०९ अवशिष्टखण्डः

[[३३०]]

  • अवशिष्टखण्डः

अयथार्थानुभवस्त्रिविधः । संशयविपर्ययतर्कभेदात् । एकस्मिन्धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहिज्ञानं संशयः । यथा स्थाणुर्वा पुरुषो वेति । मिथ्याज्ञानं विपर्ययः । यथा शुक्ताविदं रजतमिति । व्याप्यारोपेण व्यापकारोपस्तर्कः। यथा यदि वह्निर्न स्यात्तर्हि धूमोऽपि न स्यादिति ।

प्रत्यक्षखण्डादिविभागाः प्रयोजनानुरोधेन यद्यपि ग्रन्थे सम्प्रदाये वा सन्ति तथापि अन्ततः अयं सर्वोऽपि आत्मगुणस्य यथार्थानुभवस्यैव विस्तरः । तं च यथार्थानुभवं प्रत्यक्षानुमिति-उपमितिशाब्दभेदेन विभक्तं सकरणं निरूप्य सम्प्रति द्वितीयमनुभवं विभजते अयथार्थानुभवस्त्रिविध इति । तेषु आदिमं संशयं लक्षयति एकस्मिन् इति ।

संशयलक्षणे दलसार्थक्यम्

यद्यपि प्रत्यक्षखण्डान्ते ज्ञानभेदप्रस्तावे अस्माभिः निरूपित एवायं (पृ.१६९) तथापि ग्रन्थोक्तलक्षणानुसारेण सम्प्रति उच्यते । एकस्मिन् धर्मिणि इति विशेष्यतैक्यपरम् । तादृशं हि अत्र ज्ञानं स्वीकार्यं यत्र विशेष्यता एकैव भवेत् प्रकारौ च भावाभावौ भवेताम्। तयोश्च विरोधोऽपि भासेत । भवति च पर्वतो वह्निमान् न वा इति ज्ञानं तथाविधम् । अत्र हि विशेष्यता एका पर्वतनिष्ठा, वह्निरूपः भावः तदभावश्च विरुद्धौ प्रकारौ इति समन्वयः ।

अत्र च एकविशेष्यतापरे एकस्मिन् धर्मिणि इति दलानुपादाने घटपटौ इति समूहालम्बने अतिव्याप्तिः । इह ज्ञाने घटांशे घटत्वं पटत्वं च पटांशे प्रकारौ । तौ च घटत्वपटत्वरूपधर्मौ विरुद्धौ । विरोधश्च सहानवस्थानरूपः अनयोः प्रसिद्धः । घटत्वाधिकरणे न पटत्वम् । नापि पटत्वाधिकरणे पटे घटत्वम् । अतः तयोः विरुद्धता स्पष्टैव । विशेष्यतैक्यपरदलनिवेशे तु नात्रातिव्याप्तिः । समूहालम्बनं खलु इदं ज्ञानम् । तत्र द्वे विशेष्यते स्तः । घटनिष्ठा आद्या, द्वितीया पटनिष्ठा । अतः एकविशेष्यता- निरूपकत्वाभावात् नातिव्याप्तिः ।

RECESSE

संशयलक्षणे दलसार्थक्यम

धर्मविशेषणं विरुद्धेति । नाना विरुद्धौ धर्मौ इति आहत्य फलति । तत्र धर्मयोः विरोधानुपादाने अयं घटो द्रव्यमिति निश्चये अतिव्याप्तिः । अत्र हि घटत्वं द्रव्यत्वं च प्रकारविधया भासते । तत्र च विशेष्यता इदम्पदार्थे एकैव । तन्निरूपितप्रकारताद्वयम् । एका घटत्वे अपरा द्रव्यत्वे । अतः एकविशेष्यतानिरूपितनानाधर्मनिष्ठप्रकारता- निरूपकत्वस्य उक्तज्ञाने सत्वात् अतिव्याप्तिः । अतः धर्मयोः विशेषणं विरुद्धेति । न हि घटत्वद्रव्यत्वे विरुद्धे अतः नातिव्याप्तिः ।

धर्मस्य नानात्वमपि विवक्षणीयम्। तदर्थस्तु धर्मनिष्ठविरोधः येन निरूपितः तादृशधर्मान्तरेऽपि विशेष्यतानिरूपितप्रकारता आवश्यका । अन्यथा घटः पटत्व- विरुद्धघटत्ववान् इति ज्ञाने अतिव्याप्तिः। अत्र हि घटे एका एव विशेष्यता। पटत्वघटत्वे च परस्परं विरुद्धौ धर्मौ । अतः एकविशेष्यतानिरूपितघटत्वपटत्वरूपविरुद्धधर्मनिष्ठ- प्रकारतानिरूपकत्त्वात् भवति अस्मिन् निश्चये अतिव्याप्तिः। विरुद्धधर्मनिष्ठप्रकारतयोः धर्मिनिष्ठविशेष्यतानिरूपितत्वोपादाने तु नातिव्याप्तिः । न हि तत्र पटत्वनिष्ठप्रकारता घटनिष्ठविशेष्यतानिरूपिता । किन्तु पटत्वविरुद्धघटत्ववान् इति ज्ञानाकारात् विरोधनिरूपिता इति न पूर्वोक्तज्ञाने अतिव्याप्तिः।

अत्र च घटपटौ इति समूहालम्बने अतिव्याप्तिः विशेष्यतायाम् एकत्वमनुक्त्वा धर्मिणि ऐक्यविवक्षयापि वार्यते । तत्र च द्वौ धर्मिणौ, घटः पटश्च । अतः एकधर्मिनिष्ठ- विशेष्यतायाः असत्वात् नातिव्याप्तिः । कुतस्तर्हि एकविशेष्यतापरता एकस्मिन् धर्मिणि इत्यस्य?

उच्यते। एकमेव पर्वतं पर्वतत्वेन द्रव्यत्वेन च अवगाहमानं पर्वतः वह्निमान् द्रव्यं वह्न्यभाववत् इति समूहालम्बनात्मकं ज्ञानं स्वीकरोतु भवान् । इह हि पर्वतत्वेन द्रव्यत्वेन च पर्वत एव एकः धर्मी ज्ञाने विशेष्यः । तन्निष्ठविशेष्यतानिरूपितविरुद्धनानाधर्म- प्रकारताकत्वमुक्तनिश्चयस्य अव्याहतमिति भवति अत्र अतिव्याप्तिः। विशेष्यतैक्यो- पादाने तु नातिव्याप्तिः । न हि अत्र एका विशेष्यता । पर्वतत्वद्रव्यत्वरूपावच्छेदकभेदात् विशेष्यताभेदः आवश्यकः । इदं खलु नानाविशेष्यतानिरूपकं समूहालम्बनं भवति ।

[[३३१]]

[[३३२]]

तर्कनिरूपणम

अतः धर्मिणः अभेदेऽपि विशेष्यतयोः अवच्छेदकभेदात् भिन्नयोः इह ज्ञाने सत्वात् एकविशेष्यतानिरूपितप्रकारताकत्वाभावात् नातिव्याप्तिः ।

लक्षितसंशयस्योदाहरणमाह यथेति। स्थाणुर्वा पुरुषो वा इति । स्थाणुः पत्रादि- रहितः शुष्कवृक्षशेषः । पुरुषः प्रसिद्धः । पूर्वोक्तोदाहरणेषु हि वह्निः वह्न्यभावश्च भावाभावौ प्रकारौ दर्शितौ । इह तु स्थाणुः इति एकः भावः, पुरुष इति अपरः । परन्तु पुरुषरूपं प्रकारमवगाहमानः एषः अवश्यं स्थाणुत्वाभावमवगाहेत । न हि इदं सम्भवति एषः स्थाणुः पुरुषश्च । अतः स्थाणुत्वविरुद्धं पुरुषत्वं पुरोवर्तिनि पदार्थे अवगाहते चेदयं प्रत्ययः अवश्यं स्थाणुत्वाभावमपि अवगाहते। एवं विपरीतमपि । पुरुषत्वविरुद्धं स्थाणुत्वमवगाहते चेत् पुरुषत्वाभावमपि तर्हि अवगाहते । अत एव एषः चातुष्कोटिकसंशयः इति उच्यते । कोटिः इत्यस्य प्रकारः इत्यर्थः । चतस्रः कोटयः प्रकाराः यस्मिन् संशये भासन्ते सः चातुष्कोटिकः । स्थाणुत्वं स्थाणुत्वाभावः। पुरुषत्वं पुरुषत्वाभावश्चेति ते चत्वारः प्रकाराः । पूर्वोक्तस्तु वह्नितदभावप्रकारकः द्विकोटिकः इत्युच्यते। इत्थमेव भावकोटिप्रवृद्ध्या तदभावस्यापि अवगाहनात् संशये अनेकविधता बोध्या। अस्य च समुच्चयात् वैलक्षण्यं प्रत्यक्षखण्डान्ते निरूपितमवश्यमवधेयम्।

विपर्ययं लक्षयति मिथ्याज्ञानमिति । अस्यापि निष्कृष्टलक्षणम् अनुभवद्वैविध्य- निरूपणावसरे मूले उक्तमस्माभिः व्याख्यातम् (पृ.१३५) अवगन्तव्यम् । उदाहरणमपि तस्य पूर्वोक्तमेव स्मारयति यथा शुक्तौ इति ।

  • तर्कनिरूपणम्

तर्कलक्षणमाह व्याप्यारोपेणेति । इहास्ति विस्तरेण निरूपणीयम् । विचारे हि भवति कश्चित् वादी कश्चित् प्रतिवादी । सिद्धे, अत्यन्तमसिद्धे वा अर्थे न सः विचारः प्रवर्तते । किन्तु सन्दिग्धे । एषः संशयः कस्य भवति ? न हि सः वादिनः प्रतिवादिनः वा भवति। यथा दृष्टान्ते पर्वतो वह्निमानित्यत्र वह्निं साधयतः वादिनः, वह्न्यभावं वा साधयतः प्रतिवादिनः नास्ति संशयः । वादी पर्वते वह्निमेव जानाति प्रतिवादी च वह्नयभावमेव । अतः कस्य एषः संशयः इति जागर्ति प्रश्नः ।

Succee

तर्कनिरूपणम् तत्रोच्यते, वादिप्रतिवादिभ्यां स्वस्वनिश्चयानुरोधेन वाक्यप्रयोगः क्रियते । कश्चित् पर्वतो वह्निमान् इति, अपरः पर्वतः वह्न्यभाववान् इति प्रयुङ्क्ते । इदं च वाक्यद्वयं विरुद्धार्थबोधकमेव विप्रतिपत्तिः इत्युच्यते । ताभ्यां वाक्याभ्यां शाब्दबोधोत्तरं श्रोतुः मध्यस्थस्य एषः संशयः उत्पद्यते पर्वतः वह्निमान् न वा । एतादृश संशयः आत्मनि अस्ति इति ज्ञापनाय मध्यस्थेन वाक्यमुच्यते पर्वतः वह्निमान् न वा ।

तदा वादी तन्निवारणाय वह्निसाधनाय च हेतुं निर्दिशति धूमादिति वाक्येन । यस्मात् पर्वतः धूमवान् तस्मात् वह्निमान् इति । इह प्रतिवादी अप्रयोजकशङ्कां प्रकटयति। अप्रयोजकः असाधकः इत्यर्थः । धूमः वह्नेः असाधकः इति तदाशयः । सम्प्रदाये तादृशाप्रयोजकशङ्कानिदर्शकवाक्यं भवति हेतुरस्तु साध्यं मास्तु इत्येवं रूपम् ।

प्रकृतेऽपि प्रतिवादी ब्रूयात् अस्तु पर्वते धूमः मास्तु च वह्निः इति । यो खलु हेतुः व्याप्तिमान् पक्षधर्मतावान् च भवति सः भवति साधकः इति असकृत् आवेदितम् । प्रतिवादी यदा हेतुरस्तु साध्यं मास्तु इति शङ्कते, तदा सः व्याप्तिसंशयमेव दर्शयति । साध्यं मास्तु इत्यस्य साध्याभावः पक्षे स्यात् इत्यर्थः फलति । तत्र हेतुरस्तु इत्युक्तौ साध्याभाववति हेतोः वृत्तित्वमुक्तं भवति । एतदेव हि साधारण्यं हेत्वाभासप्रकरणोक्तं हेतोः यत् साध्याभाववति वृत्तित्वम् । एवञ्च प्रतिवादिना हेतौ व्यभिचारशङ्का एव उद्भाविता ।

तां शङ्कां वारयितुं वादी यदि पर्वते वह्न्यभावः स्यात् तर्हि धूमाभावः स्यात् इति ब्रवीति । परन्तु एतत्प्रयोगात् पूर्वं तस्य कश्चन ग्रहः, ज्ञानमुदेति इति वक्तव्यम् । यतो हि अर्थमजानानः कथं वाक्यमुच्चारयेत् । स च ग्रहः वादिनः जायमानः भ्रमात्मको भवति । स एव च तर्कः इत्युच्यते ।

किंविषयकः पुनःएषः भ्रमः ? पर्वते धूमाभावविषयकः । पर्वतः धूमाभाववान् इत्याकारकः भ्रमः वादिनः उत्पद्यते । कथं वादिनः पर्वतः धूमवान् इति निश्चयवतः पर्वतः धूमाभाववान् इति निश्चयः भवितुमर्हति ? धूमवत्तानिश्चयस्य तदभाववत्ता- निश्चयमुद्रया विरोधिनः तदात्मनि सत्वादिति चेत् उच्यते, सत्यम्, अस्ति वादिनः

[[३३३]]

[[३३४]]

किं नाम आहार्यज्ञानम् ?

धूमवत्तानिश्चयः, भवति च सः अन्यत्र धूमाभाववत्तानिश्चयं प्रति प्रतिबन्धकः । प्रकृते तु वादिनः सः निश्चयः इच्छाजन्यः आहार्यः इत्युच्यते । तस्य उत्पत्तिक्रमं शास्त्रे इत्थं वर्णयन्ति । वादिनः धूमवत्तानिश्चयः चैत्रक्षणे (१) ततः पर्वते धूमाभाववत्तानिश्चयो मे भूयादिति इच्छा (२) अनया चेच्छया बाधज्ञानस्य प्रतिबन्धकतायाः विघटनं भवति । ततः प्रतिबन्धकाभावात् पर्वतः धूमाभाववान् इति निश्चयः । (३) उत्पद्यते ।

किं नाम आहार्यज्ञानम् ?

किमिदमनुभवसंवेद्यम्? ओम् । तत्रेदमुदाहरामः । अस्ति कश्चित् बालः । स च दशमकक्ष्यापरिक्षां लिखितवान् । गणितविषये दैववशात् अनुत्तीर्णः । तेन च निर्विण्णः । न खादति न पिबति नापि स्वपिति । ईदृशीं दशां तस्य वीक्ष्य तन्माता तमाश्वासयति । मा खेदं याहि । परीक्षकाणां प्रमादात् कदाचित् एवंविधा स्थितिः आपन्ना स्यात् । पिता अङ्कसंशोधनाय आवेदनमकरोत् । अचिरादेव तथ्यं विद्मः । त्वं च उत्तीर्णो भवसि परीक्षाम् इति ।

[[1]]

तादृशं मातुः वचनं श्रुत्वा बालस्य कदाचित् अहं परीक्षामुत्तीर्णः इति निश्चयः उत्पद्यते । तस्यापि खलु बाधनिश्चयः पूर्वमस्ति । तथापि मातुः वचनवशात् उत्तीर्णः अहम् इति मम निश्चयो भूयात् इति इच्छा तस्य उत्पद्यते । ततः अहमुत्तीर्णः इति च निश्चयः। एषः निश्चयः आहार्यनिश्चयः इत्युच्यते । बाधज्ञाने सत्यपि इच्छायां सत्यां यः प्रतिबध्यः निश्वयः उत्पद्यते सः एव आहार्यनिश्चयः ।

प्रकृतेऽपि वादिनः पर्वतः वह्निमान् इति निश्चये सत्यपि प्रतिवादिनः व्यभिचारशङ्कां निवारयितुं पर्वते वह्न्यभावज्ञानं मे भूयात् इति इच्छा उत्पद्यते। तया चेच्छया तस्य पर्वतः वह्न्यभाववान् इति निश्चयः उत्पद्यते। एषः वह्न्यभाववत्तानिश्चयः यद्यपि आहार्यः तथापि सः धूमाभावस्य व्याप्यः यः वह्न्यभावः तन्निश्चयरूपः भवति । वह्न्यभाव- धूमाभावयोः व्याप्यव्यापकभावः अन्वयव्यतिरेकिहेतुनिरूपणप्रसङ्गे निरूपित एव ।

एवञ्च धूमाभावव्याप्तिमतः वह्न्यभावस्य निश्चयात् धूमाभावनिश्चय अपि वादिनः

तर्कोत्पत्तौ क्षणप्रक्रिया भवति । एष अपि धूमाभाववत्तानिश्चयः आहार्य एव वाच्यः । यतो हि वादिप्रतिवादिनौ चक्षुषा एव धूमं पश्यतः । ततश्च वादिनः पर्वतः धूमवान् इति बाधनिश्चयः अस्ति एव । तथापि पूर्वोक्तविधया पर्वते धूमाभावज्ञानं मे भवतु इति इच्छया पर्वतः वह्न्यभाववान् इति व्याप्यवत्ताज्ञानेन च तस्य पर्वतः धूमाभाववान् इति निश्चय उत्पद्यते । अयमेव निश्चयः तर्कः इत्युच्यते ।

सूक्तिललन्तिका

  • तर्कोत्पत्तौ क्षणप्रक्रिया

अतश्चाहार्यज्ञानोपत्तिप्रक्रिया ईदृशी पर्यवस्यति । (१)वह्निमत्तानिश्चयः पर्वतः वह्निमान् इति निश्चयः इति आद्यः क्षणः । (२) पर्वते वह्न्यभावनिश्चयो मे भवतु इति इच्छायाः द्वितीयः क्षणः।(३) पर्वतः वह्न्यभाववान् धूमवान् इति समूहालम्बनात्मकः वह्न्यभावांशे आहार्यनिश्चयः इति तृतीयः क्षणः । (४) वह्नयभावः धूमाभावव्याप्यः इति व्याप्तिनिश्चयः, पर्वते धूमाभावज्ञानं मे भवतु इति इच्छा च इति चतुर्थक्षणः । (५) पर्वतः धूमाभाववान् इति निश्चयः तर्करूपः इति पञ्चमक्षणः।

अस्मिन् निश्चये व्याप्यारोपजन्यत्वम् इच्छाजन्यत्वं चास्तीति भवति एषः तर्कः । पञ्चमक्षणे हि अस्य निश्चयस्योत्पत्तिः। तत्पूर्वक्षणे चतुर्थक्षणे तत्र इच्छा अस्ति, तृतीयक्षणे उत्पन्नः व्याप्यारोपः वह्न्यभावविषयकाहार्यनिश्चयोपि अस्ति अतः व्याप्यारोपजन्यत्वम् इच्छाजन्यत्वात् आरोपत्वं च अस्य निश्चयस्यास्ति समन्वयः ।

इदं च ज्ञानेच्छयोः एकक्षणे उत्पत्तिः सम्भवतीति यन्नवीननैयायिकमतं, तदनुसृत्य उक्तम् । इह क्षणगणनायां चतुर्थक्षणे व्याप्तिनिश्चयः इच्छा च इत्युभयं खलु दर्शितम् । तच्च ज्ञानेच्छयोः युगपदुत्पादपक्षे एव घटते ।

तत्र यदि क्रमिकतायाः आग्रहः तदा तृतीयक्षणे उत्पन्ने समूहालम्बने एव वह्न्यभावः धूमाभावव्याप्यः इति पदार्थः अपि अन्तर्भावनीयः । तथा एतद्रीत्या क्षणप्रक्रिया ईदृशी भवति । (१) वह्निमत्ताज्ञानम् आद्यक्षणे (२) वह्न्यभाववत्ताज्ञानं मे भवतु

[[३३५]]

[[३३६]]

तर्ककारणानि

इति इच्छा द्वितीयक्षणे (३) पर्वतः वह्न्यभाववान् धूमवान् च वह्नयभावः धूमाभावव्याप्यः इति आंशिकाहार्यं तृतीयक्षणे (४) पर्वते धूमाभावज्ञानं मे जायतामितीच्छा चतुर्थक्षणे (५) ततः पर्वतः धूमाभाववान् इति तर्कः ।

  • तर्ककारणानि

कुतः एषः आयासः? कुतश्च तृतीयक्षणे उत्पद्यमानस्य ज्ञानस्य समूहालम्बनता? उच्यते । तर्कस्य कारणानि कानिचित् निश्चितानि । (१) आपाद्यव्यतिरेकनिश्चयः एकः, (२) आपाद्यापादकयोः व्याप्तिनिश्चयः द्वितीयः, (३) इच्छा च तृतीया । तत्र आद्यः आपाद्यव्यतिरेकनिश्चयो नाम धूमवत्तानिश्चयः । आपाद्यः सः उच्यते यः प्रतिवादिनः अनिष्टः भवति । यथा प्रकृते धूमाभावः । स च प्रतिवादिनः अनिष्टः । कुतः ? चक्षुषा किल पर्वते सः धूमं पश्यति । न खलु तस्य धूमाभावः इष्टो भवति इति स एव आपाद्यः इत्युच्यते । व्याप्यारोपेण व्यापकारोपः तर्कः इति सङ्ग्रहोक्तलक्षणरीत्या आलोच्यमाने स धूमाभाव एव व्यापकः भवति । वह्न्यभावं प्रति धूमाभावस्य व्यापकत्वमसकृत् चिन्तितमेव । तादृशस्य आपाद्यस्य धूमाभावस्य यः व्यतिरेकः अभावः धूमः तन्निश्चयः आपाद्यव्यतिरेकनिश्चयः एव तर्कहेतुः ।

प्रतिवादिनः अनिष्टः आपाद्यः धूमाभावः येन आपाद्यते अङ्गीकार्यते सः आपादकः इत्युच्यते । स च वह्न्यभावः। कथं वह्न्यभावः आपादकः भवति ? तत्र धूमाभावस्य अस्ति व्याप्तिः । व्याप्येन हि व्यापकः साध्यते । तत्साधनमेव तर्कप्रकरणे आपादनमित्युच्यते । स च वह्न्यभावः व्याप्तिविशिष्टः ज्ञातव्यः । केवलवह्न्यभावज्ञानस्य उपयोगाभावात् । अतः द्वितीयं कारणमुक्तम् आपाद्यापादकयोः व्याप्तिनिश्चयः इति ।

यस्य हि आपाद्यव्यतिरेकनिश्चयः धूमाभावाभाववत्तानिश्चयः पर्वतः धूमवान् इत्यस्ति, न तस्य इच्छां विना पर्वतः धूमाभाववान् इति निश्चयः सम्भवतीति इच्छा अपि आवश्यिका इति सा तृतीया कारणत्वेन अभिहिता । एतेषां त्रयाणां कारणत्वे निश्चिते धूमाभाववत्तानिश्चयरूपः यः तर्कः कार्यम्, तदुत्पत्तेः पूर्वक्षणे त्रयाणां स्थितिः सम्पाद्या। अन्यथा कारणत्वं न स्यात् ।

तर्ककारणानि

अन्यश्च अस्ति आत्मविशेषगुणानां विशेषः । ते सर्वेऽपि द्विक्षणावस्थायिनः । उत्पत्तिः आद्ये क्षणे । द्वितीयक्षणे स्थितिः । नाशश्च तृतीयक्षणे । ज्ञानादिकं हि यस्मिन् क्षणे उत्पद्यते ततः तृतीयक्षणे अवश्यं नश्यति । ततश्च (१) आद्यक्षणे धूमवत्तानिश्चयः आपाद्यव्यतिरेकनिश्चयः (२) द्वितीयक्षणे वह्न्यभावः धूमाभावव्याप्यः इति व्याप्तिनिश्चयः (३) तृतीयक्षणे पर्वते धूमाभावज्ञानं मे भूयात् इति इच्छा (४) चतुर्थक्षणे धूमाभाव- ज्ञानरूपः तर्क इति क्षणप्रक्रियायां तृतीयक्षणे धूमज्ञानस्य नाशो भवेत् । दर्शितरीत्या तस्य द्विक्षणावस्थायित्वात् । ततश्च तर्कोत्पत्तेः पूर्वक्षणे धूमज्ञानस्य असत्वेन तस्य तर्कं प्रति कारणत्वं न घटेत । अतः तर्कोत्पत्तेः पूर्वक्षणे त्रयाणां समवधानाय उक्तसमूहालम्बनं स्वीकृतम्। तेन इच्छोत्पत्तिकाले समूहालम्बनज्ञानस्य स्थितत्वात् तर्कसामग्री- सम्पत्तिरव्याहता इति दिक् ।

एतावता आयासेन व्याप्यारोपेण व्यापकारोपः इति तर्कलक्षणानुसारेण व्याख्यातम् । स च तर्कः वादिनः उत्पद्यते । तेन सः प्रतिवादिनं प्रति वाक्यं प्रयुङ्क्ते यदि पर्वते वह्न्यभावः स्यात् धूमाभावोऽपि स्यादिति । तादृशः धूमाभावः आपाद्यः प्रतिवादिनः अपि अनिष्टः । अतः सः व्यापकं धूमाभावं नाङ्गीकरोति । तर्हि तद्व्याप्यं वह्न्यभावमपि नाङ्गीकरोति । सिद्धस्तर्हि पर्वते वह्निः । अतः धूमवति वह्नयभावः अस्तु इति शङ्का वह्निनिश्चयादेव अपगता । व्यभिचारशङ्कायां निवृत्तायां मध्यस्थस्यापि व्याप्तिनिश्चयादिक्रमेण पर्वतो वह्निमान् इति अनुमितिः उदेति । तेन संशयोऽपि तस्य निवर्तते इति सर्वं सुस्थम् ।

स्मृतिरपि द्विविधा । यथार्था अयथार्था चेति ।

प्रमाजन्या यथार्था । अप्रमाजन्या अयथार्था ।

  • प्रत्यक्षखण्डे संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति स्मृतिलक्षणमुक्तम् । सम्प्रति तद्विभागमाह - यथार्था अयथार्था इति । स्मृतिलक्षणविवरणावसरे विस्तरेण निरूपितोऽयम् अर्थः । अनुभवः प्रत्यक्षादिरूपः संस्कारद्वारा स्मृतिं जनयति । स चानुभवः यथार्थोऽपि भवेत्, अयथार्थोऽपि । चक्षुषा, परामर्शेन, शब्देन वा जायमानं

[[३३७]]

[[३३८]]

सुखलक्षणम्

पर्वतः वह्निमान् इति ज्ञानं भवति प्रमा । तेन च संस्कारः । तेन च संस्कारेण स्मृतिः जायमाना यथार्था एव भवति । तदुक्तं ग्रन्थकृता प्रमाजन्या यथार्था ।

ह्रदे खद्योतं दृष्ट्वा ह्रदो वह्निमान् इति प्रत्यक्षं, ह्रदः वह्निव्याप्यजलवान् इति भ्रमात्मकपरामर्शात् ह्रदो वह्निमान् इति अनुमितिः, अनाप्तोच्चरितात् हृदो वह्निमान् इति वाक्यात् वा जायमानः शाब्दबोधः तथाविधः भवति भ्रमः । तेन च भवेत् संस्कारः। तेन च जायमानं स्मरणं ह्रदो वह्निमान् इत्याकारकम् अयथार्थमेव । तदुक्तम् अप्रमाजन्या अयथार्था इति ।

प्रत्यक्षखण्डे सर्वव्यवहारहेतुः ज्ञानमिति ज्ञानलक्षणमुक्तम् । स्मृत्यनुभवभेदेन तद्द्द्वैविध्यं प्रदर्शितम्। तयोः मध्ये स्मृतेः लक्षणं तत्रोक्तं, विभागस्तु अनुपदमुक्तः। अनुभवोऽपि तत्र लक्षितः स्मृतिभिन्नं ज्ञानमनुभव इति । ततः यथार्थायथार्थभेदेन अनुभवं विभज्य यथार्थानुभवस्य चातुर्विध्यं तत्करणादिप्रपञ्चपुरस्परं निरूप्य द्वितीयः अयथार्थानुभवोऽपि भेदेन निरूपितः। तेन समाप्तः ज्ञानविस्तरः। सम्प्रति क्रमप्राप्तम् सुखं लक्षयति सर्वेषामिति ।

सुखदुःखलक्षणम्

सर्वेषाम् अनुकूलतया वेदनीयं सुखम् ।

सर्वेषां प्रतिकूलतया वेदनीयं दुःखम् ।

वेदनं ज्ञानम् । वेदनीयं ज्ञानविषयः । तच्च ज्ञानम् अनुकूलतया ग्राह्यम् । तृतीयार्थः प्रकारकत्वम् । तथा च अनुकूलत्वप्रकारकज्ञानविषयः सुखमिति लब्धम् । परन्तु निदाघचण्डवातसन्तापितस्य भवति चन्दनमनुकूलम् । तत्पुरुषस्य भवेत् ज्ञानं चन्दनं मदनुकूलमिति । तस्मिन् ज्ञाने अनुकूलत्वं प्रकारः चन्दनं विशेष्यम् । एवं च अनुकूलत्व- प्रकारकज्ञानविशेष्यत्वं चन्दने अस्ति इति भवेत् अतिव्याप्तिः । अतः सर्वेषामिति पदम् ।

काश्मीरादिदेशेषु धनुषि मकरे वा राशौ स्थिते रवौ शैत्याधिक्यात् दुःखिताः जनाः न चन्दनं कामयन्ते नापि चन्द्रमसम् । कं तर्हि ? हुताशनम् । स च भवति तेषाम् १ - दीपशिखः ।

दुःखलक्षणम्, धर्मलक्षणम् अनुकूलत्वप्रकारकज्ञानविषयत्ववान् । सुखं पुनः निदाघसन्तापितस्य शैत्यखिन्नस्य च उभयोरपि, किम्बहुना, सर्वजीवानामनुकूलमिति सर्वजीवसमवेतानुकूलत्वप्रकारक- ज्ञानविशेष्यत्वं सुखे एवेति नातिव्याप्तिः, सुखे समन्वयश्च ।

इत्थमेव दुःखलक्षणेऽपि सर्वेषां प्रतिकूलतया वेदनीयमित्यत्र सर्वपदाभावे चिन्तनीयम् । तत्र हि निदाघवातसन्तप्तस्य हुताशनः प्रतिकूलः शैत्यदुःखितस्य चन्दन- करकादिसंयोगः । सर्वपददाने तु न हुताशनः तथाविधः नापि चन्दनम् । इति दुःखमेव सर्वजीवानां वर्जनीयं हेयं लोकप्रसिद्धमिति सर्वजीवसमवेतप्रतिकूलत्वप्रकारक ज्ञानविशेष्यत्वं दुःखे एवेति नातिव्याप्तिः, समन्वयश्च दुःखे ।

वस्तुतस्तु सर्वानुभवसिद्धे सुखे दुःखे वा लक्षणकरणं प्रक्रियामात्रम् । अत एव ग्रन्थकारः इच्छादीनाम् अग्रिमाणां त्रयाणां लक्षणानि नाकरोत् । अस्माभिस्तु इच्छाकृत्योः भेदः (पृ.६७) स्पष्टं निरूपितः तत्रैवानुसन्धेयः ।

इच्छा कामः । क्रोधो द्वेषः । कृतिः प्रयत्नः ।

  • धर्मलक्षणम

विहितकर्मजन्यो धर्मः ।

सम्प्रति धर्मलक्षणमाह विहितेति । विहितः इत्यस्य विधिविषयः इत्यर्थः । कर्तव्यताबोधकं पदं वाक्यं वा विधिः । यथा गामानय इति विधिः । अस्मिन् वाक्ये आनय इति भागे आ इत्युपसर्गात् परः अस्ति नीधातुः ततः परः अस्ति लोट्प्रत्ययः। तादृशप्रत्यययुक्तं यत् आनय इति पदं, तत् श्रुत्वा गोः आनयनं कर्तव्यमिति श्रोतुः बोधः भवति ।

यदि च गामानयति इति वाक्यम् उच्चारितम्, गाम् आनयत् इति वा वाक्यं, तत्र इतरपदयोः साम्येऽपि न लोट् अस्ति किन्तु आनयति इत्यत्र लट् वर्तमानकालबोधकः, आनयत् इत्यत्र लङ् भूतकालबोधकः । ताभ्यां च तत्र तत्र वर्तमानकालिकानयनस्य भूतकालिकानयनस्य बोधेऽपि आनयनं कर्तव्यमिति बोधः श्रोतुः नैव भवति ।

[[३३९३४०]]

धर्मलक्षणम्

अतः तत्तद्धातूत्तरं विद्यमानः लोट् लिङ् वा तस्य तस्य धात्वर्थस्य कर्तव्यतां बोधयति इति आगतम् । तथा च तादृशप्रत्ययघटितपदं तादृशपदघटितवाक्यं वा विधिरिति उच्यते । तेन च वाक्येन यस्याः क्रियायाः कर्तव्यता बोध्यते सा क्रिया विधिविषयः, विधिना कर्तव्यतया बोधिता, विहिता वा इत्युच्यते ।

तादृशं च वाक्यं भवति द्विविधं, लौकिकं वैदिकं च । लौकिकं पूर्वोक्तं गामानय, दण्डेन घटं कुरु इत्यादिकम् । प्रकृतलक्ष्यभूतधर्मलक्षणे प्रविष्टं च वाक्यं वैदिकं ग्राह्यम् । अहरहः सन्ध्यामुपासीत, अग्निहोत्रं जुहुयात् स्वर्गकामः इत्यादीनि तदुदाहरणानि । आद्येन वाक्येन सन्ध्यावन्दनस्य कर्तव्यत्वं बोध्यते, द्वितीयेन अग्निहोत्रहोमस्य । अतः विहितत्वात् विधिविषयत्वात् सन्ध्या होमश्च विहितकर्म भवति । तज्जन्यः यः सः धर्म इत्युच्यते ।

सन्ध्यावन्दनस्य हि ब्रह्मलोकावाप्तिः फलं स्मृत्यादौ निरूपितम् । अग्निहोत्रहोमस्य च स्वर्ग अस्मिन् वेदवाक्ये एव फलत्वेन निर्दिष्टः । मौञ्जीबन्धनादूर्ध्वमामरणं खलु सन्ध्यामनुतिष्ठति । न तदा तस्य ब्रह्मलोकावाप्तिः । सन्ध्यावन्दनं च कर्मसमुदायः न चिरस्थायी । सायङ्काले अनुष्ठितं तदैव नष्टम्। प्रातः पुनरपि अनुष्ठितः अन्यकर्मसमुदायः न चिरस्थायी । तथा च तदा तदा अनुष्ठानादूर्ध्वम् अविद्यमानं कथं कालान्तरभाविनीं ब्रह्मलोकस्थितिं जनयेत् ।

एवम् अग्निहोत्रहोमेऽपि । सोऽपि कर्मसमुदायः सायम्प्रातःकालयोः अनुष्ठीयते । सायंहोमः न अनुष्ठानादूर्ध्वमस्ति तथैव च प्रातर्होमोपि । तथा च अनुष्ठानादूर्ध्वमेव अविद्यमानः कथं पारलौकिकं स्वर्गं जनयेत् । मा भूत् सन्ध्यया ब्रह्मलोकप्राप्तिः, होमेन वा स्वर्गः इत्यपि वक्तुं न शक्यम् । तयोस्तु कार्यकारणभावः वेदबोधितः। वेदश्च ईश्वरोक्तत्वात् सर्वोऽपि प्रमाणमिति निरूपितमेव।

अतः तादृशकार्यकारणभावरक्षायै मध्ये कश्चन व्यापारः कल्प्यः। अनुभवेन स्मृतिजनने आत्मनि संस्कारकल्पनवत् । अयमपि च व्यापारः आत्मनि एव कल्प्यते। स च सन्ध्यया, होमेन च जायते, कालान्तरभाविनीं ब्रह्मलोकावाप्तिं, स्वर्गं च जनयति।

अधर्मलक्षणम

एष एव शास्त्रे धर्मः इत्युच्यते । तदेतत् उक्तं विहितकर्मजन्यः धर्मः इति ।

  • अधर्मलक्षणम्

निषिद्धकर्मजन्यस्त्वधर्मः ।

अनयैव रीत्या अधर्मलक्षणेsपि चिन्त्यम् । तत्र हि निषिद्धकर्मजन्यत्वमुक्तम् । निषिद्धः इत्यस्य निषेधविषयः इत्यर्थः । निषेधो नाम सः भवति यः क्रिया न कर्तव्या इति बोधयति। इहापि पूर्ववदेव वाक्ये लिङ् लोट् वा भवति, नञ् तु अधिकः । यथा लौकिकं वाक्यं, वह्निं न स्पृशेत्, वैदिकं वा वाक्यं न अनृतं वदेत् ।

इह च वह्निस्पर्शनं अनृतभाषणं वा न कर्तव्यमिति बोधो जायते । लक्षणघटकनिषेधस्तु वैदिकः ग्राह्यः । तादृशनिषेधविषयीभूतानृतभाषणादिक्रियाफलं नरकावाप्तिः स्मृतिप्रसिद्धा न क्रियोत्पत्तिसमनन्तरक्षणे भवति । अतः तादृशकार्यकारण- भावनिर्वाहाय मध्ये व्यापारः निषिद्धकर्मजन्यः स्वीक्रियते । स च अनृतभाषणादिना उत्पद्यते, कालान्तरभाविनरकजनकश्च भवति । स एव च शास्त्रे अधर्मः इत्युच्यते । तस्य च लक्षणमुक्तं निषिद्धकर्मजन्य इति ।

बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः। बुद्धीच्छाप्रयत्नाः ।

नित्याः अनित्याश्च। नित्या ईश्वरस्य। अनित्या जीवस्य ।

बुद्ध्यादीनां लक्षितानां विशेषमाह आत्ममात्रविशेषगुणाः इति । सन्ति रूपादयः विशेषगुणाः ते न आत्मनः किन्तु पृथिव्यादीनाम् । तत्रापि रूपं, रसः इति सामान्यरूपेण चिन्तने रूपं पृथिव्यादित्रिके, रसः पृथिवीजलयोः इति विशेषगुणता तेषां क्लेशेन वर्णनीया भवति । ज्ञानादयस्तु विशेषगुणाः आत्मनि एव भवन्ति ।

बुद्ध्यादित्रिकस्य नित्यानित्यभेदं दर्शयति । ईश्वरगतस्य ज्ञानादित्रिकस्य नित्यत्वम् ईश्वरनिरूपणे (पृ.६६) निरूपितम् । अतः ते आत्मनः विशेषगुणा इति भावः। जीवगतत्रिकस्यापि अनित्यता अनुपदं दर्शिता इति ।

[[३४१]]

[[३४२]]

कर्मलक्षणम

संस्कारस्त्रिविधः । वेगो भावना स्थितिस्थापकश्चेति ।

वेगः पृथिव्यादिचतुष्टयमनोमात्रवृत्तिः । अनुभवजन्या स्मृतिहेतुर्भावना आत्ममात्रवृत्तिः। अन्यथाकृतस्य पुनस्तदवस्थापादकः स्थितिस्थापकः। कटादिपृथिवीवृत्तिः।

[[1]]

क्रमप्राप्तं संस्कारं विभजते संस्कार इति । यद्यपि सर्वत्र सामान्यलक्षणमभिधाय एव विभागः क्रियते ग्रन्थकृता इति इहापि तथा करणमेवोचितं तथापि ग्रन्थस्यास्य बालप्रतिपत्तिहेतुत्वेन त्रिविधसंस्कारानुगतलक्षणस्य क्लेशसाध्यत्वेन च बालबोध्यतानर्ह- त्वात् साक्षात् विभागः कृतः। तत्र आद्यः वेगः। अयं च क्रियाजन्यः वेगजन्यश्च अनेनैव च द्वितीयादिपतनानि उत्पद्यन्ते । तत्र च अतिव्याप्तिवारणाय गुरुत्वलक्षणे आद्य इति पदं सार्थकम् इति निरूपितम् । (पृ.१०९) द्वितीया च भावना स्मृतिलक्षण- निरूपणे विस्तरेण निरूपिता। (पृ.१२४) तृतीयः स्थितिस्थापकः । वृक्षादौ स्वस्थानात् कर्षिते पुनः तत् स्थानप्राप्तिदर्शनात् ज्ञायते । तत्र आद्यः पृथिव्यादिचतुष्टयमनोवृत्तिः इति मूले उक्तम्।

द्वितीयः आत्मनिष्ठः। तम् लक्षयति अनुभवजन्येति । अनुभवजन्यत्वमात्रोक्तौ अनुभवध्वंसे अतिव्याप्तिः। ध्वसं प्रति प्रतियोगिनः कारणत्वात्। अतः स्मृतिहेतुत्वम् आवश्यकम्। तावन्मात्रोक्तौ अनुभवे अतिव्याप्तिः । अतः अनुभवजन्यत्वं दातव्यम् । तृतीयस्य स्थितिस्थापकस्य कार्यं मूले दर्शयति । अन्यथा इति । इदं प्रसिद्धम् । पृथिवीवृत्तित्वं मूले उक्तमेव ।

  • कर्मलक्षणम्

चलनात्मकं कर्म । ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम्। अधोदेशसंयोगहेतुरपक्षेपणम् । शरीरसन्निकृष्टसंयोगहेतुराकुञ्चनम् । विप्रकृष्टसंयोगहेतुः प्रसारणम्। अन्यत्सर्वं गमनम्। पृथिव्यादिचतुष्टयमनोमात्रवृत्ति ।

LEEEEEET

[[1]]

उत्क्षेपणापक्षेपणयोः ज्ञानादिपूर्वकत्वम्

निरूपिताः गुणाः। ततश्चोद्देशक्रमानुसारेण क्रियां निरूपयति । अस्याः अपि सामान्यलक्षणं नाभिहितम् । लोकसिद्धा सञ्ज्ञा परमभिधीयते गमनात्मकं कर्मेति । क्रियायाः हि एषः स्वभावः । सा स्वोत्पत्त्यनन्तरं विभागं संयोगं वा जनयितुं न भावान्तरम् अपेक्षते। (पृ.१०१) उक्तेन अभिघातेन नोदनेन वा फलादौ क्रिया उत्पद्यते । ततः अग्रिमक्षणे विभागः । तं विभागं प्रति फलं समवायिकारणं, क्रिया चासमवायिकारणं कालादयः निमित्तकारणानि । तेन च विभागेन फलस्य यः पूर्वदेशसंयोगः स नश्यति । ततः देशान्तरसंयोगः उत्पद्यते । ततः क्रियानाशः । अतः क्रिया विभागसंयोगयोः असमवायिकारणं भवति ।

यद्यपि च क्रियोत्पत्त्यनन्तरं विभागः उत्पन्नः, ततश्च क्षणव्यवधानेन संयोगोत्पत्तिः। अतः क्रिया विभागसहकारेण संयोगजनिका इति भाति । एवञ्च संयोगजननाय भावान्तरं न प्रतीक्षते इति असङ्गतं प्रतिभाति तथापि क्रियया उत्तरदेशसंयोगे जननीये पूर्वदेशसंयोगः प्रतिबन्धकः । क्रियया द्वितीयक्षणे जायमानः विभागः तं पूर्वदेशसंयोगं तृतीयक्षणे नाशयति । ततश्च प्रतिबन्धके नष्टे क्रिया चतुर्थक्षणे उत्तरदेशसंयोगं जनयति। एवञ्च विभागः उत्तरदेशसंयोगजनने न क्रियां प्रति उपकारकः ३४३ किन्तु तया उत्तरदेशसंयोगे जननीये प्रतिबन्धकाभावमात्रसम्पादकः। उत्तरदेशसंयोगस्तु फलासन्नक्रियया एव भवतीति वैशेषिकाणामाशयः । विशेषस्तु मुक्तावल्यादौ ज्ञातव्यः।

उत्क्षेपणापक्षेपणयोः ज्ञानादिपूर्वकत्वम्

उत्क्षेपणादिविभागमाह - उत्क्षेपणस्य अपक्षेपणस्य च हि एषः विशेषः तयोः उत्पत्तौ ज्ञानेच्छादिपरम्परा आवश्यिका । तथाहि-बालः कश्चित् कन्दुकमुत्क्षिपति। तत्पूर्वं तस्य कन्दुकस्य ऊर्ध्वगमनं मम सुखजनकमिति ज्ञानमुत्पद्यते । ततः कन्दुकमूर्ध्वं क्षिपानि इति इच्छा भवति । तया चेच्छया आत्मनि कृतिः उत्पद्यते । तया कृत्या शरीरे चेष्टा जायते । ज्ञानेच्छादिपरम्परया शरीरे जायमाना क्रिया चेष्टा इति आवेदितमसकृत्। तादृशचेष्टावच्छरीरे कन्दुकः संयुक्तः इति तत्रापि क्रिया उत्पद्यते । तया च क्रियया

आकुञ्चनप्रसारणयोः उदाहरणम्

कन्दुकः यद्देशे अस्ति तदूर्ध्वदेशे संयोगः उत्पद्यते । तादृशसंयोगजनिका क्रिया एव उत्क्षेपणमित्युच्यते ।

एवमपक्षेपणस्थलेऽपि ज्ञेयम् । तत्रापि आत्मनि ज्ञानादित्रिकम् । शरीरे चेष्टा च तुल्या । इयाँस्तु विशेषः । अत्र कन्दुकक्रियया तस्य अधोदेशेन संयोगः भवति । तथा च ज्ञानादिपरम्परया उत्पद्यमानः, ऊर्ध्वदेशसंयोगजनकः व्यापारः उत्क्षेपणम्। तथैव परम्परया उत्पद्यमानः अधोदेशसंयोगानुकूलः व्यापारः अपक्षेपणम्। अत एव ऊर्ध्वप्रक्षिप्तकन्दुकादौ वेगनाशे सति गुरुत्ववशात् जायमानात् पतनात् पूर्वोक्तमपक्षेपणं भिद्यते । न हि तत्र ज्ञानादिपरम्परा अस्ति । अत एव भूमौ पतनोत्तरं पुनरपि कन्दुकस्य ऊर्ध्वगमनं नोत्क्षेपणम् । ज्ञानादिपरम्परायाः असत्वात् ।

  • आकुञ्चनप्रसारणयोः उदाहरणम्

आकुञ्चनप्रसारणे लोकसिद्धे । नात्र पूर्ववत् ज्ञानेच्छाकृतिपरम्परा भवति । दृष्टान्ताः अपि अस्यानेके प्रसिद्धाः । तत्र धूमशकटमार्गनिर्माणाय अतिदीर्घाणां ३४४ लोहफलकानां यदा परस्परं योजनं भवति तत्र मध्ये किञ्चिदिव अवकाशं संस्थाप्यैव योजयन्ति । तत्कुतः? धूमशकटः हि महता वेगेन तस्मात् मार्गात् धावति, तेन चक्राणां लोहमार्गस्य च परस्परं घर्षणं जायते। तेन घर्षणेन तन्मार्गस्य फलकेषु प्रसारणं भवति । यदि तत्र मध्ये अवकाशो न स्यात् तदा वृद्धिं मातुमवकाशाभावात् फलकः वक्रः भवेत् । सति चावकाशे, प्रसारणे सति फलकानां परस्परं निबिडसंयोगः भवति आकुञ्चने सति पूर्ववत् सावकाशा स्थितिः भवति । इदं च आकुञ्चनप्रसारणयोः परिणाममालोच्य तत्रत्यतज्ज्ञैः कृतां योजनां निर्दिशति । पद्मकुमुदयोः तत्तत्काले विकसनम्, आकुञ्चनं च प्रसिद्धम्। नात्र लक्षणकरणे आयासः कृतः कुत्रचित् दृष्टः इत्यलम्।

[[1]]

कर्मत्वव्याप्यजातिमन्ति चत्वारि उत्क्षेपणादीनि उक्तानि । तादृशव्याप्यजातयश्च उत्क्षेपणत्वम् अपक्षेपणत्वम् आकुञ्चनत्वं प्रसारणत्वञ्च । एतासु न एकापि जातिः यस्यां क्रियायां भवति सा सर्वापि क्रिया शास्त्रे गमनम् इत्येव परिगणिता । यथा

सामान्यस्य चतुर्विधता भ्रमणं, स्यन्दनं, तिर्यग्गमनम् इत्यादिक्रियाः । न हि एतासु क्रियासु उत्क्षेपणत्वादिजातिः काचित् प्रतीयते । अतः एतेषां सर्वेषां कर्मणां गमनम् इति प्रकारे अन्तर्भावः भवति । तथा च कर्मविभागे पञ्चमी जातिः गमनत्वं पूर्वोक्तकर्मचतुष्टयातिरिक्तकर्मसु स्वीक्रियते इति ।

  • सामान्यस्य चतुर्विधता

सविभागं द्रव्यादित्रिकं निरूप्य सम्प्रति सामान्यलक्षणमाह

नित्यमेकमनेकानुगतं सामान्यम् । द्रव्यगुणकर्मवृत्ति ।

तद्विविधं परापरभेदात्। परं सत्ता। अपरं द्रव्यत्वादि इति ।

सामान्यं जातिः इहाभिप्रेता । इयं हि एकाकारप्रतीत्या सिद्ध्यति । अनेकेषु घटेषु अयं घटः, अयमपि घटः इति अनुगतप्रतीत्या घटत्वजातिः सिद्ध्यति । एवं सर्वेषु पटेषु पटत्वं, मठेषु मठत्वम्, आत्मसु आत्मत्वं, मनस्सु मनस्त्वं जातिः भवति ।

क्वचित् तु तादृशधर्मस्य जातित्वस्वीकारे किञ्चित् बाधकं भवति । यथा आकाशे विद्यमानमाकाशत्वम् । अस्य हि आश्रयः एक एव । अतः एकाकारप्रतीतिः ३४५ नैव सम्भवति । अतः आकाशे सिद्धमपि आकाशत्वं न जातिः ।

एवं स्थिते नैयायिकाः तस्य स्वरूपनिर्वचनाय यतन्ते । घटत्वपटत्वादिनां हि जातीनां किं स्वरूपमिति पृष्टे, घटत्वमखण्डो धर्मः जातिरूपः, पटत्वमखण्डा जातिः आत्मत्वमखण्डा जातिः इति उच्यते । यस्य तु आकाशत्वस्य नैवंविधता तस्य अखण्डत्वाभावे सखण्डता भवति ।

किमिदं सखण्डत्वम्? नानापदार्थघटितत्वम् । यथा आकाशे विद्यमानमाकाशत्वं शब्दसमवायिकारणत्वम् । अत्र चाकाशत्वपरिष्कारे शब्दः प्रविष्टः समवायिकारणत्वं च । तथा च येषां धर्माणां बाधकवशात् जातिवर्गात् बहिर्भावो भवति, परन्तु किञ्चित् निर्वचनं स्वरूपलक्षणं वा येषां कर्तुं शक्यते ते सखण्डोपाधयः इति कथ्यन्ते । आकाशत्वं पूर्वोक्तं सखण्डोपाधिः । शब्दसमवायिकारणत्वं हि तस्य

सामान्यस्य चतुर्विधता

स्वरूपलक्षणम् । पृथिव्यादिचतुष्टयाकाशवर्ति भूतत्वमपि सखण्डोपाधिः । पृथिवी भूतं, जलं भूतमिति अनुगतप्रतीतिसत्वेऽपि कुतश्चित् बाधकात् तत् भूतत्वं जातिवर्गात् भ्रष्टम्। अतः तत्परिष्कृतम् । तस्य स्वरूपलक्षणं हि बहिरिन्द्रियग्राह्यविशेष- गुणवत्त्वमिति ।

गन्धः शीतस्पर्शः उष्णस्पर्शः अनुष्णाशीतस्पर्शः

शब्दः

पृथिवी

जलम्

तेजः

वायुः

आकाशः

चि.स.२२०

[[३४६]]

यत्र हि भूतं भूतमिति प्रत्ययः तत्रावश्यं कश्चित् बहिरिन्द्रियग्राह्यविशेषगुणः चित्रे दर्शितरीत्या भवति । अतः बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वमेव भूतत्वस्य स्वरूपलक्षणं कृतम् ।

अयं च सखण्डोपाधिः सामान्यप्रकारः प्रकृतग्रन्थे न चिन्त्यते । इह हि नित्यमेकमनेकानुगतं सामान्यलक्षणं जातेरेव । तस्याः एव समवायेन अनेकवृत्तित्वात् । आकाशत्वं भूतत्वं विभुत्वं वा न तथाविधमिति ते सखण्डोपाधयः इति कथ्यन्ते ।

इतश्च प्रतियोगित्वावच्छेदकत्वाधारत्वादयः तत्र तत्र अनुभवसाक्षिकाः पदार्थाः। ते अस्माभिः बालबोधनाय भारं वहामीति चिन्तनं, विरोधः इत्येवमुपायैः निरूपिताः । न ते जातिरूपाः । नापि आकाशत्ववत् निर्वक्तुं शक्याः । अतः एतेषां दीधित्यादिग्रन्थेषु स्वरूपसम्बन्धविशेषः इति व्यवहारः दृश्यते । अयमेव प्रकारः अस्माभिः ग्रन्थादौ साकाङ्क्षः, ससम्बन्धिकः इति निरूपितः । तथा च इयं तृतीया विधा, यत्र सर्वेऽपि ससम्बन्धिकाः पदार्थाः अन्तर्भवन्ति ।

एवंविधा अपि निराकाङ्क्षाः केचन पदार्थाः शास्त्रे प्रसिद्धाः । यथा समवायत्वम् । इयं न जातिः, नापि सखण्डोपाधिः स्वरूपलक्षणस्यासम्भवात् । नापि तृतीयप्रकारे

१ - रघुनाथशिरोमणिकृता तत्त्वचिन्तामणिव्याख्या ।

जातिलक्षणम्

अन्तर्भावः । ससम्बन्धिकत्वाभावात् । अतः एतेषां चतुर्थः विभागः कर्तव्यः भवति । अयं च अखण्डोपाधिः इति कथ्यते । समानानां भावः धर्मः सामान्यमिति व्युत्पत्त्या आलोच्यमाने आकाशत्वं समवायत्वं वा नैव सामान्यं भवितुमर्हति । एकमात्रवृत्तित्वात् । तथापि तु द्रव्यादिपदार्थेषु षट्सु अनन्तर्भूतानामेतेषां किञ्चिन्निष्ठत्वमादाय सामान्य- वर्गानुप्रवेशः यथासम्भवं लक्षणादिकरणमिति ध्येयम् ।

  • जातिलक्षणम्

तदत्र ग्रन्थे प्रथमप्रकारस्य लक्षणमाह - नित्यमिति । घटत्वादिसामान्यस्य हि नोत्पत्तिरस्ति नापि नाशः । न हि घटोत्पत्त्यनन्तरं तद्गतरूपाद्युत्पत्तिवत् तत्र घटत्वस्य उत्पत्तिः भवति । कपालादिघटसामग्र्ग्राः हि एषः स्वभावः यत् ते नित्यघटत्वाश्रयमेव घटं जनयन्ति । न तु तद्रहितमपि । अतः न घटत्वस्य उत्पत्तिः ।

एवं घटे नष्टे न घटत्वं नश्यति । किन्तु घटान्तरे ज्ञायते एव । अत एव खलु वयं तमपि घट इति ब्रूमः। प्रलयादिकाले सर्वघटनाशेऽपि घटत्वं महाकाले तिष्ठतीति सम्प्रदायः। तथा च घटत्वादिजातेः नित्यत्वं तावत् सिद्धम् ।

एकमिति मूलं सामान्यस्य स्वरूपकथनपरम् । न तु लक्षणेऽपि तत्प्रवेशः । प्रयोजनविरहात् ।

अनेकानुगतमिति दलस्य अनेकसमवेतमित्यर्थः। यथाश्रुते नित्यत्वे सति अनेकवृत्तित्वस्य घटाभावेऽपि सत्वात् तत्रातिव्याप्तिः । घटाभावः नित्यः, अनेकेषु भूतलादिपदार्थेषु दैशिकविशेषणतासम्बन्धेन भवति च । अतः अनेकसमवेतत्वमिति विवक्षणीयम् । अभावस्तु स्वरूपेण भवति न तु समवायेन इति नातिव्याप्तिः।

तत्रापि आद्यदलस्य नित्यत्वस्यैवोपादाने आकाशादौ अतिव्याप्तिः। अतः अस्ति अनेकसमवेतत्वस्य निवेशावश्यकता । तावन्मात्रोपादाने तु संयोगे अतिव्याप्तिः। संयोगः खलु गुणः द्विष्ठश्च। द्विष्ठः इत्यस्य द्वयोः तिष्ठतीत्यर्थः। घटपटसंयोगः भवति तथाविधः। घटे पटे च सः भवति । अतः समवायेन अनेकवृत्तित्वं तस्य आगतम् ।

[[३४७]]

[[३४८]]

विशेषलक्षणम्

तद्वारणाय नित्यत्वदलमावश्यकम् । संयोगस्य अनित्यत्वात् नातिव्याप्तिः । तथा च नित्यत्वे सति अनेकनिरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वं सामान्यलक्षणं निष्पन्नम् ।

स्वरूपसम्बन्धरूपपदार्थाः (पृ. १८, २३) प्रतियोगित्वावच्छेदकत्वादयः, अखण्डोपाधयश्च समवायत्वाभावत्वादयः स्वरूपापरपर्यायदैशिकविशेषणतासम्बन्धेन भवन्ति । सखण्डोपाधयस्तु भूतत्वादयः निरुक्ताः, तत्पदार्थस्य आधेयतावच्छेदक- सम्बन्धेनैव भवन्ति । यथा भूतत्वं, बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वमिति परिष्कृतम् । गुणवत्त्वं च गुण एव इति तस्य समवायसम्बन्धेन वृत्तित्वात् भूतत्वमपि समवायेनैव वृत्ति । इत्थमेव आकाशत्वादौ चिन्त्यम् ।

अस्य परापरादिविभागः उद्देशग्रन्थे विस्तरेण व्याख्यातः इति नात्र व्याख्येयं किञ्चिदस्ति ।

विशेषलक्षणम्

नित्यद्रव्यवृत्तयो व्यावर्तकाः विशेषाः ।

विशेषं लक्षयति नित्यद्रव्यवृत्तयः इति । अस्यापि परमाणुवृत्तित्वम् आकाशादिवृत्तित्वं (पृ.१४) च पूर्वभागे विस्तरेणोपपादितम्। यावन्तः परमाणवः इतराणि च नित्यद्रव्याणि, तावन्तः सन्ति विशेषाः । ते प्रत्येकं स्वस्वाश्रये इतरभेदं ज्ञापयन्ति। अयं परमाणुः तत्परमाणुभिन्नः विशेषात् इत्येवं सर्वत्र अनुमानप्रकारः अवगन्तव्यः। एवंविधानुमितिजनकः एव व्यावर्तकः इत्युच्यते । यथा गन्धः पृथिव्याम् इतरभेदं साधयति। अतः सः व्यावर्तकः भवति ।

तथा च विशेषलक्षणं यदि व्यावर्तकत्वमित्येव स्यात् तदा गन्धे अतिव्याप्तिः । अतः नित्यद्रव्यवृत्तित्वरूपं विशेषणं दातव्यम् । तदर्थस्तु नित्येतरावृत्तित्वे सति नित्यवृत्तित्वम् । तथा च गन्धे यद्यपि व्यावर्तकत्वं परमाणुरूपनित्यद्रव्यवृत्तित्वं च वर्तते तथापि नित्येतरावृत्तित्वे सति नित्यवृत्तित्वं नास्तीति नातिव्याप्तिः । गन्धस्य अनित्यघटादौ अपि वृत्तित्वात् ।

विशेषलक्षणम

अत एव अभावः इतरभिन्नः अभावत्वात् इति अत्र अभावत्वस्यापि इतरभेदानुमापकत्वात् अत्यन्ताभावरूपनित्यवृत्तित्वादपि नातिव्याप्तिः । तस्य ध्वंसप्रागभावरूपानित्यपदार्थवृत्तित्वस्यापि सत्वेन नित्येतरावृत्तित्वरूपप्रथमसत्यन्तस्य

अभावात् ।

सूक्तिललन्तिका

  • अथ नित्येतरावृत्तित्वे सति व्यावर्तकत्वमिति दलद्वयमेवास्तु किं नित्यवृत्तित्वदलेन । गन्धस्य नित्येतरघटाद्यनित्यवृत्तित्वात् अभावत्वस्यापि ध्वंसप्रागभाव- रूपानित्यवृत्तित्वादेव अतिव्याप्त्यभावात् । न च तथा सति समवायत्वे अतिव्याप्तिः तस्य समवाये इतरभेदानुमापकत्वात् समवायरूपनित्येतरावृत्तित्वादिति वाच्यम् । तदाश्रयसमवायस्य नित्यत्वेन तादृशातिव्याप्तेः नित्यवृत्तित्वनिवेशेऽपि वारणासम्भवात् । अतः नित्येतरावृत्तित्वमित्यस्य नित्यद्रव्येतरावृत्तित्वमित्यर्थः। ततश्च समवायत्वस्य नित्यद्रव्येतरसमवायवृत्तित्वादेव प्रथमसत्यन्ताभावात् द्वितीयसत्यन्तं व्यर्थमेव ।

न चैवमपि परमाणुगन्धे अतिव्याप्तिः । तस्य स्वाश्रये जलभेदसाधकत्वात् ३४९ विशेष्यदलस्य, परमाणुमात्रनिष्ठत्वेन नित्यद्रव्येतरावृत्तित्वस्य सत्वादिति वाच्यम् ।

नित्यद्रव्येतरवृत्तितानवच्छेदकरूपवत्त्वे सति व्यावर्तकत्वस्यैव लक्षणत्वात् । गन्धादि नित्यानित्यसाधारणमिति गन्धत्वाद्यपि नित्यद्रव्येतरवृत्तितावच्छेदकं न अनवच्छेदकम् । विशेषस्य तु नित्यद्रव्यमात्रनिष्ठत्वेन विशेषत्वं भवति नित्यद्रव्येतर- वृत्तितानवच्छेदकमिति तद्वत्त्वसहितव्यावर्तकत्वस्य विशेषलक्षणत्वात् ।

न चैवमपि पार्थिवपरमाणुगन्धवृत्तितद्व्यक्तित्वमादाय तद्दोषतादवस्थ्यम् । तादृशगन्धस्य परमाणुमात्रनिष्ठत्वेन तद्गततद्व्यक्तित्वस्य नित्यद्रव्येतर- वृत्तितानवच्छेदकत्वात्, तद्वतः परमाणुगन्धस्य जलादीतरभेदानुमापकत्वेन विशेष्य- दलवत्त्वादिति वाच्यम् ।

रूपपदेन पदार्थविभाजकोपाधेः विवक्षितत्वात् । तथा च नित्यद्रव्येतर-समवायः

वृत्तितानवच्छेदकपदार्थविभाजकोपाधिमत्वे सति व्यावर्तकत्वमिति दलद्वयघटितं लक्षणम् । तादृशश्चोपाधिः विशेषत्वरूपः एव भवति । विशेषातिरिक्तद्रव्यादि-अभावान्त- षट्पदार्थानां नित्यानित्यसाधारणतया द्रवत्वादिसकलपदार्थविभाजकोपाधीनां नित्यद्रव्येतरवृत्तितानवच्छेदकत्वाभावात् ।

अत्र नित्येतरवृत्तितानवच्छेदकपदार्थविभाजकोपाधिमत्त्वमिति लक्षणकरणे व्यावर्तकत्वरूपविशेष्यदलमपि व्यर्थमेव इति दिक् ।

  • समवायः

नित्यसम्बन्धः समवायोऽयुतसिद्धवृत्तिः । ययोर्द्वयोर्मध्ये एकमविनश्यत् तदवस्थमपराश्रितमेवावतिष्ठते तावयुतसिद्धौ। अवयवावयविनी गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति।

द्रव्यादिवर्तिपदार्थान् निरूप्य तत्र तत्र वृत्तित्वनियामकं समवायं लक्षयति नित्यसम्बन्धः इति । नित्यश्चासौ सम्बन्धश्च इति समासः । तथा च नित्यत्वे सति ३५० सम्बन्धत्वं समवायस्य लक्षणम् । अत्र नित्यत्वमात्रोक्तौ गगनादौ, सम्बन्धत्वमात्रोक्तौ

च संयोगादौ अतिव्याप्तिरिति दलद्वयोपादानम् ।

सम्बन्धः इति पदस्यार्थः लोकसिद्धः। यस्मिन् सति द्वयोः पदार्थयोः इमौ सम्बद्धौ, अयमनेन विशिष्टः इति वा प्रत्ययः जायते सः लोके सम्बन्धः इत्युच्यते । यथा घटभूतलसंयोगः सम्बन्धः इत्युच्यते । कुतः ? तस्मिन् संयोगे सति घटभूतले परम्परसंयुक्ते इति, भूतलं घटविशिष्टमिति वा प्रत्ययः जायते । अङ्गुलिद्वयस्य संयोगस्थले आधाराधेयभावप्रत्ययाभावेऽपि इमे संयुक्ते सम्बद्धे इति प्रत्ययः भवत्येव । तत्र यावन्तः सम्बद्धत्वप्रत्ययाः तावन्तः संयोगाः चक्षुषा अवलोकिता इति न तत्र संयोगनानात्वे विवादः । तादृशलोकसिद्धः संयोगः यत्र बाधितः भवति तादृशानि च पञ्च स्थलानि उद्देशग्रन्थे (पृ.१४) अस्माभिश्चिन्तितानि । गुणगुणिनोः अवयवावयविनोः जातिव्यक्त्योः क्रियाक्रियावतोः विशेषनित्यद्रव्ययोः समवायः इति तत्र निरूपितम् ।

सम्बन्धिनानात्वेपि समवायः एक एव

तत्र सर्वेषां गुणगुण्यादिसम्बन्धिनाम् आधाराधेयभावः प्रसिद्धः एव। गन्धः गुणः, पृथिवी समवायेन तदाश्रयः, शीतस्पर्शः गुणः, जलं समवायेन तदाश्रयः।

सम्बन्धिनानात्वेपि समवायः एक एव

परन्तु समवायस्तु एषः न चक्षुषा गृह्यते । किन्तु विशिष्टप्रत्ययबलात् अनुमीयते । एवञ्च सति आकाशादिवत् तस्य अनुमानसाध्यत्वात् तस्य एकत्वेनैव सर्वविशिष्टप्रत्ययनिर्वाहे नानात्वं न कल्प्यते । तथा च पृथिवी गन्धवती इति प्रत्यये यः समवायः विषयः स एव शीतस्पर्शवत्यः आपः इत्यत्रापि विषयः । समवायसम्बन्धिनः गन्धशीतस्पर्शादयस्तु भिद्यन्ते ।

अत्रोदाहरणम्

तत्र सम्बन्धिनां भेदे सम्बन्धोऽपि अवश्यं भिद्यते यथा संयोगः । अतः अनेके समवायाः कल्पनीयाः इति केचन मन्यन्ते । परन्तु एक एव समवायः इति न्यायमते एव लाघवमिति एकेनोदाहरणेन साधयामः ।

तत्र लोके ‘भूमिक्रयविक्रयादिकार्यम् इति कश्चित् वृत्तिविशेषः। तया जीवन् हि गृहभूम्यादिक्रयविक्रयं साधयति । कश्चित् भूमिं क्रेतुमिच्छति अन्यश्च विक्रेतुम्, उभौ अस्य समीपमागत्य स्वस्वकार्ये तं योजयतः । स च मध्यस्थ उभयोः परिचयं कारयित्वा ततः परं तयोः कार्यसाधनं करोति । अन्यः कश्चित् गृहं क्रेतुमिच्छति तदन्यस्तु गृहं विक्रेतुमिच्छति । अनयोर्माध्यस्थ्यं स एव निर्वहति । अन्यौ आपणं क्रेतुं विक्रेतुं च इच्छतः। तयोरपि स एव मध्यस्थः। इत्थमेव अनेकान् व्यवहारान् प्रकल्प्य तस्य माध्यस्थ्यनिरूपणं कर्तव्यम् ।

एवं सति सर्वत्र क्रेता विक्रेता च मध्यस्थदर्शनात् प्राक् परस्परमपरिचितौ अपि मध्यस्थवशात् परस्परसम्बद्धौ । तत्र च सम्बन्धिनां नानात्वेऽपि मध्यस्थस्य भेदः नैव भवति । एक एव खलु सर्वेषां परस्परयोजनं कृतवान् ।

[[३५१]]

१ - Estate Brocker

[[३५२]]

अयुतसिद्धिः

तथा च सम्बन्धिनानात्वेऽपि सम्बन्धस्य मध्यस्थस्य यथा दृष्टान्ते अभेदः, तद्वदेव गुणक्रियाजात्यादीनाम् आधेयाधाराणां नानात्वेऽपि तत्तदाश्रयेषु विशिष्टप्रत्यय- निर्वाहकः अस्तु अभिन्नः समवायः इति अस्माकं प्रतिभाति ।

न हि संयोगस्य सम्बन्धस्य सतः प्रतियोग्यनुयोगिभेदात् भेद इव प्रकृतेऽपि आवश्यकमिति शक्यं वक्तुम् । पदार्थानां स्वभाववैचित्र्यस्य वारयितुमशक्यत्वात् । अन्यथा संयोगः जन्यः इति समवायोऽपि जन्यः, संयोगः द्रव्ययोरेव इति समवायोऽपि अवयवावयविनोरेव इत्यादिकं बहुतरं कल्पनीयं स्यात् । अतः सम्बन्धिपञ्चकस्थले ऋषिणा कल्पितः एषः सम्बन्धः तादृशः कल्प्यते यः एकः नित्यः अनेकत्र विशिष्टप्रत्ययनिर्वाहकश्च ।

  • अयुतसिद्धिः

स एषः समवायः अयुतसिद्धयोः भवति । युतसिद्धेः अभावः अयुतसिद्धिः। सा ययोः तौ अयुतसिद्धौ तयोः समवायः । तत्र युतसिद्धिः (पृ.९८) इत्यस्य पृथक्सिद्धिः पृथगवस्थितिः इत्यर्थः । सम्बन्धिनोः परस्परपरिहारेण पृथगाश्रये स्थितिरित्यर्थः । यथा भूतलघटयोः भवति युतसिद्धिः । घटः भूतलं विहाय स्वसमवायिकारणे कपाले, भूतलं च घटं विहाय स्वसमवायिकारणे भवति । अतः तौ युतसिद्धौ । तयोः सम्बन्धः संयोगः । गुणगुणिनोः मध्ये यद्यपि गुणी गुणं विहाय स्वसमवायिकारणे भवति परन्तु गुणः नैव तथा भवितुमर्हति। निरूपितमेतदस्माभिः विविधनिदर्शनैः उद्देशग्रन्थे एव । अतः समवायस्थले युगलपञ्चकस्य युतसिद्ध्यभावात् अयुतसिद्धिः भवतीति तेषां समवायः भवति सम्बन्धः ।

अविनश्यत् इति पदस्य अर्थः कः ?

इमामयुतसिद्धिमेव विवृणोति - ययोर्द्वयोरिति । एकमिति पदेन आधेयभूतः पदार्थः ग्राह्यः। अविनश्यत् इति पदे अस्ति विनश्यत् इति पदम् । अस्य पदस्य प्रयोगः नैयायिकैः तत्क्षणवृत्तिपदार्थे क्रियते यत्क्षणाव्यवहितोत्तरक्षणे तस्य पदार्थस्य ध्वंसः भवति । यथा

अविनश्यत् इति पदस्य अर्थः कः ?

चैत्रक्षणः

वैशाखक्षणः

ज्येष्ठक्षणः

आषाढक्षणः

घटः

घटः

घटध्वंसः

घटध्वंसः

चि.स.२२१

तस्मिन्

इह चैत्रक्षणवृत्तिघटः स्वीक्रियते चेत् तदव्यवहितोत्तरक्षणः वैशाखक्षणः, क्षणे न घटनाशः इति चैत्रक्षणे घटः विनश्यन् इति न व्यवह्रियते । किन्तु वैशाखक्षणवृत्ति- घटस्य ग्रहणे तदव्यवहितोत्तरक्षणः ज्येष्ठः क्षणः । तस्मिन् क्षणे भवति घटध्वंसः इति वैशाखक्षणवृत्तिघटः विनश्यन् इति नैयायिकैः व्यवह्रियते। तथाविधः विनश्यन् यः घटः तदन्यः अविनश्यन् इत्यर्थो लभ्यते।

कः भवेत् तादृशघटः ? स्वोत्पत्तिक्षणमारभ्य चैत्रक्षणपर्यन्तं विद्यमानः ।

चैत्र वैशाख ज्येष्ठ

क्षणः

क्षणः क्षणः

फाल्गुन चैत्र वैशाख ज्येष्ठ क्षणः क्षणः क्षणः क्षणः

[[३५३]]

समवायि

कारणादि

घटोत्पत्तिः घटः घटः घटः घटः

विनश्यन् घट

घटः घटः

घटः ध्वंसः

सकल

सामग्री

तथा च पूर्ववैशाखक्षणात् प्रभृति अग्रिमचैत्रक्षणपर्यन्तं घटः अविनश्यन् इत्युच्यते, वैशाखक्षणे एकस्मिन् एव सः विनश्यन् इत्युच्यते, ततः ज्येष्ठक्षणे तस्य ध्वंस भवति ।

एवमेव गुणादौ चिन्त्यम् । तस्य ध्वंसः यत्क्षणे भवति तत्पूर्वक्षणवर्तिगुणः विनश्यन् गुणः इत्युच्यते । ततोऽपि यः पूर्वक्षणः, उत्पत्तिक्षणमारभ्य तत्क्षणपर्यन्तं गुणः अविनश्यन् इत्युच्यते । एवमेव कर्मादौ ।

[[३५४]]

एकमविनश्यदवस्थमित्यादिसङ्ग्रहः

  • एकमविनश्यदवस्थमित्यादिसङ्ग्रहः

एवं च एतादृशः अविनश्यद्घटः कपालाश्रितः एव भवति । अतः अत्र विवरणे अपरपदेन कपालमेव धर्तुं शक्नुमः । न तु उदासीनं भूतलादि । कुतः ? एवकारश्रवणात् । प्रकृते हि विशेषणसङ्गतः एवकारः । तथा हि - एकम् अपराश्रितमेव इति हि भवेत् वाक्यव्यक्तिः। एकमिति विशेष्यम् अपराश्रितमिति विशेषणम्। विशेषणसङ्गतस्य एवकारस्य हि एषः स्वभावः, सः विशेष्ये स्वसम्बद्धपदार्थस्य अभावं वारयति । यथा शङ्खः पाण्डुर एव इति स्थले। अत्र शङ्खः विशेष्यं, पाण्डुरत्वं विशेषणम् । तद्वाचकपदेन पाण्डुरपदेन सङ्गतः एवकारः पाण्डुर एव इत्येवंविधः विशेष्ये शङ्खे सम्बद्धं यत् पाण्डुरत्वं तस्य अभावं वारयति । तथा च शङ्खे पाण्डुरत्वाभावो नास्तीति अवगच्छामः ।

तद्वदेव प्रकृतेऽपि एकम् अपराश्रितमेव इति स्थले एवकारः अपराश्रितमिति यत् विशेषणं तेन सङ्गतः अपराश्रितमेव इत्येवंविधः । सः विशेष्ये एकपदार्थे अपराश्रितपदार्थस्य यः अभावः तदभावं बोधयति । अपराश्रितपदार्थस्तु अपरनिरूपित- वृत्तित्वं, तस्य अभावस्य अभावः प्रकृते बोध्यः भवेत् ।

एवं सति एकपदेन घटस्य ग्रहणे तस्मिन् विशेष्ये अपराश्रितत्वाभावाभावः एवकारेण सम्पाद्यः। तत्र अपरपदेन भूतलादिग्रहणे भूतलाश्रितत्वाभावाभावः भवेत् बोध्यः। स च बाधितः। अविनश्यतः घटस्य हस्तादि - अधिकरणान्तरस्थितिदशायां भूतलाश्रितत्वाभावस्यैव सत्वात् ।

अतः अपरपदेन कपाल एव धर्तव्यः भवति । दर्शितरीत्या पूर्ववैशाखक्षणादारभ्य अग्रिमचैत्रक्षणपर्यन्तं विद्यमानः यः घटः अविनश्यदवस्थः तत्र कपालाश्रितत्वाभावो नैव सम्भवति, सर्वेषु क्षणेषु घटे कपालाश्रितत्वस्य सत्वात् । अतः कपालाश्रितत्वा- भावाभावः एवकारेण शक्यः बोधयितुमिति अपरपदेन कपाल एव ग्राह्यः । तथा च एकपदेन घटस्य अपरपदेन कपालस्य ग्रहणात् तौ द्वौ घटकपालौ अयुतसिद्धौ इति तयोः सिद्धः समवायः सम्बन्धः।

RECE

अभावविभागः एवं रूपस्यापि अविनश्यदवस्थस्य घटादिनिरूपितवृत्तित्वाभावाभावः अबाधितः, न तु अन्यनिरूपित इति तादृशरूपम् एकपदेन घटश्वापरपदेन गृहीत्वा तयोः अयुतसिद्धत्वं समवायश्च समर्थनीयः।

अथैवं चिन्तने पूर्ववैशाखक्षणमारभ्य अग्रिमचैत्रक्षणपर्यन्तं यः स्थूलकालः तद्वर्तिनः अविनश्यदवस्थस्य घटस्य कपालवृत्तित्वलाभेऽपि विनश्यतः स्वध्वंसोत्पत्ति- अव्यवहितप्राक्क्षणवर्तिनः घटस्य कुत्र स्थितिः स्यात् ? न कुत्रापि इति ब्रूमः । निराश्रित एव भवति घटः विनश्यदवस्थः ।

एतेन यन्निष्ठकालनिरूपितवृत्तित्वसामान्यमित्यादिन्यायबोधिनीग्रन्थः अन्यथा व्याख्येयः। तादृशवृत्तित्वसामान्यान्तर्गतविनश्यदवस्थघटनिष्ठवृत्तित्वस्य कपालाद्यवच्छिन्नत्वाभावेन द्वितीययत्पदेन कपालादिग्रहणासम्भवात् । एतस्य तत्त्वं तु दिनकर्यादिग्रन्थेषु द्रष्टव्यम्।

प्रकृतमनुसरामः। अविनश्यत् इत्यस्य, विनश्यत् यत् तद्भिन्नमिति अर्थकरणात् नित्यायाः जातेः विशेषस्यापि ग्रहणं सुशकम् । न च तयोः विनाशिता अस्ति नित्यत्वादेव । अतः एकमविनश्यत् जातिः विशेषश्च, व्यक्तिनित्यद्रव्यनिरूपितवृत्तित्वाभावाभाववन्तौ भवतः इति जातिव्यक्त्योः विशेषनित्यद्रव्ययोश्च समवायः सिद्धः ।

  • अभावविभागः

अनादिः सान्तः प्रागभावः । उत्पत्तेः पूर्वं कार्यस्य । सादिरनन्तः प्रध्वंसः । उत्पत्यनन्तरं कार्यस्य । त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः । यथा भूतले घटो नास्तीति। तादात्म्यसम्बन्धावच्छिन्न- प्रतियोगिताकोऽन्योन्याभावः । यथा घटः पटो न भवतीति ।

निरूपिताः विस्तरेण भावाः । सम्प्रति अभावानाह प्रागभाव इत्यादिना । अनादिरिति । अनादि इत्यस्य कः अर्थः ? यदि च प्रागभावाप्रतियोगित्वं तदा प्रागभावलक्षणे प्रागभावः प्रविष्टः इत्यात्माश्रयो दोषः। यस्य लक्षणं कर्तुं प्रवृत्तं, तस्य १ - विशेषलक्षणे

[[३५५]]

[[३५६]]

अभावविभागः

बोधनाय तस्यैव आश्रयणं क्रियते चेत् भवति आत्माश्रयः। यथा प्रकृते प्रागभावलक्षणे प्रागभावप्रवेशः।

अतः आदिः उत्पत्तिः आद्यक्षणसम्बन्धः यस्य वर्तते सः आदिः तादृशसम्बन्धशून्यः अनादिः इति व्याख्येयम्। घटादिश्च भवति एवंविधः सादिः। तत्र आद्यक्षणसम्बन्धसत्वात् तदन्यत्वं प्रागभावेऽस्ति, एवं सान्तत्वं ध्वंसप्रतियोगित्वं चास्तीति समन्वयः । घटोत्पत्तिकाले च प्रागभावस्य ध्वंसः निरूपित एवास्माभिः (पृ.१४२) तत्रैव द्रष्टव्यः। एतस्य प्रागभावस्य प्रतीतिकालमाह उत्पत्तेः पूर्वं कार्यस्येति । इदमपि (पृ.२७) वर्णितं तत्रैव द्रष्टव्यम्।

ध्वंसलक्षणमाह - सादिरनन्त इति । इहापि दलसार्थक्यं पूर्ववत् बोध्यम् ।

अत्यन्ताभावलक्षणमाह - त्रैकालिक इति । अस्य नित्यः इत्यर्थः । संसर्गाभावः इति च विशेष्यदलम्। तस्य संसर्गेण अभावः इति विग्रहः । तेन च संसर्गस्य, सम्बन्धस्य प्रतियोगितावच्छेदकत्वलाभः। तथा च नित्यत्वे सति संसर्गावच्छिन्नप्रतियोगिताकाभावत्वं अत्यन्ताभावलक्षणं पर्यवसितम् ।

संयोगेन घटो नास्ति, समवायेन घटो नास्तीति प्रतीतिर्भवति । अतः अत्यन्ताभावप्रतियोगितानां तत्तत्सम्बन्धविशेषावच्छिन्नप्रतियोगिताकत्वं (पृ.४७) सिद्धमिति विशेष्यदललाभः। तादृशाभावस्य उत्पत्तिनाशसाधकप्रमाणाभावात् तस्य नित्यत्वं त्रैकालिकत्वापरपर्यायमपि सिद्ध्यति ।

यद्यपि उद्देशग्रन्थे घटः एव अभावं नाशयितुं प्रभवतीति लिखितम्। परन्तु तत् बालबोधनायैव। वस्तुतः घटे सति अभावः न प्रतीयते, न ज्ञायते इत्येव वक्तव्यम् । घटस्यापसारणे, उत्पत्तिक्षणपूर्वक्षणपर्यन्तं, ध्वंसक्षणमारभ्य वा खलु प्रतीयते इह भूतले घटो नास्तीति अत्यन्ताभावः । तस्य न तत्तत्काले उत्पन्नस्य भानं किन्तु प्रयुक्तस्य भानम् । (पृ.१६०) यथा ज्ञाने सति विषयता प्रयुज्यते तथा अत्यन्ताभावः नित्यः, प्रयुज्यते ।

CECES

विशेषाभावस्य सम्प्रदायसिद्धमुदाहरणम्

घटापसारणसामग्री तध्वंससामग्री वा तत्र तत्र अभावस्य प्रयोजिका । तया च प्रयुक्तः अत्यन्ताभावः प्रतीयते। अतः युज्यते मूलोक्तं त्रैकालिकत्वम्।

अत्र विशेषणमात्रोक्तौ आकाशादौ अतिव्याप्तिः । अतः अभावत्वं दातव्यम्। तस्यापि अन्योन्याभावे सत्वात् अतिव्याप्तिरिति संसर्गावच्छिन्नप्रतियोगिताकत्वम् अभावत्वविशेषणम्। संसर्गपदेन तादात्म्यातिरिक्तसंसर्गाः अभिप्रेताः। यथाश्रुते नित्यत्वस्य तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वस्य अन्योन्याभावे सत्वात् अतिव्याप्तितादवस्थ्यात् । उक्तविवक्षायां तु तादात्म्यातिरिक्तसम्बन्धः न अन्योन्याभावप्रतियोगितावच्छेदकः इति नातिव्याप्तिः ।

तादात्म्यातिरिक्तसंसर्गावच्छिन्नप्रतियोगिताकाभावत्वमिति पर्यवसित विशेष्यदलमात्रनिवेशे ध्वंसप्रागभावयोः अतिव्याप्तिः। कपाले समवायेन घटः उत्पद्यते, समवायेन घटो नष्टः इत्यादिप्रत्ययैः ध्वंसप्रागभावयोरपि प्रतियोगिता भवति तादात्म्यातिरिक्तसम्बन्धावच्छिन्ना। अतः तादृशातिव्याप्तिवारणाय त्रैकालिक- पदोपादानम्। तयोः प्रतियोगिता न संसर्गेणावच्छिद्यते इति मते तु न देयमेव ।

निरूपितं दलसार्थक्यम् । अस्यैव अत्यन्ताभावस्य उद्देशग्रन्थे अस्माभिः विशेषाः निरूपिताः। मत्स्येव दृश्यमानां समान्याभावः चातकेन अनुभुयमानः भावः इति च तत्र निरूपितम्। तत्रैव प्रतियोगितानां भेदज्ञायनाय अवच्छेदकत्वपदार्थोपि वर्णितः । जलत्वम् वृष्टिजलत्वम् स्वातीनक्षत्रयिवृष्टिजलत्वं च तत्र तत्रावच्छेदकमिति च चिन्तितम् ।

  • विशेषाभावस्य सम्प्रदायसिद्धमुदाहरणम्

तत्रैव च विशिष्टाभावस्य सम्प्रदायसिद्धमुदाहरणं ग्रन्थसमाप्त्यवसरे भगवत भागीरथीम् अस्माकं गुरुपरम्परां च स्मर्तुं निरूपयामि । अनेकविधपापक्षालनार्थं भागीरथीम् अवगाहन्ते आस्तिकाः सभक्तिश्रद्धम् । तेन पापक्षालनेन तस्याः गुणवैषम्यात् पित्तप्रकोपः अभूत् । मूर्च्छिता च भगवती, गङ्गातीरे एव पतिता । उषःकाले नगरस्थाः अनेके शिष्टाः स्थानार्थं तत्र तत्र घट्टे अवतीर्णाः। तेषु च भिषग्वर्याः श्रीत्र्यम्बकशास्त्रिणः

[[३५७]]

[[३५८]]

विशेषाभावस्य सम्प्रदायसिद्धमुदाहरणम्

अपि आसन्। आह्निकं सर्वं समाप्य अन्धकारे एव ते स्वगृहं प्रति निर्गताः ।

मार्गे च किञ्चित् लग्नं पादयोः इति अवधानेन दर्शने, तत्र भगवतीं गङ्गामेव मूर्च्छितामपश्यन् । सपदि नदीजलेन प्रोक्षणं कृत्वा, वस्त्रमेव व्यजनं कृत्वा तवातेन शुश्रूषिता सती श्रमेण उपविष्टा। त्र्यम्बकशास्त्रिभिः तस्याः नार्डी दृष्ट्वा दोषं बुध्वा चोक्तं गुडुचवल्याः कषायः पातव्यः । किदृशी गुडुचवली ? ब्राह्मणानां ग्रामे यत् शिवमन्दिरं, तत्समीपे विद्यमानः यः निम्बवृक्षः, तस्मिन् विद्यमाना या गुडुचवल्ली

तस्याः कषायः पातव्यः ।

इदं चोपदिश्य अन्येषां रुग्णानां परिचर्यायै भिषग्वर्याः निष्क्रान्ताः। परन्तु तत्र पतितां मातरं दृष्ट्वा अन्येऽपि तत्परिचर्यांयै प्रवृत्ताः । अप्राक्षुः किमौषधं सम्पादनीयमिति । गुडुचवल्लीकषायः…..। पुनश्च मूर्च्छिता माता । श्रुत्वा च तं शब्दं भक्तः कश्चित् नगरं प्रविश्य गुडुचवल्लीं सम्पाद्य, कषायम् अदात् तस्यै । मात्रा सः पृष्टः । किदृशी गुडुचवल्ली त्वया गृहीता ? स उक्तवान्, प्रसिद्धा आपणात् आनीता । तदा मात्रा अभिहितम्, न, निम्बवृक्षे विद्यमाना गुडुचवल्ली…..। पुनः सा मूर्च्छिता ।

अत्र चिन्त्यताम् । कीदृशमभावमनुभूय पुनः पुनः मूर्च्छिता माता । गुडुचवल्याः अभावम् । तर्हि प्रतियोगिता गुडुचवल्याम् । किम् अस्याः अवच्छेदकम् ? प्रतियोगिनि यत् विशेषणं तत् प्रतियोगितावच्छेदकम् । तच्च गुडुचत्वम् । न तावन्मात्रम् । किन्तु सा गुडुची निम्बवृक्षनिष्ठा इत्युक्तम् । अतः गुडुचत्वमिव निम्बवृक्षोऽपि प्रतियोगिविशेषणम् । तत्रापि तर्हि प्रतियोगितावच्छेदकता ।

निम्बवृक्षे या अवच्छेदकता तदाश्रये निम्बवृक्षेऽपि द्वे विशेषणे। एकं निम्बवृक्षत्त्वम् अपरं शिवमन्दिरम्। तयोः सम्प्रति अवच्छेदकतायाः अवच्छेदकता भवति । तत्रापि शिवमन्दिरे ग्रामः विशेषणम्। अतः शिवमन्दिरनिष्ठावच्छेदकतायाः द्वे अवच्छेदके, शिवमन्दिरत्वं ग्रामश्च। ग्रामे विद्यमानायाः अवच्छेदकतायाः द्वे अवच्छेदके ग्रामत्त्वं, ब्राह्मणश्च । ब्राह्मणे तु ब्राह्मणत्वमेव विशेषणम् । अतः तन्निष्ठावच्छेदकता ब्राह्मणत्वावच्छिन्ना ।

विशेषाभावस्य सम्प्रदायसिद्धमुदाहरणम्

अवच्छेदकता

ब्राह्मणत्वम्

निरूपित

अवच्छेदकता

ग्रामत्वम्

विशेषणम्

निरूपित

विशेषणम्

निरूपित

अवच्छेदकता

ब्राह्मणः

निरूपित

विशेषणम्

अवच्छेदकता

ग्रामः

अवच्छेदकता

शिवमन्दिरत्वम्

अवच्छेदकता

शिवमन्दिरम्

विशेषणम्

निरूपित

विशेषणम्

निरूपित

अवच्छेदकता

निम्बवृक्षत्वम्

[[३५९]]

अवच्छेदकता

विशेषणम्

निरूपित

गुडुचत्वम्

विशेषणम्

प्रतियोगिता

गुडुची

अवच्छेदकता

निम्बवृक्षः

विशेषणम्

गुडुची नास्तीति अभावः

विशेषणम्

चि.स.२२२

तथा च ब्राह्मणत्वनिष्ठावच्छेदकतानिरूपिका या ब्राह्मणनिष्ठावच्छेदकता तन्निरूपिका अथ च ग्रामत्वनिष्ठावच्छेदकतानिरूपिका या ग्रामनिष्ठावच्छेदकता तन्निरूपिका अथ च शिवमन्दिरत्वनिष्ठावच्छेदकतानिरूपिका या शिवमन्दिर-३६०

विशेषाभावस्य सम्प्रदायसिद्धमुदाहरणम्

निष्ठावच्छेदकता तन्निरूपिका अथ च निम्बवृक्षत्वनिष्ठावच्छेदकतानिरूपिका या निम्बवृक्षनिष्ठावच्छेदकता तन्निरूपिका अथ च गुडुचत्वनिष्ठावच्छेदकतानिरूपिका या गुडुचनिष्ठप्रतियोगिता तादृशप्रतियोगितानिरूपकः अभावः भागीरथ्या दृष्टः ।

ततश्च केनचित् श्रमेण एवंविधां गुडुचीं सम्पाद्य दत्तः कषायः निवारितञ्च वैषम्यं प्रसन्ना च सा भगवती अस्मान् पुनाति इति ।

लक्षितं सामान्याभावमुदाहरति भूतले इति । अयमन्योन्याभावश्च उद्देशग्रन्थे विस्तरेण निरूपित इति तत्रैव द्रष्टव्यः ।

सर्वेषां पदार्थानां यथायथमुक्तेष्वन्तर्भावात्सप्तैव पदार्थाः इति सिद्धम् । काणादन्यायमतयोर्बालव्युप्तत्तिसिद्धये ।

अन्नम्भट्टेन विदुषा रचितस्तर्कसङ्ग्रहः ।

इति श्रीमन्महामहोपाध्यायान्नम्भट्टविरचितः तर्कसङ्ग्रहः समाप्तः । प्रतिज्ञाताः सर्वादौ सप्त पदार्थाः । तेषु एव सकलपदार्थानाम् अन्तर्भावं निगमयति । सर्वेषामिति ।

इति श्रीगोडाकुलाब्धिपूर्णचन्द्रमहामहोपाध्यायश्रीसुब्रह्मण्यगुरुचरणान्तेवासिनः देवदत्तस्य कृतौ तर्कसङ्ग्रहव्याख्यायां विद्याधरीसञ्ज्ञकायाम् अवशिष्टखण्डः ।

। समाप्तश्चायं ग्रन्थः ।

। शिवम् ।


परिशिष्टम्-१

विभागसाधनायानुमानम्, तत्र अपूर्वः कोटिक्रमः

परिशिष्टम् - १

संयोगनाशेनैव उपपत्तौ विभागः नातिरिक्तः गुणः । तत्स्वीकारेऽपि न तस्य संयोगनाशम्प्रति कारणत्वम् इति शङ्का विभागनिरूपणे कृता । तस्याः च परिहाराय सङ्क्षेपतः तत्प्रकरणे अनुमानमुक्तम् । इह च जिज्ञासूनां प्रमोदाय कश्चित् कोटिक्रमः प्रदर्श्यते ।

तथा हि - जनकनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः। जनकनाशाजन्यत्वे सति गुणनाशत्वात्, तेजःसंयोगजन्यरूपनाशवत् । गुणनाशो हि क्वचित् समवायिकारणनाशेन, क्वचित् असमवायिकारणनाशेन, क्वचित् निमित्तकारणनाशेन च भवति । आद्यः यथा घटध्वंसेन रूपरसादीनां ध्वंसः। द्वितीय : दिक्पिण्डसंयोगरूपासमवायिकारणनाशेन परत्त्वादिनाशः। तृतीयः अपेक्षाबुद्धिरूप-निमित्तकारणनाशेन द्वित्त्वादिनाशः ।

एतद्भिन्नः गुणनाशः स्वाधिकरणे विद्यमानेन गुणान्तरेणैव भवति । यथा घटादिषु रूपादीनां नाशः पिठरपाकवादिनैयायिकमते तेजः संयोगात् जायते। यथा वा द्रवत्वनाशः तेजः- संयोगेन । एवम् आत्मसमवेतज्ञानादीनामपि नाशः।

तथाविधः खलु जनकनाशाजन्यः संयोगनाशः समानाधिकरणगुणजन्यः । सः गुणः ३६१ एव विभागः।

[[1]]

अत्र पक्षकुक्षौ जनकनाशाजन्यत्वानिवेशे जनकनाशजन्यध्वंसे समानाधिकरणगुण- जन्यत्वाभावात् बाधः। अतः तद्विशेषणम् । तत्रैव गुणपदानुपादाने जनकनाशाजन्यक्रियानाशे हेत्वभावात् भागासिद्धिः। तद्वारणाय गुणपदम् ।

"

न च हेतौ एव गुणपदं मास्तु । तेन च हेतुसत्त्वनिर्वाहात् न भागासिद्धिरिति वाच्यम् । तथा सति प्रागभावध्वंसे व्यभिचारप्रसङ्गः । तत्र हि अनादित्वाच्च प्रागभावस्य तद्ध्वंसस्य कार्यसामग्रीप्रयुक्तत्वात् जनकनाशाजन्यध्वंसत्वं प्रकृतहेतुः वर्तते । समानाधिकरणगुणजन्यत्वं नास्तीति हेतुमति साध्याभावात् व्यभिचारः। अतः सार्थकं हेतौ गुणदलम् ।

न चैवमपि घटसामग्रीमध्यपतितः कपालद्वयसंयोगोऽपि घटप्रागभावध्वंसाधिकरणे विद्यमानः गुणः। तज्जन्यत्वात् च तादृशध्वंसस्य, तस्मिन् हेतुमति समानाधिकरणगुणजन्यत्वरूपस्य साध्यस्यापि सत्वात् न व्यभिचार इति वाच्यम् ।

[[३६२]]

परिशिष्टम् - १

तादृशसंयोगस्य हि सामग्रीत्वेनैव, सामग्रीघटकत्वेनैव वा प्रागभावध्वंसप्रयोजकत्वं न तु समानाधिकरणगुणत्वेन इति विशिष्टसाध्यासत्वात् व्यभिचारतादवस्थ्यात् । अतः हेतौ गुणपदं सार्थकमेव ।

साध्यशरीरे गुणपदानिवेशे ध्वंससामान्यस्य जन्यत्वात् सिद्धसाधनम् ।

हेतौ जनकनाशाजन्यगुणध्वंसत्वम् इत्यत्र जनकनाशाजन्यत्वानुपादाने समवायि- कारणादिनाशजन्ये रूपादिनाशे व्यभिचारः । तत्र गुणध्वंसत्वस्य सत्त्वात्, समानाधिकरण- गुणजन्यत्वाभावात् ।

न च रोगजन्ये संस्कारध्वंसे व्यभिचारः । तत्र साध्याभावात्, तादृशगुणध्वंसत्वरूपहेतोः सत्त्वादिति वाच्यम् । रोगस्य अनाशकत्वात् । अन्यथा चिकित्सितो न स्मरेत् । अतः रोगः न नाशकः किन्तु अभिभावक एव इति न व्यभिचारः ।

चरमस्मरणस्य संस्कारनाशकस्य समानाधिकरणगुणत्वात्, तज्जन्यध्वंसे च हेतुसाध्य- वत्त्वात् दृष्टान्तत्त्वमेव इति न दोषः । न चैवमपि वेगनाशे क्रियाजन्ये जनकनाशाजन्यध्वंसत्ववति साध्याभावात् तद्दोषतादवस्थ्यमिति वाच्यम् ।

स्वजन्याजन्यत्वस्य हेतौ विशेषणीयत्वात् । एवमपि तत्रैव बाधः इति न च वाच्यम् । पक्षेऽपि स्वजन्याजन्यत्वस्य विशेषणादिति दिक् ।

LEEES.

अनुमानम्

परिशिष्टम्-२

ग्रन्थे प्राधान्येन प्रतिपादितानां विषयाणां पृष्ठानि

परिशिष्टम् - २

(पृ. ५२, ६६, ७०, १२५, १५६, १७९, ३३३)

अवच्छेद्यावच्छेदकभावः (पृ. २१, २६, ४५, ५५, २२६, २२८)

(पृ. ७९, २६६)

अव्याप्यवृत्तित्वम्

असमवायिकारणम्

(पृ. ८९, ९४, १०९, १२७, १४८)

आधाराधेयभावः

ईश्वरेच्छा शक्तिः कार्यकारणभावः

ज्ञानप्रभेदः

• ज्ञानस्वभावः

निमित्तकारणत्वम्

निरूप्यनिरूपकभावः

प्रतिबध्यप्रतिबन्धकभावः

प्रतियोग्यनुयोगिभावः

प्रयोज्यप्रयोजकभावः

शाब्दबोधः

समवायिकारणम्

(पृ. ३, ३९, ४५, ६३, १३२)

(पृ. ९, २०९, २८७)

(पृ. २९, ८२, ८९, ९४, १०२, १०९, ११५, १२३,

१३७, १५१, १५७)

(पृ. १३०, १६७, १६९, १८५, ३३०)

(पृ. ३२, ६४, ६७, ६८, १३३, १३४, १६२, १६४,

१६७, १७९, १८८, २२३, २२५, ३३४)

(पृ. ११५, १४५, १४६)

(पृ. ५, २६)

(पृ. ८४, १५७, १९०, १९७, २२२)

(पृ. १७, २७, ४७, २१८, ३५७)

(पृ. १५९, १६१, १९५)

(पृ. १२५, १५७, १५९, १८०, २०२, २१७, २८५,

२९२)

(पृ. ८६, १४४)

[[३६३]]

नामप्रकृतिः

प्रकृतिः

पदप्रपञ्चः

पदम्

प्रत्ययः

निपातः

धातुप्रकृतिः

धर्मबोधकः धर्मिबोधकः

प्रत्ययः

प्रत्ययः

विशेषण- विशेष्य- अकर्मिका सकर्मिका

बोधिका बोधिका

सविषयार्थ- शुद्ध-

धात्त्वर्थ- तद्भिन्न- बोधिका व्यापार-

विशेषण- विशेषण-

जानाति

बोधिका

बोधिका बोधिका

तिष्ठति

स्तोकम् नीलम्

तिङ्प्रत्ययः सुप्प्रत्ययः

सविषयक- संयोगादि-

सम्बन्ध-

विशेषणक- फलजनक-

कारकाश्रय

बोधिका

निरूपक- व्यापार- व्यापार-

बोधिका

बोधिका

बोधिका

ग्रामम्

ग्रामस्य

ब्रूते

गच्छति

भाव- फल-

कृति-

बोधकः बोधकः बोधकः

कृत् तद्धित-

प्रत्ययः प्रत्ययः ग्राह्यः काषायम

स्थीयते गम्यते गच्छति

निपातान्वयी सम्बन्ध- अभेद- कारक-

चैत्र इव

बोधकः बोधकः बोधकः

ग्रामस्य नीलम् ग्रामम्

सङ्ख्या-

मात्र-

बोधकः

चैत्रः

व्याख्याकार का सङ्क्षिप्त परिचय

डॉ. देवदत्त गोविन्द पाटील

जन्म : ८ जुलाई १९६९, गोवा

• पुणे में श्री नवाथेगुरुजी के पास ऋग्वेद शाकल शाखा का

अध्ययन ।

• वाराणसी में गोविन्द शास्त्री पाठक के निकट लीलावती बीजगणित इत्यादि गणित के सिद्धान्त ग्रन्थों का अध्ययन तथा श्री गणेश्वर द्राविड शास्त्री, डा.वा. रामकृष्ण भट्ट जी के पास न्याय का अध्ययन ।

• काञ्चीपुरम् में महामहोपाध्याय श्री. गोडा सुब्रह्मण्यशास्त्रीजी के पास तर्कसङ्ग्रह से गोलोक तक गादाधरी, जागदीशी दोनों सम्प्रदायों का अध्ययन, सिद्धान्तकौमुदी, अद्वैतसिद्धि, ब्रह्मानन्दीय ग्रन्थों का

अध्ययन ।

चेनैई में मणि द्राविड गुरुजी के पास मीमांसा का पाङ्क्त अध्ययन पूरा किया।

प्राप्त उपाधियाँ :

विद्वत्प्रवर (न्याय) : शृङ्गेरी जगद्गुरु श्री भारतीतीर्थ स्वामीजी से प्राप्त एम.ए., कर्नाटक मुक्त विश्वविद्यालय

(१९९८)

(१९९८)

अद्वैतसिद्धिरत्नाकर : (वेदान्तशास्त्र) सुधर्म रक्षण परिषद्, तेनाली

(२०००)

विद्यावाचस्पति (पीएच.डी.), पुणे विद्यापीठ

(२००२)

विद्वत्प्रवर (मीमांसा) : शृङ्गेरी जगद्गुरु श्री भारतीतीर्थ स्वामीजी से प्राप्त (२०१०) और अन्य ।

प्राप्त सन्मान :

मानव संसाधन विकास मन्त्रालय द्वारा भारत के महामहिम राष्ट्रपति डॉ. ए.पी.जे.अब्दुल कलाम जी के करकमलों सें महर्षी बादरायण व्यास सन्मान से सम्मानित

(२००३)

ब्रह्मवृन्द पुरस्कार -

शिरोडा, गोवा

(२००२)

स्वर्णाङ्गुलीयक पुरस्कार -

शारदापीठ शृङ्गेरी

(२००३)

पीठारोहण स्वर्णमहोत्सव पुरस्कार-

काञ्ची पीठ

(२००३)

शास्त्रपयोनिधिः -

वेदशास्त्र प्रबोधन समितिः धारवाड

(२०१०)

अधोक्षजप्रशस्ति

पेजावरमठ

(२०१०)

सुशमीन्द्रप्रशस्ति -

मन्त्रालयमठ

(२०११)

तर्कवागीश -

शकटपूर बदरी शङ्कराचार्य पीठ

(२०१३)

निम्न विश्वविद्यालय, शैक्षणिक संस्थाओं में सभा, प्रशिक्षण वर्ग, चर्चा सत्रों में सहभाग :

शृङ्गेरी शारदापीठ, शकटपूर बदरी शङ्कराचार्य पीठ, काञ्ची कामकोटी पीठ, शङ्कराचार्य संस्कृत विश्वविद्यालय (कालटी), राष्ट्रीय संस्कृत विद्यापीठ (तिरूपती), पूर्णप्रज्ञ विद्यापीठ (बङ्गलोर)

श्रीनृसिंह सरस्वती पाठशाला, पुणे शास्त्रविभाग में विगत १५ सालों से शास्त्राध्यापन ।

११ छात्रोन्ने न्याय का पाङ्क्त अध्ययन किया । जो स्वयं भी उसी रीती से अध्यापन कर रहे हैं। साम्प्रत मीमांसा तथा गणित का अध्यापन ।