०७ उपमानखण्डः

  • उपमानखण्डः

उपमितिकरणमुपमानम् । सञ्ज्ञासञ्ज्ञिसम्बन्धज्ञानमुपमितिः। तत्करणं सादृश्यज्ञानम् । अतिदेशवाक्यार्थस्मरणमवान्तरव्यापारः ।

तथा हि कश्चिद्रवयशब्दार्थमजानन् कुतश्चित् आरण्यकपुरुषाद्गोसदृशो गवय इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन् गोसदृशं पिण्डं पश्यति । तदनन्तरमयं गवयशब्दवाच्य इत्युपमितिरुत्पद्यते ।

प्रत्यक्षखण्डे विभक्तानि तावत् प्रमाणानि। तत्र अनुमानं बहुवादिसम्मतमिति उपमानात् प्राक् निरूपितम्। वक्ष्यमाणे शाब्दबोधे प्रकृतस्य उपमानफलस्य उपमितिरूपस्य शक्तिग्रहस्य अस्ति उपयोगः । अतः शब्दनिरूपणात् पूर्वं उपमानं निरूपयति - उपमितिकरणमिति।

इहापि उपमा उपमितिः इति पदद्वयमपि फलं बोधयति। तच्च फलं वक्ष्यमाणं शक्तिज्ञानरूपं भवति। तस्य साधनबोधनाय करणे ल्युट्प्रत्यये कृते उपमानपदनिष्पत्तिः । २८४ तथा च शक्तिज्ञानसाधनमिति अर्थः फलति। परन्तु उप-उपसर्गपूर्वकमाधातुना बोधनात् फलमपि वक्ष्यमाणसादृश्यज्ञानजन्यं शक्तिज्ञानमेव ग्राह्यम्। तथा च तादृशविजातीय- शक्तिग्रहस्य यत् करणं तत् उपमानमिति फलति।

तत्र लक्षणघटकीभूतामुपमितिं लक्षयति । सञ्ज्ञेति । सञ्ज्ञा पदम्, सञ्ज्ञी पदवाच्यः तयोः सम्बन्धः शक्तिः ईश्वरेच्छारूपा तस्याः ज्ञानम्। वक्ष्यमाणोदाहरणे हि गवयपदस्य गवये शक्तिः इति निर्धार्यते। सा शक्तिरेव पदपदार्थयोः सम्बन्धः पूर्वज्ञानेषु अविषयः उपमितौ विषयः।

तथा हि कश्चित् नागरिकः गवयपदस्य कः अर्थः इति न जानाति । तं प्रति आरण्यकः कश्चित् गोसदृशो गवय इति ब्रूते । कीदृशः एतद्वाक्यात् शाब्दबोधः ? गोसदृशाभिन्नः गवयः इति । यद्यपि श्रोतुः गवयपदस्य शक्तिग्रहः नास्ति । तदभावे च कथं गोसदृशो गवयः इति वाक्यात् शाब्दबोधः भवेत् ? यतः हि शाब्दबोधं प्रति वाक्ये

उपमानखण्डः

विद्यमानानां निखिलपदानामर्थज्ञानेन भवितव्यमिति अग्रे वक्ष्यते । (पृ. २९२) तथा च उपमानफलं गवयपदशक्तिग्रहः नैतावता श्रोतुरस्तीति कथं तस्य शाब्दबोधः इति शङ्का भवति तथापि अत्रत्यं गवयपदं न गवयत्वजातिविशिष्टं ज्ञापयति किन्तु गवयपदवाच्यत्वेन कञ्चन पदार्थम् । तथा च गोसदृशः गवयपदवाच्यः इत्येव आदौ बोधः। अत एव एतद्वाक्यं प्रान्तभाषासु जो गाय जैसा दिखता है वही गवयपद का अर्थ है इति अनूद्यते। तत्र गवयः इत्यस्य गवय पद का अर्थ इति अनुवादः इदमेव साधयति ।

  • तत्रापि गोसदृशः इत्यस्य कोऽर्थः ? गौः खुरविषाणलाङ्गूलादिमती यथा तद्वदेव यः भवति सः गोसदृशः इत्युच्यते। एवञ्च गवयपदार्थः गोसदृशः इति आरण्यक वाक्यात् भवति बोधः। ततः नागरिकः एषः अरण्यं प्रति गतः । तत्र च कस्मिंश्चित् पिण्डे विषाणलाङ्गूलादिधर्मान् पश्यति । इदमेव गोसादृश्यज्ञानमिति उच्यते। उपमितेः फलरूपायाः इदमेव करणम्। तादृशसादृश्यज्ञानेन आरण्यकपुरुषेण यदुक्तं तत्तस्य पुनरपि स्मर्यते। गोसदृशः गवयपदवाच्यः। इदमेव अतिदेशवाक्यार्थस्मरणमित्युच्यते । ततः परम् अयं गवयत्वविशिष्टः गोपदवाच्यः इति शक्तिग्रहः उत्पद्यते । तथा च अनुमानशब्दयोरिव अत्रापि भवति क्रमः ।

व्याप्तिज्ञानम्

शक्तिज्ञानम्

आरण्यकवाक्यजन्यबोधः

एते त्रयः अपि स्वस्वकाले भवन्ति । प्रमोत्पत्तिकाले न तेषामुत्पत्तिः ।

[[२८५]]

संस्कारः (आत्मनि)

पक्षधर्मताज्ञानम्

संस्कारः

पदज्ञानम्

संस्कारः

सादृश्यज्ञानम्

त्रयाणामपि तत्र तत्र संस्कारोद्बोधकत्वात् स्मरणे उपयोगः ।

व्याप्तिस्मरणम्

शक्तिस्मरणम्

वाक्यार्थस्मरणम्

परामर्शः

पदार्थोम्पस्थितिः

उपमितिः (फलम् ।)

अनुमितिः (फलम्)

शाब्दबोधः (फलम्)

[[२८६]]

उपमानखण्डः

अत्र च अतिदेशवाक्यार्थस्मरणमेव यस्य पुरुषस्यास्ति न सादृश्यज्ञानं, तस्य कश्चित् गोसादृश्यवान् गवयपदवाच्यः इति ज्ञानसम्भवेऽपि सा व्यक्तिः का इति निश्चयो न स्यात् । चक्षुषा तु सादृश्ये गवये गृहीते इयं पिण्डव्यक्तिरेव गवयपदवाच्या इति निश्चयः भवतीति सादृश्यप्रत्यक्षस्यास्ति अपेक्षा।

केवलं सादृश्यप्रत्यक्षं तु अकिञ्चित्करमेव । कदाचित् प्राणिसङ्ग्रहालये वयं गच्छामः। तत्र मर्कटसादृश्यं एकस्मिन् पिण्डे, गोसादृश्यं परस्मिन् पिण्डे, व्याघ्रसादृश्यं च ततोऽपि अन्यस्मिन् चक्षुषा गृह्यते । न हि तत्र शक्तिग्रहः आनुभविकः । अतः तत्र गमनात् प्राक् मर्कटसदृशः चिम्पाझिपदवाच्यः, गोसदृशी नीलगौः, व्याघ्रसदृशः चित्रकः इति तत्र तत्र अतिदेशवाक्यार्थबोधः तज्जन्यश्च संस्कारः आत्मनि आवश्यक एव।

सति तु संस्कारे, तत्तत्पिण्डे सादृश्यस्य चक्षुषा ग्रहणे च वाक्यार्थस्मरणं भवति । ततश्च तत्र तत्र शक्तिग्रहाः जायन्ते, चिम्पाझीत्वजातिविशिष्टः चिम्पाझीपदवाच्यः, नीलगोत्वविशिष्टा नीलगोपदवाच्या, चित्रकत्वजातिविशिष्टः चित्रकपदवाच्यः इत्येवंविधाः।

तदेतत् सार्थक्यं न्यायवार्तिकटीकादिप्रतिपादितं निरूपितमिति सर्वं चतुरस्रम्।

इति श्रीगोडाकुलाब्धिपूर्णचन्द्रमहामहोपाध्यायश्रीसुब्रह्मण्यगुरुचरणान्तेवासिनः देवदत्तस्य कृतौ तर्कसङ्ग्रहव्याख्यायां विद्याधरीसञ्ज्ञकायाम् उपमानखण्डः।