन्दत्वे गगनीयत्वरूपपक्षतावच्छेदकाभाववत्पक्षकत्वम्, अरविन्दरूपपक्षे गगनीयत्वविरहात् । ननु किम् अरविन्दे गगनीयत्वविरहात् । ननु किम् अरविन्दे गगनीयत्वविरहोऽत आह अत्रेति । उपदर्शितानुमान इत्यर्थः ।”
}, { “id”: “82”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ हेत्वाभासः > ४. असिद्धः > २. स्वरूपासिद्धः”, “topic”: “२. स्वरूपासिद्धः”, “text”: “स्वरूपासिद्धो यथा-शब्दो गुणश्चाक्षुषत्वात् । अत्र चाक्षुषत्वं शब्दे नास्ति, शब्दस्य श्रावणत्वात् ।”, “teeka”: “स्वरूपासिद्ध इति । पक्षे हेत्वभावः स्वरूपासिद्धिः । सद्धेत्वभावेऽतिव्याप्तिवारणाय पक्षे इति । घटाद्यभाववारणाय हेत्विति । सोऽयं स्वरूपासिद्धः शुद्धासिद्ध-भागासिद्ध-विशेषणासिद्ध-विशेष्यासिद्धभेदेन चतुर्विधः । तत्र आद्यस्तु उपदर्शित एव द्वितीयो यथा—उद्भूतरूपादिचतुष्टयं गुणः रूपत्वाद् इत्यत्र रूपत्वहेतोः पक्षैकदेशावृत्तित्वेन तस्य भागे स्वरूपासिद्धत्वम् । तृतीयो यथा—वायुः प्रत्यक्षः रूपवत्त्वाद् इत्यत्र रूपवत्त्वविशेषणस्य वायाववृत्तेः तद्विशिष्टस्पर्शवत्त्वस्यापि तथात्वेन तस्य स्वरूपासिद्धत्वम् । निर्वहति, विशेषणाभावे विशिष्टस्यापि अभावात् । तुरीयो यथा—अत्रैव । विशेषणविशेष्यवैपरीत्येन हेतुः । तस्य स्वरूपासिद्धत्वं तु विशेष्याभावप्रयुक्तविशिष्टाभावादिति बोध्यम् ।”
}, { “id”: “83”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ हेत्वाभासः > ४. असिद्धः > ३. व्यापकत्वासिद्धः”, “topic”: “३. व्यापकत्वासिद्धः”, “text”: “सोपाधिको हेतुर्व्याप्यत्वाऽसिद्धः । साध्यव्यापकत्वे सति साधनाव्याप्यकत्वमुपाधिः । साध्यसमानाधिकरणा-त्यन्ताभावा-प्रतियोगित्वं साध्यव्यापकत्वम् । साधनवन्निष्ठात्यन्ताभाव-प्रतियोगित्वं साधनाव्यापकत्वम् । यथा-पर्वतो धूमवान् वह्निमत्वादित्यत्रा-ऽर्द्रेन्धनसंयोग उपाधिः । तथा-यत्र धूमस्तत्रार्द्रेन्धनसंयोगः इति साध्यव्यापकत्वम् । यत्र वह्निस्तत्रार्द्रेन्धनसंयोगो नास्ति, अयोगोलके आर्द्रेन्धनसंयोगाभावादिति साधनाव्यापकत्वम् । एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वादार्द्रेन्धनसंयोग उपाधिः । सोपाधिकत्वाद्वह्निमत्वं व्याप्यत्वासिद्धम् ।”, “teeka”: “व्याप्यत्वासिद्धं लक्षयति सोपाधिक इति । ननु कोऽयमुपाधिरित्यत आह साध्येति । साधनाव्यापक उपाधिरित्युक्ते शब्दोऽनित्यः कृतकत्वात्, इत्यत्र सामान्यत्वे सति अस्मदादिबाह्येन्द्रियग्रहणार्हत्वम् अपि उपाधिः स्यात् तदर्थं साध्यव्यापकत्वमुक्तम् । तावत्युक्ते सामान्यवत्त्वादिनानित्यत्वसाधने कृतकत्वम् उपाधिः स्यात् तदर्थं साधनाव्यापकत्वम् उक्तम् । उपाधिभेदमादाय असम्भववारणाय व्यापकत्वशरीरेऽपि अत्यन्तपदम् आदेयम् । साधनभेदमादाय साधनस्वोपाधित्ववारणाय अव्यापकशरीरेऽपि अत्यन्तपदम् अवश्यं देयम् । सोऽयमुपाधिः त्रिविधः केवलसाध्यव्यापकः, पक्षधर्मावन्छिन्नसाध्यव्यापकः, साधनावच्छिन्नसाध्यव्यापकश्चेति । तत्र आद्य उपदर्शितः । एवं क्रत्वन्तर्वर्त्तिनी हिंसा अधर्मजनिका हिंसात्वात् क्रतुबाह्यहिंसावदित्यत्र निषिद्धत्वमुपाधिः । तस्य यत्राधर्मजनकत्वं तत्र निषिद्धत्वमिति साध्यव्यापकता । यत्र हिंसात्वं तत्र न निषिद्धत्वम् इति निषिद्धत्वमुपाधिः साधनाव्यापकः, क्रतुहिंसायां निषिद्धत्वाभावात् । ‘मा हिंस्यात् सर्वाणि भूतानि’ इति सामान्यवाक्यतः ‘पशुना यजेत’ इत्यादिविशेषवाक्यस्य बलीयस्त्वात् । अतो हिंसात्वं नाधर्मजनकत्वे प्रयोजकम्, अपितु निषिद्धत्वमेवेत्यादिकमपि द्रष्टव्यम् । द्वितीयो यथा—वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वाद् इत्यत्र उद्भूतरूपवत्त्वम् उपाधिः । तस्य यत्र प्रत्यक्षत्वं तत्र उद्भूतरूपवत्त्वमिति न केवलसाध्यव्यापकत्वं रूपे व्यभिचारात् । किन्तु द्रव्यत्वलक्षणो यः पक्षधर्मः तदवच्छिन्नबहिःप्रत्यक्षत्वं यत्र तत्र उद्भूतरूपवत्त्वमिति पक्षधर्मावच्छिन्नसाध्यव्यापकत्वमेव । आत्मनि व्यभिचारवारणाय बहिःपदम् । यत्र प्रत्यक्षस्पर्शाश्रयत्वं तत्र नोद्भूतरूपवत्त्वमिति साधनाव्यापकत्वं च, वायौ उद्भूतरूपविरहात् । तृतीयो यथा—ध्वंसो विनाशी जन्यत्वाद् इत्यत्र भावत्युपाधिः, तस्य यत्र विनाशित्वं तत्र भावत्वमिति न केवलसाध्यव्यापकत्वम्, प्रागभावे भावत्वविरहात् । एवं स श्यामो मित्रातनयत्वाद् इत्यत्र शाकपाकजन्यत्वम् उपाधिः । श्यामत्वस्य नीलघटेऽपि सत्त्वाद् न केवलसाध्यव्यापकत्वं, किन्तु साधनावच्छिन्नसाध्यव्यापकत्वमेव । अष्टमे पुत्रे शाकपाकजन्यत्वविरहेण साधनाव्यापकत्वं चेत्यादिकमपि द्रष्टव्यम् ।”
}, { “id”: “84”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ हेत्वाभासः > ५. बाधितः”, “topic”: “बाधितः”, “text”: “यस्य साध्याभावः प्रमाणान्तरेण पक्षे निश्चितः, स बाधितः । यथा वह्निरनुष्णो द्रव्यत्वादिति । अत्रानुष्णत्वं साध्यं, तदभाव उष्णत्वं स्पार्शनप्रत्यक्षेण गृह्यते इति बाधितत्वम् ।”, “teeka”: “यस्येति । सद्धेतुवारणाय प्रमाणान्तरेणेति । घटादिवारणाय साध्येति ।”
}, { “id”: “85”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ उपाधिः”, “topic”: “उपाधिः”, “text”: “साध्यव्यापकत्वे सति साधनाव्याप्यकत्वमुपाधिः ।”, “teeka”: ""
}, { “id”: “86”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ साध्यव्यापकत्वम्”, “topic”: “साध्यव्यापकत्वम्”, “text”: “साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम् । यथा- ‘पर्वतो धूमवान् वह्निमत्वाद्’ इत्यत्राऽऽर्द्रेन्धनसंयोग उपाधिः । तथा- यत्र धूमस्तत्रार्द्रेन्धनसंयोगः इति साध्यव्यापकत्वम् ।”, “teeka”: ""
}, { “id”: “87”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > २. अनुमितिः ~ करणम् > अनुमानम् ~ साधनव्यापकत्वम्”, “topic”: “साधनव्यापकत्वम्”, “text”: “साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम् । यथा- यत्र वह्निस्तत्रार्द्रेन्धनसंयोगो नास्ति, अयोगोलके आर्द्रेन्धनसंयोगाभावादिति साधनाव्यापकत्वम् ।”, “teeka”: ""
}, { “id”: “88”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > ३. उपमितिः ~ करणम् > उपमानम्”, “topic”: “उपमानम्”, “text”: “उपमितिकरणमुपमानम् । संज्ञा-संज्ञिसम्बन्धत्वज्ञानम् उपमितिः । तत्करणं सादृश्यज्ञानम् । तथा हि-कश्चिद्गवयपदाऽर्थमजान्कुतश्चिदारण्यकपुरुषात् ‘गोसदृशो गवय’ इति श्रुत्वा वनं गतो ‘गोसदृशो गवय’ इति वाक्यार्थं स्मरन् गोसदृशं पिण्डं पश्यति । तदनन्तरमसौ ‘अयं गवयशब्दपदवाच्य’ इत्युपमितिरुत्पद्यते ।”, “teeka”: “अवसरसङ्गतिमभिप्रेत्य अनुमानानन्तरम् उपमानं निरूपयति उपमितीति । उपमितेः करणम् उपमानमित्यर्थः कुठारादिवारणाय मितीति । प्रत्यक्षादिवारणाय उपेति । संज्ञासंज्ञीति । अनुमित्यादिवारणाय सम्बन्धेति । संयोगादिवारणाय संज्ञासंज्ञीति । वाच्य इति । अभिप्रेतो गवयो गवयपदवाच्य इत्यर्थः । तेन गवयान्तरे शक्तिग्रहाभावप्रसङ्ग इति दूषणमपास्तम् । तथा च गोसादृश्यविशिष्टपिण्डज्ञानं करणम् । अतिदेशवाक्यार्थस्मरणम् अवान्तरव्यापारः । उपमितिफलम् इति सारम् । तच्चोपमानं त्रिविधम् । सादृश्यविशिष्टपिण्डज्ञानम्, असाधारणधर्मविशिष्टपिण्डज्ञानम्, वैधर्म्यविशिष्टपिण्डज्ञानं च । तत्र आद्यम् उक्तमेव द्वितीयं यथा—खड्गमृगः कीदृग् इति पृष्ठे नासिकालसदेकशृङ्गोऽनतिक्रान्तगजाकृतिश्चेति तज्ज्ञातृभ्यः श्रुत्वा कालान्तरे तादृशं पिण्डं पश्यन्नतिदेशवाक्यार्थं स्मरति, तदनन्तरं खड्गमृगपदवाच्य इति उपमितिः उत्पद्यते । अत्र नासिकालसदेकशृङ्ग एवम् असाधारणधर्मः तृतीयं यथा—उष्ट्रः कीदृग् इति पृष्ठे अश्वादिवदसमानपृष्ठो न ह्रस्वग्रीवशरीरश्चेति आप्तोक्ते कालान्तरे तत्पिण्डदर्शनाद् वैधर्म्यविशिष्टपिण्डज्ञानं ततोऽतिदेशवाक्यार्थस्मरणं तत उष्ट्रः उष्ट्रपदवाच्य इत्युमितिरुत्पद्यते ।”
}, { “id”: “89”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > ४. शब्दः”, “topic”: “शब्दः”, “text”: “आप्तवाक्यं शब्दः । आप्तस्तु यथाऽर्थवक्ता । वाक्यं पदसमूहः । यथा-गामानयेति । शक्तं पदम् । अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसंकेतः शक्तिः ।वाक्यं द्विविधं-वैदिकं लौकिकञ्च । वैदिकमीश्वरोक्तत्वात्सर्वमेव प्रमाणम् । लौकिकं त्वाप्तोक्तं प्रमाणम् । अन्यदप्रमाणम् ।वाक्याऽर्थज्ञानं शब्दज्ञानम् । तत्करणं तु शब्दः ।”, “teeka”: “त्यम्-अवसरसंगतिमभिप्रेत्योपमानानन्तरं शब्दं निरूपयति आप्तेति । शब्द इति । शब्दप्रमाणमित्यर्थः । भ्रान्तविप्रलम्भकयोर्वाक्यस्य शब्दप्रमाणत्ववारणाय आप्तेति । ननु कोऽयमाप्त इत्यत आह आप्तस्त्विति । यथार्थवक्ता=यथाभूतबाधितार्थोपदेष्टा । वाक्यं लक्षयति वाक्यमिति । घटादिसमूहवारणाय पदेति । शक्तमिति निरूपकतासम्बन्धेन शक्तिविशिष्टमित्यर्थः । अस्मादिति । ‘घटरूपोऽर्थो बोद्धव्यः’ इतीश्वरेच्छैव शक्तिरित्यर्थः । अर्थस्मृत्यनुकूलपदार्थसम्बन्धत्वं तल्लक्षणम् । शक्तिरिव लक्षणापि पदवृत्तिः । अथ केयं लक्षणा ? शक्यसम्बन्धो लक्षणा । सा च त्रिधा जहत्-अजहत्-जहदजहद्भेदात् । वर्तते च गंगायां घोष इत्यत्र गंगापदशक्यप्रवाहसम्बन्धस्तीरे । लक्षणाबीजं च तात्पर्यानुपपत्तिः । अत एव प्रवाहे घोषतात्पर्यानुपपत्तेस्तीरे लक्षणा सेत्स्यति । ‘छत्रिणो यान्ति’ इत्यादौ द्वितीया । ‘सोऽयमश्व’ इत्यादौ तृतीया ।”
}, { “id”: “90”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > ४. शब्दः ~ वाक्यार्थज्ञानम्”, “topic”: “वाक्यार्थज्ञाने त्रिविधः हेतुः”, “text”: “आकांक्षा योग्यता सन्निधिश्च वाक्याऽर्थज्ञाने हेतुः । पदस्य पदान्तरव्यतिरेकप्रयुक्ताऽन्वयाऽननुभावकत्वमाकांक्षा । अर्थाऽबाधो योग्यता । पदानामविलम्बेनोच्चारण सन्निधिः । तथा चाकांक्षारहितं वाक्यमप्रमाणम् । यथा-गौरश्वः पुरुषो हस्तीति न प्रमाणम् । आकांक्षाविरहात् । वह्निना सिञ्चतीति न प्रमाणं, योग्यताविरहात् । प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं, सान्निध्याऽभावात् ।”, “teeka”: “पदस्येति । असम्भववारणाय पदान्तरव्यतिरेकप्रयुक्त इति । पुनरसम्भववारणाय पदान्तरेति । अर्थेति । आकाङ्क्षावारणाय अर्थेति । पदानामिति । असहोच्चारितेषु अतिव्याप्तिवारणाय अविलम्बेनेति । आकाङ्क्षावारणाय पदानामिति । आकाङ्क्षादिशून्यवाक्यस्यात्र प्रमात्वं निषेधयति तथा चेति । आकाङ्क्षादिकं शाब्दहेतुरित्युक्ते चेत्यर्थः । आकाङ्क्षाद्युदाहरणं दर्शयति अर्थेति । ननु एतावता शाब्दसामग्री प्रपञ्चिता, प्रमाविभाजकवाक्ये शाब्दस्यापि उद्दिष्टत्वेन तत् कुतो न प्रदर्शितम् इत्यत आह वाक्यार्थेति । शाब्दत्वं च शब्दात् प्रत्येमि इत्यनुभवसिद्धा जातिः । शाब्दबोधक्रमो यथा —‘चैत्रो ग्रामं गच्छति’ इत्यत्र ग्रामकर्ममगमनानुकूलवर्तमानकृतिमाँश्चैत्र इति शाब्दबोधः । द्वितीयायाः कर्मत्वम् अर्थः, धातोर्गमनम्, कृतिः तत्सम्बन्धः संसर्गमर्यादया भासते । ‘रथो गच्छति’ इत्यत्र गमनानुकूलव्यापारवान् इति शाब्दबोधः । ‘स्नात्वा गच्छति’ इत्यत्र गमनप्रागभावावच्छिन्नकालीनस्नानकर्ता गमनानुकूल-वर्तमानकृतिमानिति शाब्दबोधः । क्त्वाप्रत्ययस्य कृत्वा, पूर्वकालीनत्वं चार्थः । एवमन्यत्रापि वाक्यार्थो बोध्यः ।”
}, { “id”: “91”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > ४. शब्दः ~ हेतुः > १. आकांक्षा”, “topic”: “आकांक्षा”, “text”: “पदस्य पदान्तरव्यतिरेकप्रयुक्ताऽन्वयाऽननुभावकत्वम् आकाङ्क्षा । यथा- गौरश्वः पुरुषो हस्तीति न प्रमाणम् । आकांक्षाविरहात् ।”, “teeka”: ""
}, { “id”: “92”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > ४. शब्दः ~ हेतुः > २. योग्यता”, “topic”: “योग्यता”, “text”: “अर्थाऽबाधो योग्यता । यथा-वह्निना सिञ्चतीति न प्रमाणं, योग्यताविरहात् ।”, “teeka”: ""
},
{ “id”: “93”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > ४. शब्दः ~ हेतुः > ३. सन्निधिः”, “topic”: “सन्निधिः”, “text”: “पदानामविलम्बेनोच्चारणं सन्निधिः । यथा-प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं, सान्निध्याऽभावात् ।”, “teeka”: ""
},
{ “id”: “94”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > १. यथार्थः > ४. शब्दः ~ वाक्यम्”, “topic”: “वाक्यम्”, “text”: “वाक्यं द्विविधं-वैदिकं लौकिकञ्च । वैदिकमीश्वरोक्तत्वात्सर्वमेव प्रमाणम् । लौकिकं त्वाप्तोक्तं प्रमाणम् । अन्यदप्रमाणम् ।”, “teeka”: ""
},
{ “id”: “95”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > २. अयथार्थः”, “topic”: “अयथार्थानुभवः”, “text”: “अयथाऽर्थानुभवस्त्रिविधः-संशयविपर्ययतर्कभेदात् ।”, “teeka”: ""
},
{ “id”: “96”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > २. अयथार्थः > १. संशयः”, “topic”: “संशयः”, “text”: “एकस्मिन्धर्मिणि विरुद्धनानाधर्मवैशिष्ट्याऽवगाहि ज्ञानं संशयः । यथा-स्थाणुर्वा पुरुषो वेति ।”, “teeka”: “संशयं लक्षयति एकेति । एकस्मिन् धर्मिणि=एकस्मिन्नेव पुरोवर्तिनि पदार्थे, विरुद्धा=व्यधिकरणाः नानाधर्माः स्थाणुत्व-पुरुषत्वादयः तेषां वैशिष्ट्यम्=सम्बन्धः, तदवगादि ज्ञानं संशय इत्यर्थः । घटपटौ इति समूहालम्बनज्ञानस्य घटत्वपटत्वरूपविरुद्धनानाधर्मवैशिष्ट्यावगाहित्वादतिप्रसक्तिवारणाय एकस्मिन्निति । घटः पृथिवी इति ज्ञानस्य एकस्मिन् धर्मिणि घटे घटत्वपृथिवीत्वरूपनानाधर्म-वैशिष्ट्यावगाहित्वाद् अतिप्रसक्तिवारणाय विरुद्धेति । पटत्वविरुद्धघटत्ववान् घट इति ज्ञानेऽतिप्रसक्तिवारणाय नानेति ।”
},
{ “id”: “97”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > २. अयथार्थः > २. विपर्ययः”, “topic”: “विपर्ययः”, “text”: “मिथ्याज्ञानं विपर्ययः । यथ-शुक्तौ ‘रजतम्’ इति ।”, “teeka”: “यथार्थज्ञानवारणाय मिथ्येति । अयथार्थवारणाय ज्ञानेति ।”
},
{ “id”: “98”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > २. अनुभवः > २. अयथार्थः > ३. तर्कः”, “topic”: “तर्कः”, “text”: “व्याप्यारोपेण व्याप्यारोपकस्तर्कः । यथा- ‘यदि वह्निर्न स्यात्तर्हि धूमोऽपि न स्यात्’ इति ।”, “teeka”: “व्याप्येति । असम्भववारणाय व्याप्यारोपेणेति । पुनरसम्भववारणाय व्यापकारोप इति । अत्र वह्न्यभावो व्याप्यः, धूमाभावो व्यापकः । यद्यपि तर्कस्य विपर्ययात्मकत्वे पृथग् विभागोऽनुचितः, तथापि प्रमाणानुग्राहकत्वात् स उदित इति बोध्यम् । स्वप्नस्तु पुरीततबहिर्देशान्तर्देशयोः सन्धौ इडानाड्यां वा मनसि स्थितेऽदृष्टविशेषेण धातुदोषेण वा जन्यते स च मानसविपर्य्ययान्तर्भूतः ।”
},
{ “id”: “99”, “category”: “पदार्थः > २. गुणः > १६. बुद्धिः > १. स्मृतिः > १. यथार्था, २. अयथार्था”, “topic”: “द्विविधा स्मृतिः”, “text”: “स्मृतिरपि द्विविधा-यथार्था अयथार्था चेति । प्रमाजन्या यथार्था, अप्रमाजन्या अयथार्था ।”, “teeka”: ""
},
{ “id”: “100”, “category”: “पदार्थः > २. गुणः > १७. सुखम्”, “topic”: “सुखम्”, “text”: “सर्वेषामनुकूलवेदनीयं सुखम् ।”, “teeka”: “सुखं निरूपयति सर्वेषामिति । सर्वात्मनामनुकूलमिति वेद्यं यत् तत्सुखमित्यर्थः ‘अहं सुखी’ इत्यनुभवसिद्धसुखत्वजातिमत्, धर्ममात्रासाधारणकारणो गुणो वा सुखम् । शत्रुदुःखवारणाय सर्वेषामिति ।”
},
{ “id”: “101”, “category”: “पदार्थः > २. गुणः > १८. दुखम्”, “topic”: “दुःखम्”, “text”: “प्रतिकूलवेदनीयं दुःखम् ।”, “teeka”: “दुःखं निरूपयति । दुःखत्वजातिमत्, अधर्ममात्रासाधारणो गुणो वा दुःखम् । शेषं पूर्ववत् ।”
},
{ “id”: “102”, “category”: “पदार्थः > २. गुणः > १९. इच्छा”, “topic”: “इच्छा”, “text”: “इच्छा कामः । क्रोधो द्वेषः । कृतिः प्रयत्नः ।”, “teeka”: “इच्छां निरूपयति । काम इति पर्यायः । इच्छात्वजातिमती इच्छा । सा द्विधा फलेच्छा उपायेच्छा च । फलं सुखादिकम्, उपायो योगादिः, क्रोध इति द्वेष इत्यनुभवसिद्धद्वेषत्वजातिमान् द्विष्टसाधनताज्ञानजन्यगुणो वा द्वेषः । प्रयत्नं निरूपयति कृतिरिति । प्रयत्नत्वजातिमान् प्रयत्नः । स त्रिविधः प्रवृत्ति-निवृत्ति-जीवनयोनिभेदात् । इच्छाजन्यो गुणः प्रकृतिः द्वेषजन्यो गुणः निवृत्तिः । जीवनादृष्टजन्यो गुणो जीवनयोनिः । स च प्राणसञ्चारकारणम् ।”
},
{ “id”: “103”, “category”: “पदार्थः > २. गुणः > २०. द्वेषः”, “topic”: “द्वेषः”, “text”: “क्रोधो द्वेषः ।”, “teeka”: “इच्छां निरूपयति । काम इति पर्यायः । इच्छात्वजातिमती इच्छा । सा द्विधा फलेच्छा उपायेच्छा च । फलं सुखादिकम्, उपायो योगादिः, क्रोध इति द्वेष इत्यनुभवसिद्धद्वेषत्वजातिमान् द्विष्टसाधनताज्ञानजन्यगुणो वा द्वेषः । प्रयत्नं निरूपयति कृतिरिति । प्रयत्नत्वजातिमान् प्रयत्नः । स त्रिविधः प्रवृत्ति-निवृत्ति-जीवनयोनिभेदात् । इच्छाजन्यो गुणः प्रकृतिः द्वेषजन्यो गुणः निवृत्तिः । जीवनादृष्टजन्यो गुणो जीवनयोनिः । स च प्राणसञ्चारकारणम् ।”
},
{ “id”: “104”, “category”: “पदार्थः > २. गुणः > २१. प्रयत्नः”, “topic”: “प्रयत्नः”, “text”: " कृतिः प्रयत्नः ।", “teeka”: “इच्छां निरूपयति । काम इति पर्यायः । इच्छात्वजातिमती इच्छा । सा द्विधा फलेच्छा उपायेच्छा च । फलं सुखादिकम्, उपायो योगादिः, क्रोध इति द्वेष इत्यनुभवसिद्धद्वेषत्वजातिमान् द्विष्टसाधनताज्ञानजन्यगुणो वा द्वेषः । प्रयत्नं निरूपयति कृतिरिति । प्रयत्नत्वजातिमान् प्रयत्नः । स त्रिविधः प्रवृत्ति-निवृत्ति-जीवनयोनिभेदात् । इच्छाजन्यो गुणः प्रकृतिः द्वेषजन्यो गुणः निवृत्तिः । जीवनादृष्टजन्यो गुणो जीवनयोनिः । स च प्राणसञ्चारकारणम् ।”
},
{ “id”: “105”, “category”: “पदार्थः > २. गुणः > २२. धर्मः”, “topic”: “धर्मः”, “text”: “विहितकर्मजन्यो धर्मः ।”, “teeka”: “धर्ममाह विहितेति । वेदविहितेत्यर्थः । अधर्मवारणाय वेदविहितेति । योगादिक्रियावारणाय कर्मजन्य इति । स च कर्मनाशाजलस्पर्शकर्त्तनभोगतत्त्वज्ञानादिना नश्यति । अधर्मलक्षणमाह निषिद्धेति । वेदेनेत्यर्थः । धर्मवारणाय वेदनिषिद्धेति । वेदनिषिद्धक्रियावारणाय धर्मजन्य इति । स च भोगप्रायश्चित्तादिना नश्यति । एतावेव अदृष्टमिति कथ्येते, वासनाजन्यौ च । वासना च विलक्षणसंस्कारः ।”
},
{ “id”: “106”, “category”: “पदार्थः > २. गुणः > २३. अधर्मः”, “topic”: “अधर्मः”, “text”: “निषिद्धकर्मजन्यस्त्वधर्मः ।”, “teeka”: “धर्ममाह विहितेति । वेदविहितेत्यर्थः । अधर्मवारणाय वेदविहितेति । योगादिक्रियावारणाय कर्मजन्य इति । स च कर्मनाशाजलस्पर्शकर्त्तनभोगतत्त्वज्ञानादिना नश्यति । अधर्मलक्षणमाह निषिद्धेति । वेदेनेत्यर्थः । धर्मवारणाय वेदनिषिद्धेति । वेदनिषिद्धक्रियावारणाय धर्मजन्य इति । स च भोगप्रायश्चित्तादिना नश्यति । एतावेव अदृष्टमिति कथ्येते, वासनाजन्यौ च । वासना च विलक्षणसंस्कारः ।”
},
{ “id”: “107”, “category”: “पदार्थः २ > गुणाः १७ तः २३”, “topic”: “अष्टौ आत्ममात्रविशेषगुणाः”, “text”: “बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः । बुद्धीच्छाप्रयत्ना नित्या अनित्याश्च । नित्या ईश्वरस्य,अनित्या जीवस्य ।”, “teeka”: ""
},
{ “id”: “108”, “category”: “पदार्थः > २. गुणः > २४. संस्कारः”, “topic”: “गुणः २४. संस्कारः”, “text”: “संस्कारस्त्रिविधो-वेगो, भावना स्थितिस्थापकश्चेति । वेगः पृथिव्यादि चतुष्टयमनोवृत्तिः । अनुभवजन्या स्मृतिहेतुर्भावना । आत्ममात्रवृत्तिः । अन्यथाकृतस्य पुनस्तदवस्थाऽऽपादकः । कटादिपृथिवीवृत्तिः ।”, “teeka”: “संस्कारं विभजते संस्कारेति । सामान्यगुणात्मविशेषगुणोभयवृत्तिगुणत्वव्याप्यजातिमान् संस्कारः । घटादिवारणाय गुणत्वव्याप्येति । संयोगादिवारणाय आत्मविशेषगुणोभयवृत्तीति । ज्ञानादिवारणाय सामान्येति । द्वितीयादिपतनासमवायिकारणं वेगः । रूपादिवारणाय द्वितीयादिपतनेति । कालादिवारणाय असमवायीति । भावनां लक्षयति अनुभवेति । आत्मादिवारणाय प्रथमदलम् । अनुभवध्वंसवारणाय द्वितीयदलम् । स्थितिस्थापकमाह अन्यथेति । पृथिवीमात्रसमवेतसंस्कारत्वव्याप्यजातिमत्त्वं स्थितिस्थापकत्वम् । गन्धवत्त्वमादाय गन्धेऽतिव्याप्तिवारणाय संस्कारत्वव्याप्येति । भावनात्वमादाय भावनावारणाय पृथिवीसमवेतेति । स्थितिस्थापकरूपान्यतरत्वमादाय रूपवारणाय जातीति । गुणा इति । द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः । द्रव्यकर्मणोरतिव्याप्तिवारणाय विशेषणदलम् । सामान्यादावतिव्याप्तिवारणाय विशेष्यदलम् ।”
},
{ “id”: “109”, “category”: “पदार्थः > २. गुणः > २४. संस्कारः > १. वेगः”, “topic”: “वेगः”, “text”: “वेगः पृथिव्यादि चतुष्टयमनोवृत्तिः ।”, “teeka”: ""
},
{ “id”: “110”, “category”: “पदार्थः > २. गुणः > २४. संस्कारः > २. भावना”, “topic”: “भावना”, “text”: “अनुभवजन्या स्मृतिहेतुर्भावना । आत्ममात्रवृत्तिः ।”, “teeka”: ""
},
{ “id”: “111”, “category”: “पदार्थः > २. गुणः > २४. संस्कारः > ३. स्थितिस्थापकः”, “topic”: “स्थितिस्थापकः”, “text”: “अन्यथाकृतस्य पुनस्तदवस्थापकः स्थितिस्थापकः । कटादिपृथिवीवृत्तिः ।”, “teeka”: ""
},
{ “id”: “112”, “category”: “पदार्थः > ३. कर्म”, “topic”: “पञ्चविधं कर्म”, “text”: “चलनात्मकं कर्म । ऊद्ध्र्वदेशसंयोगहेतुरुत्क्षेपणम् । अधोदेशसंयोगहेतुरपक्षेपणम् । शरीरस्य सन्निकृष्टसंयोगहेतुराकुञ्चनम् । विप्रकृष्टसंयोगहेतुः प्रसारणम् । अन्यत्सर्वं गमनम् ।”, “teeka”: “चलनेति । संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म । हस्तपुस्तकवारणाय सत्यन्तम् । घटादिवारणाय विशेष्यदलम् । ऊर्ध्वेति अपक्षेपणवारणाय । कालादिवारणाय असाधारणेत्यपि बोध्यम् । अधोदेशेति उत्क्षेपणवारणाय । कालादिवारणाय असाधारणेत्यपि देयम् । प्रसारणादिवारणाय शरीरसन्निकृष्टेति । कालादिवारणाय असाधारणेत्यपि । उत्क्षेपणादिवारणाय विप्रकृष्टेति । कालादिवारणाय असाधारणमित्यपि आवश्यकम् ।”
},
{ “id”: “113”, “category”: “पदार्थः > ३. कर्म > १. उत्क्षेपणम्”, “topic”: “उत्क्षेपणम्”, “text”: “ऊर्द्ध्वदेशसंयोगहेतुरुत्क्षेपणम् ।”, “teeka”: ""
},
{ “id”: “114”, “category”: “पदार्थः > ३. कर्म > २. अवक्षेपणम्”, “topic”: “अवक्षेपणम्”, “text”: “अधोदेशसंयोगहेतुरपक्षेपणम् ।”, “teeka”: ""
},
{ “id”: “115”, “category”: “पदार्थः > ३. कर्म > ३. आकुञ्चनम्”, “topic”: “आकुञ्चनम्”, “text”: “शरीरस्य सन्निकृष्टसंयोगहेतुराकुञ्चनम् ।”, “teeka”: ""
},
{ “id”: “116”, “category”: “पदार्थः > ३. कर्म > ४. प्रसारणम्”, “topic”: “प्रसारणम्”, “text”: “विप्रकृष्टसंयोगहेतुः प्रसारणम् ।”, “teeka”: ""
},
{ “id”: “117”, “category”: “पदार्थः > ३. कर्म > ५. गमनम्”, “topic”: “गमनम्”, “text”: “अन्यत्सर्वं गमनम् ।”, “teeka”: ""
},
{ “id”: “118”, “category”: “पदार्थः > ४. सामान्यम्”, “topic”: “सामान्यम्”, “text”: “नित्यमेकमनेकानुगतं सामान्यम् । द्रव्यगुणकर्मवृत्ति । तद् द्विविधं-परापरभेदात् । परं सत्ता, अपरं द्रव्यत्वादि ।”, “teeka”: “नित्यमिति । संयोगादिवारणाय नित्यमिति । कालादिपरिमाणवारणाय अनेकेति । अनेकानुगतत्वं च समवायेन बोध्यम् । तेन नात्यन्ताभावेऽतिव्याप्तिः ।”
},
{ “id”: “119”, “category”: “पदार्थः > ४. सामान्यम् > १. परम्”, “topic”: “परम्”, “text”: “परं सत्ता ।”, “teeka”: “अपरं द्रव्यत्वादि ।”
},
{ “id”: “120”, “category”: “पदार्थः > ४. सामान्यम् > २. अपरम्”, “topic”: “अपरम्”, “text”: “अपरं द्रव्यत्वादि ।”, “teeka”: ""
},
{ “id”: “121”, “category”: “पदार्थः > ५. विशेषः”, “topic”: “विशेषः”, “text”: “नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः ।”, “teeka”: “नित्येति । घटत्वादिवारणाय नित्यद्रव्यवृत्तय इति । आत्मत्वमनस्त्ववारणाय आत्मत्वमनस्त्वभिन्ना इत्यपि बोध्यम् ।”
},
{ “id”: “122”, “category”: “पदार्थः > ६. समवायः”, “topic”: “समवायः”, “text”: “नित्यसंबन्धः समवायः । अयुतसिद्धवृत्तिः । ययोर्द्वयोर्मध्ये एकमविनश्यदपराश्रितमेवावतिष्ठते । तावयुतसिद्धौ यथा अवयवावयविनौ गुणगुणिनौ, क्रिया-क्रियावन्तौ, जातिव्यक्ती, विशेषनित्यद्रव्ये चेति ।”, “teeka”: “नित्येति । आकाशादिवारणाय सम्बन्ध इति । संयोगवारणाय नित्येति । स्वरूपसम्बन्धवारणाय तद्भिन्न इत्यपि बोध्यम् ।”
},
{ “id”: “123”, “category”: “पदार्थः > ७. अभावः > १. प्रागभावः”, “topic”: “प्रागभावः”, “text”: “अनादिः सान्तः प्रागभावः । उत्पत्तेः पूर्व कार्यस्य ।”, “teeka”: “प्रागभावं लक्षयति । घटादिवारणाय प्रथमदलम् । परमाणुवारणाय द्वितीयदलम् । पुनः प्रागभावः कस्मिन् कालेऽस्ति इत्यत आह उत्पत्तेरिति । कार्यस्योत्पत्तेः प्राक् स्वप्रतियोगिसमवायिकारणे वर्तत इत्यर्थः ।”
},
{ “id”: “124”, “category”: “पदार्थः > ७. अभावः > २. प्रध्वंसाभावः”, “topic”: “प्रध्वंसाभावः”, “text”: “सादिरनन्तः प्रध्वंशः । उत्पत्त्यनन्तरं कार्यस्य ।”, “teeka”: “ध्वंसं लक्षयति सादिरिति । घटादिवारणाय अनन्त इति । आत्मादिवारणाय सादिरिति । उत्पत्तीति । कार्यस्य उत्पत्त्यनन्तरं स्वप्रतियोगिसमवायिकारणवृत्तिः इत्यर्थः । स च ध्वस्तः इति प्रत्ययविषयः ।”
},
{ “id”: “125”, “category”: “पदार्थः > ७. अभावः > ३. अत्यन्ताभावः”, “topic”: “अत्यन्ताभावः”, “text”: “त्रैकालिकसंसार्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः । यथा-भूतले घटो नास्ति ।”, “teeka”: “अत्यन्ताभावं लक्षयति । त्रैकालिकत्वे सति संसर्गावच्छिन्नप्रतियोगिताकोऽभावः ध्वंसप्रागभाववारणाय त्रैकालिकेति । भेदवारणाय संसर्गेत्यादि ।”
},
{ “id”: “126”, “category”: “पदार्थः > ७. अभावः > ४. अन्योन्याभावः”, “topic”: “अन्योन्याभावः”, “text”: “तादात्म्यसंबन्धावच्छिन्न-प्रतियोगिताकोऽन्योन्याभावः । यथा-घटः पटो नेति ।”, “teeka”: “अन्योन्याभावं लक्षयति । प्रागभावप्रध्वंसभाववारणाय तादात्म्येति । अत्यन्ताभाववारणाय तादात्म्यत्वेन सम्बन्धो विशेषणीयः ।”
},
{ “id”: “127”, “category”: “”, “topic”: “उपसंहारः”, “text”: “सर्वेषां पदार्थानां यथायथमुक्तेष्वन्तर्भावात्सप्तैव पदार्था इति सिद्धम् ।”, “teeka”: “पदार्थज्ञानस्य परमं प्रयोजनं मोक्ष इत्यामनन्ति । स च आत्यन्तिकैकविंशतिदुःखध्वंसः । आत्यन्तिकत्वं च स्वसमानाधिकरणदुःखप्रागभावासमानकालीनत्वम् । दुःखध्वंसस्य इदानीमपि सत्त्वेन अस्मदादीनामपि मुक्तत्वापत्तिवारणाय कालीनान्तम् । मुक्त्यात्मकदुःखध्वंसस्य अन्यदीयदुःखप्रागभावसमानकालीनत्वाद् वामदेवादीनां मुक्तात्मनामपि अमुक्तत्वप्रसङ्गात् स्वसमानाधिकरणेति । प्रागभावविशेषणम् । दुःखानि चैकविंशतिः— शरीरम्, षड् इन्द्रियाणि, षड् विषयाः, षड् बुद्धयः, सुखम्, दुःखं च । दुःखानुषङ्गित्वात् शरीरादौ गौणदुःखत्वम् । तथा च ‘आत्मा वाऽरे द्रष्टव्यः’ इति श्रुतेः आत्मज्ञानसाधन-निदिध्यासनमननसाधनत्वं पदार्थज्ञाने संजाघटीति । एवं च तत्त्वज्ञाने सति शरीरपुत्रादौ आत्मत्वस्वीयत्वाभिमानरूपमिथ्या-ज्ञानस्य नाशः, तेन दोषाभावः, तेन प्रवृत्त्यनुत्पत्तिः ततः तत्कालीनशरीरेण कायव्यूहेन वा भोगतत्त्वज्ञानाभ्यां प्रारब्धकर्मणां नाशः ततो जन्माभावः । नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् । ज्ञानं च विमलीकुर्वन्नभ्यासेन च पाचयेत् ।। अभ्यासात् पक्वविज्ञानः कैवल्यं लभते नरः । इत्यादिवचनात् ‘तमेव विदित्वाऽति मृत्युमेति’ इति श्रुतेश्च सगुणोपासनकाशीमरणादेरपि तत्त्वज्ञानद्वारा मुक्तिहेतुत्वम् । अत एव परमेश्वरः काश्यां तारकमुपदिशतीति सारम् । चक्रे चन्द्रजसिंहो हि पदकृत्यमिदं शुभम् । परोपकारकरणान्माधवो वीक्षतामिदम् ।। इति चन्द्रजसिंहकृतं पदकृत्यं परिसमात्तम् ।।”
},
{ “id”: “128”, “category”: “”, “topic”: “मङ्गलाचरणम्”, “text”: “कणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये । अन्नम्भट्टेन विदुषा रचितस्तर्कसंग्रहः ।।\n॥ इति श्रीमहामहोपाध्यायान्नंभट्टविरचितस्तर्कसंग्रहः समाप्तः ।।”, “teeka”: ""
}
]

}