०८ शब्दखण्डः

  • शब्दखण्डः

आप्तवाक्यं शब्दः । आप्तस्तु, यथार्थवक्ता । वाक्यं पदसमूहः। शक्तं पदम्। अस्मात्पदादयमर्थी बोद्धव्य इतीश्वरसङ्केतः शक्तिः ।

निरूपितमुपमानम्। सम्प्रति चरमप्रमाणलक्षणमाह आप्तवाक्यमिति । शब्दः इति लक्ष्यनिर्देशः। तल्लक्षणमुक्तमाप्तवाक्यमिति। आप्तस्य यद्वाक्यं तत् भवति प्रमाणम् । लक्षणे द्वे पदे वर्तते। तयोः प्रत्येकार्थनिरूपणे लक्षणार्थो निरूपितो भवतीति आदौ आप्तशब्दार्थमाह आप्तस्तु यथार्थवक्ता इति । यः खलु यथार्थं जानाति स एव सत्यं वक्तुं प्रभवतीति वक्तुः प्रमात्मकं ज्ञानमावश्यकम् । कश्चित् सम्यक् ज्ञात्वाऽपि यदि परं वञ्चयितुमिच्छति, कथं सः सत्यं ब्रूयात् । अतः न प्रमया अलम् । किन्तु सः अप्रतारकः भवेत्।

नैतावताप्यलम् । यतो हि कश्चित् यथार्थज्ञानवान् न प्रतारयितुमिच्छति, परन्तु न सः वक्तुमपि इच्छति चेत् किं सः भवेत् आप्तः ? अभाषमाणस्य कस्तावत् शब्दः को वा तस्य प्रामाण्यविचारः ? अतः आदौ तस्य विवक्षा अपेक्ष्यते । आहत्य २८७ च यः अवञ्चकः वक्तुमिच्छति, निरूपणार्थं यथार्थज्ञानमपि तस्यास्ति सः भवति आप्तः। तादृशस्य आप्तस्य वाक्यं भवति प्रमाणशब्दः ।

तत्र वाक्यलक्षणमाह वाक्यं पदसमूहः इति । घटकज्ञानेन घटितज्ञानं भवतीति नियमः तत्करणमपि चतुर्विधमिति प्रत्यक्षखण्डगतपङ्क्तिव्याख्यानावसरे दर्शित एव । तथा च समूहपदस्य प्रसिद्धार्थकत्वात् पदज्ञानेन वाक्यं ज्ञातं भवतीति पदस्य लक्षणम् आह शक्तं पदमिति। शक्तं शक्तिमत् इत्यर्थः ।

शक्तिनिरूपणम्

केवलान्वयिप्रकरणे (पृ.२११) दर्शितरीत्या हि अत्र विषयः अवगन्तव्यः । वर्णसमूहात्मकं पदमिति तत्रोक्तम् । तत्रापि वर्णानां विलक्षणः क्रमः अपेक्षितः। सरः इति रस इति पदयोः सन्ति ते एव वर्णाः, सकारः रेफः द्वौ अकारौ । परन्तु वर्णानां

[[२८८]]

शक्तिनिरूपणम्

तुल्यत्वेऽपि आदिमे पदे सकारः आदौ भवति ततः रेफः । द्वितीये तु रेफः आदौ भवति ततः सकारः । एवञ्च तैरेव वर्णैः क्रमविशेषयुक्तैः विलक्षणार्थप्रतीतिः सर्वानुभवसिद्धा इति सर इति एकं पदम्, अपरं तु रस इति ।

उक्तक्रमविशिष्टानां वर्णानां बोधकता किमधीना इति चिन्तनं सर्वैः तान्त्रिकैः क्रियते। यथा सर इति पदेन जलह्रदः बोध्यते रस इति पदेन माधुर्यादिरूपः गुणविशेषः। किमधीना इयं व्यवस्था यत् सर इति पदं ह्रदमेव बोधयति न माधुर्यादिगुणान्, एवं रसपदस्थलेऽपि कुतो न ह्रदबोधः इति। एतादृर्शी व्यवस्थां सर्वेऽपि शास्त्रकाराः तत्तदनुकूल- प्रकारेण वर्णयन्ति। न्यायशास्त्रे तु अत्र ईश्वरेच्छां व्यवस्थापिकां मन्यन्ते।

लोके हि अपत्ये उत्पन्ने एकादशेऽहनि पित्रोः इच्छया पिण्डस्य सञ्ज्ञा भवति, अयं यज्ञदत्तः इति । तत उर्ध्वं यज्ञदत्त इति सञ्ज्ञया शिशोः ज्ञानं भवति । यज्ञदत्त इति सञ्ज्ञा, तच्छिशोः जन्मनः प्राक् पश्चात् च दशदिनानि आसीदेव । सः शिशुरपि जन्मनः प्रभृति दश दिनानि यावत् सुखेन स्थितः । परन्तु तेषु दशसु दिवसेषु सञ्ज्ञायाः शिशोश्च कश्चित् सम्बन्धः न प्रतीतः । एकादशेहनि परं पित्रोरिच्छया शिशुः यज्ञदत्तसञ्ज्ञया सह योजितः इति ततः परं तया सञ्ज्ञया व्यवहृतः भवति । एवञ्च इदानीन्तने व्यवहारे पित्रोरिच्छायाः नियामकत्वे अनादिघटादिव्यवहारेऽपि तथाविधेच्छा एव नियामिका इति कथनं युज्यते एव।

परन्तु अस्मदीया क्षणिकेच्छा कथमीदृशे अनादिव्यवहारे भवेत् नियामिका इति ईश्वरेच्छा एव तत्र नियामिका इति कल्प्यते । तस्याश्च इच्छायाः वैशेषिकगुण- गणनायाम् इच्छा इति प्रयोगेऽपि वस्तुनः पदस्य च बोध्यबोधकसम्बन्धनियन्त्रणाय अभिधा इति शक्तिः इति वा व्यवहारः । सा च शक्तिः सविषयकपदार्थः इति तदाकारमाह मूले - अस्मात्पदात् इति ।

अस्मात् इत्यत्र इदम्पदं सर्वनाम सर्वासां सञ्ज्ञानाम् उपस्थापकम्। अयमर्थः इत्यत्रापि अस्ति इदम्पदम्। तत्तु जगति विद्यमानानि सर्वाणि वस्तूनि उपस्थापयति।

शक्तिनिरूपणम

तथा च तस्यामिच्छायां सर्वाणि पदानि सर्वेऽपि चार्थाः विषयाः इत्यागतम्। अतश्च इयं समूहालम्बनात्मिका इच्छा सर्वान् अर्थान् मुख्यविशेष्यविधया अवगाहते पदानि च प्रकारविधया। न पदानि एव इच्छायां प्रकारविधया भासन्ते, किन्तु तादृशपदेन जायमानः यः बोधः तद्विषयत्वमपि अर्थेः भासते । तानेतान् अर्थान् चित्ररूपेण

पश्यामः।

घटपदम्

पटपदम्

जन्यत्वम्

जन्यत्वम्

बोधः

बोधः

शक्तिः

शक्तिः

विषयत्वम्

विषयत्वम

मुख्यविशेष्यता

मुख्यविशेष्यता

घटः

पटः

चि.स. १९७

अत्र परामर्शप्रकरणोक्तरीत्या प्रकारताविशेष्यतादिघटनपुरस्सरं निरूपणं कीदृशं भवेदिति चिन्तयामः। तत्र ईश्वरेच्छा घटांशे घटपदजन्यबोधविषयत्वं प्रकारविधया अवगाहते इति घटपदत्वावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छिन्नजन्यत्वत्वा- वच्छिन्नप्रकारतानिरूपितविशेष्यत्वावच्छिन्नबोधत्वावच्छिन्नप्रकारतानिरूपित- विशेष्यत्वावच्छिन्नविषयत्वत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यता- निरूपिका भगवदिच्छा। इत्थमेव पटपदं मुख्यप्रकारविधया तत्र च पटं विशेष्यविधया निवेश्य विषयतानिरूपणाभ्यासः कर्तव्यः ।

इत्थमेव यावन्ति संस्कृतभाषायां पदानि वर्तन्ते तानि प्रत्येकं प्रकारविधया, एवं ततः क्रमेण जन्यत्वं, बोधः, विषयत्वं, तदर्थश्च इत्येतान् पञ्च पदार्थान्

[[२८९२९०]]

शक्तिग्रहः विशेष्यविशेषणभावापन्नान् अवगाहते ईश्वरेच्छा । तस्याः समूहालम्बनात्मकता न चित्रयितुं शक्यते इति न चित्रस्य मर्यादा किन्तु तस्याः माहात्म्यातिशयः । यतो हि सा इच्छा अभिधा इति पदमपि प्रकारविधया, स्वमेव च विशेष्यविधया अवगाहते। एवञ्च घटपदजन्यबोधविषयत्वं घटे एवं ईश्वरेच्छा अवगाहते, न पटे इति घटपदात् घटस्यैव बोधः। पटपदजन्यबोधविषयत्वं पटे एव अवगाहते, न घण्टे इति पटपदात् पटस्यैव बोधः न घटस्य।

परन्तु इयं सर्वापि व्यवस्था तदा घटते यदा शक्तिग्रहः प्रमात्मकः। भ्रमात्मक- शक्तिग्रहात् तु पटमानय इति वाक्यात् घटमपि प्रतिपद्यन्ते जनाः इति शक्तिग्रहस्य प्रमात्वमपेक्षितम् ।

  • शक्तिग्रहः

अथ कोऽयं शक्तिग्रहः ? उच्यते । भगवतः खलु सर्वज्ञस्य सर्वं ज्ञानादि यथार्थमेव । तत्रापि यथार्थ इति पदं ज्ञाने एव प्रायः प्रयुज्यते इति यथार्थेच्छायाः यथार्थकृतेः वा संवादिनी इति व्यवहारः भवति । संवादिनी इच्छा। संवादिनी कृतिः। सफला इच्छा, सफला कृतिः इति तदर्थः । कश्चित् जलं वाञ्छन् जलार्थं यतमानः जलं लभते चेत् तस्य जलेच्छा जलकृतिश्च सफला, संवादिनी इति उच्यते ।

ईश्वरेच्छायाः शक्तिरूपायाः तथारूपत्वेऽपि तज्ज्ञानम् अस्मदात्मनि उत्पद्यमानम् अपि प्रमात्मकमेव आवश्यकम् । अस्मदीयज्ञानेनापि घटपदत्वावच्छिन्नप्रकारता- निरूपितविशेष्यतावच्छिन्नजन्यत्वत्वावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छिन्न- बोधत्त्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्वावच्छिन्नविषयत्वत्वावच्छिन्नप्रकारता- निरूपिका या ईश्वरेच्छा तद्विशेष्यत्वं घट एव अवगाहनीयम् ।

तथा च घटपदत्वावच्छिन्नेत्यादिक्रमेण ईश्वरेच्छानिरूपितविशेष्यता घटे विद्यमाना एव ज्ञानेन विषयीक्रियते इति इदं ज्ञानं, पदम्, अर्थं, बोध्यबोधकभावनियन्त्रीं भगवदिच्छां शक्तिरूपां चावगाहते इति अस्यैव ज्ञानस्य शब्दखण्डे शक्तिग्रह इति सञ्ज्ञा भवति ।

प्रकारता

घटपदम्

शक्तिग्रहः

विशेष्यता

प्रकारता

जन्यत्वम्

विशेष्यता

प्रकारता

शक्तिग्रहः

इच्छा

बोधः

विशेष्यता

प्रकारता

विषयत्वम्

विशेष्यता

घटः

चि.स.१९८

ज्ञानानां हि तत्तत्प्रकरणे विभिन्नपदैः व्यवहारः दृश्यते । अनुमितिजनकनिश्चयस्य परामर्श इत्येव व्यवहारः । वाक्यात् जायमानं निश्चयात्मकमपि ज्ञानं शाब्दनिश्चयः इत्यनुक्त्वा शाब्दबोधः इति सामान्यपदेन व्यवह्रियते। इदमपि पद-पदार्थ-भगवदिच्छा- विषयकं ज्ञानं शक्तिग्रहः इत्येव प्रसिद्धम् । तत्रापि तादृशेच्छाविशेष्यतावति घटे तादृशविशेष्यतायाः अवगाहमानत्वे अयं शक्तिग्रहः भवति प्रमात्मकः ।

न पटे।

घटपदत्वावच्छिन्नेत्यादिविषयत्वत्वावच्छिन्नप्रकारतानिरूपकेश्वरेच्छाविशेष्यता

[[२९१]]

[[२९२]]

शाब्दबोधस्थले क्रमवर्णनम

तथापि केनचित् प्रतारकेण इत्थमभिहितं घटपदात् पटो बोद्धव्यः इति । तद्वाक्यं कश्चित् प्रमाणं मन्यते चेत् पटे अविद्यमानापि विशेष्यता तदीयशक्तिग्रहे विषयः इति अयं शक्तिग्रहः अयथार्थो भवति। अस्यैव शक्तिभ्रमः इत्यपि व्यवहारः तत्र तत्र दृश्यते। पूर्वोक्तः शक्तिग्रहः चित्रेणापि स्पष्टः भवति ।

इत्थं शक्तिग्रहे निरूपिते पदजन्यबोधः सुनिरूपितो भवति । तत्प्रकारश्च अनुमानखण्डे (पृ.२०२) दर्शितोऽपि वैशद्याय पुनरपि निरूप्यते ।

  • शाब्दबोधस्थले क्रमवर्णनम्

[[१]]

आदौ पदस्य शक्तिग्रहः अनुभवात्मकः भवति। तेन अनुभवेन आत्मनि संस्कारः उत्पद्यते। कालान्तरेण वक्ता यदा तत्पदमुच्चारयति, तदा श्रोतुः तस्य पदस्य श्रावणप्रत्यक्षं भवति । परन्तु नैकस्यैव पदस्य, किन्तु पदसमुदायरूपस्य वाक्यस्य । तदर्थं च अवरतः द्वे पदे अपेक्षिते । एवं च पदयोः, पदानां वा श्रावणप्रत्यक्षं भवति । इदं पदश्रवणं संस्कारोद्बोधकं भवति। संस्कारे च उबुद्धे पदार्थोपस्थितिः भवति ।

परन्तु एकस्य अर्थस्य उपस्थित्त्या नालम् । यतो हि शाब्दबोधः पदार्थयोः, पदार्थानां वा सम्बन्धनिश्चयः। अतः अपरपदार्थस्यापि उपस्थितिः अपेक्षिता । ततश्च अर्थद्वयोपस्थितिभ्यां तयोः सम्बन्धनिश्चयः अग्रिमक्षणे भवति । इयमेव शाब्दप्रमा इत्युच्यते ।

उदाहरणरूपेण घटम् इति पदसमुदायं स्वीकुर्मः । अत्र हि घट’ इति एकं पदम् । अम् इति द्वितीयैकवचनप्रत्ययः। तदर्थश्च कर्मत्वम् ।

(१) क्षणः

घटपदशक्तिनिश्चयः

अम्पदशक्तिनिश्चयः

(२) क्षणः

आत्मनि संस्कारः

आत्मनि संस्कारः

१ - Minimum

२ - इह सुप्तिङन्तं पदम् इति पाणिनिमहर्षिभिः उक्तं न ग्राह्यम् । किन्तु शक्तिमत्पदमिति पूर्वोक्तम्।

आधेयत्वादिसंसर्गभानं कथम् ?

वक्त्रा कालान्तरेण घट+अम् इत्युक्तौ

(१) क्षणः

घटपदज्ञानम्

अम्पदज्ञानम्

उद्बोधकम्

उद्बोधकम्

(२) क्षणः

शक्तिस्मरणम्

शक्तिस्मरणम्

(३) क्षणः

घटोपस्थितिः

कर्मत्वोपस्थितिः

निष्ठम्

(४) क्षणः

घट

कर्मत्वम्

इति बोधः भवति ।

चि.स.१९९

आधेयत्वादिसंसर्गभानं कथम् ?

I

अत्रेदं चिन्त्यम् । पूर्वोक्तबोधे घटपदेन घटस्योपस्थितिः । अम् इति द्वितीयया कर्मत्वोपस्थितिः । उभयोः अर्थयोः इदम् उपस्थितिद्वयं तृतीयक्षणे वर्तते । परन्तु न सः शाब्दबोधः । शाब्दबोधो हि द्वयोः पदार्थयोः सम्बन्धनिश्चयः । स च सम्बन्धः उक्तस्थले आधाराधेयभावः। कर्मत्वं हि कारकं वक्ष्यमाणं घटे स्वरूपसम्बन्धेन तिष्ठति । तर्हि घटनिरूपिताधेयता कर्मत्वे अस्ति । आधेयतामेव बोधयितुं वयं निष्ठपदप्रयोगं कुर्मः । एवञ्च चतुर्थे क्षणे जायमानः बोधः तयोः आधाराधेयभावं प्रकाशयति । स एव च शाब्दबोधः। तत्र च विषयीभवन्ति त्रयः पदार्थाः ।

[[२९३]]

घटः

घटपदम्

आधेयत्वम्

कर्मत्वम्

अम्पदम्

चि.स.२००

आधेयत्वादिसंसर्गभानं कथम् ?

इह इतरयोः पदार्थयोः बोधनाय पदयोः सत्वेऽपि आधेयत्वबोधनाय न किमपि पदमस्ति ।

एवम् अत्रैव स्पृशति इति पदं यदि भवेत् तदा वाक्यं कीदृशं भवेत् ? घटं स्पृशति इति । इह ति इति यः प्रत्ययः तस्य आख्यातमिति सञ्ज्ञा शास्त्रे प्रसिद्धा । अतः स्पृशति इति भवति आख्यातान्तम् । तस्य स्तः द्वौ अंशौ । स्पृश इति क्रियाबोधकं पदं ति इति आख्यातम्। क्रियाबोधकस्य पदस्य भवति धातुः इति सञ्ज्ञा । अतः स्पृश इति धातुः। सः क्रियां बोधयति इति तस्यापि भगवदिच्छाविषयत्वात् तदपि पदम् । तस्य च धातुपदस्य स्पर्शनमर्थः। सः क्रियारूपः । ति इति आख्यातस्यापि कृतिः इति अर्थः। तत्र क्रियायां घटनिष्ठकर्मत्वं निरूपकत्वसम्बन्धेन अन्वेति इति अनुपदं वक्ष्यते । धात्वर्थस्यापि अनुकूलत्वसम्बन्धेन आख्यातार्थे अन्वयः इति च साधयिष्यते।

घटपदम्

अम्पदम्

स्पृशधातुः

ति-आख्यातम्

[[२९४]]

आधेयत्वम्

अनुकूलत्वम्

घटः

कर्मत्वम्

स्पर्शनम्

कृतिः

निरूपकत्वम्

चि.स.२०१

तथा च चतुर्णां पदानां ये चत्वारः अर्थाः, तेषां परस्परयोजनाय त्रयः सम्बन्धाः अपेक्षिता भवन्ति । एवमेव वाक्ये पदानां वृद्धिश्चेत् तत्तत्पदार्थानां च सम्बन्धाः पूर्वमज्ञाताः शाब्दबोधेन विषयीक्रियन्ते । एवं च पदेन उपस्थापिताः ये पदार्थाः तेषां शाब्दबोधे विषयता युज्यते चेत् अपि पदेन अनुपस्थितम् आधेयत्वं, निरूपकत्वं, सम्बन्धरूपं कथं बोधे विषयः इति भवति प्रश्नः ?

संसर्गभानवर्णनाय निदर्शनम्

अत्र अस्ति सर्वदार्शनिकानां परस्परं मतभेदः । नैय्यायिकमते तु सम्बन्धभानं पदार्थानां परस्परमाकाङ्क्षावशात् भवतीति वर्णयन्ति ।

  • संसर्गभानवर्णनाय निदर्शनम्

तत्र पाठकाले इदमस्माभिः इत्थं निरूप्यते । कश्चित् गृहे विद्युद्योजनायाः उपकरणानि आनेतुम् आपणं प्रति गतः। यथा तेन अन्यानि उपकरणानि क्रीतानि तथैव सः विद्युन्नोदकान् एवं तदाश्रयं च क्रीतवान्। अन्ते धनयोजनाकाले आपणस्वामिना विद्युन्नोदकानां तदाश्रयस्य च मूल्यं लिखितम् । परन्तु तयोः योजकानां धनं नैव लिखितम्। तदा क्रेता अपृच्छत् कुतः न योजितं योजकानां धनम् ? विक्रेता अब्रवीत्, यः नोदकान् तदाश्रयं च क्रीणीते तस्य एते योजकाः विना धनं लभ्यन्ते इति ।

किमनेन उदाहरणेनावगच्छामः ? नोदकः धनेन लब्धः तदाश्रयश्च, तयोः योजकः तु विना धनम्। तथैव घटपदार्थज्ञानाय घटपदरूपं धनं दातव्यम्। कर्मत्वपदार्थज्ञानाय अम्पदरूपं धनं दातव्यम्। तथा सति तयोः मध्ये यः योजकः आधेयत्वरूपः सम्बन्धः सः धनेन विना लभ्यते ।

[[२९५]]

a

O

नोदकः

योजकः

(Switch) (Screw)

तदाश्रयः (Board)

धनम्

धनम्

पदम्

पदम्

घटपदम्

अम्पदम्

घटपदार्थः

आधेयत्वम्

अम्पदार्थः

विना धनम्

चि.स.२०२

१ - Switches, २ - Switch Board, ३ -Screw

प्रकृतिविचारः एवमेव

घटपदम्

अम्पदम्

स्पृशधातुः

ति-आख्यातम्

घटपदार्थः

कर्मत्वम्

स्पर्शनम्

कृतिः

आधेयत्वम्

(निरूपकत्वम्

अनुकूलत्वम्

विना धनम्

विना धनम्

विना धनम्

वाचकपदाभावेऽपि

वाचकपदाभावेऽपि

वाचकपदाभावेऽपि

शाब्दबोधविषयत्वम्

शाब्दबोधविषयत्वम्

शाब्दबोधविषयत्वम्

चि.स.२०३

इदमेव आकाङ्क्षाभास्यमिति उच्यते । पदार्थयोः परस्पराकाङ्क्षावशात् हि तयोः

२९६ सम्बन्धोऽपि शाब्दबोधे विषयो भवति ।

तथा च पदार्थानां संसर्गाः आकाङ्क्षाभास्याः भवन्तीति तेषां वाचकपदापेक्षा नास्ति इति न कोऽपि दोषः ।

  • प्रकृतिविचारः

यद्यपि शक्तिनिरूपणोत्तरं मूले आकाङ्क्षादिशाब्दबोधसामग्रीप्रदर्शनमेवास्ति इति तदेवात्र निरूपणीयम् । तथापि पदे निरूपिते तदर्थानाम्, आकाङ्क्षाभास्यानां तत्सम्बन्धानां च भाने निरूपितेऽपि प्रकृतिप्रत्ययकारकादिनिरूपणेन विना इदं प्रकरणं न निरूपितं भवतीति तान् अर्थान् निरूपयामः ।

तदत्र पदानि त्रिविधानि भवन्ति । प्रकृतिः, प्रत्ययः, निपातश्च। यत् अर्थवत् तत्पदमिति उक्तत्वात्, तस्य पदस्यैव त्रैविध्यं प्रकृते प्रदर्श्यते इति एते त्रयः अपि

TEEEEET

प्रकृतिविचारः अवश्यं कञ्चन अर्थं बोधयन्ति इत्यागतम्। तत्र यस्मात् परः प्रत्ययो भवति सा प्रकृतिः । यथा राम इति प्रकृतिः। ततः सु इति प्रत्यये रामः इति, अम् इति प्रत्यये रामम् इत्येवं वाक्यानि भवन्ति ।

सा प्रकृतिरपि द्विविधा भवति। धातुप्रकृतिः नामप्रकृतिश्च। धातुप्रकृतिः सा भवति या क्रियां बोधयति। यथा पाकरूपक्रियाबोधनाय पच् इति धातुप्रकृतिः। भक्षणरूप- क्रियाबोधनाय भक्ष इति धातुप्रकृतिः। नामप्रकृतिः सा भवति या द्रव्यगुणादीन् बोधयति। यथा घट इति नामप्रकृतिः घटं बोधयति । शुक्ल इति नामप्रकृतिः शुक्लं गुणं बोधयति ।

नामप्रकृतिः अपि द्विविधा । विशेषणबोधिका प्रकृतिः विशेष्यबोधिका प्रकृतिः। स्वेन यत् अपरं रञ्जयति तत् विशेषणम् । रञ्जनं भेदज्ञापनम् । यथा घटः इत्येव उक्तौ कश्चित् बोधः। नीलो घटः इत्युक्तौ अन्यविधः। अनेकविधेषु घटेषु सत्सु नीलवर्णः, मदाश्रयः अन्यघटेभ्यः विलक्षणः इति बोधयति । एतादृशभेदज्ञापनं येन क्रियते तत् विशेषणम्। इदमेव प्रत्यक्षादिखण्डेषु अस्माभिः अवच्छेदकमिति व्यवहृतमस्ति । इदं भेदज्ञापनं यद्विषयकं भवति तत् विशेष्यम् अवच्छिन्नमिति वा उच्यते । प्रकृते घटश्च तथाविधः यः अन्यघटेभ्यः भेदेन ज्ञातः । अतः यत् रञ्जयति नीलादि, तद्बोधिका २९७ प्रकृतिः विशेषणबोधिका प्रकृतिः । यत् रञ्जितं, तद्बोधिका प्रकृतिः विशेष्यबोधिका प्रकृतिः । एतावता निश्चितमर्थं सौकर्याय चित्ररूपेण पश्यामः ।

पदम्

प्रकृतिः

प्रत्ययः

निपातः

नामप्रकृतिः

धातुप्रकृतिः

विशेषणबोधिका विशेष्यबोधिका

चि.स.२०४

धर्मबोधकप्रत्ययः

इतश्चिन्तयामः । विशेषणबोधिका प्रकृतिः द्विविधा । क्रियाविशेषणबोधिका तभिन्नविशेषणबोधिका । आद्या स्तोकं पचति इत्यादौ स्तोक इति प्रकृतिः । सा पाकक्रियायां किञ्चित्वम् ईषत्वं बोधयति । द्वितीया नीलो घटः इत्यादौ नीलादिप्रकृतिः क्रियाभिन्नस्य घटस्य विशेषणं नीलगुणं बोधयति ।

  • धर्मबोधकप्रत्ययः १

एतावता प्रकृतिरुक्ता। सम्प्रति प्रत्ययविभागः चिन्त्यते । प्रत्ययः द्विविधः धर्मबोधकः धर्मिबोधकश्च। आद्यः घटम् इत्यत्र अम्प्रत्ययः । अयं प्रत्ययः कर्मत्वबोधकः इति अनुपदं निरूपितमेव । इदं च कर्मत्वं वक्ष्यमाणस्वरूपं घटे विद्यमानः धर्मः । अतः एव तयोः सम्बन्धनिरूपणे आधेयत्वसम्बन्धेन घटस्य कर्मत्वे अन्वयः उक्तः । अयं च धर्मबोधकोऽपि द्विविधः । सुप्प्रत्ययः तिङ्प्रत्ययश्च । पूर्वोक्तः अम्प्रत्ययः भवति सुप्प्रत्ययः । तिङ्प्रत्ययोदाहरणं तु गच्छति इति स्थले विद्यमानः ति इति प्रत्ययः। अयं तिप्प्रत्ययः आत्मनिष्ठां कृतिं बोधयति । गच्छति चैत्रः इति २९८ वाक्ये हि गम् इति धातुप्रकृतिः गमनरूपां क्रियां बोधयति। इयं क्रिया,

चेष्टारूपा भवति। न हि सा आत्मनः विभुरूपस्य सम्भवतीति सा शरीरनिष्ठा (पृ.६८)

इत्यवगच्छामः। परन्तु इयं चेष्टा ज्ञानेच्छाकृतिपूर्विका इति तस्मिन् एव प्रकरणे निरूपितम्। ते च ज्ञानादयः आत्मगुणाः । तेषु चरमः कृतिरूपः आत्मगुणः ति इति आख्यातेन बोध्यते ।

अपरोऽपि अर्थः कालरूपः आख्यातेन बोध्यते । गच्छति इत्यत्र सः वर्तमानकालः। अगमत् इत्यत्र भूतकालः । कस्यायं कालः? कृतेः । गमनजनिका आत्मकृतिः यदि सम्प्रति अस्ति, गच्छति चैत्रः इति भवति प्रयोगः। भूतकालिकी यदि कृतिः, तदा अगमत् इति प्रयोगः । अतः योयं कालरूपः अपरः आख्यातार्थः, सः तदर्थे एव कृतौ आधेयतासम्बन्धेन अन्वेति ।

कृतिः काले कालिकसम्बन्धेनास्ति । कालस्तर्हि आधारः, कृतिः आधेया ।

१ - भेदसम्बन्धः यत्र अन्वयनियामकः ते धर्मबोधकाः ।

धर्मिबोधकप्रत्ययः

कालाधेयता कृतौ । अतः कालः आधेयतासम्बन्धेन कृतौ अन्वेति । अनया च आत्मगुणरूपया वर्तमानकृत्या शरीरे चेष्टा गमनरूपा उत्पद्यते इति चेष्टानुकूलत्वं चेष्टाजनकत्वं कृतौ आगतम् । अत एव (पृ. २९४) गमनस्य आख्यातार्थकृतौ अनुकूलत्वसंसर्गेण अन्वयः उक्तः । तत्र गमनं धातुप्रकृत्या लब्धम् । कृतिश्च आख्यातेन इति तयोः सम्बन्धः संसर्गः अनुकूलत्वं, पदार्थयोः आकाङ्क्षया भासते इत्युक्तमेव ।

फलतश्च आख्यातार्थः कृतिः आत्मगुणः एव इति सोऽपि आत्मधर्मः। अतः तिङ्प्रत्ययस्यापि धर्मबोधकता स्थिरा ।

चिन्तितांशं चित्रेण अनुसन्दध्महे ।

पदम्

प्रकृतिः

प्रत्ययः

निपातः

नामप्रकृतिः धातुप्रकृतिः

[[२९९]]

धर्मबोधकः

धर्मिबोधकः

प्रत्ययः

प्रत्ययः

विशेषणबोधिका विशेष्यबोधिका

सुप्प्रत्ययः

तिङ्प्रत्ययः

(अम्)

(ति)

चि.स.२०५

  • धर्मिबोधकप्रत्ययः १

धर्मिबोधकः प्रत्ययः अपि द्विविधः । तद्धितप्रत्ययः कृत्प्रत्ययश्च । तयोराद्यः आदौ नामप्रकृतिः या उक्ता ततः परः भवति । यथा कषायेण रक्तं काषायम् इत्यत्र कषाय इति नामप्रकृतिः। ततः तेन रक्तं वस्त्रं बोधयितुम् अण्प्रत्ययः कृतः । सः अण्प्रत्ययः कषायेण रक्तं वस्त्रमेव बोधयति न तु रक्तवस्त्रगतं धर्मं रक्तत्वम् ।

१ - अभेदसम्बन्धः यत्र अन्वयनियामकः ते धर्मिबोधकाः ।३००

कारकपदार्थः नैयायिकसम्मतः

एवं सास्य देवता इति सूत्रेण अणरूपः देवतातद्धितः विहितः। विश्वेदेवाः देवता अस्य द्रव्यस्य इति वैश्वदेवम्। इहापि विश्वेदेवदेवतासम्बन्धि द्रव्यमेव बोध्यते न तु द्रव्यनिष्ठं देवतात्वनिरूपकत्वमिति उभयत्र धर्मिबोधकता आगता ।

परन्तु सर्वदा अस्मान् उपकुर्वत् घटत्वपदमपि तद्धितप्रत्ययान्तम् । घटपदात् भाववाचकत्वप्रत्यये कृते तन्निष्पत्तिः । एवञ्च विशेषविचारे कृते तत्र तत्रापवादलाभेऽपि वक्ष्यमाणशाब्दबोधसौकर्यमालोच्य एवंविधविभागः कृतः ।

द्वितीयः धर्मिबोधकः प्रत्ययः कृत्प्रत्ययः। अयम्, अनुपदं या धातुप्रकृतिरुक्ता ततः परः भवति । प्रसिद्धं हि अस्योदाहरणं पाचकपदम्। पच्धातोः परः कर्तारं बोधयितुं अयं ण्वुल्प्रत्ययः। तेन पाककर्ता इति धर्मिणः बोधो भवति । सङ्ग्रहे ग्राहकः, ग्राह्यः, रहितः इति रूपाणि कृत्प्रत्ययान्तानि तत्र तत्र क्रियासन्बन्धिनं बोधयन्ति। एवं च धर्मिबोधकता एतेषां सिद्धा । एतावता विवरणेन प्रकृतीनां भेदाः, प्रत्ययानां भेदाः च चिन्तिताः। ग्रन्थेऽस्मिन् निपातं न चिन्तयामः। जिज्ञासुभिः उद्ग्रन्थाः परिशीलनीयाः । * कारकपदार्थः नैयायिकसम्मतः

[[1]]

शाब्दबोधवर्णनसौकर्याय सम्प्रति कारकपदार्थः निरूप्यते । कृञ्धातोः सम्बन्ध्यर्थकः अत्र ण्वुल्प्रत्ययः क्रियासम्बन्धिनं बोधयति । तत्र ग्रामं गच्छति चैत्रः इति वाक्ये गमनरूपक्रियासम्बन्धिनौ चैत्रः ग्रामः च। अतः तौ एव प्रकृतक्रियाकारकौ इति अन्यशास्त्रप्रसिद्धिः ।

नैयायिकास्तु एवं मन्यन्ते । न चैत्रग्रामौ कारके । किन्तु तन्निष्टं योग्यत्वम् ।

[[1]]

यदि चैत्रः कञ्चन ग्रामं प्राप्तः, न सः पुनः तं ग्रामं गन्तुं प्रभवति । अतः यदा चैत्रः तं ग्रामं न प्राप्तः, तदा सः ग्रामः गमनयोग्यः, प्राप्त्युत्तरं तु अयोग्यः । यदि हि क्रियाजनकः ग्रामः अभविष्यत् तदा गमनात् प्रागिव तत ऊर्ध्वमपि गमनक्रियाम् अजनयिष्यत् । न जनयति । अतः ग्रामः, स्वरूपतः न क्रियाजनकः क्रियासम्बन्धी किन्तु तन्निष्ठा योग्यता । सा योग्यता एव क्रियासम्बन्धित्वात् कारकमिति । चैत्रनिष्ठं च कारकं कर्तृत्वरूपम् ।

१ - तत्र तत्र व्याख्याने धर्मबोधकत्वमादायार्थवर्णनं निरूपणसौकर्यायैव । यथा ग्राह्य इत्यत्र ण्यत्प्रत्ययस्य विषयत्वमर्थः (पृ.७२) उक्तः।

कर्मत्ववर्णनम्

ग्रामनिष्ठं च तादृशं कारकं कर्मत्वरूपम् ।

कर्मत्ववर्णनम्

किमिदं कर्मत्वम् ? उच्यते । पूर्वं प्रकृतिविभागे धातुप्रकृतिः अस्माभिः परिगणिता। सा द्विविधा भवति । शुद्धव्यापारबोधिका आद्या या अकर्मकधातुः इत्युच्यते। यथा सत्तार्थको भूधातुः । इयं हि प्रकृतिः विद्यमानत्वरूपं शुद्धं व्यापारं बोधयति । एवं ष्ठाधातुरपि । एते अकर्मकधातवः इत्युच्यन्ते ये विजातीयं व्यापारं केवलं बोधयन्ति । अन्ये च धातवः व्यापारं बोधयन्ति, तज्जन्यं फलं च बोधयन्ति। यथा गम्धातुः । अस्य उत्तरदेशसंयोगजनकव्यापारः अर्थः । अत्र विशेष्यः व्यापारः, विशेषणम् उत्तरदेशसंयोगः। (पृ.१८२) चैत्रः गच्छति इति वाक्यात्, चैत्रसमवेतप्रयत्नेन शरीरे तादृशः व्यापारः भवति, येन यद्देशे चैत्रः स्थितः तदन्यस्मिन् देशे चैत्रसंयोगः भवति इति अवगच्छामः ।

अन्यदेशसंयोगः

व्यापारः

[[३०१]]

संयोगः

जन्यः ←

-गमनक्रिया-

→ शरीरे

अन्यदेशः

चैत्रदेशः

चि.स.२०६

एवञ्च धातुना क्रियायाः विशेषणविधया यः अन्यदेशसंयोगः उक्तः तदाश्रयः उत्तरदेशः भवति इति आगतम् । अयमेव देशस्तर्हि अस्याः क्रियायाः कर्म, यः धातुबोध्य- विशेषणस्य आश्रयः भवति । तत्र विद्यमानं योग्यत्वमेव कर्मत्वमिति फलितम् । सङ्क्षेपतस्तु सर्वधातवः व्यापारबोधकाः । तेषु संयोगादिरूपफलजनकव्यापारबोधकाः सकर्मकाः इत्युच्यन्ते । तैः बोधितं यत् फलं, तादृशफलाश्रयत्वमेव कर्मत्वम् । तादृशं च कर्मत्वं, ग्रामम् इत्यत्र विद्यमाना द्वितीया बोधयति इति कारकबोधिका सा भवति ।

[[३०२]]

करणत्वादिवर्णनम्

उदाहरणान्तरमादाय विषयममुं चिन्तयामः । लड्डुकं खादति बालः इति प्रयोगः।

चि.स.२०७

अत्र खाद्धातोः गलविवरसंयोगजनकः व्यापारः अर्थः। क्रियाजन्यः गलविवरसंयोगः। तदाश्रयः

लड्डुकः। अतः लड्डुकः अस्य धात्वर्थस्य कर्म भवति । कर्मत्वं लड्डुके इति लड्डुकनिष्ठ - तादृशकर्मत्वं वक्तुं लड्डुकं खादति बालः इति प्रयोगः । अस्मिन् वाक्ये लड्डुकम् इत्यत्र विद्यमाना

द्वितीया तादृशं कर्मत्वमेव ब्रूते ।

इत्थमेव सर्वत्र धातोः अर्थं निर्णीय तत्र विशेषणाश्रयः कर्म, विशेषणाश्रयत्वं

कर्मत्वमिति चिन्तनीयम् ।

  • करणत्वादिवर्णनम्

एकत्र कर्मस्थले योग्यत्वमेव क्रियासम्बधि, अत एव कर्मत्वमेव कारकमिति निर्णये, अन्यत्रापि योग्यत्वमेव कारकमिति वर्ण्यते । यथा दण्डेन ताडयति रासभम् । अत्रापि तड्धातोः सकर्मकत्वात् तादृशः अर्थः वक्तव्यः येन तद्विशेषणं रासभे भवेत् । अतः रासभः कर्म, तत्र च पूर्वोक्तं कर्मत्वकारकम् । तस्य ताडनस्य उपायः साधनं वा भवति दण्डः । तादृशताडनसाधनत्वं भवति क्रियासम्बन्धि, अतः दण्डेन इति तृतीयया दण्डनिष्ठं साधनत्वं, करणत्वं बोध्यते इत्यागतम् ।

स्थाल्यां पचतीति अधिकरणकारकस्य उदाहरणम् । अत्र हि पाक- क्रियाधिकरणं भवति स्थालीति तन्निष्ठम् अधिकरणत्वं क्रियाकारकं, तद्बोधनाय च सप्तमी ।

वृक्षात् पतति पत्रम् इत्यत्र वृक्षस्य अपादानत्वम् । क्रियायाः पतनरूपायाः यथा पत्रं कर्तृ, तथैव वृक्षस्यापि कश्चन सम्बन्धः प्रतीयते, यः न पत्रे । न हि अत्र इत्थं

EEEEE

करणत्वादिवर्णनम् वक्तुं शक्नुमः, पत्रात् पतति पत्रम् । किन्तर्हि, वृक्षात् पतति पत्रम् । तादृशश्च वृक्षनिष्ठः क्रियासम्बन्धः एव अवधित्वमिति शास्त्रप्रसिद्धः। अमुं च सम्बन्धं नगरात् ग्रामं गच्छति चैत्रः इत्यत्र नगरेऽपि प्रतीमः ।

I

न हि सः सम्बन्धः ग्रामेस्ति । ग्रामस्तु तत्क्रियायाः कर्म भवति । नापि कर्तरि चैत्रे। अतः सः नगरनिष्ठः क्रियासम्बन्धः अवधित्वमित्युच्यते। एवमेव वृक्षात् विभजते पत्रमित्यादौ वृक्षे अवधित्वप्रतीतिः स्पष्टा। तादृशम् अवधित्वं यस्मिन् पदार्थे भवति सः पदार्थः एव अपादानमित्युच्यते। तत्र विद्यमाना योग्यता अपादानत्वं क्रियाकारकं भवति। तद्बोधनाय च भवति पञ्चमी विभक्तिः वृक्षात् पतति, नगरात् याति इत्यादौ ।

दानादिक्रियासु कर्ता चैत्रादिः, कर्म वा गौः यथा भवति तथा यस्मै कर्ता गां ददाति सः मैत्रः अवश्यं जिज्ञासितो भवति । गां ददाति चैत्रः इति श्रुत्वा अवश्यमाकाङ्क्षा भवति कस्मै अयं चैत्रः गां ददाति इति । तादृशाकाङ्क्षानिवर्तनाय दानस्य कश्चन प्रतिग्रहीता अपेक्षितः । स हि चैत्रेण दत्तां गां स्वीकरोति । तादृशप्रतिग्रहीता एव दानक्रियायाः सम्प्रदानमित्युच्यते । तन्निष्ठयोग्यता एव सम्प्रदानत्वं क्रियासम्बन्धि भवति । तत्बोधनाय भवति चतुर्थी विभक्तिः । अतः पूर्वोक्तस्थले मैत्राय गां ददाति चैत्र इति प्रयोगः प्रसिद्धः ।

काष्ठेन चैत्रेण पच्यते तण्डुलः इति प्रयोगे चैत्रपदात् यद्यपि तृतीया अस्ति तथापि सा दण्डेन ताडयति इति उदाहरणोक्ता करणत्वबोधिका तृतीया न भवति । पाककरणत्वस्य काष्ठपदोत्तरतृतीयया उक्तत्वात् । चैत्रस्तु तस्याः क्रियायाः कर्ता भवति। अयं हि तादृशः यः कर्मकरणादिकारकाणि सन्निदधाति । काष्ठानि सम्पादयति, तण्डुलान् शोधयित्वा क्षालयति । अतः अयं कारकचक्रप्रवर्तकत्वात् स्वयं च प्रवृत्तत्वात् स्वतन्त्रः कर्ता इति महर्षिणा सूत्रितः ।

इत्थं कर्तृत्वादिकारकनिरूपणं कृतम् । इमानि च कारकाणि स्वरूपसम्बन्धेन ग्रामादौ स्वाश्रये भवन्ति । यथा घटम् इत्यत्र अम्बोधितं कर्मत्वं घटे स्वरूपसम्बन्धेन भवति । तर्हि घटः कर्मत्वस्य आधारः, कर्मत्वमाधेयमिति आयातम् । कर्मत्वम् आधेयं

[[३०३]]

शाब्दबोधविषयतानिरूपणम्

अम्

घटपदम्

कर्मत्वम्

स्वरूपसम्बन्धः

घटः

चि.स.२०८

स्वरूपसम्बन्धावच्छिन्न आधेयतासम्बन्धः

प्रकारेण प्रकृत्यर्थस्य प्रत्ययार्थे अन्वये उक्ते तृतीयादिविभक्तिषु अपि दण्डेन इत्यत्र

प्रत्ययार्थे कर्मत्वे अन्वयः । एकत्र एवंविध-

प्रकृत्यर्थस्य घटस्य आधेयतासम्बन्धेन

प्रकृत्यर्थः, कर्मत्वं कारकं प्रत्ययार्थः। अतः

चेत् आधेयता कर्मत्वे । अतः कर्मत्वस्य स्वरूपसम्बन्धश्चेत् घटे, घटस्य आधेयत्व- सम्बन्धः कर्मत्वे इत्यागतम् । घटश्च प्रकृते

[[३०४]]

प्रकृत्यर्थस्य, दण्डस्य प्रत्ययार्थे करणत्वे आधेयत्वसम्बन्धेन अन्वयः इत्येवं सर्वत्र चिन्त्यम् ।

अत्रेदमपि चिन्त्यम् । घटम्, दण्डेन इत्यादौ विभक्त्या कारकोपस्थितिवत् सङ्ख्योपस्थितिरपि भवति । सा सङ्ख्या परं दण्डघटाद्यन्वयिनी एव । तस्याः गुणरूपत्वात् प्रकृत्यर्थे समवायेन अन्वयः । इत्थमावश्यकपदार्थवर्णनं कृतम् । इदानीं शाब्दबोधरीतिं निरूपयामः।

  • शाब्दबोधविषयतानिरूपणम्

शाब्दबोधोऽयं ज्ञानरूपः इति कस्यचित् प्रकारत्वं कस्यचित् विशेष्यत्वम् आवश्यकमेव। यः अन्वेति सः भवति प्रकारः, यस्मिन् अन्वेति सः भवति विशेष्यम् । यथा घटम् इत्यत्र घटः प्रकारः, अमर्थः कर्मत्वं विशेष्यम् । इदं च कर्मत्वं धात्वर्थे अन्वेतीति कर्मत्वे प्रकारतापि, विशेष्यता धात्वर्थे । एवं सर्वत्र निरूपणेऽपि मुख्यविशेष्यः शाब्दबोधे कः भवतीति विषये अस्ति दार्शनिकानां मतभेदः ।

नैय्यायिकास्तु प्रथमान्तं यत् पदं तदर्थः मुख्यविशेष्यः इति मन्यन्ते ।

एवञ्च सति सर्वत्र वाक्ये शाब्दबोधवर्णनरीतिः सुकरा भवति । ग्रामं गच्छति चैत्रः इति वाक्यमादायादौ शाब्दबोधप्रकारः निरूप्यते ।

GEEEEE

नामप्रकृतिः द्वितीयैकवचनम् धातुः

आख्यातम्

कस्य कुत्र अन्वयः ?

प्रथमान्तम्

ग्राम

अम्

गम्

ति

चैत्रः

कालः

एकत्वम्

समवायः

एकत्वम्

समवायः

आधेयत्वम्

ग्रामः

आधेयत्वम् ।

कर्मत्वम् उत्तरदेश-

संयोगानुकूल-

कृतिः

चैत्रः

समवायः।

व्यापारः

निरूपकत्वम्

अनुकूल त्वम मुकूलत्वम्

चि.स.२०९

कस्य कुत्र अन्वयः ?

तथा च चित्रे दर्शितरीत्या द्वितीयैकवचनबोधितैकत्वस्य ग्रामे समवायेन अन्वयः । ग्रामस्य प्रकृत्यर्थस्य प्रत्ययार्थे कर्मत्वे आधेयतासम्बन्धेन अन्वयः । कर्मत्वस्य कारकस्य ३०५ निरूपकत्वसम्बन्धेन धात्वर्थे उत्तरदेशसंयोगानुकूलव्यापारे अन्वयः । तस्य च धात्वर्थस्य अनुकूलत्वसम्बन्धेन आख्यातार्थकृतौ अन्वयः । तस्यामेव च कृतौ अपराख्यातार्थस्य वर्तमानकालस्य आधेयत्वसम्बन्धेन अन्वयः । तस्याश्च कृतेः समवायसम्बन्धेन प्रथमान्तार्थे चैत्रे अन्वयः । तत्रैव च चैत्रे प्रथमैकवचनोपात्तस्य एकत्वस्यापि समवायेनैव अन्वयः ।

इदृशोऽयं चैत्रमुख्यविशेष्यकबोधः तर्हि फलति । समवायेन एकत्वविशिष्टः यः ग्रामः, आधेयत्वसम्बन्धेन तद्विशिष्टं यत् कर्मत्वम्, निरूपकत्वसम्बन्धेन तद्विशिष्टं यत् गमनं विशिष्टव्यापारः अनुकूलत्वसम्बन्धेन तद्विशिष्टा या एवम् आधेयत्वसम्बन्धेन वर्तमानकालविशिष्टा या कृतिः, समवायेन तादृशकृतिविशिष्टः, तथा समवायेन एकत्वविशिष्टश्च चैत्रः ।

एतेषु एकत्वघटादिपदार्थाः, ये एकवचनघटपदादिभिः उपस्थापिताः ते शाब्दबोधे

[[३०६]]

कस्य कुत्र अन्वयः ?

प्रकारविधया विशेष्यविधया वा भासन्ते । ये तु समवायाधेयत्वनिरूपकत्वानुकूलत्वादयः तत्र तत्र पदार्थयोः मध्ये भासमानाः, पदेन अबोधिताः आकाङ्क्षया भासमानाः, न प्रकाराः नापि विशेष्याः, किन्तु संसर्गाः भवति।

एकत्वाश्रयग्रामवृत्तिकर्मत्वनिरूपक-

प्रकारता

एकत्वम्

विशेष्यता

समवायः

प्रकारता

गमनानुकूलकृतिमान् एकत्वाश्रयः चैत्रः इति अत्र सम्प्रदायसिद्धः अखण्डबोधनिरूपणप्रकारः बहुधा दृश्यते । एवमपि पूर्वोक्तप्रकार एव समीचीनः ।

ग्रामः

विशेष्यता आधेयत्वम्

प्रकारता

कर्मत्वम्

अनिरूपकत्वम्

विशेष्यता

प्रकारता

गमनम्

विशेष्यता अनुकूलत्वम् प्रकारता

प्रकारता

कृतिः

एकत्वम्

विशेष्यता समवायः

विशेष्यता

समवायः

चैत्रः

चि.स.२१०

कस्य कुत्र अन्वयः ?

अत्र च एकत्वनिष्ठप्रकारतायाः एकत्वत्वमिव समवायोऽपि भवति अवच्छेदकः। अतः (पृ.१९०) विषयतानिरूपणपद्धतौ समवायमपि अन्तर्भाव्य अवच्छेद्यावच्छेदकभावः निरूपणीयः । तथा च एकत्वत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नप्रकारतानिरूपित-

विशेष्यत्वावच्छिन्नग्रामत्वावच्छिन्नाधेयत्वसम्बन्धावच्छिन्नप्रकारतानिरूपित- विशेष्यत्वावच्छिन्नकर्मत्वत्वावच्छिन्ननिरूपकत्वसम्बन्धावच्छिन्नप्रकारता-

निरूपितविशेष्यत्वावच्छिन्नगमनत्वावच्छिन्न-अनुकूलत्वसम्बन्धावच्छिन्नप्रकारता-

निरूपितविशेष्यत्वावच्छिन्नकृतित्वावच्छिन्नसमवायसम्बन्धावच्छिन्नप्रकारता- निरूपितविशेष्यताश्रयः चैत्रः इत्येवं सर्वत्र चिन्तनीयम् ।

काष्ठैः स्थाल्याम् ओदनम् अपाक्षीत् चैत्रः इति वाक्ये चित्रं कथं स्यात् ?

पच्धातुः

(लुङ्प्रत्ययः) तिप्प्रत्ययः

विक्लित्त्यनुकूल । ।भूतकालः

[[३०७]]

कृतिः

काष्ठपदम्

तृतीयाबहुवचनम्

समवायः बहुत्वम्

काष्ठम्

आधेयत्वम्

करणत्वम्

स्थालीपदम्

सप्तम्येकवचनम्

८ समवायः एकत्वम्

निरूपकत्वम्

स्थाली

ओदनपदम्

द्वितीयैकवचनम्

समवायः एकत्वम्

निरूपकत्वम्

ओदनम्

आधेयत्वम्

कर्मत्वम्

चि.स.२११

आधेयत्वम् अधिकरणत्वम्

निरूपकत्वम्

व्यापारः

चैत्रपदम्

‘अनुकूलत्वम्’

समवायः

समवायः एकत्वम् चैत्रः

प्रथमैकवचनम्

अत्र बोधप्रकारः चिन्त्यः।

विशेषणान्वयः

हंसान् चित्रयति रविवर्मा इति वाक्यस्थले कर्मवाचकपदोत्तरम् अस्ति बहुवचनम् । अतः अत्र तद्बोध्यस्य बहुत्वस्य हंसे अन्वयः ।

हंसान्

चित्रयति

रविवर्मा

हंस जस चित्र ति

रविवर्मा

बहुत्वम्

समवायः

वर्तमानकालः

हंस

कर्मत्वम् चित्रणम्

कृतिः

रविवर्मा

[[३०८]]

चि.स.२१२

  • विशेषणान्वयः

लिङ्लोटादिघटितवाक्येषु बोधः ग्रन्थान्तरे अनुसन्धेयः। सम्प्रति विशेषणवाचक- प्रकृतिघटितवाक्ये बोधप्रकारं चिन्तयामः । नीलं घटम् आनयति चैत्रः इति वाक्ये नीलमित्यत्र तादृशप्रकृतिपदात् द्वितीया । विशेष्यविशेषणवाचकपदयोः समानविभक्तिकत्वनियमः प्रसिद्धः एव । तेन प्रकृते घटपदस्य विशेष्यबोधकस्य द्वितीयान्तत्वे, विशेषणबोधकस्यापि सैव विभक्तिः । तस्याश्च विशेषणवाचक- पदोत्तरविभक्तेः अभेदः अर्थः। नीलपदस्य नीलगुणाश्रयः अर्थः । घट एव हि नीलगुणाश्रयः इति नीलगुणाश्रयस्य घटस्य च अभेदः युज्यते ।

अत्र हि द्वितीयायाः अभेदः अर्थः इत्यनुक्त्वा विशेषणवाचकपदोत्तरविभक्तेः अभेदः अर्थः इत्येव उक्तम्। तत्प्रयोजनं च विशेष्यबोधकपदस्य तृतीयाद्यन्तत्वे विशेषणविभक्तेः तृतीयायाः अपि अभेदः अर्थः । एवञ्च विदुषे चैत्राय इत्यत्र विशेषणबोधकपदोत्तरचतुर्थ्याः महतः वृक्षात् इत्यत्र महत्पदोत्तरपञ्चम्याः च अभेदः अर्थः। इत्थमेव अन्यत्रापि अनुसन्धेयम्।

क्रियाविशेषणान्वयः

एवञ्च नीलं घटमानयति चैत्रः इत्यत्र

नीलपदम् अम्पदम् घटपदम् अम्पदम् आनय आख्यातम् चैत्रपदम् प्रथमा

नीलाश्रयः अभेदः

घटः कर्मत्वम् आनयनम् कृतिः चैत्रः

समवायः॥

एकत्वम्

समवायः

[[३०९]]

आधेय त्वाम् निरूपकत्वम् अनुकूलत्व

चि.स.२१३

तथा च नीलाश्रयाभिन्नः यः घटः तन्निष्ठं यत् कर्मत्वम् तन्निरूपकः यः धात्वर्थः तदनुकूला या कृतिः तदाश्रयः चैत्रः इति बोधः ।

विग्रहान् कृत्वा एवंविधबोधनिरूपणं कृतम् । अत्र च नीलाभिन्न - एकत्वविशिष्ट घटनिष्ठकर्मतानिरूपकानयनानुकूलवर्तमानकालिककृतिमान् एकत्वविशिष्टः चैत्रः इति अखण्डार्थबोधः सम्प्रदायसिद्धः अपि अधिगन्तव्यः। परन्तु पूर्वोक्तः संसर्गाणां तेन रूपेण निरूपणप्रकार एव श्रेयान् ।

एवमेव हरितेन दण्डेन घटं करोतीत्यत्र हरिताभिन्नदण्डनिष्ठकरणतानिरूपक- घटनिष्ठकर्मतानिरूपकव्यापारानुकूलकृतिमान् ।

विदुषे चैत्राय गां ददाति इत्यत्र विद्वदभिन्नचैत्रनिष्ठसम्प्रदानत्वनिरूपक गोनिष्ठकर्मत्वनिरूपकदानानुकूलकृतिमान् ।

महतः वृक्षात् पतति फलमित्यत्र महदभिन्नवृक्षनिष्ठापादानत्वनिरूपकाधोदेश- संयोगानुकूलव्यापारवत् फलमित्येवंरीत्या अखण्डः बोधः वर्णनीयः । संसर्गान् पृथगुल्लिख्य प्रकारस्तु श्रेयान् ।

  • क्रियाविशेषणान्वयः

द्वितीयं तु धात्वर्थविशेषणबोधकं स्तोकं पचतीत्यत्र स्तोकमिति द्वितीयान्तम्। अत्र पच्धातोः तिङ्गिभक्त्यन्तत्वात्, धात्वर्थविशेषणवाचकस्य स्तोकपदस्य तदसम्भवात्षष्ठ्यर्थान्वयः

तस्य नियता द्वितीया विभक्तिरेव द्वितीयाम्रेडितान्तेषु ततोन्यत्रापि दृश्यते इति वार्तिके अन्यत्र इति उल्लेखात् भवति । क्रियाविशेषणानां नियतं द्वितीयैकवचनमित्यर्थः । अर्थस्तु पूर्वोक्त एव अभेदः । परन्तु इह धात्वर्थे तदन्वयः । तथा स्तोकं पचति चैत्रः इत्यत्र स्तोकाभिन्नपाकानुकूलकृतिमान् चैत्रः’ इति बोधः ।

अस्य च अकर्मकधातुयोगेऽपि सम्भवः। सुखं स्वपिति इत्यत्र धातोः अकर्मकत्वात् शुद्धविजातीयव्यापारबोधकता । अत एव फलस्य धातुना अबोधनात्, तदाश्रयोऽपि नास्तीति अकर्मकोयम् । द्वितीयान्तं तु सुखमिति पदं क्रियाविशेषणम् । अतः सुखाभिन्नस्वापाश्रयः इति बोधः ।

क्रियाविशेषणातिरिक्तानां विशेषणवाचकानां नीलादिपदानां हि एवं स्वभावः यत् तदर्थस्य न धात्वर्थान्वयित्वं, किन्तु धात्वर्थान्वयि यत् कारकं, तद्विशेषणं यः घटादिप्रकृत्यर्थः तद्विशेषणे विभक्तिबोधिते अभेदे प्रकारत्वम् । नीलं घटं स्पृशति चैत्रः

नीलः

[[३१०]]

घटः कर्मत्वम् स्पर्शनम् कृतिः अभेदः

आधेयत्वम् निरूपकत्वम् अनुकूलत्वम्

चि.स.२१४

चैत्रः

समवायः।

इत्यत्र इत्येवम् अन्वयः भवेत्। तत्र विभक्तिबोधितम् अभेदं यदि संसर्गं मन्यामहे तदा नीलपदार्थस्य घटे अभेदेन अन्वयः इति ब्रूमः।

  • षष्ठ्यर्थान्वयः

इत्थमेव नीलेन दण्डेन घटं करोतीत्यत्र नीलपदार्थः दण्डपदार्थे अभेदेन अन्वेति । यदा तु अभेदातिरिक्तसम्बन्धः कर्मत्वाश्रये घटे, करणत्वाश्रये दण्डे वा विवक्षितो भवति तदा अवशिष्टा षष्ठी विभक्तिः भवति। यथा मैत्रस्य घटं स्पृशति चैत्रः । अत्र कर्मत्वकारकाश्रयः घटः। तस्मिन् घटे मैत्रस्य स्वामित्वसम्बन्धः स्वत्त्वरूपः विवक्षितः इति मैत्रपदोत्तरषष्ठीविभक्तेः सम्बन्धः अर्थः। तस्य घटे अन्वयः। तथा च मैत्रसम्बन्धि- घटनिष्ठकर्मतानिरूपकस्पर्शनानुकूलकृतिमान् चैत्रः इति बोधः ।

१ - अन्यत्र ज्ञानविशेष्यम् आदौ उल्लिख्य ज्ञानाकारः निरूप्यते । इह परं मुख्यविशेष्यत्वबोधनाय कर्त्रादिनाम् अवसाने उल्लेखः।

षष्ठ्यर्थान्वयः

प्रथमान्तार्थस्य मुख्यविशेष्यत्वेऽपि इतरासां द्वितीयादिविभक्तीनां ये अर्थाः कारकरूपाः ते हि धात्वर्थान्वयिनः भवन्ति इति स्पष्टं दर्शितमस्माभिः स्थाल्यामपाक्षीत् चैत्रः इत्युदाहरणे । नैषा षष्ठी तथाविधा । न हि तदर्थः सम्बन्धः क्रियान्वयी । न हि एवं भवति घटस्य आनयति, चैत्रस्य पचति किन्तु घटस्य शकटम् आनयति, चैत्रस्य ओदनं पचतीति। उभयत्र पष्ठ्यर्थसम्बन्धः शकटे ओदने वा अन्वेति न धात्वर्थे ।

अतः षष्ठ्याः प्रथमावत् कारकबोधकत्वाभावात् द्वितीयादिविभक्तयः कारकबोधिकाः । परन्तु चैत्रेण पच्यते तण्डुलः इत्युदाहरणानुसारं तृतीयया करणत्वमिव कर्तृत्वमपि बोध्यते इति कर्तृत्वादीनि षट् कारकाणि इति तु अनवद्यम्।

[[1]]

एवं दशरथस्य पुत्राय रामाय बदरीफलानि आर्पयत् शबरी इत्यत्र दशरथसम्बन्धः पुत्रे एव, न तु रामे । पुत्रपदं तु रामपदार्थस्य विशेषणबोधकम् । सम्प्रदानत्वाश्रयबोधकं तु रामपदम् । न हि दशरथसम्बन्धः सम्प्रदानत्वाश्रये रामे

। अतः सर्वत्र षष्ठ्यर्थस्य कारकाश्रये अभेदातिरिक्तसम्बन्धेन अन्वयः इत्यपि न घटते ।

अतः

कारकाश्रये तद्विशेषणे तद्विशेषणेऽपि वा कदाचित् षष्ठ्यर्थसम्बन्धान्वयः। अतः पूर्वोक्तवाक्ये दशरथसम्बन्धिपुत्राभिन्नरामनिष्ठसम्प्रदानत्वनिरूपक- बदरीफलनिष्ठकर्मतानिरूपकार्पणानुकूलकृतिमती शबरी इति बोधः ।

धर्मिबोधकतद्धितकृदन्तपदयोगे बोधप्रकारे दिङ्मात्रं प्रदर्श्यते । काषायं वस्त्रं शोधयति चैत्रः इत्यत्र काषायपदस्य विशेषणबोधकत्वात् ततः विद्यमानद्वितीयायाः अभेदः अर्थः। तथा च कषायरञ्जिताभिन्नवस्त्रनिष्ठकर्मतानिरूपकशोधनानुकूल- कृतिमान् चैत्रः इति बोधः। मन्त्रं पठति दण्डी इति वाक्ये दण्डी इति मतुबर्थक - इन्- प्रत्ययान्तम्। अतः तदर्थः दण्डवान्। परन्तु सः नान्यविशेषणं प्रथमान्तार्थत्वात्। अतः तन्मुख्यविंशेष्यक बोधः । तस्य तु मन्त्रनिष्ठकर्मतानिरूपकपठनानुकूलकृतिमान् एकत्वविशिष्टदण्डवान् इत्याकारः ।

पाचकं चैत्रं प्रशंसन्ति जनाः इत्यत्र पाचकपदस्य चैत्रविशेषणवाचकत्वात् तदुत्तरद्वितीयायाः अभेदः अर्थः । पाचकपदार्थस्तु पूर्वोक्तः पाककर्ता धर्मिरूपः । तथा

[[३११]]

कर्मणि प्रयोगे बोधवर्णनम्

च पाककर्त्रभिन्न’ चैत्रनिष्ठकर्मतानिरूपकप्रशंसानुकूलकृतिमन्तः बहुत्वविशिष्टजनाः इति बोधः पूर्ववदेव सुज्ञेयः ।

तस्य च प्रथमान्तत्वे इतरविशेषणत्वे, प्रशंसति पाचकः चैत्रः इत्यादौ प्रशंसानुकूल-कृतिमान् पाककर्त्रभिन्नः चैत्रः इति बोधः । इतराविशेषणत्वे तु प्रशंसति पाचकः इत्यत्र पाककर्ता प्रशंसानुकूलकृतिमान् इति बोधः ।

सर्वेषु च पूर्वोक्तोदाहरणेषु कृतिमान् इति पदेन आख्यातविवरणं नियतम्। एवं विव्रियमाणः प्रयोग एव कर्तरि प्रयोगः इत्युच्यते । कर्तरि बोध्ये प्रयोगः इत्यर्थः। सर्वत्र हि आख्यातेन कृतिबोधः, प्रथमान्तेन तदाश्रयबोधः। स एव च सर्वत्रोदाहरणे कृतिमान् कर्ता बोध्यते इति भवति अयं प्रयोगः कर्तरि प्रयोगः ।

  • कर्मणि प्रयोगे बोधवर्णनम्

यस्तु कर्मणि प्रयोगः इति प्रसिद्धः तत्र न भवति आख्यातार्थः कृतिः । नापि कर्ता प्रथमान्तार्थः। यथा चैत्रेण पच्यते तण्डुलः इत्यत्र। अत्र हि कर्ता चैत्रः तृतीयान्त- ३१२ पदबोध्यः । प्रथमान्तं तु तण्डुलपदम् । अतः इह तदर्थः मुख्यविशेष्यविधया भासते । एवं सति तण्डुले स्थातुं योग्यः अर्थः एव आख्यातेन बोध्यः । न तु पूर्ववत् कृतिरूपः चैत्रनिष्ठः।

तृतीया

चैत्रपदम् एकवचनम् पचधातुः आख्यातम् तण्डुलपदम् प्रथमैकवचनम्

समवायः

एकत्वम्

चैत्रः

कृतिः पाकः

विक्लित्तिः

समवायः

आधेयत्वम्

तण्डुलः

जन्यत्वम् जन्यत्वम्

चि.स.२१५

समवायः

१ - पाककर्तृ + अभिन्न ।

एकत्वम्

कर्मणि प्रयोगे बोधवर्णनम

कोऽसौ योग्यः अर्थः ? व्यापारजन्यं फलं विक्लित्तिः । तच्चास्ति तण्डुले । चैत्रेण इति तृतीया तु इह कृतिबोधिका । तस्याः जन्यत्वसम्बन्धेन धात्वर्थे पाके अन्वयः। पाकस्य जन्यत्वसम्बन्धेन फले विक्लित्तौ अन्वयः । तस्य च फलस्य कृतिवदेव समवायेन प्रथमान्तार्थे तण्डुले अन्वयः ।

तथा च समवायेन एकत्वविशिष्टः यः चैत्रः आधेयत्वसम्बन्धेन तद्विशिष्टा या कृतिः जन्यत्वसम्बन्धेन तद्विशिष्टः यः पाकः जन्यत्वसम्बन्धेन तद्विशिष्टा विक्लित्तिः, समवायेन तद्विशिष्टः एकत्वविशिष्टश्च तण्डुलः इति युक्तो बोधः ।

एकत्वसमवायिचैत्रसमवेतकृतिजन्यपाकजन्यविक्लित्तिमान् एकत्वसमवायितण्डुलः

इति प्रसिद्धः बोधः । अत एव प्रकृतधात्वर्थजन्यफलवतः कर्मणः बोधनात् अयं कर्मणि प्रयोगः, कर्मणि बोध्ये प्रयोगः इति प्रसिद्धिः । विशेषस्तु अन्यत्र द्रष्टव्यः ।

तृतीयस्तु प्रकारः भावे प्रयोग इति प्रसिद्धः । स च अकर्मकधातोरेव भवति । तस्मात् च धातोः न धात्वर्थव्यापारजन्यं किञ्चित् फलं बुद्ध्यते । शुद्धः विजातीयः व्यापारः सुप्यते चैत्रेण इत्यादौ धातुना उपस्थाप्यते । चैत्रेण इति तृतीया कर्मणि प्रयोग इव इहापि कृतिबोधिका। वृत्तित्वं वा तदर्थः। आख्यातार्थस्तु इह धात्वर्थ एव । भावो धात्वर्थः । सः बोध्यते आख्यातेन इति अस्य भावे प्रयोग इति व्यवहारः । तथा च चैत्रवृत्तिस्वापरूपा क्रिया इति बोधः । यदि च प्रत्ययस्यास्य न कोऽपि अर्थः बोधे भासते इति मतं स्वीक्रियेत तदा चैत्रवृत्तिः स्वापः इत्येव बोधः इति अलं पल्लवितेन । आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञानहेतुः । पदस्य पदान्तरव्यतिरेक- प्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षा । अर्थाबाधो योग्यता। पदानामविलम्बेन उच्चारणं सन्निधिः। आकाङ्क्षादिरहितं वाक्यमप्रमाणम्। यथा गौरश्वः पुरुषो हस्तीति न प्रमाणमाकाङ्क्षाविरहात् । अग्निना सिञ्चेदिति न प्रमाणं योग्यता- विरहात् । प्रहरे प्रहरे असहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं सान्निध्याभावात् ।

[[३१३]]

[[३१४]]

आकाङ्क्षानिरूपणम्

[[1]]

  • आकाङ्क्षानिरूपणम्

मूले शाब्दबोधस्य पदज्ञानातिरिक्तां सामग्रीमाह आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञानेहेतुः इति । दर्शितश्च (१) शक्त्यनुभव (२) संस्कार (३) पदज्ञान (४) शक्तिस्मरण (५) पदार्थोपस्थिति (६) शाब्दबोधानां क्रमः । (पृ. २८५) एवञ्च शक्त्यनुभवः शक्तिसंस्कारद्वारा, पदज्ञानं च शक्तिस्मरणजनकत्वेन यथा शाब्दबोधाय आवश्यकं तथैव आकाङ्क्षायोग्यतासन्निधिरूपाणि कारणानि अपि अपेक्षितानि । तेषु च आद्यामाकाङ्क्षां निर्वक्ति पदस्येति । पदस्य पदान्तरव्यतिरेकप्रयुक्तशाब्दबोधा- जनकत्वमिति मूलम्। तत्र शाब्दबोधपदार्थः प्रसिद्ध एव। तदजनकत्वम् जनकत्वाभावः। तथा च शाब्दबोधजनकत्वाभावः इति आयातम् । पदस्येति षष्ठ्यर्थः सम्बन्धः अस्मिन् अभावे अन्वेति । तथा च पदं शाब्दबोधजनकत्वाभाववत् भवति, पदं शाब्दबोधं न जनयति इति अर्थः लभ्यते । परन्तु एतादृशी स्थितिः, यस्य पदस्य शक्तिर्न गृहीता तस्यापि सम्भवति । यस्य पुरुषस्य हि मघवत्पदस्य शक्तिग्रहो नोत्पन्नः तस्य मघवा देवानां राजा इति वाक्यात् न जायते एव बोधः ।

[[1]]

अतः न केवलं शाब्दबोधाजनकत्वमुक्तं, किन्तु पदान्तरव्यतिरेकप्रयुक्तं शाब्दबोधाजनकत्वम्। पूर्वोक्तस्थले शक्तिग्रहाभावदशायां शाब्दबोधाजनकत्वसत्वेऽपि तत् न पदान्तरव्यतिरेकप्रयुक्तं किन्तु शक्तिग्रहाभावप्रयुक्तम् । प्रयुक्तमित्यस्य प्रयोज्यमित्यर्थः। प्रयोज्यप्रयोजकभावः निरूपित एवास्माभिः । (पृ. १५९) उक्तं च तत्र विषयत्वादिनित्यपदार्थानाम् उत्पत्त्यसम्भवेऽपि ज्ञानाधीनत्वात् ज्ञानप्रयुक्तत्वम् । प्रकृतेऽपि शाब्दबोधजनकत्वाभावः, अभावरूपत्वात् नित्योऽपि पदान्तरे सति न प्रतीयते पदान्तराभावे सति प्रतीयते इति सः पदान्तराभावप्रयुक्तः इत्युच्यते ।

एवञ्च पदान्तरव्यतिरेकः एव यत्र पदनिष्ठशाब्दबोधजनकत्वाभावे प्रयोजको भवति, तदा ते द्वे पदे परस्परं साकाङ्क्षे इत्युच्यते। पदान्तरव्यतिरेकः, अन्यस्य पदस्य अभावः । कथं हि अयं पदान्तरव्यतिरेकः पदान्तरनिष्ठशाब्दबोधजनकत्वाभावे प्रयोजको भवति? उच्यते। घट+अम् इति पदाभ्यां जायमानं घटनिष्ठं कर्मत्वमिति लघुभूतं बोधं

अव्यवहितत्वनिवेशः

तद्विवरणाय स्वीकुर्मः। अत्र च घटपदं केनचित् श्रुतम् । तस्य अस्ति शक्तिग्रहोsपि । तेन घटोपस्थितौ न किञ्चित् बाधकम् । परन्तु तादृशघटपदोत्तरम् अम्पदं तु न श्रुतम् । किं भवेत् तस्य घटनिष्ठं कर्मत्वमिति बोधः ? नैव ।

न हि घटेन, घटाय, घटात् इत्यादिघटपदोत्तरवर्ति-टा-ङे-ङसादि- प्रत्ययश्रवणेऽपि कर्मत्वं घटनिष्ठमिति सम्भवति बोधः । अतः आगतः घटपदे शाब्दबोधजनकत्वाभावः। स च पदान्तरव्यतिरेकप्रयुक्तोऽपि । पदान्तरमत्र अम्पदम् । तदभावात्, तज्ज्ञानाभावात् वा घटपदे अन्वयबोधजनकत्वाभावः आगतः। अतः एतादृशबोधजनने घटपदम् अम्पदसाकाङ्क्षमिति उच्यते । एवं घटनिष्ठं करणत्वमिति बोधजननाय घटपदं टाप्रत्ययश्चावश्यकौ।

एतत्प्रकरणनिरूपणावसरे अयं च विशेषः अनुसन्धेयः यत् संस्कृतभाषायाः शब्दसाम्राज्यमस्ति अत्यन्तं विशालम् । ज्ञानबोधनाय एव बुद्धिः, मनीषा, धिषणा इत्यादयः नैके शब्दाः सन्ति । परन्तु करणत्वबोधनाय अस्ति एक एव टाप्रत्ययः । तथा च बुद्धिपदं, बुद्धिनिष्ठं करणत्वं बोधयितुं टाप्रत्ययमपेक्षते । बुद्धिपदानन्तरं यदि न भवति टाप्रत्ययः, न भवति एव बुद्धिनिष्ठं करणत्वमिति बोधः । अतः अनयोः प्रकृतिप्रत्यययोः मध्ये अपराभावे सति अन्येन बोधाजननात् साकाङ्क्षत्वम् अस्ति ।

  • अव्यवहितत्वनिवेशः

एतादृशं परसापेक्षत्वं ययोः पदयोः वर्तते तयोः अव्यवहितत्वेन ज्ञानं शाब्दबोधकारणमिति उच्यते । किमिदम् अव्यवहितत्वम्? अनावश्यकव्यवधानस्य अभावः । यदि च धिषणया इति पदोच्चारणं चिन्तयामः, तत्र तत्र धकार-इकारषकारादयः अष्टौ वर्णाः सन्ति । किं तेषामष्टानां युगपत् उच्चारणं सम्भवति ? न । किन्तर्हि क्रमेणैव । तत्रापि क्रमः विलक्षणः । न हि आदौ षकार - इकारौ । किन्तु धकारः ततः इकारः इत्येवं विलक्षणक्रमेणैव । तत्र वर्णोच्चारकाले तस्य तस्य वर्णस्य यः कालः मात्ररूपः स तु अपेक्षते एव । परन्तु ततोऽपि व्यवधानं तु अनावश्यकम् । इदं परिहर्तव्यम् । एवं

[[३१५]]

[[३१६]]

अव्यवहितत्वनिवेशः

परिहारपुरस्सरं प्रकृतिप्रत्यययोः उच्चारणं, श्रोतुश्च तज्ज्ञानं शाब्दबोधहेतुर्भवति ।

तथा च व्याकरणप्रक्रियया टाप्रत्यय एव इनादिभावं प्राप्नोति इति घटेन इति प्रकृतिः प्रत्ययश्च अव्यवधानेन ज्ञातव्यौ । इयं चाकाङ्क्षा पदधर्मः इति तस्याः पदनिष्ठत्व- सम्पादनाय टाप्रत्यये घटपदाव्यवहितत्वं, घटपदे च टाप्रत्ययाव्यवहितत्वं निवेशनीयम् । तथापि टाप्रत्ययः घटपदोत्तरमेव भवति इति तत्र विद्यमानाकाङ्क्षा घटपदाव्यवहितोत्तरत्वम् । घटपदे विद्यमानाकाङ्क्षा टाप्रत्ययाव्यवहितपूर्वत्वम् ।

अतः घटसंयोगवत् भूतलमित्यस्य संयोगसम्बन्धेन घटवत् भूतलमिति यथा अर्थः भवति तद्वदेव अव्यवहितोत्तरत्वसम्बन्धेन घटपदविशिष्टटाप्रत्ययत्वं टाप्रत्यये विद्यमाना आकाङ्क्षा । एवम् अव्यवहितपूर्वत्वसम्बन्धेन टाप्रत्ययविशिष्टघटपदत्वं घटपदे विद्यमानाकाङ्क्षा इति फलितम् ।

बुद्धिनिष्ठकर्मत्वबोधनाय अव्यवहितोत्तरत्वसम्बन्धेन धिषणापदविशिष्टाम्पदत्वम् अम्पदनिष्ठा आकाङ्क्षा। अव्यवहितपूर्वत्वसम्बन्धेन अम्पदविशिष्टधिषणापदत्वं धिषणापदे विद्यमाना आकाङ्क्षा। अनेन प्रकारेण सर्वत्र प्रकृतिप्रत्यययोः परस्परम् अव्यवहितोत्तरत्व- अव्यवहितपूर्वत्वसम्बन्धाभ्यां ज्ञानमेव च आकाङ्क्षाज्ञानमित्युच्यते ।

अस्तु इयमाकाङ्क्षा । सा च ज्ञायमाना शाब्दबोधहेतुः । तर्हि पूर्वोक्ता पदान्तर- व्यतिरेकप्रयुक्तशाब्दबोधजनकत्वाभावरूपा या तर्कसङ्ग्रहोक्ता आकाङ्क्षा, तस्याः तर्हि किं प्रयोजनम् ? न हि प्रकृतोक्ते अव्यवहितोत्तरत्वे अव्यवहितपूर्वत्वे वा क्वचित् पदान्तराभावः तत्प्रयुक्तशाब्दबोधाभावो वा प्रविष्टः । यदि नैव प्रवेशनीयः, तदा मूलकृता आकाङ्क्षा च इत्यारभ्य कुतः तादृशजनकत्वाभावः निरूपितः ?

सत्यम्, आकाङ्क्षाशरीरे पदान्तरव्यतिरेकः तत्प्रयुक्तशाब्दबोधजनकत्वाभावः नैव प्रविष्टः। अव्यवहितपूर्वत्व- अव्यवहितोत्तरत्वरूपौ संसर्गौ तु प्रविष्टौ । अनयोः संसर्गयोः सांसर्गिकप्रतियोगिता सांसर्गिकानुयोगिता च प्रकृतिप्रत्यययोः भवत्येव ।

  • किम् इदं सांसर्गिकप्रतियोगित्वम्। सांसर्गिक-अनुयोगित्वं च । उच्यते ।

CROCEE

अव्यवहितत्वनिवेशः किञ्चित् अस्ति भूतलं घटवत् । केन सम्बन्धेन घटः तत्र भवेत् ? संयोगेन सम्बन्धेन । अत्र यः घटः सः संयोगस्य प्रतियोगी इत्युच्यते । सः यत्र भवति तत् भूतलं च संयोगस्य अनुयोगि इत्युच्यते । संयोगः, घटे या प्रतियोगिता तां निरूपयति । एवं भूतले या अनुयोगिता तां निरूपयति ।

अभावस्थले, घण्टे या प्रतियोगिता तस्याः निरूपकः अभावः । अभावे या अनुयोगिता तस्याः निरूपकः घटः इति द्वयोरेव पदार्थयोः सम्बन्धः। यत्र वा आधारे अनुयोगी इति आधेये च प्रतियोगी इति व्यवहारः (पृ. ३१) तत्रापि द्वौ एव पदार्थों सम्बन्धिनौ ।

इह सम्बन्धमादाय यदा प्रतियोग्यनुयोगिभावः, तदा तु त्रयः पदार्थाः भवन्ति । एकः सम्बन्धः तस्य च द्वौ सम्बन्धिनौ । अत्रत्या प्रतियोगिता व्यवहारसौकर्याय सांसर्गिकप्रतियोगिता इति, एवम् अनुयोगिता सांसर्गिकानुयोगिता इत्युच्यते। संयोगः सांसर्गिकप्रतियोगितानिरूपकः सांसर्गिकानुयोगितानिरूपकः च इत्युच्यते। एवं रूपादी अपि द्रष्टव्यम् । तच्च समवायेन पटादिद्रव्ये भवति । अतः रूपे समवायनिरूपित- सांसर्गिकप्रतियोगिता भवति । पटादौ समवायनिरूपितसांसर्गिकानुयोगिता भवति । समवायस्तु रूपनिष्ठसांसर्गिकप्रतियोगितानिरूपकः पटनिष्ठसांसर्गिकानुयोगिता- निरूपकः च भवति । एवम् अन्यान् सम्बन्धान् आदाय तेन तेन विद्यमाने आधेये

[[३१७]]

प्रतियोगिता

घटपदम्

प्रतियोगिता

अम्पदम्

अव्यवहितोत्तरत्वम् संसर्गः

अव्यवहितपूर्वत्वम्

अनुयोगिता

अनुयोगिता

अम्पदम्

घटपदम्

चि.स.२१६

[[३१८]]

गौरश्व इत्यत्र आकाङ्क्षाभावनिरूपणम्

सम्बन्धस्य प्रतियोगिता आधारे च अनुयोगिता वर्णनीया इत्येषा रीतिः ।

प्रकृतेऽपि अव्यवहितपूर्वत्व-अव्यवहितोत्तरत्वरूपसंसर्गयोः सांसर्गिक- प्रतियोगिता सांसर्गिकानुयोगिता च प्रकृतिप्रत्यययोः भवत्येव।

तत्र अव्यवहितोत्तरत्वं चेत् संसर्गः घटपदे प्रतियोगिता, अनुयोगिता च अम्पदे । अव्यवहितपूर्वत्वं चेत् संसर्गः प्रतियोगिता चित्रे दर्शितरीत्या अम्पदे, घटपदे च प्रतियोगिता। तथा च संसर्गभेदेन कदाचित् प्रकृतिः प्रतियोगित्वं, कदाचित् प्रत्ययः प्रतियोगित्वं भजते । तयोश्च प्रतियोग्यनुयोगिनोः परिचयार्थं मूले पदान्तरव्यतिरेकः तत्प्रयुक्तः पदस्य बोधजनकत्वाभावश्च निरूपितः ।

एतदुक्तं भवति । आकाङ्क्षाज्ञानं न तादृशबोधजनकत्वाभावज्ञानम् । किन्तु पूर्वोक्तसम्बन्धाभ्यां पदविशिष्टपदत्वज्ञानमेव । तत्र प्रविष्टं यत् आदिमपदं प्रतियोगिभूतं, द्वितीयं च पदमनुयोगिभूतं तत् कीदृशं ग्राह्यमिति जिज्ञासायां वस्तुतः ययोः पदयोः मध्ये पूर्वेण विना अपरम्, अपरेण विना पूर्वं न बोधं जनयति तादृशे पदे ग्राह्ये न तु अन्ये इति बोधनाय मूलकारेण ईदृशमाकाङ्क्षायाः स्वरूपमुक्तम् ।

  • गौरश्व इत्यत्र आकाङ्क्षाभावनिरूपणम्

मूलोक्तम् अनाकाङ्क्षितपदोदाहरणमपि इत्थमेव योजनीयम् । तत्र हि गौः अश्वः पुरुषः हस्ती इति चत्वारि पदानि एकत्र सन्ति । एतेषु नैकमपि स्वनिष्ठकारकबोधाय पदान्तरमपेक्षते। अश्वपदाभावेऽपि गोनिष्ठं कर्मत्वमिति बोध : गोपद- अम्पदाभ्यां भवत्येव । अश्वपदव्यतिरेकदशायां न गोपदे तर्हि बोधजनकत्वाभावः। न तर्हि गोपदम् अश्वपदसापेक्षम् ।

तुल्यम् अश्वादिपदेषु । अश्वपुरुषहस्तिनिष्ठकर्तृत्वादिबोधः तत्तत्प्रकृति-प्रत्ययाभ्यां जायमानः नान्यां गवादिप्रकृतिं कामयते। अतः पदान्तरपदेन अन्यप्रकृतेः ग्रहणे तदभावेऽपि शाब्दबोधजननात् बोधजनकत्वाभावरूपा आकाङ्क्षा न तेषु पदेषु। अतः तादृशपदसमुदायः न प्रमाणवाक्यं भवति। फलतश्च अव्यवहितोत्तरत्वसम्बन्धेन अमादिप्रत्ययेषु घटादि-

Crocee

योग्यतास्वरूपम्

पदवत्ताज्ञानम् अव्यवहितपूर्वत्वसम्बन्धेन घटादिपदेषु अमादिप्रत्ययवत्ताज्ञानम् आकाङ्क्षित्तपदज्ञानं भवतीति इदमेव आकाङ्क्षाज्ञानमिति ख्यातं भवति शाब्दबोधं प्रति कारणम् ।

योग्यतास्वरूपम्

पदनिष्ठं धर्ममुक्त्वा अर्थनिष्ठं धर्ममाह - अर्थाबाध इति । सत्यम्, प्रकृतिप्रत्ययौ अव्यवहितौ ज्ञातौ । न तावता कञ्चन विशेषमवगच्छामः । न हि घटमिति न वाक्यम् । यत्र हि साकाङ्क्षयोः सान्निध्यं तत् भवत्येव वाक्यम् । एवञ्च घटम् इत्यत्र शास्त्रदृष्ट्या वाक्यत्वसत्वेऽपि न विशेषप्रत्यायकत्वम् । घटम् इति वाक्यश्रवणेन हि घटनिष्ठकर्मता- बोधेऽपि तादृशकर्मतानिरूपकस्य धात्वर्थस्य भवति जिज्ञासा । तादृशस्य योग्यस्य धात्वर्थस्य पदेन उपस्थितौ सत्यां घटकर्मत्वं, तत्र लभते अन्वयम् । तेन च विशिष्टबोधः । यथा घटं नयति चैत्रः । इह च घटनिष्ठकर्मतानिरूपकः नयनरूपः योग्यः अर्थः नीधातुना बोधितः । ततश्च घटनिष्ठकर्मत्वस्य नयनान्वयः युज्यते ।

परन्तु क्वचित् साकाङ्क्षाभ्यां प्रकृतिप्रत्ययाभ्यां पदार्थोपस्थितावपि तयोः अर्थयोः परस्परं सम्बन्धेऽपि च तथाविधाभ्याम् अन्यप्रकृतिप्रत्ययाभ्याम् उपस्थितार्थाभ्यां तयोः ३१९ सम्बन्धः न युज्यते । यथा मूलोक्तोदाहरणे वह्निना सिञ्चति इत्यत्र ।

अत्र हि वह्निना इति प्रकृतिप्रत्ययौ साकाङ्क्षौ । ताभ्यां च वह्निनिष्ठकरणत्वबोधः । सिञ्चति इति क्रियापदम् । तत्र च षिचधातोः द्रवद्रव्यसंयोगानुकूलः व्यापारः अर्थः । आख्यातस्य कृतिरर्थः ।

वह्नि

टा

वह्निः

करणत्वम्

षिच

ति

द्रवद्रव्यसंयोगानुकूलः

कृतिः

व्यापारः

चि.स.२१७३२०

योग्यतास्वरूपम्

चित्रे दर्शितरीत्या उभयत्र प्रकृत्यर्थप्रत्ययार्थयोः अन्वयसम्भवेऽपि धात्वर्थः वह्निनिष्ठकरणत्वं नाङ्गीकरोति। तस्य च जलनिष्ठकरणत्वमावश्यकम्। अतः साकाङ्क्षपदैः उपस्थितत्वेऽपि यदा कस्यचित् पदार्थस्य अन्यपदार्थे बाधज्ञानं भवति तदा नोदेति शाब्दबोधः । यथा प्रकृते । सेके वह्निनिष्ठकरणत्वं निरूपकत्वसम्बन्धेन नास्तीति बाधज्ञानं सम्भवति। अतः न तत्र बोधः । बाधज्ञानं च हेत्वाभासप्रकरणोक्तमेव तदभाववत्तानिश्चयः। तस्य तद्वत्ताबुद्धिमात्रं प्रति प्रतिबन्धकत्वं तत्प्रकरणे साधितमेव । तस्य च बाधज्ञानस्य अभावः अबाधः शाब्दबोधहेतुः ।

इदमत्र ज्ञेयम् । हेत्वाभासप्रकरणे (पृ.२२६) दर्शितरीत्या तदभाववत्तानिश्चय- दशायां तद्वत्तासंशय इव तद्वत्तानिश्चयोऽपि नोत्पद्यते । अत एव प्रतिबध्यतावच्छेदकमपि उभयसाधारणं बुद्धित्वमस्माभिः चिन्तितम् । तादृशं च बुद्धित्वं शाब्दबोधेऽप्यस्तीति बाधनिश्चयदशायाम् अनुमितिरिव शाब्दबोधोऽपि न जायते एव । एवञ्च आकाङ्क्षादि- शाब्दसामग्रीनिरूपणे प्रतिबन्धकबाधनिश्चयस्य अभावोऽपि शाब्दबोधे जननीये अपेक्षते इत्येतत् निरूपणाय योग्यता ग्रन्थकारैः अभिहिता ।

आकाङ्क्षा हि पदनिष्ठाव्यवहितोत्तरत्वादिरूपा शाब्दबोधे एव हेतुः । बाधनिश्चयाभावस्य तु ज्ञानमात्रे अपेक्षा । तादृशश्च प्रतिबन्धकाभावः इहापि शाब्दसामग्री- प्रविष्टः इति एतद्बोधनपरः योग्यताग्रन्थः इति।

अत एव च ग्रन्थकृता आकाङ्क्षा योग्यता सन्निधिः इति निर्देशः कृतः। तेषु च वक्ष्यमाणायाः सन्निधेः, पूर्वोक्तायाः आकाङ्क्षायाः ज्ञायमानायाः कारणत्वम् । योग्यता तु बाधनिश्चयाभावरूपा स्वरूपसती एव कारणम् । न हि सेचनं जलकरणकत्वाभाववत् इति बाधनिश्चयस्य अभावः ज्ञातव्यः भवति । किन्तु विद्यमान एव अभावः शाब्दबोध- हेतुः।

आकाङ्क्षा तु पदधर्मः ज्ञातव्यो भवति । वक्ष्यमाणा च आसत्तिः ज्ञातव्या भवति। अतः त्रयाणां मध्ये द्वयोः ज्ञायमानयोः कारणत्वं, योग्यतायाः न तथाविधता इति ऐकरूप्यं न शक्यं वक्तुम् । अतः ज्ञायमानत्वम् अनुल्लिख्य सामान्यरूपेण

TEEEEEED

आसत्तिः, योग्यता बहुत्र चेतनस्यैव

तर्कसङ्ग्रहकृता प्रोक्तम् । इयं ज्ञायमानस्य कारणता विद्यमानस्य च कारणता (पृ.१५६) अस्माभिः विस्तरेण निरूपिता इति तत एव अवगन्तव्या ।

क्रमप्राप्तामासत्तिं लक्षयति पदानामिति । अविलम्बेन आवश्यकव्यवधाना- तिरिक्तव्यवधानमकृत्वा उच्चारणम्। प्रकृतिप्रत्यययोः दर्शितरीत्या यद्यपि अत्यन्तम् अव्यवधानं सम्भवति (पृ.३१६) परन्तु सङ्ग्रहोक्तोदाहरणे व्याकरणशास्त्रसम्मतं पदद्वयमादाय आसत्यभावः प्रदर्श्यते । गाम् आनय इति पदद्वयं प्रहरे प्रहरे असहोच्चरितं न बोधजनकमिति हि मूले उक्तम् । अत्र तु नात्यन्तमव्यवधानं सम्भवति । अतः अविलम्बेन इत्यस्य आवश्यकव्यवधानातिरिक्तव्यवधानवर्जनेन इति अर्थः वर्णितः।

अत्र उच्चरितमपि यदि न ज्ञानविषयः पदं, तदा न जायते शाब्दबोधः। अन्यच्च पुस्तकपठनादौ अनुच्चरितमपि तत् ज्ञातं सत् बोधयति इति अनुभवः। अतः उच्चारणमित्यत्र ज्ञानमेव विवक्षितम्। तच्च पदविषयकं ज्ञानम् अविलम्बेन व्यवधानाभावेन । अत्र च ज्ञानानामव्यवधानेन अलम् । न तु तदपि ज्ञातव्यमिति भावः।

सूक्तिललन्तिका

  • योग्यता बहुत्र चेतनस्यैव

अत्रेदं चिन्त्यते । पूर्वोक्तरीत्या घटम् इत्यस्य वाक्यत्वेऽपि तद्वाक्यात् निराकाङ्क्ष- बोधः नोपजायते । द्वितीयादिना बोधितस्य कारकस्य धात्वर्थमात्रापेक्षितत्वेन तद्बोधकपदापेक्षायाः सार्वदिकत्वात् । सा च क्रिया कृतिजन्या इति आख्यातेन तस्यापि बोधः । सापि कृतिः चेतनधर्मः इति चैत्रादिचेतनवाचकपदमपि आवश्यकम्। एवञ्च आख्यातेन कृतिबोधनेऽपि यदि प्रथमान्तं चेतनवाचकपदं न भवति, भवति च अचेतनपरं घटादिपदं तदा तादृशकृतेः घटे बाधनिश्चयात् ग्रामं गच्छति घटः इत्यादिवाक्यात् न बोधः ।

अतः आख्यातार्थकृतिप्रकारकशाब्दबोधे प्रथमान्तचेतनबोधकपदेन एव योग्यतानिर्वाहः इति आद्यः नियमः कल्प्यः । अत्रैव च (पृ.३१२) दर्शितरीत्या

[[३२१]]

[[३२२]]

योग्यता बहुत्र चेतनस्यैव

कर्मणिप्रयोगे सति तृतीयान्तं चेतनवाचकपदमावश्यकम्। अत एव चैत्रेण गम्यते ग्रामः इति वाक्यात् भवति बोधः, न भवति च घटेन गम्यते ग्रामः इत्यत्र । अतः कर्मणि प्रयोगे कर्तृत्वबोधाय चेतनवाचकतृतीयान्तपदसत्वे एव योग्यतानिर्वाहः बोधश्च, नान्यथा इति नियमश्च कल्प्यः।

इतश्च द्विविधाः धातवः, सकर्मकाः अकर्मकाश्च इति (पृ.३०१) निरूपितमेव । फलावच्छिन्नव्यापारबोधकाः सकर्मकाः, शुद्धव्यापारबोधकाः अकर्मकाः इत्यपि विभागः तत्रैवोक्तः । अकर्मकेषु तेषु अपि केचन धातवः ज्ञा, इष् इत्यादिरूपाः द्वितीयान्तं पदमपेक्षन्ते । यथा घटं जानाति, घटम् इच्छतीत्यादौ । सिद्धान्ते एते धातवः हि अकर्मकाः। परन्तु भवति तेषामपि द्वितीयान्तपदाकाङ्क्षा ।

तेषाञ्चार्थाः ज्ञानेच्छादयः सर्वे सविषयकाः इति सविषयकार्थबोधकधातुत्वं तादृशधातूनाम् अनुगतधर्मो भवति । तदर्थानां ज्ञानेच्छाकृतिद्वेषाणां चेतनधर्मत्वात् एतदाश्रयत्वं सुतरां चेतने इति अत्रापि कर्तरिप्रयोगे प्रथमान्तेन, कर्मणिप्रयोगे तृतीयान्तेन चेतनवाचकपदेन एव योग्यतानिर्वाहः । अत एव घटं जानाति चैत्रः, चैत्रेण ज्ञायते घटः, इच्छति चैत्रः पटम् इत्यादिप्रयोगाः युज्यन्ते । साकाङ्क्षपदसत्वेऽपि पटं जानाति घटः, घटेन ज्ञायते गौः इति प्रयोगाः बाधनिश्चयसत्वात् भवन्ति अप्रमाणम्।

भ्वादियोगे तु अस्ति सर्वस्यापि योग्यता । अतः मनः भवति, घटत्वं भवति

तु इत्यादिप्रयोगाः साधवः।

एतेषु अकर्मकेषु द्वितीयासाकाङ्क्षेषु द्वितीयार्थः भवति विषयत्वम् । घटं जानाति चैत्रः इति वाक्ये, घटपदोत्तरद्वितीयायाः विषयत्वमर्थः । पूर्ववदेव प्रकृत्यर्थस्य घटस्य प्रत्ययार्थे आधेयतासम्बन्धेन अन्वयः । तस्याश्च विषयतायाः निरूपकत्वसम्बन्धेन ज्ञा- धात्वर्थे ज्ञाने अन्वयः, अत्रत्याख्यातस्य आश्रयत्वमर्थः। प्रथमान्तार्थश्च चैत्रः मुखविशेष्यविधया भासते इति घटनिष्टविषयत्वनिरूपकज्ञानाश्रयत्ववान् चैत्रः इति उक्तवाक्यात् बोधः।

घटपदम् अम्पदम् ज्ञाधातुः

ज्ञानादियोगे सर्वेषां कर्मत्वयोग्यत्वम्

तिप्रत्ययः

चैत्रः

IIIII

घटः

विषयत्वम्

आधेयत्वम्

निरूपकलाम

ज्ञानम्

आश्रयत्वम्

चैत्रः

चि.स.२१८

  • ज्ञानादियोगे सर्वेषां कर्मत्वयोग्यत्वम्

इदं च द्वितीयार्थभूतं विषयत्वं क्व नास्ति ? प्रमाणेन खलु पदार्थाः साधिताः प्रमाविषयीभूताः । अतः भूते भविष्यति वर्तमाने, इन्द्रियगम्ये इन्द्रियागम्ये वा प्रत्येकस्मिन् पदार्थे विषयत्वमस्त्येव। इन्द्रियगम्ये प्रत्यक्षनिरूपितं, तदभिन्ने अनुमित्यादिनिरूपितम् इति अन्यदेतत्। विषयत्वं तु सर्वत्रैव । एवञ्च सविषयकधातुयोगे सकलपदार्थानां विषयत्वयोग्यत्वात् यत्किञ्चित्पदोत्तरं द्वितीयाकरणेऽपि योग्यतानिर्वाहः। अत एव समवायं जानाति, विशेषं जानाति, अभावम् इच्छामि इति प्रयोगाः साधवः । रूपं पश्यति अन्धः इत्यादिप्रयोगास्तु कर्तुः अयोग्यत्वात् न योग्यतानिर्वाहका इति तत्र तत्र चिन्तनीयम् ।

एतावता विवरणेन सर्वादौ कर्तृयोग्यता सविषयकधातुयोगे च द्वितीयान्तमादाय योग्यता निरूपिता । एतादृशज्ञानादिकं यत्र धात्वर्थे प्रविशति, अर्थविशेषणं भवति, तादृशाश्च धातवः निरूपयति, कारयति इत्यादौ विद्यमानाः। नि-उपसर्गपूर्वकरूपधातोः ज्ञानानुकूलव्यापारः अर्थः, द्वितीयस्थले च कृत्यनुकूलव्यापारः अर्थः । अत्रापि भवति द्वितीयान्तपदाकाङ्क्षा। यथा आकाशं निरूपयतीत्यादौ । पूर्ववदेव इयं द्वितीया विषयत्वार्थिका इति अत्रापि सर्वस्यापि पदस्य योग्यतानिर्वाहकत्वम् । अर्थमात्रस्य निरूपयितुं शक्यत्वात्। अत एव अभावं निरूपयति, शिष्यं धर्मं ब्रूते इत्यादिप्रयोगाः युज्यन्ते ।

[[३२३]]

[[३२४]]

गमनादौ द्रव्यस्यैव कर्मत्वयोग्यत्वम्

गमनादौ द्रव्यस्यैव कर्मत्वयोग्यत्वम्

एतदुभिन्नाश्च प्रसिद्धाः सकर्मकधातवः । ते हि न केवलं व्यापारं क्रियारूपं बोधयन्ति किन्तु तज्जन्यं फलमपि । गम्धातोः अन्यदेशसंयोगजनकव्यापारबोधकता असकृदावेदिता एव । अनेकविधग्रन्थपर्यालोचनया च इदमत्रास्माभिः गृहितं यत् धातवः तादृशं व्यापारं बोधयन्ति, यः अन्ततः (१) संयोगम् (२) संयोगनाशं (३) विभागं (४) विभागनाशं (५) स्वत्वं (६) स्वत्वनाशं वा जनयति । अन्यान्यपि वा क्रियाजन्य- फलानि स्युः। तथापि तेषां मूर्तमात्रनिष्ठत्वं पर्यवस्यति । मूर्तानि च पृथिव्यादिचतुष्टयं मनश्च। अतः यत्र व्यापारजन्यं फलं तत्रैव धात्वर्थकर्मत्वसम्भवात् क्रियाजन्यफलस्य मूर्ते एव सम्भवात् कर्मत्वमपि मूर्तेषु एव घटते इति सर्वसकर्मकधातुयोगे मूर्तवाचकपदानि एव कर्मत्वयोग्यतानिर्वाहकाणि ।

अत एव गां ददाति मैत्रः, ग्रामं गच्छति चैत्रः, तण्डुलं च पचति विष्णुगुप्तः इत्यादिप्रयोगाः साधवः । गोग्रामतण्डुलादिमूर्तबोधकपदैः योग्यतानिर्वाहात् । न भवन्ति आकाशं वारयति, आत्मानम् आनयति वा विष्णुगुप्तः इत्यादिप्रयोगाः। आकाशात्म- पदोपस्थापितार्थानां धातुजन्यफलाश्रयत्वाभावात्, बाधनिश्चयस्य विरोधिनः सत्वेन योग्यतायाः असत्त्वात्।

यदि च आकाशं संयुनक्ति बलाका, इति प्रयोगः प्रमाणिकः, गगनादिनां च विभुत्वं सर्वमूर्तद्रव्यसंयोगित्वं चादाय इतरविभूनामपि योग्यत्वमिति विभाव्यते तदा मूर्तवाचकपदमिति विहाय द्रव्यवाचकपदमिति ब्रूमः । एवञ्च द्रव्यवाचकपदमात्रस्य सकर्मकधातुयोगे कर्मत्वयोग्यतानिर्वाहकत्वमिति सिद्धम् ।

अत्र च मात्रपदेन साकल्यम्, इतरनिवृत्तिः उभयं विवक्षितम्। सर्वाणि द्रव्यवाचकानि योग्यतानिर्वाहकाणि, गुणादिबोधकानि न इति तदर्थः ।

अयं विचारः प्रयोगसौकर्याय सङ्गणकादियन्त्रेषु अर्थयोग्यत्वनिर्णयाय च कृतः। अन्ये च प्रयोगाः रसमुत्पादयति, रूपं नाशयति इत्यादयः नानेन निर्वहन्ति चेदपि

आकाङ्क्षान्तरस्वीकारः आवश्यकः

बहुत्रोपकारकोयमिति विदुषां पुरस्तात् उपस्थापितः।

इत्थमेव करणत्वसम्प्रदानत्वादिकारकस्वरूपपर्यालोचनया चेतनाचेतन- द्रव्यद्रव्येतरादिविभागैः तत्र तत्र योग्यतानिर्वाहः कर्तव्यः इति दिक् । योग्यताभाव- स्थलोदाहरणं तु तन्निरूपणावसरे विस्तरेणोपपादितम्।

सूक्तिललन्तिका

  • आकाङ्क्षान्तरस्वीकारः आवश्यकः

अत्र पुनरपि चिन्त्यते । आकाङ्क्षानिरूपणप्रसङ्गे सर्वस्मिन् वर्णने यत्पदतत्पदाभ्यां नामप्रकृतिः सुप्प्रत्ययश्चोदाहरणाय गृहीतौ । तथैव धातुप्रकृतिरपि तिप्प्रत्ययेन अन्यतरसम्बन्धेन वैशिष्ट्यमावहन्ती शाब्दबोधहेतुरिति अपि युज्यते। यथा हि अव्यवहितोत्तरत्वसम्बन्धेन अम्पदं घटपदवत् इति ज्ञानम् आकाङ्क्षाज्ञानरूपं शाब्दबोध- हेतुः, तद्वदेव तेनैव सम्बन्धेन, तिपदं व्याकरणप्रक्रियया संस्कृत यत् गम्पदं तद्वत् इति आकाङ्क्षाज्ञानं कारणमिति अवश्यं वाच्यम् ।

तथापि पूर्वोक्तविवरणे अकर्मकाः ज्ञानादिधातवः द्वितीयासाकाङ्क्षाः इति प्रयोगः कृतः। (पृ.३२३) निरूपयति इत्यत्रापि द्वितीयासाकाङ्क्षत्वमस्तीति उल्लिखितम्। इह तु धात्वाख्यातयोः निरूपयति इत्यनेन ग्रहणं कृतम् । जानाति इत्यत्रापि आख्यातान्तमेव गृहीतं, पुनः द्वितीयासाकाङ्क्षत्वं च वर्णितम् । यदि च दर्शितरीत्या पूर्वोक्ताकाङ्क्षा प्रकृतिप्रत्यययोः एव अस्ति ततः तौ द्वौ आदाय पुनश्च द्वितीयासाकाङ्क्षत्वमिति लेखनेन इदं प्रतिभाति अनयोरपि धात्वाख्यातयोः मिलित्वा अस्ति आकाङ्क्षा द्वितीयान्तस्य ।

सा पूर्वोक्ताव्यवहितोत्तरत्वादिना न निर्वहति । तच्चाव्यवहितपूर्वत्वम् अव्यवहितोत्तरत्वं वा प्रकृतिप्रत्यययोरेव सम्भाव्यते । व्याकरणशास्त्रे सुबन्तस्य तिङन्तस्य च पदसञ्ज्ञा भवति इति प्रसिद्धम् । ते पदे एव प्रकृते अस्माकं प्रकृतिप्रत्ययसमुदायरूपे भवतः । ततोऽपि पदान्तरम् अवश्यं तत्समुदायात् व्यवहितमेव भवति । तयोर्मध्ये

[[३२५]]

आकाङ्क्षान्तरस्वीकारः आवश्यकः

मात्रादिरूपस्य कालस्य आवश्यकत्वात् । न हि घटम् इत्यत्र घटपदाम्पदयोः यादृशमव्यवधानं तादृशं घटं पश्यति इत्यत्र समुदायस्य सम्भवति ।

पूर्वोक्ता आकाङ्क्षा

प्रकृतिः,

घटपदम्

प्रत्ययः

प्रकृतिः

प्रत्ययः

अम्पदम्

गम्धातुः

आख्यातम्

इयं च अव्यवधानघटिता ।

सम्प्रति उच्यमाना

आकाङ्क्षा

द्वितीयान्तम्

आकाङ्क्षा

जानाति

द्वितीयान्तम्

निरूपयति

(प्रकृतिप्रत्ययौ)

( प्रकृतिप्रत्ययी)

३२६ नात्र अव्यवधानम् ।

चि.स.२१९

यदि च प्रकृतिप्रत्यययोः पूर्वोक्ता या आकाङ्क्षा, तदतिरिक्ता आकाङ्क्षा अप्रामाणिकी, द्वितीयादिसाकाङ्क्षत्वरूपस्वकीयलेखनेन च न पदार्थः सिद्ध्यतीति उच्येत तदा घटं जानाति इति वाक्यात् आकाङ्क्षादिमत्पदसमुदायरूपात् शाब्दबोधस्य निराबाधेन नैय्यायिकानां प्रथमान्तपदाध्याहारः अनावश्यकः स्यात्।

यदि च पचति, जानाति इत्यादौ आख्यातबोध्यकृत्याश्रयत्वयोः आश्रयाकाङ्क्षया प्रथमान्तपदाध्याहारः समर्थ्यते, ततः सविषयकधातोः विषयाकाङ्क्षायां, सकर्मकस्य च पचेः फलाश्रयस्य च आकाङ्क्षायां द्वितीयान्तघटतण्डुलादिपदापेक्षा इति तुल्यम् । न हि प्रत्ययार्थः कृतिः एव स्वाश्रयमपेक्षते न तु धात्वर्थोऽपि स्वकर्म इत्यत्र किञ्चित्

आकाङ्क्षान्तरस्वीकारः आवश्यकः

नियामकमस्ति । प्रत्युत ज्ञादिधात्वर्थानां सविषयकाणां विषयमात्रनिरूप्याणां विषयजिज्ञासायाः एव सर्वादौ वक्तव्यत्वेन प्रथमान्ताध्याहारापेक्षया द्वितीयान्ता- ध्याहारस्यैव औचित्यात् ।

एवं प्रकृतिप्रत्यययोरेव आकाङ्क्षात्वे व्युत्पत्तिवादादौ प्रथमाकारकात् प्रभृति सर्वत्र व्याकरणशास्त्रसम्मतपदमादाय तादृशपदयोः आकाङ्क्षाप्रदर्शनं नैयायिकमूर्धन्यस्य गदाधरभट्टाचार्यस्य असङ्गतं स्यात् । अतः भवति प्रकृतिप्रत्यययोः समुदायस्यापि आकाङ्क्षा इति न पूर्वोक्तया एव निर्वाहः इति चेत्, अत्र ब्रूमः ।

  • शाब्दबोधस्य अपर्यवसानम्, असमाप्तिः आकाङ्क्षा। तत्स्वरूपं तु पूर्वोक्तः पदस्य पदान्तरव्यतिरेकप्रयुक्तः शाब्दबोधजनकत्वाभाव एव । परन्तु अत्र पदं पदान्तरं वा पूर्वदर्शितरीत्या न केवलं प्रकृतिः प्रत्ययश्च ग्राह्यं किन्तु व्याकरणशास्त्र सम्मतमपि सुबन्तं तिङन्तञ्च।

तथा च घटपदाभावे अम्पदे बोधजनकत्वाभावात् यथा तयोः साकाङ्क्षत्वं, तथैव प्रथमान्तपदाभावात् पचति जानातीत्यादौ बोधजनकत्वाभावः अनुभवसिद्धः इति तयोरपि साकाङ्क्षत्वात् प्रथमान्तपदाध्याहारः। एवं च सविषयकधातुयोगे विषयाकाङ्क्षायाः नियतत्वात् तत्रापि द्वितीयान्तपदाध्याहारः कचिदुक्तः युज्यते ।

अत्र प्रकृतिप्रत्यययोः साकाङ्क्षयोः यत् अव्यवधानं पूर्वम् आकाङ्क्षाशरीरे प्रविष्टं, न तत् आकाङ्क्षायाः निरूप्यम् । किन्तु वक्ष्यमाणायाः आसत्तेरिति न विषयसाङ्कर्यम् । मूलकारोक्तं लक्षणमपि अस्यानुकूलम् । पदस्य इत्यनेन उभयविधपदग्रहणसम्भवात् तन्निष्ठस्य बोधजनकत्वाभावस्यापि उभयविधपदाभावप्रयुक्तत्वसम्भवाच्च । तस्य प्रत्युदाहरणमपि पक्षेऽस्मिन् अनुकूलम्। गौः अश्वः इत्यादिसुबन्तसमुदायस्यैव तेन प्रदर्शनात् । यदि प्रकृतिप्रत्यययोरेव आकाङ्क्षां ग्रन्थकारः चिन्तयेत् तदा निराकाङ्क्षप्रकृति- प्रत्ययसमुदायमेव प्रदर्शयेत्। स तु सुबन्तसमुदायान् दर्शितवान्। तच्च उपलक्षणम्। तेन घटनिष्ठकर्मत्वबोधने निराकाङ्क्षयोः टापदघटपदयोरपि ग्रहणम् । एवं सति भट्टाचार्योक्तमपि समर्थितं भवति ।

[[३२७]]

[[३२८]]

आसत्तिः

संसर्गातिरिक्तविषयतायाः शाब्दस्थले शब्दप्रयोज्यत्वेऽपि यत्र असाधारण्येन पदमेवापेक्षितं तत्र सा आकाङ्क्षा पदाकाङ्क्षा इत्युच्यते। यथा स्पृहयतियोगे चतुर्थी । यत्र तु अर्थस्यैव आकाङ्क्षा, पदस्य तु तदुपस्थापकत्वेन, तत्र सा अर्थाकाङ्क्षा इति तयोः भेदः।

  • आसत्तिः

आसत्तिः च सान्निध्यम्। तद्विविधम् । पदनिष्ठं पदज्ञाननिष्ठं च । पदनिष्ठमपि द्विविधम्। अत्यन्तमव्यवधानम् आद्यम् । समभिव्याहारश्च । इदमुभयं ज्ञातं सत् बोधकम्। यथा घटपद-अम्पदयोः वस्तुतः व्यवधाने सत्यपि अव्यवहितोत्तरं घटपदेन अम्पदम्, अव्यवहितपूर्वं वा घटपदमिति ज्ञानात् बोधदर्शनात्। सर्वेषां वर्णानां च क्षणिकत्वेन युगपत् बोद्धुमशक्यत्वात् तेन सम्बन्धेन परस्परवैशिष्ट्यज्ञानादेव बोधस्य वर्णनीयत्वात्।

समभिव्याहारस्थलेऽपि चैत्रं पश्यति मैत्रः इत्यादौ पूर्वोक्ताव्यवधाने असत्यपि, अज्ञाते च सत्यपि, बोधोदयात् एकवाक्यघटकत्वरूपसमभिव्याहारज्ञानस्यैव आवश्यकत्वम्। अत एव गायकादिभिः मङ्गलायतनः हरिः इति पदयोः मध्ये चिरं षड्ज-ऋषभादिप्रदर्शनपुरस्सरं गायनेऽपि पूर्वोक्तसमभिव्याहारं जानतां भवति तादृशवाक्यात् बोधः।

ज्ञाननिष्ठं च सान्निध्यं विद्यमानं सत् कारणमिति नात्र ज्ञानापेक्षा । एतस्यापि कारणत्वमावश्यकम् । उपस्थितीनां सान्निध्याभावे बोधादर्शनात् । एतादृशव्याख्यानेन च असाङ्कर्यं भवति । सर्वविधसान्निध्यस्य आसत्त्या एव निरूपणात् । न्यायबोधिनीरीत्या तु आकाङ्क्षाशरीरेऽपि अव्यवहितत्वप्रवेशात् विषयसाङ्कर्यम्। एतादृशविषयसाङ्कर्य- वारणायैव वस्तुतस्तु क्रियाकारकपदानां सन्निधानमासत्त्या चरितार्थम् । परन्तु घटकर्मताबोधं प्रति घटोपदोत्तरद्वितीयारूपाकाङ्क्षाज्ञानं कारणमिति मुक्तावली- पङ्क्तिरपि अस्मदुक्तरीत्या योजनीया । अन्यथा आकाङ्क्षायां सन्निधौ च उभयत्रापि सन्निधेः एव निरूपणात् विषयवैलक्षण्यानुपपत्तेरिति दिक् ।

वाक्यविभागः

वाक्यं द्विविधम् । वैदिकं लौकिकं च । वैदिकमीश्वरोक्तत्वात्सर्वमेव प्रमाणम् । लौकिकं त्वाप्तोक्तं प्रमाणम् । अन्यदप्रमाणम् । वाक्यार्थज्ञानं शाब्दज्ञानम् । तत्करणं शब्दः ।

एतावता शाब्दबोधहेतवः आकाङ्क्षादयः निरूपिताः । निरूपितेषु एतेषु तादृशाकाङ्क्षादियुक्तं वाक्यं प्रमाणरूपं भवति । शाब्दबोधं च जनयति । तत् वाक्यं विभजते वाक्यं द्विविधमित्यादिना । वैदिकमिति । न्यायमते हि ईश्वरः प्रत्यक्ष- खण्डोक्तरीत्या अनुमानेन सिद्ध्यति । क्षित्यादिनां जन्यानाम् अस्ति चेतनापेक्षा इति ईश्वरः चेतनः द्व्यणुकादिजनकत्वेन सिद्धः । स च ईश्वरः सर्वज्ञः इति अपि तत्रैव साधितम् । (पृ.६६) तदुक्तत्वात् भवति सर्वमपि वैदिकं वाक्यं प्रमाणम् । प्रमात्मकज्ञानजनकमिति तदर्थः। बाधितार्थं भवति वैदिकं वाङ्मयं, निरर्थकं, पुनरुक्तं च इत्याद्याक्षेपाः न्यायसूत्रादौ परिहृता इति तत एव अवगन्तव्याः। नेह विस्तरभयात् किञ्चित् लिख्यते इति ।

द्वितीयं प्रमाणवाक्यमाह आप्तोक्तमिति । आप्तोयं शब्दखण्डोपक्रमे विस्तरेण निरूपित एव । तदुक्तं च यथार्थज्ञानजन्यत्वात् भवति यथार्थज्ञानजनकमिति प्रमाणम् ।

इति श्रीगोडाकुलाब्धिपूर्णचन्द्रमहामहोपाध्यायश्रीसुब्रह्मण्यगुरुचरणान्तेवासिनः देवदत्तस्य कृतौ तर्कसङ्ग्रहव्याख्यायां विद्याधरीसञ्ज्ञकायां शब्दखण्डः।


[[३२९]]