०६ हेत्वाभासाः

[[२२२]]

  • हेत्वाभासाः

सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः ।

एतावता ग्रन्थेन सद्धेतोः निरूपणं कृतम्। तस्य द्वौ गुणौ, व्याप्तिः पक्षधर्मता च इति प्रागुक्तम्। अनयोः एकः यस्य हेतोः न भवति सः दुष्टः हेतुः इत्युच्यते। तज्ज्ञानाय आदौ पूर्वोक्तमेव, ज्ञानानां प्रतिबन्धकत्वं सुविशदं निरूपयामः। तदादौ इदं चिन्त्यते कथं ज्ञानं भवति प्रतिबन्धकम् । हृदः वह्निमान् इति निश्चयः यस्य पुरुषस्य अस्ति, तस्य ह्रदः वह्न्यभाववान् इत्यनुमितिः नोत्पद्यते।

(१) तत्र समानाकारकत्वं हेतुः । कोऽर्थः ? प्रतिबध्यज्ञाने यत् विशेष्यविधया भासते तदेव प्रतिबन्धकत्वेन अभिमते ज्ञाने विशेष्यम् । प्रकृते च तादृशः ह्रदः। सः हि ज्ञानद्वयेऽपि विशेष्यम् । एवं ज्ञानप्रकारयोः अस्ति कश्चिन्निकषः । प्रतिबध्ये यः प्रकारः, तदभावः प्रतिबन्धके प्रकारः भवेत् । प्रतिबध्ये वह्निः प्रकारः, तदभावः प्रतिबन्धके ह्रदः वह्न्यभाववान् इति निश्चये भवति प्रकारः इति घटते अनयोः प्रतिबध्यप्रतिबन्धकभावः ।

यत्र तु प्रतिबध्यज्ञाने एव अभावः प्रकारः, तत्र भावरूप एव अभावः प्रतिबन्धकज्ञाने प्रकारीभूय विरोधित्वं सम्पादयति । यथा पर्वतः वह्नयभाववान् इति अनुमितिश्चेत् इष्टा, तत्र प्रकारः वह्न्यभावः, तदभावः वह्नयभावाभावः सः यदि विरोधिज्ञाने प्रकारः, तर्हि सिद्धा एव अभावावगाहित्वात् विरोधिता। यदि च वह्निः प्रकारः, तदापि पर्वतो वह्न्यभाववान् इत्यनुमितेः प्रतिबन्धः आनुभविकः । तत्र विरोधिज्ञाने यः प्रकारः वह्निः, सः वह्न्यभावाभाव एव इति केवलव्यतिरेकिप्रकरणे उक्तम्। उक्तं हि तत्र गन्धः गन्धाभावः इति द्वौ विभागौ । तत्र समानामभावानां गन्धे अन्तर्भावः विषमाणां गन्धाभावरूपता । तद्वदेव प्रकृतेऽपि वह्नभावाभावः वह्निरूप इति पर्वतः वह्निमान् इति निश्चयोऽपि अभावप्रकारकत्वात् भवति प्रतिबन्धकः। तथा चाहत्य समानाकारकत्वम् इत्थं फलति, विशेष्यं समानं भवेत्, भावाभावौ च प्रकारौ इति ।

प्रमायाः इव भ्रमस्यापि प्रतिबन्धकत्वम्

  • प्रमायाः इव भ्रमस्यापि प्रतिबन्धकत्वम्

(२) अयं च प्रतिबध्यप्रतिबन्धकभावः प्रमा- अप्रमासाधारणः । इदमत्र विवक्षितम् । कस्यचित् ज्ञानस्योत्पत्तेः प्राक् तस्य पुरुषस्य पूर्वोक्तः समानाकारकः विरोधिनिश्चयः अस्ति चेत् तत्पुरुषस्य तज्ज्ञानं नोत्पद्यते । यज्ज्ञानं विरोधि तेन प्रमारूपेणैव भवितव्यमिति न नियमः । यथा पर्वतः वह्न्यभाववान् इति निश्चयः भ्रमरूपः अस्ति कस्यचित् पुरुषस्य । तस्य पर्वतः वह्निमान् इति ज्ञानं न भवति । प्रतिबन्धकं चेत् प्रमा सुतरामेव । अतः नेदं मन्तव्यं यत् प्रतिबन्धकं ज्ञानं तत् प्रमारूपमेव भवेत् । एवं च समानाकारकत्वं संयोज्य प्रकृतविषयं ब्रूमश्चेत् इत्थं भवेत् व्यवस्था ।

(१) समानाकारकः (२) भ्रमरूपः प्रमारूपः वा निश्चयः ज्ञानं प्रतिबध्नाति ।

(३) अथ तृतीयोयं विशेषः ।

हेत्वाभासप्रकरणे विरोधिनः प्रमात्वमेव

यद्यपि भ्रमप्रमयोः समानाकारकयोः निश्चययोः प्रतिबन्धकत्वं निश्चितं, तथापि हेत्वाभासप्रकरणे तत् विरोधिज्ञानं सर्वदा प्रमारूपमेव भवेत्। कुतः ? परामर्शनिरूपणावसरे असकृत् आवेदितं यत् परामर्शे साध्यनिरूपिता व्याप्तिः पक्षवृत्तित्वं च हेतौ भासते इति। उक्तं च एतत्प्रकरणादौ, यत् यस्मिन् हेतौ व्याप्तिपक्षधर्मतारूपं गुणद्वयं सः सद्धेतुः। यस्य तु अनयोः गुणयोः मध्ये एकः न स्यात् सः दुष्टः हेतुः ।

साध्यम्

व्याप्तिः

हेतुः

पक्षः

चि.स.१५४

एवं सति यस्मिन् हेतौ अनयोः एकतरत् नास्ति, अवश्यं सः परामर्शः भ्रमः भवेत्। तदभाववति तत्प्रकारकत्वे सति ज्ञानत्वं हि भ्रमलक्षणम्। प्रकृते तत्पदेन व्याप्तिर्ग्राह्या । तदभावः व्याप्त्यभावः। तदभाववान् हेतुः। तस्मिन् हेतौ व्याप्तिमवगाहते इदं ज्ञानमिति अवश्यं भवेत् सः भ्रमः । इत्थमेव पक्षवृत्तित्वं परामर्शे विषयः । यस्य हेतोः पक्षवृत्तित्वं नास्ति तस्य पक्षवृत्तित्वावगाहने भवेदेव परामर्शः भ्रमः। एवं च हेतोः दुष्टत्वे परामर्शस्य व्याप्त्यंशे पक्षधर्मत्वांशे वा भ्रमत्वमावश्यकमिति फलितम् ।

[[२२३]]

हेत्वाभासप्रकरणे विरोधिनः प्रमात्वमेव

एतादृशेन भ्रमात्मकेन परामर्शेण अनुमितिजनने सापि भवेत् भ्रमरूपा। तर्हि आहत्य परामर्शः जनकं ज्ञानम्, अनुमितिः जन्यं ज्ञानम्, अनयोर्मध्ये कस्यचित् कस्मिंश्चित् अंशे भ्रमत्वमावश्यकं चेत् किं भवेत् तस्य प्रतिबन्धकम् ? तत्समानाकारकं प्रमात्मकमेव ज्ञानम्। सिद्धस्तर्हि तृतीयः नियमः प्रकरणेऽस्मिन् यत् प्रतिबन्धकं ज्ञानं तत् प्रमारूपमेव भवति । तमेनं विषयं चित्रमपि इत्थं साधयेत्।

परामर्शः

साध्यम्

अस्य द्वौ अंशौ सद्धेतौ

व्याप्तिः

साध्यव्याप्तिः

पक्षवृत्तिः

हेतुः

पक्षः

हेतुः

हेतुः

चि.स.१५५

[[२२४]]

दुष्टहेतौ

साध्यव्याप्त्यभावः

पक्षवृत्तित्वाभावः

हेतुः

हेतुः

चि.स.१५६

अतः परामर्शः भ्रमः, अनुमितिरपि भ्रमः। अतः अनयोर्विरोधिनिश्चयः प्रमात्मकः इति। तथा च त्रिभिः विशेषैः अयं निष्कर्षः फलितः यत् यद्यपि प्रतिबन्धाय समानाकारकः भ्रमरूपः प्रमारूपः वा निश्चयः समर्थः, तथापि हेत्वाभासप्रकरणे जनकस्य परामर्शस्य, जन्यायाः अनुमितेः वा भ्रमरूपत्वेन प्रतिबन्धकः निश्चयः अवश्यं प्रमारूप एव भवेदिति ।

भ्रमप्रमयोः विषयवैलक्षण्यम

  • भ्रमप्रमयोः विषयवैलक्षण्यम्

(४) चतुर्थश्च विशेषः ज्ञानविषयाणां स्वभावविषये इह चिन्त्यः । ज्ञानं भ्रमरूपं प्रमारूपं वा विषयेषु विषयतां निरूपयति । प्रमायां विद्यमानः प्रकारः, भ्रमे च अविद्यमानः। तयोः मध्ये प्रमायां प्रकारस्य विशेष्ये विद्यमानत्त्वमपि अबाधितम् इति कोऽस्य निश्चयस्य विषयः इति प्रश्ने विशेषणविशिष्टविशेष्यः शक्यः निरूपयितुम् । यथा वक्ष्यमाणस्थले वह्निः अनुष्णः द्रव्यत्वात् इत्यत्र बाधाख्यः हेत्वाभासः निरूपयिष्यते। अनुष्णः इति साध्यनिर्देशः। ततश्च (पृ.२०९) पूर्वोक्तरीत्या तदुत्तरं भावार्थकत्वप्रत्ययः मतुप्प्रत्ययश्च कार्यः। वह्निः अनुष्णत्ववान् इति भवेत् प्रतिज्ञाकारः।

अत्र अनुष्णत्वं साध्यम्। न हि इदं वह्नौ भवति। अतः अत्र साध्याभावः अनुष्णत्वाभावः उष्णत्वरूपः पक्षे अस्ति। वह्निः अनुष्णत्ववान् इत्यनुमितिं प्रति वह्निः उष्णत्ववान् इति निश्चयः प्रतिबन्धको भवति । अत्र विशेषणम् उष्णत्वं विशेष्यः वह्निः । तथा च कोऽस्य निश्चयस्य विषयः इति प्रश्ने सति उष्णत्वरूपविशेषणस्य वह्निरूपविशेष्ये सत्वात् इत्थं शक्यते उत्तरयितुम् उष्णत्ववद्वह्निः अस्य ज्ञानस्य विषयः

भ्रमस्थले यद्यपि अत्रैव अनुमितौ, तदाकारः वह्निः अनुष्णत्ववान् इति शक्यः निरूपयितुम्। तथापि कोऽस्य ज्ञानस्य विषयः इति प्रश्ने अनुष्णत्वं साध्यं जलधर्मः, न प्रकृतपक्षे वह्नौ अस्ति इति नेदं वक्तुं शक्नुमः अनुष्णत्ववद्वह्निः अस्य ज्ञानस्य विषयः इति । यथा शशविषाणमिति पदार्थः अप्रसिद्धः, न केनापि प्रमाणेन निश्चेतुं शक्यः तद्वदेव अनुष्णत्वववह्निरपि अप्रसिद्धः।

न तथा प्रमास्थले। तत्र हि विशेषणं विशेष्ये अबाधितमिति विशेषणात् प्रभृति विशेष्यपर्यन्तं सर्वान् पदार्थान् अन्तर्भाव्य ब्रूमो वयम् उष्णत्ववद्वह्निः निश्चयस्यास्य विषयः। अयं पदार्थ एव अन्ततः हेत्वाभासः इति वक्ष्यते ।

भ्रमस्थले ज्ञानविषयः अनुष्णत्वं, वह्निः इति पृथक् पदार्थद्वयं वाच्यम्। न तु अनुष्णत्ववद्वह्निः, अप्रसिद्धत्वात् ।

[[२२५]]

प्रतिबध्यतावच्छेदकं किं भवति ?

प्रमा

प्रकारः ←

अनुष्णत्वाभावः

विशेषणम्

आधाराधेयभावः

विशेष्यः

वह्निः

विशेष्यम्

निश्चयविषयः अनुष्णत्वाभाववद्वह्निः

भ्रमः

प्रकारः ←

अनुष्णत्वम्

आधाराधेयभावः न वर्तते।

विशेष्यः

वह्निः

[[२२६]]

चि.स.१५७

  • प्रतिबध्यतावच्छेदकं किं भवति ?

(५) अपरोऽपि प्रागुक्तः विषयः इह अनुसन्धेयः। (पृ.१९६) संशये सत्यपि भवति अनुमितिरिति न संशयः प्रतिबन्धकः किन्तु तदभाववत्तानिश्वयः एव । प्रतिबध्यं तु संशयोऽपि भवति निश्चयोऽपि ।

एवं सति प्रतिबध्यतावच्छेदकं किं भवेत् किं च प्रतिबन्धकतावच्छेदकम् ? यच्च अवच्छेद्यस्य अन्यूनानतिरिक्तवृत्ति भवति तत् भवति अवच्छेदकम्। तादृशं च प्रतिबध्यतायाः बुद्धित्वम्। यत्र यत्र निश्चयनिरूपिता प्रतिबध्यता तत्र संशये निश्चये च बुद्धित्वं भवति । द्विविधा एव हि बुद्धिः पूर्वं निरूपिता, संशयः निश्चयश्चेति । तथा च यत्र प्रतिबध्यता तत्र उभयत्रापि अस्ति बुद्धित्वम्। एवं यत्र यत्र बुद्धित्वं तत्र प्रतिबध्यता इति बुद्धित्वं प्रतिबध्यतायाः अन्यूनानतिरिक्तवृत्ति । न तथाविधं निश्चयत्वम् । तद्धि

निश्चयत्वं प्रतिबन्धकतावच्छेदकम्

केवलं निश्चये एवास्ति न तु संशयेऽपि । अतः प्रतिबध्यतायाः निश्चयत्वं न्यूनवृत्ति इति न तत् प्रतिबध्यतावच्छेदकम्। एवं संशयत्वमपि प्रतिबध्यतावति निश्चये असत्वात् प्रतिबध्यतान्यूनवृत्ति। अतः न तत् प्रतिबध्यतावच्छेदकम् । एवं च यत्र क्वचित् प्रतिबध्यतावच्छेदकविचारे बुद्धित्वमेव ग्राह्यम् ।

  • निश्चयत्वं प्रतिबन्धकतावच्छेदकम

किञ्च प्रतिबन्धकतावच्छेदकम् ? यत् प्रतिबन्धकतायाः अन्यूनानतिरिक्तवृत्ति भवेत्। तादृशं च निश्चयत्वम् । प्रतिबन्धकता निश्चये एव (पृ.१९७) । तत्रैव तदपि अस्ति इति तत् भवति प्रतिबन्धकतावच्छेदकम्। न बुद्धित्त्वं प्रतिबन्धकतावच्छेदकम्। कुतः ? तद्धि प्रतिबन्धकताभाववति संशयेऽप्यस्ति । न हि संशयः प्रतिबन्धकः । अतः बुद्धित्त्वं प्रतिबन्धकतायाः अतिरिक्तवृत्ति भवति । अतः न तदवच्छेदकम्। संशयत्वमपि न भवति अवच्छेदकम्। अतिरिक्तवृत्तित्वादेव । प्रतिबन्धताभाववति संशये हि तत् भवति। अतः अतिरिक्तवृत्तिता स्पष्टा ।

अभावः

अभावः

संशयत्वम् । बुद्धित्वम् बुद्धित्वम्

प्रतिबध्यता

प्रतिबध्यता ← बुद्धित्वम् निश्चयत्वम्

संशयः

निश्चयः

चि.स. १५८

बुद्धित्वम्

प्रतिबन्धकता

बुद्धित्वम्

संशयत्वम्

अभावः

निश्चयत्वम्

संशयः

निश्चयः

चि.स.१५९.

[[२२७]]

सामानाकारकत्वं पूर्वोक्तं न पर्याप्तम्

अतः यत्र क्वचन प्रतिबन्धतावच्छेदकं किमिति प्रश्ने निश्चयत्वमेव इति वाच्यम् । तथा चाहत्य हेत्वाभासप्रकरणे अन्यत्र वा बुद्धित्वं प्रतिबध्यतावच्छेदकं, निश्चयत्वं च प्रतिबन्धकतावच्छेदकमिति सिद्धम् ।

  • सामानाकारकत्वं पूर्वोक्तं न पर्याप्तम्

(६) प्रागुक्तं समानाकारकत्वमपि इह निष्कर्षणीयम् । पूर्वं खलु उभयोरपि प्रतिबध्यप्रतिबन्धकज्ञानयोः समानविशेष्यकत्वं, भावाभावप्रकारकत्वं च विरोधित्वाय आवश्यकमिति उक्तम्। परन्तु न तदपि पर्याप्तम् । कुतः ? ज्ञानानि, एकमेव पदार्थं कदाचित् एकधर्मेण अवगाहन्ते अन्यदा अन्यधर्मेण । वह्निः अनुष्णत्ववान् इति पूर्वोक्तस्थले प्रतिबन्धकनिश्चयः वह्निः अनुष्णत्वाभाववान् इति।

परन्तु वह्नौ यथा अस्ति वह्नित्वं तथैव सन्ति तत्र तेजस्त्वजातिः, द्रव्यत्वजातिः, सत्ताजातिः, भावत्वम्, अभिधेयत्वम् इत्येते धर्माः। यदि किञ्चित् ज्ञानं तेजस्त्वेन वह्निमवगाहेत तर्हि भवेत् ज्ञानस्य आकारः तेजः अनुष्णत्वाभाववत् । किमिदं २२८ प्रतिबध्नीयात् वह्निः अनुष्णत्ववान् इत्यनुमितिम् ? नैव । कुतः ? तथैव अनुभवात्। यस्य हि तेजः अनुष्णत्वाभाववत् इति अस्ति निश्चयः तस्य भवत्येव अनुमितिः वह्निः अनुष्णः इत्त्याकारिका ।

इत्थमेव द्रव्यत्वजातिपुरस्कारेण, सत्ताजातिमादाय, भावत्वम्, अभिधेयत्वं चादाय क्रमेण द्रव्यम् अनुष्णत्वाभाववत्, सत्तावत् अनुष्णत्वाभाववत्, भावत्ववान् भावः अनुष्णत्वाभाववान्, अभिधेयत्ववान् अभिधेयः अनुष्णत्वाभाववान् इत्याद्याकारकाः निश्चयाः वह्निविशेष्यका एव। सर्वे तेजस्त्वेन, द्रव्यत्वेन, सत्तावत्त्वेन, भावत्वेन, अभिधेयत्वेन वह्निमपि खलु विषयीकुर्वन्ति । तथात्वेऽपि न तेषां विरोधित्वं प्रतिबन्धकत्वम् आनुभविकम्। अतः पूर्वोक्तं समानविशेष्यकत्वं परिष्कर्तव्यम् ।

किं कुर्मः? समानधर्मावच्छिन्नविशेष्यतानिरूपकत्वं ज्ञाने वक्तव्यम् । प्रतिबध्यज्ञाने यो धर्मः विशेष्यतावच्छेदकः अस्ति स एव प्रतिबन्धकज्ञानेऽपि

सामानाकारकत्वं पूर्वोक्तं न पर्याप्तम्

विशेष्यतावच्छेदको भवेत् । प्रकृतोदाहरणे प्रतिबध्यज्ञाने विशेष्यता वह्नौ, विशेष्यतावच्छेदकं वह्नित्वं तदेव यस्मिन् निश्चये विशेष्यतावच्छेदकं, स एव भवेत् निश्चयः विरोधी वह्निः अनुष्णत्वाभाववान् इत्याकारकः । नैवंविधाः पूर्वोक्ताः निश्चयाः । तेषु हि तेजस्त्वद्रव्यत्वादयः धर्माः विशेष्यतावच्छेदकाः। ते च न प्रतिबध्ये सन्ति इति न तेषां प्रतिबन्धकत्वापत्तिः ।

  • इत्थमेव प्रकारांशे चिन्तयामः । प्रतिबध्यज्ञाने अनुष्णत्वं प्रकारः। तदभावः अनुष्णत्वाभावः। तस्मिन् सन्ति अनेके धर्माः । यद्यपि तस्य अभावरूपत्वेन तस्मिन् जातिः, भावत्वं वा न भवेत् तथापि अभिधेयत्वप्रमेयत्वादिकेवलान्वयिपदार्थाः सन्ति एव। (पृ.२११) तान् पुरस्कृत्य यदि अभावः ज्ञायेत, कीदृशो भवेत् निश्चयाकारः ?

तेजः अनुष्णत्वाभाववत् इति

सत्तावत् अनुष्णत्वाभाववत्

वह्निः अभिधेयत्ववद्वान् वह्निः प्रमेयत्ववद्वान्

अभिधेयत्वम्

प्रकारता अवच्छेदकता, अनुष्णत्वाभावत्वम् प्रकारता

अवच्छेदकता

प्रमेयत्वम्

[[२२९]]

अनुष्णत्वाभावः

अनुष्णत्वाभावः

निश्चयः

निश्चयः

अवच्छेदकता.

विशेष्यता

तेजस्त्वम्

अवच्छेदकता

विशेष्यता

वह्नित्वम्

सत्ता

वह्निः

वह्निः

इमौ न प्रतिबन्धकौ

चि.स.१६०२३०

सामानाकारकत्वं पूर्वोक्तं न पर्याप्तम्

वह्निः अभिधेयत्ववद्वान् इति । इह अभिधेयत्वरूपधर्मः, अनुष्णत्वाभावे भासते। स च अभिधेयत्ववान् अभावः, वह्नौ भासते। न हि अनेन निश्चयेन वह्निः अनुष्णः इत्यनुमितेः प्रतिबन्धः आनुभविकः । अतः प्रकारांशेऽपि परिष्कर्तव्यम् । परन्तु इह समानधर्मावच्छिन्नप्रकारताकत्वं न शक्यते वक्तुम् ।

पूर्वं हि समानधर्मावच्छिन्नविशेष्यताकत्वमुक्तम् । तद्वदेव यदि इह समानधर्मावच्छिन्नप्रकारताकत्वम् उच्येत, प्रतिबध्यदिशि प्रकारतावच्छेदकं अनुष्णत्वत्वम्, तदेव चेत् प्रतिबन्धकदिशि प्रकारतावच्छेदकं, तदा निश्चयाकारः अनुमितिवदेव वह्निः अनुष्णत्ववान् इति स्यात् । तदा केन कस्य प्रतिबन्धः ?

अतः इह समानधर्मावच्छिन्नप्रकारताकत्वमनुक्त्वा समानधर्मावच्छिन्न- प्रतियोगिताकाभावत्वं प्रकारतावच्छेदकं वाच्यम् । प्रतिबध्यदिशि यः धर्मः प्रकारतावच्छेदकः, तेन धर्मेण अवच्छिन्ना या प्रतियोगिता तन्निरूपकाभावत्वं प्रतिबन्धकनिश्चये प्रकारतावच्छेदकं भवेत् ।

अस्ति चेदं वह्निः अनुष्णत्वाभाववान् इति निश्चये। प्रतिबध्यानुमितौ प्रकारता अनुष्णत्वे, प्रकारतावच्छेदकम् अनुष्णत्वत्वम्, तत् अवच्छेदकं यस्याः प्रतियोगितायाः, तादृशप्रतियोगितानिरूपकाभावः अनुष्णत्वं नास्ति इत्यभावः अनुष्णत्वाभावः तद्वृत्ति यद् अभावत्वं, तत्प्रकारतावच्छेदकं भवेत् यस्य निश्चयस्य, तादृशनिश्चयः वह्निः अनुष्णत्वाभाववान् इत्येव। इह अनुष्णत्वाभावत्वरूपः यः धर्मः तेनैव अनुष्णत्वाभावः ज्ञाने प्रकारः इति स एव धर्मः प्रकारतावच्छेदकोऽपि। अस्य च विरोधित्वमपि दर्शितरीत्या आनुभविकम्।

वह्निः अभिधेयत्ववद्वान् इति निश्चयः नैवंविधः । तत्र अभिधेयत्वं किल प्रकारतावच्छेदकम्, न तु अनुष्णत्वत्वावच्छिन्नप्रतियोगिताकाभावत्वम्। अतः अयं निश्चयः समानधर्मावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्नप्रकारता-निरूपकः न भवति इति न तस्य प्रतिबन्धकत्वापत्तिः।

सामानाकारकत्वं पूर्वोक्तं न पर्याप्तम्

तत्त्वं तु प्रतिबध्यज्ञाने यत् विशेष्यतावच्छेदकं, तदेव प्रतिबन्धकत्वेनाभिमते निश्चये विशेष्यतावच्छेदकं भवेत्, एवं प्रतिबध्यज्ञाने यत् प्रकारतावच्छेदकं, तदेव प्रतिबन्धकनिश्चये अभावप्रतियोगितावच्छेदकं भवेत् । एवं तादृशश्च अभावः तादृशाभावत्वेन प्रकारः चेत् भवति सः निश्चयः प्रतिबन्धकः। तमेनं विषयं सम्प्रति चित्ररूपेण विद्मः।

प्रतिबध्यानुमितिः

प्रतिबन्धकनिश्चयः

अवच्छेदकता

प्रकारता

अनुष्णत्वत्वम् प्रकारता

अवच्छेदकता, अनुष्णत्वाभावत्वम्।

प्रतियोगिता

अनुष्णत्वम्

अनुष्णत्वाभावः

अवच्छेदकता

विशेष्यता

वह्नित्वम् अवच्छेदकता

विशेष्यता

[[२३१]]

वह्निः

वह्निः

चि.स.१६१

  • एतावता षट् विशेषाः हेत्वाभासनिरूपणायास्माभिश्चिन्तिताः। ते च

(१) समानाकारकत्वम्

(२) प्रतिबन्धकत्वाय प्रमा एव अपेक्षिता इति न नियमः । निश्चयात्मकं भ्रमरूपं

प्रमारूपं वा ज्ञानं भवति प्रतिबन्धकम् ।

(३) हेत्वाभासप्रकरणे अनुमितेः परामर्शस्य वा भ्रमरूपत्वात् तत्प्रतिबन्धकज्ञानं

प्रमात्मकमेव भवति।

[[२३२]]

मुद्रापदार्थनिरूपणम्

(४) भ्रमस्थले प्रकारे विशेष्ये च विषयता अस्ति चेदपि न तयोः विशेष्यविशेषणभाव

इति ज्ञानविषयः अखण्डः न शक्यः वक्तुम् । प्रमायां तु प्रकारताऽपि अस्ति विशेष्यविशेषणभावोपि इति विशेषणात् आरभ्य विशेष्यपर्यन्तं ज्ञानविषयः निरूपयितुं शक्यः इति ।

(५) अन्यूनानतिरिक्तवृत्तिधर्म एव भवति कस्यचित् अवच्छेदकः इति प्रतिबध्यतावच्छेदकं बुद्धित्वमेव, प्रतिबध्यतावति संशये निश्चये च विद्यमानं

ग्राह्यम् । प्रतिबन्धकता परं निश्चये एवेति तदवच्छेदकं निश्चयत्वमेव, प्रतिबन्धकता-अन्यूनानतिरिक्तवृत्तित्वात् ।

(६) सामान्यरूपेण समानाकारकत्वे उक्ते रूपान्तरेण प्रकारस्य विशेष्यस्य वा भाने प्रतिबन्धकत्वं नानुभविकमिति प्रतिबध्यज्ञानापेक्षया समानधर्मावच्छिन्न- विशेष्यतानिरूपकत्वम् समानधर्मावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्न- प्रकारतानिरूपकत्वं च प्रतिबन्धकनिश्चयस्य वक्तव्यम् ।

तानेतान् षट् विशेषान् सम्यक् बुद्धौ आकलय्य इतोऽपि प्रकरणोपयोगिपदार्थान् चिन्तयामः । तेषु च आदौ मुद्रापदार्थः ज्ञातव्यः ।

तदर्थं चेदं ज्ञातव्यं यत् विषयभेदेन एव ज्ञानभेदः सिद्ध्यति। यथा हि घटपटादि- प्रतियोगिनाम् अनिरूपणे अभावानां भेदः न सिद्ध्यति तद्वदेव विषयस्य अनिरूपणे ज्ञानानामपि परस्परं भेदो न सिद्ध्यति ।

  • मुद्रापदार्थनिरूपणम्

(१) यथा भूतलं घटवत् इति बुद्धिं प्रति भूतलं घटाभाववत् इति निश्चयः प्रतिबन्धकः

तत्र घटाभाववद्भूतलं विषयः ।

(२) वह्निः अनुष्णत्ववान् इति बुद्धिं प्रति वह्निः अनुष्णत्वाभाववान् इति निश्चयः

प्रतिबन्धकः। अत्र अनुष्णत्वाभाववद्वह्निः विषयः।

मुद्रापदार्थनिरूपणम् (३) हृदः वह्निमान् इति बुद्धिं प्रति ह्रदः वह्न्यभाववान् इति निश्चयः प्रतिबन्धकः।

तत्र वह्न्यभाववद्-ह्रदो विषयः ।

इह सर्वत्र प्रतिबन्धकज्ञानं विषयभेदेन भिन्नमेव। आद्ये घटाभावः, द्वितीये अनुष्णत्वाभावः, वह्न्यभावश्च तृतीये प्रकारः । तथापि तु त्रिषु अस्ति किञ्चित् समानम् । किं तत् ? ते निश्चयाः प्रतिबध्ये यः प्रकारः, तदभावम् अवगाहन्ते ।

प्रतिबध्यज्ञानम्

घटः

प्रतिबन्धकनिश्वयः

घटाभावः

अनुष्णत्वम्

अनुष्णत्वाभावः

वह्निः

वह्नयभावः

चि.स.१६२

तथा च विषयभेदेन ज्ञानभेदेऽपि इमानि ज्ञानानि प्रतिबध्यज्ञाने यः प्रकारः तस्य अभावमवगाहन्ते।

कुत्र इमानि ज्ञानानि प्रकाराभावमवगाहन्ते ? विशेष्ये भूतलादौ। अतः सर्वे इमे तदभाववत्तानिश्चयाः। तेषु तदभाववत्तानिश्चयत्वरूपधर्मः अस्ति । एवञ्च एतेषु निश्चयेषु अभावप्रकारकत्वेन यः धर्मः सिद्धः तदभाववत्तानिश्चयत्वरूपः स एव तेषां मुद्रा इत्युच्यते ।

आहत्य च भिन्नानामपि प्रतिबन्धकानां निश्चयानां प्रकाराभाववत्तावगाहनात् प्रकाराभाववत्ताप्रकाशनात् विद्यमानः समानः धर्मः मुद्रा इत्युच्यते । पूर्वोक्तेषु सर्वेषु निश्चयेषु अस्ति सा । तत्पदेन आद्ये स्थले प्रतिबध्यज्ञाने प्रकारीभूतः पदार्थः घटः

[[२३३]]

[[२३४]]

तदभावव्याप्यवत्तानिश्चयमुद्रा

ग्राह्यः। तदभावः घटाभावः। तदभाववत् भूतलम्। तदभाववत्ता भूतले। तदभाववत्तानिश्चयः भूतलं घटाभाववत् इत्याकारकः । तत्र अस्ति तदभाववत्तानिश्चयत्वम्। द्वितीयादि- प्रतिबध्यज्ञाने प्रकारभेदेन तत्पदेन अन्यान्यस्य पदार्थस्य ग्रहणेऽपि तेषां विरोधिनां सर्वेषां तदभाववत्तानिश्चयत्वं तु समानमेव, शास्त्रीयव्यवहाररीत्या अनुगतमिति वा ब्रूमः ।

अतः इतः परं यत्र यत्र प्रतिबध्यज्ञानप्रकारस्य अभावमवगाह्य यत् यत् ज्ञानं विरोधि भवेत् तत्र तत्र अस्माभिः अयं निश्चयः तदभाववत्तानिश्चयमुद्रया प्रतिबन्धकः इति वक्तव्यम् । निश्चयत्वेन इति वक्तव्ये हेत्वाभासप्रकरणे मुद्रया इति व्यवह्रियते इत्ययं विशेषः ।

अत्रेदं बोध्यम्। न हि नैयायिकैः प्रतिबध्यप्रतिबन्धकभावः स्वयमुत्पाद्यते अथवा जनान् प्रति शिक्ष्यते । किन्तर्हि । यत् सर्वेः जनैः अनुभूयते तदेव सम्यक् परिष्कृत्य निष्कृष्टरूपेण निरूप्यते । प्रकृतेऽपि तथैव। भूतले घटाभावनिश्चये सति तत्र घटवत्ताबुद्धिर्न जायते इति सर्वजनसिद्धमेवेदम् । परन्तु कुतः प्रतिबन्धकमिदं ज्ञानमिति विचारे क्रियमाणे प्रकारतावच्छेदकस्य विशेष्यतावच्छेदकस्य च निवेशः, निश्चयत्वस्य प्रतिबन्धकतावच्छेदकत्वं सर्वेषां समानं तदभाववत्तानिश्चयत्वम्, एवमादयः निष्कर्षाः निरूपणवैशद्याय परीक्षकरूपैः नैयायिकैः क्रियन्ते । अस्तु तावत् ।

इतः परं हेत्वाभासप्रकरणोपयोगिनीम् अपरामपि मुद्रां पर्यालोचयामः । प्रतिबध्यज्ञाने यः प्रकारः तस्य अभावम् अवगाहमानः निश्चयः यथा प्रतिबन्धको भवतीति अनुभवामः, तथैव तादृशाभावस्य यत् व्याप्यं, तत्प्रकारकनिश्चये सत्यपि प्रतिबध्या बुद्धिः नोत्पद्यते ।

  • तदभावव्याप्यवत्तानिश्चयमुद्रा

यथा ह्रदः वह्नयभावव्याप्यजलवान् इति निश्चये सति ह्रदः वह्निमान् इति तद्वत्ताबुद्धिर्न भवति । वह्न्यभावव्याप्यजलवत्तानिश्चयः द्विविधो भवति । वस्तुतः

RECE

तदभावव्याप्यवत्तानिश्चयमुद्रा

I

वह्नयभावस्य व्याप्यं यत् जलम्, तस्य ह्रदे निश्चयः । कीदृशः पुनरस्य आकारः ? - हृदः जलवान् इति। वस्तुतः वह्न्यभावव्याप्यं यत् जलं तत् अस्मिन् निश्चये ह्रदे भासते किं न भासते ? जलांशे वह्न्यभावव्याप्तिः न ज्ञाने भासते। सा व्याप्तिः जले विद्यमानापि न ज्ञाने विषयः। अत एव हि ज्ञानस्य आकारः ह्रदो जलवान् इत्येव। न तु ह्रदः वह्नयभावव्याप्यजलवान् इत्याकारकोऽपि ।

वह्न्यभावव्याप्तिः

जलवान्

निश्चयः

ह्रदः

जलम्

चि.स.१६३

अयं च आद्यः निश्चयः वह्न्यभावव्याप्यजलविषयकोऽपि न वह्न्यभाव- व्याप्तिमवगाहते इति तदाकारः ह्रदः जलवान् इत्येव पर्यवसित इति नायं ह्रदो वह्निमान् इति बुद्धिं प्रतिबध्नाति ।

अपरस्तु वह्न्यभावव्याप्यजलवत्तानिश्चयः न केवलं ह्रदांशे जलमवगाहते किन्तु जलांशे वह्न्यभावव्याप्तिमपि। एवं सति तदाकारः पूर्वोक्तः ह्रदः वह्न्यभावव्याप्यजलवान्

इति ।

एवं सति अयं वह्न्यभाव- साधक परामर्श एव संवृत्तः । व्याप्तिविशिष्टपक्षधर्मताज्ञानं खलु

परामर्शः। प्रकृतं ज्ञानं जले

वह्नयभावः

व्याप्तिः

निश्चयः

[[२३५]]

जलम्

बह्वचभावव्याप्तिं हृदवृत्तित्वं

चावगाहते इति अस्यापि व्याप्ति-

ह्रदः

विशिष्ट पक्षधर्मताज्ञानरूपता

चि.स.१६४

आगता। अतः परामर्श एव

अयमिति भवेत् शङ्का ।

तदभावव्याप्यवत्तानिश्चयमुद्रा

सत्यम्, परामर्श एवायम्। तस्य हि द्वे कार्ये ।

(१) परामर्शे यन्निरूपिता व्याप्तिः विषयः तदनुमितिजननम् ।

(२) यन्निरूपिता व्याप्तिः विषयः तदभावविषयकानुमितेः प्रतिबन्धः ।

  • प्रसिद्धः वह्निसाध्यकस्थलीयपरामर्शोऽपि एवंविधः । तस्मिन् परामर्शे वह्निनिरूपिता व्याप्तिः विषयः। अतः सः परामर्शः वह्निविषयिणीं पर्वतः वह्निमान् इत्याकारिकामनुमितिं जनयति । एवं तत्र वह्निनिरूपिता व्याप्तिः विषयः इति सः वह्न्यभावविषयकानुमितिं पर्वतः वह्न्यभाववान् इत्याकारिकां प्रतिबध्नाति ।

वह्निः

वह्निः

जन्यत्वम्

अनुमितिः

पर्वतः

व्याप्तिः

परामर्शः

धूमः

[[२३६]]

प्रतिबध्यत्वम्

वह्नयभावः।

पर्वतः

अनुमितिः

पर्वतः

चि.स.१६५

प्रकृतोऽपि परामर्शः तथाविध एव । तस्मिन् परामर्शे वह्न्यभावव्याप्तिर्विषय इति सः ह्रदः वह्नयभाववान् इत्यनुमितिं प्रति करणं भवति । एवं तत्र वह्न्यभावव्याप्तिः विषयः इति वह्न्यभावस्य यः अभावः वह्निः, तद्विषयिणीमनुमितिं हृदः वह्निमान् इत्याकारिकाम् अयं परामर्शः प्रतिबध्नाति।

तदभावव्याप्यवत्तानिश्चयमुद्रा

वह्नयभावः

वह्नयभावः

जन्यत्वम्

अनुमितिः

ह्रदः

व्याप्तिः

परामर्शः

जलम्

प्रतिबध्यत्वम्

वह्निः

ह्रदः

अनुमितिः

ह्रदः

चि.स.१६६

एवमेव वह्निः अनुष्णत्ववान् इत्यनुमितिस्थले अनुष्णत्वाभावव्याप्त्यवगाहि- परामर्शः ग्राह्यः। वह्निः अनुष्णत्वाभावव्याप्यतेजस्त्ववान् इति परामर्शः पूर्ववदेव स्वविषयसाध्यस्य अनुष्णत्वाभावस्य अनुमितिं जनयेत्, अनुष्णत्वरूपतदभावानुमितिं

प्रतिबध्नीयात् ।

अनुष्णत्वाभावः (उष्णत्वम्)

अनुष्णत्वाभावः

जन्यत्वम्

वह्निः

अनुमितिः

व्याप्तिः

परामर्शः

तेजस्त्वम्

प्रतिबध्यत्वम्

अनुष्णत्वम्

वह्निः

अनुमितिः

वह्निः

चि.स.१६७

[[२३७]]

[[२३८]]

तदभावव्याप्यवत्तानिश्चयमुद्रा

  • किमेतैः बहुभिः उदाहरणैः प्रयोजनम् ?

अस्ति प्रयोजनं मुद्रासाधनरूपम्। तदभाववत्तानिश्चयस्थले यथा विषयभेदेऽपि तदभाववत्तानिश्चयमुद्रा सर्वेषां निश्चयानां समानः अनुगतः धर्मः, तद्वदेव इहापि पूर्वोक्तेषु त्रिषु परामर्शेषु वह्निव्याप्तिः, वह्न्यभाव व्याप्तिः, अनुष्णत्वाभावव्याप्तिः, तथा तत्तदाश्रयः, धूमः, जलम्, तेजस्त्वं च, विशेष्याणि च पर्वतः, ह्रदः, वह्निः इत्यादयः सन्तु नाम विभिन्नाः पदार्थाः विषयाः, तथापि त्रयाणामपि तदभावव्याप्यवत्तानिश्चयत्वं तु समानम्।

सर्वत्र तत्पदेन प्रतिबध्यज्ञाने यः प्रकारः सः ग्राह्यः । यथा आद्योदाहरणे पर्वतः वह्निव्याप्यधूमवान् इति परामर्शप्रतिबध्या बुद्धिः पर्वतः वह्न्यभाववान् इत्याकारिका। तत्र वह्न्यभावः प्रकारः। तदभावः वह्न्यभावाभावः वह्निरूपः। तद्व्याप्यः धूमः। तद्वान् पर्वतः। तद्वत्तां पर्वते अवगाहतेऽयं निश्चय इति अत्र तदभावव्याप्यवत्तानिश्चयत्वमायातम् । इदं निश्चयत्वमेव निश्चयनिष्ठा तदभावव्याप्यवत्तानिश्चयमुद्रा ।

इयमेव मुद्रा द्वितीयपरामर्शेऽपि सुलभा। इह तत्पदेन ह्रदः वह्निमान् इत्यनुमितौ यः प्रकारः वह्निः, सः ग्राह्यः। तदभावः वह्न्यभावः । तद्व्याप्यं जलम् । तद्वान् ह्रदः । तद्वत्तां ह्रदे अवगाहतेऽयं निश्चयः इति अयमपि तदभावव्याप्यवत्तानिश्चयमुद्रया हृदः वह्निमान् इत्यनुमितिं प्रतिबध्नाति ।

तृतीये, वह्निः अनुष्णत्ववान् इत्यनुमितिं प्रति वह्निः अनुष्णत्वाभावव्याप्य- तेजस्त्ववान् इति परामर्शः तदभावव्याप्यवत्तानिश्चयमुद्रया प्रतिबन्धको भवति । तत्पदेन अनुष्णत्वम्। तदभावः अनुष्णत्वाभावः । तद्व्याप्या तेजस्त्वजातिः। तद्वान् वह्निः। तद्वत्ता वह्नौ इति अस्यापि निश्वयस्य तदभावव्याप्यवत्तानिश्चयमुद्रया प्रतिबन्धकत्वं सुज्ञेयम् ।

इत्थं च हेत्वाभासप्रकरणे अन्यत्रापि शास्त्रे यो यः निश्चयः कस्यचित् अभावस्य व्याप्यं कुत्रचित् अवगाह्य तस्मिन् विशेष्ये प्रतियोगिमत्ताबुद्धिं प्रतिबध्नाति चेत् सा प्रतिबन्धकता तदभावव्याप्यवत्तानिश्चयमुद्रया इति अस्माभिः व्यवहर्तव्यम्।

हेत्वभासनिरूपणोपयोगिनां धर्मिणां प्रकाराणां च गणनम्

  • हेत्वभासनिरूपणोपयोगिनां धर्मिणां प्रकाराणां च गणनम्

एतावता विवरणेन हेत्वाभासप्रकरणप्रवेशाय ज्ञातव्यांशाः अस्माभिः चिन्तिताः । सम्प्रति अनुमितौ परामर्शे वा ये अंशा सन्ति तान् क्रमेण पश्यामः । इदमत्र विवक्षितम्। व्याप्तिरूपः पक्षधर्मतारूपो वा हेतुगुणः, यस्मिन् हेतौ नास्ति सः तत्र यदि परामर्शे भासते तर्हि परामर्शस्य भ्रमत्वमावश्यकम्। पक्षे अविद्यमानमेव साध्यं यदि साधयितुम् इष्टम् अनुमितेः वा भ्रमत्वमावश्यकम्। फलतश्च परामर्शः अनुमितिः वा अस्मिन् प्रकरणे भ्रमो भवति। भ्रमस्य विशेष्यसापेक्षता प्रसिद्धा । तत्रायं प्रसिद्धः श्लोकः।

विशेष्ये सर्वमभ्रान्तं प्रकारे तु विपर्ययः ।

ज्ञाने प्रकारीभूतः ज्ञानविशेष्ये नास्तीति ज्ञानस्य भ्रमत्वम्। विशेष्यांशे तत् न भ्रमरूपं भवति। किन्तु प्रकारांशे एव । ह्रदो वह्निमान् इत्यनुमितिस्थले पश्यामः। अत्र हि विशेष्यविधया हृदः भासते, हृदांशे ह्रदत्वरूपा जातिः । तत्र ह्रदह्रदत्वयोः आधाराधेयभावो विद्यते प्रकारविशेष्यभावोऽपि । तदंशे नेदं ज्ञानं भ्रमः । आधारता- समानाधिकरणविशेष्यता हि ह्रदे। आधेयतासमानाधिकरणप्रकारता ह्रदत्वे। (पृ.१३३) २३९ तर्हि कथमिदं ज्ञानं ह्रदांशे भवेत् भ्रमः ?

प्रकारांशे भवति तस्य भ्रमरूपता । ह्रदत्वविशिष्टे ह्रदे हि वह्निः अनुमितौ प्रकारविधया भासते। अनुमितिनिरूपितप्रकारता वह्नौ अस्ति । परं न तत्र ह्रद निरूपिताधेयता इति ह्रदः वह्निमान् इति भवति भ्रमः ।

[[1]]

साध्यम्

साध्यम्

व्याप्तिः

परामर्शः

अनुमितिः

हेतुः

पक्षः

पक्षः

चि.स.१६८हेत्वाभासत्वे निरूपणक्रमः

एवञ्च प्रकृतप्रकरणे कस्मिन् कस्मिन् विशेष्ये अविद्यमानस्य कस्य कस्य प्रकारत्वं, ज्ञानस्य च भ्रमत्वं सम्भाव्यते इति पर्यालोचने तत्तत्प्रकारकभ्रमप्रतिबन्धक- निश्चयमादाय तत्र तत्र वक्ष्यमाणः हेत्वाभासः निश्चितः भवति। अतः किं किं विशेष्यं कश्चात्र प्रकरणे प्रकारः इत्यादौ चिन्त्यते ।

तत्र अनुमितिप्रकरणे पक्षः, साध्यं, हेतुश्चेति त्रयः पदार्थाः आलोच्यन्ते। एते त्रयः, व्याप्तिश्च चतुर्थी अनुमितौ परामर्शे वा कदाचित् विशेष्यम्, कदाचित् प्रकारः च भवन्ति। तद्यथा परामर्शे हेतुः पक्षांशे विशेषणं व्याप्त्यंशे च विशेष्यम् । साध्यमपि परामर्शे व्याप्त्यंशे विशेषणम्। अनुमितौ पक्षांशे विशेषणम्।

  • हेत्वाभासत्वे निरूपणक्रमः

एतेषु चतुर्षु तत्र तत्र विषयीभूतेषु साध्यसाधकत्वात् हेतुरेव अभ्यर्हिततमो भवति। अतः तमादौ गृहीत्वा तस्मिन् हेतौ विशेषणविधया किं भासते कस्मिन् ज्ञाने च भासते इति विवेचनीयम्। ततः

२४० (१) प्रकारस्य तत्र असत्वं निरूप्य

(२) ज्ञानस्य भ्रमत्वं वक्तव्यम् ।

(३) ततः तत्प्रतिबन्धकनिश्चयः वक्तव्यः।

(४) ततः प्रकरणादौ उक्तः यः षष्ठः विशेषः तद्रीत्या प्रतिबध्यबुद्धौ विशेष्यतावच्छेदकं

प्रकारतावच्छेदकं च वक्तव्यम्।

(५) ततः बुद्धित्वं प्रतिबध्यतावच्छेदकमुक्त्वा (पृ. २२६) तदैव

(६) प्रतिबन्धकनिश्चयेऽपि विशेष्यतावच्छेदकं प्रकारतावच्छेदकं च वक्तव्यम्। (७) ततः निश्चयत्वं प्रतिबन्धकतावच्छेदकमित्युक्त्वा

(८) ततः निश्चयस्य कया मुद्रया प्रतिबन्धकत्वमिति वक्तव्यम् ।

(९) ततः एतत्प्रकरणादौ उक्तः यः चतुर्थः विशेषः तद्रीत्या निश्वयविषयीभूताः पदार्थाः

हेत्वंशे कस्य कस्य भ्रमः ?

प्रकारात् आरभ्य विशेष्यपर्यन्तं वक्तव्याः । स एव भवति अस्माकमिष्टः हेत्वाभासो नाम । हेत्वाभासपदं हेतुमुत्सृज्य कथममुं पदार्थं बोधयति इति अनुपदमेव स्पष्टीभविष्यति ।

तथा च एतादृशक्रमेण सर्वेषु हेत्वाभासेषु प्रकारीभूतस्य विशेष्ये असत्त्वनिरूपणात् प्रभृति नवानां विषयाणां क्रमेण निरूपणं सम्प्रदायसिद्धं क्रियते चेत् अवश्यमयं विषयः करतलगतामलकवत् भासेत इति नः विश्वासः । तदत्र विशेषणानि आदौ गणयामः ।

हेत्वंशे कस्य कस्य भ्रमः ?

पूर्वपक्षव्याप्तिः

सिद्धान्तव्याप्तिः

हेतुः

साध्यम्

अधिकरणम्

वृत्तित्वम्

अभावः

व्यापकत्वम्

[[२४१]]

अभावः

अधिकरणम्

प्रतियोगित्वम्

परामर्शविषयः

अभावः

वृत्तित्वम्

साध्यम्

अभावः

अधिकरणम्

सामानाधिकरण्यम्

हेतुः

वृत्तित्वम्

हेतुः

चि.स.१६९

चि.स.१७०

[[२४२]]

पक्षांशे भ्रमः

हेतुतावच्छेदकम्

परामर्शविषयः

हेतुः

चि.स. १७१

त्रिभिः चित्रैः इदं ज्ञायते यत् हेतुं विशेष्यीकृत्य त्रयाणां पदार्थानां भानं भवति । तत्रापि अनुमितौ हेतुः न विषयः। अतः तदंशे अनुमितेः भ्रमत्वं न सम्भवतीति परामर्श एव भ्रमरूपे ते भासन्ते। ते च साध्याभाववन्निरूपितवृत्तित्वाभावः पूर्वपक्षव्याप्तिः

आद्यः, हेत्वधिकरणवृत्ति-अत्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं सिद्धान्त- व्याप्तिः द्वितीयं, क्वचित् हेतुतावच्छेदकमपि तृतीयम् इति त्रयः पदार्थाः ।

तथा च हेतुं विशेष्यीकृत्य त्रीन् पदार्थान् अवगाह्य त्रयः भ्रमाः सम्भवन्ति

इत्यागतम् ।

  • पक्षांशे भ्रमः

सम्प्रति पक्षमादाय कस्य भानं सम्भवतीति क्रमेण पश्यामः

साध्यम्

हेतुः

अनुमितिः

परामर्शः

पक्षः

पक्षः

पक्षतावच्छेदकम

पक्षतावच्छेदकम्

परामर्शः

अनुमितिः

पक्षः

पक्षः

चि.स.१७२

CEEEE

पक्षांशे भ्रमः

चतुर्भिः चित्रैः इदमायातं यत् पक्षं विशेष्यं कृत्वा त्रयः पदार्थाः प्रकाराः भवन्ति। तत्र अनुमितौ साध्यं, परामर्शे हेतुः पक्षांशे भासते । पक्षतावच्छेदकं तु अनुमितौ

परामर्शे च पक्षे प्रकारः इति चत्वारः भ्रमाः सम्भाव्यन्ते ।

तृतीयं विशेष्यं तु साध्यम् ।

साध्यतावच्छेदकम्

साध्ये साध्यतावच्छेदकस्यैव विशेषणविधया

भानात् तावन्मात्रस्य भ्रमः सम्भवतीति अनेन

परामर्शः

चित्रेण, आगतम्।

साध्यम्

तथा च परामर्शे

साध्यतावच्छेदकम्

हेत्वंशे (१) पूर्वपक्षव्याप्तिः

(२) सिद्धान्तव्याप्तिः

अनुमितिः

(३) हेतुतावच्छेदकम्

साध्यम्

चि.स.१७३

अनुमितौ पक्षांशे (१) साध्यम्

(४)

[[२४३]]

परामर्शे पक्षांशे (२) हेतुः

(५)

परामर्शे पक्षांशे (३) पक्षतावच्छेदकम् (६)

अनुमितौ पक्षांशे (४) पक्षतावच्छेदकम् (७)

परामर्शे साध्यांशे (१) साध्यतावच्छेदकम् (८) अनुमितौ साध्यांशे (२) साध्यतावच्छेदकम् (९)

इति आहत्य त्रिषु विशेष्येषु नव विशेषणानि भासन्ते इत्यागतम्। तत्रापि परामर्शे अनुमितौ च उभयत्रापि पक्षतावच्छेदकस्य एकस्यैव पक्षे भानम् एकविधम्, एवम् उभयत्र साध्यतावच्छेदकस्य एकस्यैव साध्ये भानम् एकविधमिति च चिन्तने सप्त एव विशेषणानि इति पर्यवसितम् ।

पक्षतावच्छेदकादीनां धर्मिणि कथं भ्रमः ?

  • सूक्तिललन्तिका

पक्षतावच्छेदकादीनां धर्मिणि कथं भ्रमः ?

ननु हेत्वंशे व्याप्तिभाने सम्भवति भ्रमत्वम्। पक्षांशे साध्यभाने, तत्रैव वा हेतुभाने पक्षे साध्यस्य हेतोर्वा असत्वे भवतु भ्रमत्वम्। परन्तु हेतौ हेतुतावच्छेदकभाने भ्रमः इति यदुक्तं, तत् न बुद्धौ आरोहति। न हि धूमे धूमत्वम् अवृत्ति। एवमेव पक्षे पक्षतावच्छेदक- प्रकारकं ज्ञानं, साध्ये साध्यतावच्छेदकप्रकारकं ज्ञानं कथं भवेत् भ्रमः? साध्यतावच्छेदकस्य वह्नित्वस्य, पक्षतावच्छेदकस्य पर्वतत्वस्य च तत्र तत्र सत्वात्। अत एव त्वयोक्तं

विशेष्ये सर्वमभ्रान्तं प्रकारे तु विपर्ययः

इत्युपपद्यते। उक्तं हि तत्र ह्रदो वह्निमान् इति स्थलमादाय यत् अस्ति ह्रदे ह्रदत्वं भासते च। अतः न तदंशे भ्रमः। वह्निः भासते नास्ति च इति भवति दो वह्निमान् इति अनुमितिः वह्नयंशे भ्रमः इति । तत्कथं हेतुतावच्छेदकस्य, पक्षतावच्छेदकस्य, साध्यतावच्छेदकस्य च तत्र तत्र विद्यमानस्यापि भाने ज्ञानस्य २४४ भ्रमत्वं त्वया वर्ण्यते ? कथं वा तदादाय कस्यचित् हेत्वाभासत्वमपि निरूपयिष्यते? उक्तं हि त्वयैव यत्, प्रकरणेऽस्मिन् प्रतिबध्यं ज्ञानं भ्रम एव । प्रतिबधकं तु प्रमैव । कथं धूमे धूमत्वभाने ज्ञानस्य भ्रमत्वम्। इत्थमेव पर्वतत्ववह्नित्वयोः अपि।

किञ्च प्रकरणेऽस्मिन् एवंविधं चिन्तनमसङ्गतम् । एतेषां हि पक्षत्वादीनाम् अवच्छेदकता यत्पदार्थे भवति सः पक्षतावच्छेदकः, साध्यतावच्छेदकः, हेतुतावच्छेदकः वा इत्युच्यते। अन्यत्र च इदमभिहितं यत् अवच्छेद्याधिकरणे विद्यमानः पदार्थः भवति अवच्छेदकः। हेत्वाभासप्रकरणादौ अपि इदमभिहितम् अवच्छेद्यस्य अन्यूनातिरिक्त- वृत्तिपदार्थः अवच्छेदकः भवति इति। प्रतिबध्यतान्यूनवृत्तित्वात् न निश्चयत्वं प्रतिबध्यता- वच्छेदकम्। संशयत्वमपि न प्रतिबन्धकतावच्छेदकम्, अतिरिक्तवृत्तित्वात् ।

एवञ्च प्रकृतेऽपि कश्चित् धर्मः पक्षतावच्छेदकः इति कदा वक्तुं शक्नुमः ? यत्र पक्षता तत्र सर्वत्र सः भवेत् । एवं पक्षतायाः अभाववति सः न भवेत् ।

पक्षतावच्छेदकादीनां धर्मिणि कथं भ्रमः ?

एवंविधः यः पक्षतावच्छेदकः तस्य पक्षे वृत्तित्वमावश्यकम् । तर्हि पक्षस्य तस्य च आधाराधेयभावोऽपि आवश्यकः । अत एव एतादृशं पक्षतावच्छेदकं पक्षे अवगाहमानं ज्ञानं कथं भवेत् भ्रमः? कथं वा तत्प्रतिबन्धकत्वमादाय कश्चित् हेत्वाभासः दर्शयितुं

शक्यः ?

एवं साध्यतावच्छेदकविषयेऽपि । यथा च घटाभावप्रतियोगितावच्छेदकं घटत्वं प्रतियोगितायाः अन्यूनानतिरिक्तवृत्ति भवति, तथा यः साध्यतावच्छेदकः सः साध्यतायाः अन्यूनानतिरिक्तवृत्तिः भवेत् । स च साध्ये विद्यमान एव सम्भाव्यते इति न साध्यतावच्छेदकप्रकारकज्ञानस्य भ्रमत्वसम्भवः।

हेतुतावच्छेदकोऽपि हेतुवृत्तिः हेतुतायाः अन्यूनानतिरिक्तवृत्तिः पदार्थः एव सम्भवति। तद्वत्ताज्ञानं तु प्रमैव इति कथं तामादाय हेत्वाभासवर्णनं सम्भवतीति ।

  • सत्यम्। सर्वत्र अवच्छेद्याधिकरणे विद्यमानः अवच्छेद्यस्य अन्यूनानतिरिक्त- वृत्तिधर्म एव भवति अवच्छेदकः । यथा भवदुक्तं घटत्वम्, प्रतियोगितावच्छेदकम् । यथा वा घटत्वदण्डत्वादयः कार्यकारणतावच्छेदेकाः। रुषु सर्वषु स्थल आि एतादृशः नियमः। परन्तु अस्य नियमस्य अस्ति अपवादोऽपि ।

कः सः? विषयतावच्छेदकत्वम् । विषयता हि ज्ञानस्य विषयस्य च सम्बन्धः। सा तस्याः अधिकरणे अविद्यमानेनापि पदार्थेन अवच्छिद्यते । कथमिदम् ? उच्यते ।

कुलालादीनां घटनिर्माणे प्रवृत्तानां कपालादिसमवायिकारणभानं कपालत्वेनैव न तु द्रव्यत्वेन इति कपालत्वं समानाधिकरणं कारणतावच्छेदकम्। एवमन्यत्रापि ।

I

प्रकृते च साध्यता अनुमितिनिरूपितविषयता । पक्षतापि अनुमितिनिरूपिता विलक्षणविषयता । हेतुता च परामर्शनिरूपितविषयता इति तिस्रः अपि ज्ञाननिरूपिताः प्रकाशरूपाः। ताश्च (पृ.१३५) दर्शितरीत्या कदाचित् आधाराधेयभावे असति अपि भवन्ति। एवं सति यत्र पक्षे नास्ति कश्चित् धर्मः । तथापि तु तेन धर्मेण पक्षः अनुमितिविषयः। अर्थात् तद्धर्मनिष्ठप्रकारतानिरूपितविशेष्यता पक्षे आगता ।

[[२४५]]

हेत्वाभासलक्षणस्य लक्ष्यनिर्धारणम्

तत्रैव पक्षे अनुमितिनिरूपितविलक्षणविषयतापि पक्षतारूपा आगता चेत् सा तदाश्रयस्य येन धर्मेण भानं तेन अवच्छिद्यते । सः धर्म तत्र विद्यमानो वा अस्तु अविद्यमानो वा । ह्रदो वह्निमानित्यादौ विद्यमानेन ह्रदत्वेन पक्षता अवच्छिद्यते । काञ्चनमयपर्वतः वह्निमान् इत्यत्र पर्वते अविद्यमानेन काञ्चनमयत्वेन अवच्छिद्यते । एतादृशं विशेषं पर्यालोच्य इह विषयतास्थले सामानाधिकरण्यं परित्यज्य येन धर्मेण ज्ञानं भवति सः विषयतावच्छेदकः इति नैयायिकैः आश्रितम् । अतः तेषु स्थलेषु अपि भ्रमत्वं सम्भवतीति आगतम् । अतः प्रतिबन्धकज्ञानस्य प्रमात्वात् युज्यते हेत्वाभासवर्णनमित्येषा दिक् ।

एतावता लेखनेन हेत्वाभासप्रकरणोपयोगिपदार्थानां चिन्तनम् अस्माभिः कृतम्। सम्प्रति तान् हेत्वाभासानेव विशिष्य चिन्तयामः ।

  • हेत्वाभासलक्षणस्य लक्ष्यनिर्धारणम्

प्रकरणेस्मिन् आदौ लक्ष्यनिर्धारणमावश्यकम्। असकृदावेदितमेवेदं यत् २४६ व्याप्तिपक्षधर्मतारूपौ हेतुगुणौ यत्र न स्तः सः हेत्वाभासः। परन्तु सम्प्रदायसिद्धं हेत्वाभासलक्षणं हेतौ न घटते इति यत्र तल्लक्षणमस्ति सोपि हेत्वाभासपदेन ग्राह्यो भवति। हेतुवत् आभासते इति हेत्वाभासः इति यदा वर्णनं तदा हेत्वाभासपदेन दुष्टहेतोः बोधः सुलभः।

यदि लक्षणानुसारी अन्य एव हेत्वाभासः तर्हि हेतोः आभासः हेत्वाभासः इति विग्रहेण हेतुनिष्ठः आभासः, दोषः इत्यर्थो लभ्यते। सः कः इत्याकाङ्क्षायाम् इदमभिधीयते यत् (पृ.२२५) दर्शितरीत्या प्रकारस्य विशेष्ये असत्वनिरूपणात् आरभ्य क्रमेण नव विषयाः ये निरूपणीयाः इत्युक्तं तेषु यः चरमः पदार्थः सः एव हेत्वाभासः।

कः पदार्थः निरूपणीय इत्युक्तम् ? प्रतिबन्धकनिश्चये विषयीभूताः ये पदार्थाः तेषां प्रकारात् प्रभृति विशेष्यपर्यन्तं क्रमेण निरूपणे यः विशेष्यविशेषणभावा- पन्नपदार्थसमुदायः भवति सः ।

हेत्वाभासलक्षणस्य लक्ष्यनिर्धारणम्

यथा ह्रदो वह्निमान् धूमात् इत्यनुमितिस्थले (१) वह्निरूपं साध्यं ह्रदे नास्ति। अतः अनुमितिरियं (२) भ्रमरूपा तां प्रति ह्रदः वह्न्यभाववान् इति निश्चयः प्रतिबन्धकः।

(३) (४) (५) (६) (७) (८) (९) अस्मिन् निश्चये विषयीभूतः पदार्थः वह्न्यभाववद्ध्रदः प्रकृतानुमितिस्थले भवति हेत्वाभासः । हेतौ आभास इत्यनेन तस्य दोषस्य हेतुनिष्ठता उक्ता भवति । यदि वह्न्यभाववद्भ्रदः दोषः, न तादृशह्रदः प्रकृतहेतौ धूमे अस्ति इति कथं तस्य हेत्वाभासत्वमिति शङ्का अनुपदमेव निराकरिष्यते ।

  • मूले पूर्वगणितेषु हेत्वाभासेषु आदिमं सव्यभिचारमाह - सव्यभिचारोऽनैकान्तिकः । सः त्रिविधः इति ।

ऐकान्तिकः साध्यव्याप्यः तद्भिन्नः इत्यर्थः। तं विभजते सः त्रिविधः इति । साधारणासाधारणानुपसंहारिभेदात् । तत्र साध्याभाववद्वृत्तिः साधारणः, यथा पर्वतो वह्निमान् प्रमेयत्वात् इति । प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात् । सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः असाधारणः । यथा शब्दोऽनित्यः शब्दत्वादिति । शब्दत्वं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं २४७ शब्दमात्रवृत्ति ।

यद्यपि सर्वस्मिन् व्याख्याने मूलोक्तलक्षणानां विवरणमेव अस्माभिः कृतम्। तद्विवरणोपयोगिनः अनेके पदार्थाः तत्र तत्र चिन्तिताः । न मूलानुक्तं लक्षणमादाय समन्वयादि क्वचित् निरूपितम्। इह परं हेत्वाभासलक्षणं प्रदर्श्यते, तत्समन्वयश्च प्रत्येकस्मिन् हेत्वाभासे बुद्धिवैशद्याय करिष्यते ।

तदत्र हेत्वाभासलक्षण इत्थं दृश्यते - यद्विषयकत्वेन ज्ञानस्य अनुमिति- प्रतिबन्धकत्वं तत्त्वं हेत्वाभासत्वम्। इतः परं यस्मिन् यस्मिन् विशेष्ये यस्य यस्य भानमादाय परामर्शानुमित्योः भ्रमत्वं सम्भवति तान् विशिष्य आदाय तत्रत्यहेत्वाभासे अस्य लक्षणस्य समन्वयप्रकारं तस्य च हेत्वाभासस्य हेतुनिष्ठत्वं च सम्पादयामः । पूर्वम् अभ्यर्हितत्वमादाय हेतुविशेष्यकभ्रमाः त्रयः दर्शिताः ।

साधारणहेत्त्वाभासः

  • साधारणहेत्वाभासः

(१) हेतुविशेष्यकसाध्याभाववद्वृत्तित्वाभावप्रकारकः भ्रमः प्रथमः । कुत्र च अयं भ्रमः इति दर्शयितुं मूले साधारणं निरूपयति पर्वतः वह्निमान् प्रमेयत्वात् इति । प्रमेयत्वं हि अत्र हेतुः । तच्च केवलान्वयि जगन्मात्रवृत्ति इति (पृ.२११) निरूपितमेव । वह्निसाधने तस्य उपन्यासे तस्य साधारण इति सञ्ज्ञा भवति । कोऽयं साधारणः उच्यते। व्याप्यस्य हि द्वौ धर्मौ साध्यसामानाधिकरण्यम्। साध्याभाववदवृत्तित्वम्।

साध्यम्

?

हेतुः

अधिकरणम्

चि.स. १७४

साध्यम्

वृत्तित्वम्

[[२४८]]

अभावः

अभावः

अधिकरणम्

हेतुः

चि.स. १७५

यस्मिन् हेतौ तयोः मध्ये उभयं न भवति सः वक्ष्यमाणः विरुद्धः इत्युच्यते । यथा पर्वते वह्निसाधने जलं विरुद्धम् । न हि वह्नेः अधिकरणेषु जलं सम्भवति । अतः तत्र साध्यसामानाधिकरण्यं नास्ति । एवं वह्न्यभावस्य यानि अधिकरणानि ह्रदादयः तत्र वर्तते जलम् । तर्हि तत्र वह्न्यभावाधिकरणनिरूपितवृत्तित्वमागतम् । तस्मात् तत्र वह्न्यभावाधिकरणनिरूपितवृत्तित्वाभावः नैव सम्भवति । अतः जले साध्यसामानाधिकरण्यं नास्ति, एवं साध्याभावाधिकरणवृत्तित्वाभावोऽपि नास्तीति तत् विरुद्धम् ।

वह्निः

वृत्तित्वम्

अभावः

अधिकरणम् जलम्

वह्निः

अभावः

चि.स. १७६

साधारणहेत्त्वाभासः वृत्तित्वम्

अभावः

अभावः (वृत्तित्वम्)

अधिकरणम्

जलम्

  • यस्मिन् आद्यः सामानाधिकरण्यांशः न भवति सः वक्ष्यमाणः असाधारणः भवति। यथा शब्दः अनित्यः शब्दत्वादित्यत्र अनित्यत्वस्य यानि निश्चितानि अधिकरणानि पक्षभिन्नाः घटादयः, न तत्र शब्दत्वमस्ति। सा हि शब्दगता जातिः शब्द एव भवति। अतः शब्दत्वरूपः हेतुः असाधारणः।

[[२४९]]

अनित्यत्वम्

वृत्तित्वम्

अनित्यत्वम्

वृत्तित्वम्

अभावः

अभावः

अभावः

घटादयः शब्दत्वम्

(गगनम्) अधिकरणम

शब्दत्वम्

चि.स.१७७

शब्दत्वे हि साध्यसामानाधिकरण्यं नास्ति, साध्यस्य व्याप्तिस्तु साध्याभाव-

वदवृत्तित्वरूपा वर्तते ।

यस्मिन् हेतौ तु द्वितीयः अंशः न भवति स एव साधारणः ।साधारणहेत्त्वाभासः

हेतुः

साध्यम्

वृत्तित्वम्

अभावः

अधिकरणम्

हेतुः

अधिकरणम्

[[२५०]]

चि.स.१७८

  • यद्यपि असाधारणादयः तत्तदुपन्यासे एव वक्तुमुचिताः तथापि बुद्धिवैशद्याय प्रकारान्तरेण व्याख्याकरणात् तत्र च

(१) साध्यसामानाधिकरण्यम् - साध्याभाववदवृत्तित्वम् उभयम् - व्याप्यः (२) साध्यसामानाधिकरण्यम् साध्याभाववदवृत्तित्वम् उभयस्य अभावः - विरुद्धः ३) साध्याभाववदवृत्तित्वमस्ति, साध्यसामानाधिकरण्यं नास्ति - असाधारणः (४) साध्यसामानाधिकरण्यमस्ति साध्याभाववदवृत्तित्वं नास्ति - साधारणः

इत्येवंविधोपपादनसौकर्यं पर्यालोच्य तयैव रीत्या लिखितम् ।

I

तथा च प्रकरणादौ पर्वतो वह्निमान् प्रमेयत्वात् इत्यत्र उपन्यस्तः प्रमेयत्वरूपः हेतुः चतुर्थप्रकारको भवति । अर्थात् साधारणो भवति । तस्मिन् यद्यपि साध्य- सामानाधिकरण्यं वर्तते, साध्याभाववद्-अवृत्तित्वं नास्ति । वह्निः प्रकृते साध्यम् । साध्याभावः वह्न्यभावः। तद्वान् जलह्रदः। तन्निरूपितवृत्तित्वमेवास्ति प्रमेयत्वे । तस्य हि केवलान्वयित्वं केवलान्वयिप्रकरणे निरूपितम् । (पृ.२११) अतः सर्वत्र विद्यमानं तत् सुतरां ह्रदेऽस्तीति प्रमेयत्वहेतुः साधारणो भवति । साध्याभाववद्वृत्तित्वं तत्रास्ति इति तदभावरूपव्याप्तिः न तत्र सम्भवति। अतः अभिधेयत्वं वह्नय- भावाधिकरणनिरूपितवृत्तित्वाभाववत् इति ज्ञानं भ्रमः । तादृशबुद्धिं प्रति पूर्वोक्तरीत्या हेत्वाभासज्ञानं प्रतिबन्धकं भवति। तादृशप्रतिबन्धकतायाः लक्षणे प्रयोजनं सम्प्रति पश्यामः ।

हेतौ दुष्टत्वसम्पादनप्रकारः * तच्च लक्षणं (पृ.२४७) निरूपितं यद्विषयकत्वेन ज्ञानस्य अनुमिति- प्रतिबन्धकत्वं तत्त्वमिति। प्रकृते यत्पदेन साधारणः हेत्वाभासः धर्तव्यः। प्रमेयत्वं च प्रकृते वह्नचभाववद्वृत्ति । तद्विषयकः निश्चयः प्रमेयत्वं वह्न्यभाववद्वृत्ति इत्याकारकः, प्रमेयत्वं वह्न्यभाववन्निरूपितवृत्तित्वाभाववत् इति व्याप्त्यंशे परामर्शं प्रति प्रतिबन्धको भवति। प्रतिबध्यबुद्धौ विशेष्यतावच्छेदकं प्रमेयत्वत्वम् । प्रतिबन्धकनिश्वये अपि तदेव । उभयोरपि भावाभावप्रकारकत्वं समानप्रकारकत्वम् अस्ति । प्रतिबध्ये वह्न्यभावाधिकरणनिरूपितवृत्तित्वाभावत्वं प्रकारतावच्छेदकं, प्रतिबन्धके वह्न्यभावाधिकरणनिरूपितवृत्तित्वत्वं प्रकारतावच्छेदकम् ।

तथा च प्रमेयत्वत्वावच्छिन्नविशेष्यतानिरूपितवह्न्यभावाधिकरणनिरूपित- वृत्तित्वाभावत्वावच्छिन्नप्रकारताशालिबुद्धित्वावच्छिन्नप्रतिबध्यतानिरूपितप्रमेयत्वत्वा- वच्छिन्नविशेष्यतानिरूपितवह्न्यभावाधिकरणनिरूपितवृत्तित्वत्वावच्छिन्नप्रकारता- शालिनिश्चयत्वावच्छिन्नप्रतिबन्धकताश्रयः निश्चयः प्रमेयत्वं वह्नयभावाधिकरण- निरूपितवृत्तित्ववत् इति निश्चयः । अयं च प्रमेयत्वं वह्न्यभावाधिकरणनिरूपित- वृत्तित्वाभाववत् इति व्याप्तिबुद्धिं प्रति तदभाववत्तानिश्चयमुद्रया प्रतिबन्धको भवति। तत्पदेन वह्न्यभावाधिकरणनिरूपितवृत्तित्वाभावः ग्राह्यः। तदभावः वह्न्यभावाधिकरण- निरूपितवृत्तित्वम् । तादृशाभाववत् प्रमेयत्वम्। अभाववत्ता प्रमेयत्वे। अस्य निश्चयस्य च प्रमारूपत्वेन सम्भवति प्रकारादारभ्य विशेष्यपर्यन्तं पदार्थनिरूपणम्। स च पदार्थः वह्न्यभाववद्वृत्तिप्रमेयत्वम्। तस्यैव लक्षणे विद्यमानं यत् यत्पदं तेन ग्रहणं कृतमिति लक्षणघटकतत्पदेनापि तदेव ग्राह्यम्। तत्त्वं पुनः तत्रैवास्तीति हेत्वाभासलक्षणसमन्वयः।

हेतौ दुष्टत्वसम्पादनप्रकारः

परन्तु लक्षणानुसारेण प्रतिबन्धकज्ञानविषये वह्न्यभाववद्वृत्तिप्रमेयत्वे लक्षण- समन्वयेऽपि शुद्धस्य प्रमेयत्वस्य हेत्वाभासत्वमेतावता नैव लभ्यते। अतः लक्षणमिदं दोषस्य, तद्वान् यः, सः दुष्टः हेत्वाभासः इति प्रदर्शने प्रकृते प्रमेयत्वे समन्वयः भवति।

[[२५१]]

[[२५२]]

हेतौ दुष्टत्वसम्पादनप्रकारः

युज्यते चैतत्। लोके हि चौर्यं दोषः, तद्वान् कश्चित् दुष्टः इत्युच्यते । असूया दोषः तद्वान् कश्चिच्च दुष्टः इत्युच्यते। तद्वदेव प्रतिबन्धकज्ञानविषयः दोषः। सम्प्रदायसिद्धं लक्षणमपि तस्यैव। तद्वान् यः सः दुष्टः प्रकृतहेतुः इति सम्भवति दुष्टे सङ्गमनं लक्षणस्य ।

प्रकृते च वह्नयभाववद्वृत्तिप्रमेयत्वरूपः यः प्रतिबन्धकज्ञानविषयः सः प्रकृतहेत्वाभासे प्रमेयत्वेऽस्ति। प्रमेयत्वम् ईश्वरीयज्ञानविषयत्वमित्युक्तं केवलान्वयि- प्रकरणे। तच्च केवलान्वयि इत्यपि अभिहितम् । तर्हि तत् स्वस्मिन् अपि सुतरां भवति । अतः दोषवत्त्वात् प्रमेयत्वं दुष्टमिति व्यवहारः सम्यक् उपपद्यते। एतादृशनिरूपण- सौकर्यमालोच्यैव मूलकारेणापि सः आदौ निर्दिष्टः ।

परन्तु पूर्वोक्ते ह्रदो वह्निमान् धूमात् इत्यस्मिन् स्थले यः प्रतिबन्धक- ज्ञानविषयः वह्न्यभाववद्ध्रदरूपः हेत्वाभासः सः न धूमे अस्ति। जन्यानां परस्पर- कालिकसम्बधस्वीकारेण तादृशह्रदः कालिकसम्बधेन धूमे वर्तते इति दोषवत्त्वात् भवेदपि धूमस्यापि दुष्टत्वम्। परन्तु ह्रदो वह्निमान् घटत्वात् इति स्थले पूर्ववदेव प्रतिबन्धकज्ञानविषयः वह्न्यभाववद्ध्रदः घटत्वे कालिकसम्बन्धेनापि अस्तीति वक्तुं न शक्नुमः । यतो हि जन्यानां परस्परं कालिकसम्बन्ध इव जन्येषु नित्यपदार्थः कालिकसम्बन्धेन भवति, न तु विपरीतमपि ।

उपपादितमिदं विस्तरेण प्रत्यक्षखण्डे (पृ.५८) यत् नित्यपदार्थः कालिक- सम्बन्धेन कस्यापि अधिकरणं न भवतीति । एवञ्च घटत्वं जातिरूपं नित्यमिति न तत्र वह्नयभाववद्ध्रदः कालिकेनापि भवितुमर्हति। अतः घटत्वं दुष्टम्, हेत्वाभासः इति व्यवहारः न घटेत ।

अतः सर्वेषु हेतुषु नित्येषु, अनित्येषु वा प्रतिबन्धकज्ञानविषयः हेत्वाभासः दोषो यथा सङ्गच्छेत तादृशसम्बन्धः उच्यते। स च एकज्ञानविषयप्रकृतहेतुता- वच्छेदकवत्त्वं सम्बधः। तत्सङ्गमनाय वह्न्यभाववध्रदरूपः दोषः हेतुश्च अनयोः समूहालम्बनं ज्ञानमेकं ग्राह्यम् । तत्र हेतोरिव हेतुतावच्छेदकस्यापि भानं भवेदेव। तदाकारश्च वह्नयभाववध्रदः घटत्वं च इति । तथा च एकज्ञानविषयप्रकृतहेतु-

असाधारणनिरूपणम

तावच्छेदकं घटत्वत्वम्। तद्वत्त्वं घटत्वरूपहेतौ अस्तीति दोषवत्त्वात् घटत्वं दुष्टं हेत्वाभासः इति व्यवहारः सुष्ठु उपपन्नः।

प्रकृतेऽपि साधारणे बह्न्यभावववृत्तिप्रमेयत्वं प्रमेयत्वं चेति समूहालम्बनं ज्ञानं गृहीत्वा तादृशसमूहालम्बनज्ञानविषयप्रकृतहेतुतावच्छेदकं प्रमेयत्वत्वं, तद्वत्त्वं प्रमेयत्वेऽस्तीति प्रमेयत्वं दुष्टं, हेत्वाभासः इति सर्वं समञ्जसम्।

असाधारणनिरूपणम्

अथासाधारणलक्षणमाह - सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः असाधारण इति। सपक्षः साध्यप्रकारकनिश्चयविशेष्यः । विपक्षः, साध्याभावप्रकारकनिश्चयविशेष्यः तयोः व्यावृत्तः तयोरविद्यमानः इत्यर्थः। साध्यस्य साध्याभावस्य वा येषु निश्चयः तेषु अवृत्तिः इत्यर्थः। तदुदाहरणमाह यथा शब्दः अनित्यः शब्दत्वादिति ।

इह च अनित्यत्वं साध्यम्, शब्दस्य पक्षरूपत्वेन न तत्र निश्चितम्। निश्चित- साध्यवत्सु अनित्येषु घटपटादिषु नायं हेतुरस्ति । तस्य शब्दमात्रवृत्तित्वात्। अत एव विपक्षभूतेषु अनित्यत्वाभाववत्सु आत्माकाशादिषु नायमस्ति ।

यद्यपि विपक्षावृत्तित्वं हेतुगुण एव। न हि पर्वतो वह्निमान् धूमादिति सद्धेतुकस्थले विपक्षभूताः ये ह्रदप्रभृतयः, तदवृत्तित्वमादाय धूमः दूष्यते, प्रत्युत विपक्षवृत्तित्वे साधारण्यप्रसङ्गात् धूमस्य अतथाविधत्वात् सद्धेतुत्वमेव गीयते, तथापि सपक्षव्यावृत्तत्वमेव शब्दत्वस्य दोषः । सद्धेतुर्हि सः भवति यः (१) पक्षे अस्ति (२) विपक्षे नास्ति (३) एवं सपक्षे भवति ।

आद्यगुणः पक्षधर्मतारूपत्वेन परामर्शे उपकरोति ।

द्वितीयः विपक्षवृत्तित्वरूपः यः साधारणदोषः तस्मात् प्रकृतहेतुं वारयति। तृतीयः गुणः हेतौ व्याप्तिज्ञानं सम्पादयति ।

यद्यपि अनुमितेः पूर्वं पर्वते वह्निः सन्दिग्धः, तथापि महानसादौ तन्निश्चयः

भवत्येव। तत्र च धूमज्ञानं भवति चेत् धूमे व्याप्तिनिश्चयः भवति। एवञ्च महानसादिरूप-

[[२५३]]

[[२५४]]

असाधारणनिरूपणम्

सपक्षवृत्तित्वं धूमे ज्ञातं सत् व्याप्तिनिश्चयं सम्पादयति इति सपक्षवृत्तित्वं हेतुगुणः । शब्दत्वरूपे प्रकृतहेतौ तु, शब्दे साध्यसंशयकाले सपक्षभूता ये घटपटादयः तद्वृत्तित्वरूपं सपक्षवृत्तित्वं न घटते इति दुष्टोऽयं हेतुः ।

  • कोऽत्र दोषः ? हेतुनिष्ठः साध्यसामानाधिकरण्याभावः। (पृ.२१२) दर्शितरीत्या सिद्धान्तव्याप्तिविषयक परामर्शः खलु हेतौ स्वव्यापकसाध्य- सामानाधिकरण्यम् अवगाहते। तत्र सामानाधिकरण्यं साध्याधिकरणवृत्तित्वम् । न तत् शब्दत्वरूपे प्रकृतहेतौ समस्तीति तदवगाहिपरामर्शः भ्रमरूपः भवति। प्रतिबध्य- ज्ञानाकारः शब्दत्वम् अनित्यत्वसामानाधिकरण्यवत् इति भवेत् । तादृशज्ञानं प्रति शब्दत्वम् अनित्यत्वसामानाधिकरण्याभाववत् इति असाधारणविषयकः निश्चयः प्रतिबन्धको भवति। प्रतिबध्यप्रतिबन्धकनिश्चययोः भावाभावप्रकारत्वं शब्दत्वत्वा- वच्छिन्नविशेष्यतानिरूपकत्वं चास्तीति समानाकारकत्वं सुघटम् ।

तथा च शब्दत्वत्वावच्छिन्नविशेष्यतानिरूपितअनित्यत्वसामानाधिकरण्यत्वा- वच्छिन्नप्रकारताशालिबुद्धित्वावच्छिन्नप्रतिबध्यतानिरूपितशब्दत्वत्वावच्छिन्न- विशेष्यतानिरूपित-अनित्यत्वसामानाधिकरण्याभावत्वावच्छिन्नप्रकारताशालि- निश्चयत्वावच्छिन्नप्रतिबन्धकताश्रयः निश्चयः शब्दत्वम् अनित्यत्वसामानाधिकरण्या- भाववत् इत्याकारकः। अयं निश्चयः परामर्शांशे शब्दत्वम् अनित्यत्वसामानाधिकरण्यवत् इति बुद्धिं प्रति तदभाववत्तानिश्चयमुद्रया प्रतिबन्धको भवति । तत्पदेन प्रतिबध्यज्ञाने प्रकारीभूतम् अनित्यत्वसामानाधिकरण्यं ग्राह्यम् । तदभावः अनित्यत्वसामानाधि- करण्याभावः। तद्वत् शब्दत्वम्। तद्वत्ता शब्दत्वे इति अनित्यत्वसामानाधि- करण्याभाववत्-शब्दत्वं प्रतिबन्धकज्ञानविषयः विशेष्यविशेषणभावापन्नः पदार्थः एव दोषलक्षणे यत्पदेन ग्राह्यः ।

तद्विषयकनिश्चयस्य परामर्शप्रतिबन्धकत्वं दर्शितम् । पुनश्च तत्पदेन तस्यैव ग्रहणे तत्त्वम् अनित्यत्वसामानाधिकरण्याभाववत् - शब्दत्वे अस्तीति अयमेव असाधारण्यं हेतुदोषः। तद्वत्ता च प्रकृतहेतौ शब्दत्वे एकज्ञानविषयप्रकृत-

RECE

प्रसिद्धे असाधारणे सद्धेतुत्वनिरूपणम्

हेतुतावच्छेदकवत्वसम्बन्धेन। एकज्ञानं समूहालम्बनम् । अनित्यसामानाधिकरण्या- भाववत्-शब्दत्वं शब्दत्वं च इत्याकारकम् । तद्विषयः प्रकृतहेतुतावच्छेदकं शब्दत्वत्वम्। तद्वत् शब्दत्वम्। तद्वत्त्वं शब्दत्वे इति असाधारण्यरूपः दोषः शब्दत्वे अस्तीति शब्दत्वं दुष्टः हेत्वाभासः।

  • सूक्तिललन्तिका

प्रसिद्धे असाधारणे सद्धेतुत्वनिरूपणम्

अत्रायं भवति क्लेशः । पक्षे शब्दे अनित्यत्त्वरूपसाध्यसंशयकाले निश्चितसाध्यवन्तः ये घटपटादयः तद्वृत्तित्वं शब्दत्वे नास्तीति यद्यपि साध्यसामानाधिकरण्याभावः शब्दत्वे आयाति, तथापि शब्दः अनित्यः इति अनुमितेः परं निश्चितसाध्यवान् शब्दोऽपि ग्रहीतुं शक्यः । तथा च साध्याधिकरणम् अनित्यत्वाधिकरणं शब्दः तद्वृत्ति च शब्दत्वमिति हेतौ साध्यसामानाधिकरण्यम् आगतमेव । पक्षे साध्यसंशयकाले निश्चितसाध्यवद्घटादिनिरूपितवृत्तित्वाभावः, पक्षेऽपि साध्यनिश्चयकाले तु निश्चितसाध्यवत्-शब्दनिरूपितवृत्तित्वमिति परस्परविरुद्धयोः धर्मयोः २५५ कालभेदेन एकस्मिन् एव शब्दत्वहेतौ स्वीकारापत्तिः ।

किञ्च अनित्यत्वनिश्चयोत्तरमिव पूर्वमपि शब्दः अनित्यत्ववानेव। न हि शब्दः तत्र अनित्यत्वनिश्चयात् पूर्वं नित्यः, तदुत्तरं तु अनित्य इति सम्भाव्यते। विद्यमानमेव हि अनित्यत्वं शब्दे अनुमित्या विषयीक्रियते इति शब्दत्वे अनित्यत्वसामाना- धिकरण्यमेवास्ति ।

अतश्च अनित्यत्वसामानाधिकरण्याभावः न तत्र भवेदिति शब्दत्वम् अनित्यत्वसामानाधिकरण्याभाववत् इति तदवगाहिज्ञानस्यैव भ्रमत्वमापतितम् । गतं तर्हि तस्य हेत्वाभासत्वम् । द्वितीयो विशेषः खलु अस्माभिः एतत्प्रकरणस्य आदौ चिन्तितः (पृ.२२३) यत् प्रकरणेऽस्मिन् प्रतिबध्यज्ञानं भ्रमरूपमेव, विरोधि च प्रमात्मकमेव भवतीति। प्रकृते च शब्दत्वम् अनित्यत्वसामानाधिकरण्याभाववत्

[[२५६]]

गगनस्य असाधारणत्वनिरूपणम्

इति निश्चयस्य भ्रमरूपत्वेन तद्विषयाः विशेष्यविशेषणभावापन्नाः न शक्याः वक्तुमिति कथं तद्वत्त्वमादाय शब्दत्वं दुष्टमिति व्यवहारः सम्भवतीति ।

  • गगनस्य असाधारणत्वनिरूपणम्

तर्हि असाधारणोदाहरणरूपेण शब्दत्वं त्यक्त्वा गगनं हेतुं ब्रूमः । तथा च शब्दः अनित्यः गगनात् इति स्थलं निर्देष्टव्यम्। गगनं विभुद्रव्यम्। तस्य सर्वमूर्तद्रव्यसंयोगः विभुत्वादेव सिद्धः। परन्तु सः संयोगसम्बन्धः वृत्तिनियामको न भवति । (पृ.६३) कुतः ? दर्शितरीत्या इह भूतले घटः अस्ति इतिवत् इह भूतले गगनम् अस्ति इति आधाराधेयभावावगाहिनी प्रतितिः न जायते । तथा च गगनस्य संयोगेन असत्वात् अनित्यत्वाभावाधिकरणनिरूपितवृत्तित्वाभावः यद्यपि गगने अस्ति, तथापि अनित्यत्वसामानाधिकरण्यं न गगनेऽस्तीति परामर्शस्य तदवगाहित्वात् भवति भ्रमत्वम् । तादृशज्ञानं प्रति गगनम् अनित्यत्वसामानाधिकरण्याभाववत् इति निश्चयः विरोधी भवति। उभयत्र गगनत्वावच्छिन्नविशेष्यता वर्तते । अनित्यत्वसामानाधिकरण्य- तदभावावगाहित्वं चास्तीति तयोर्भावाभावप्रकारत्वात् समानाकारकत्वं सिद्धम्।

तथा च गगनत्वावच्छिन्नविशेष्यतानिरूपित-अनित्यत्वसामानाधिकरण्यत्वा- वच्छिन्नप्रकारताशालिबुद्धित्वावच्छिन्नप्रतिबध्यतानिरूपितगगनत्वावच्छिन्नविशेष्यता- निरूपित-अनित्यत्वसामानाधिकरण्याभावत्वावच्छिन्नप्रकारताशालिनिश्चयत्वा- वच्छिन्नप्रतिबन्धकताशालिनिश्चयो भवति गगनम् अनित्यत्वसामानाधिकरण्याभाववत् इत्याकारकः। अयं, गगनम् अनित्यत्वसामानाधिकरण्यवत् इति बुद्धिं प्रति तदभाववत्ता- निश्चयमुद्रया प्रतिबन्धको भवति ।

एतद्विषयस्य अनित्यत्वसामानाधिकरण्याभाववद्गगनमिति पदार्थस्य यद्विषयकत्वेन इति हेत्वाभासलक्षणे यत्पदेन ग्रहणे तद्विषयकनिश्चयस्य दर्शितरीत्या परामर्शप्रतिबन्धकत्वमस्तीति तत्पदेन पुनः तस्यैव ग्रहणे, तत्त्वं तादृशविशिष्टपदार्थे प्राप्तमिति दोषे लक्षणसमन्वयः । तस्य च दोषस्य हेतुनिष्ठत्वसम्पादनाय दर्शितरीत्या समूहालम्बनं ज्ञानं ग्राह्यम्। तदाकारश्च अनित्यत्वसामानाधिकरण्याभाववद्गगनं गगनं

विरुद्धनिरूपणम्

च। तादृशैकज्ञानविषयप्रकृतहेतुतावच्छेदकं गगनत्वं गगने अस्तीति गगनस्य दुष्टत्वव्यवहारः उपपन्नः।

अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी । यथा सर्वमनित्यं प्रमेयत्वादिति । अत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तो नास्ति ।

आदौ हेतुं, पक्षं, साध्यं च विशेष्यीकृत्य सप्त भ्रमाः (पृ.२४३) चिन्तिताः। तत्र हेतुं विशेष्यीकृत्य पूर्वपक्षव्याप्तिभ्रममादाय साधारणः सामानाधिकरण्यभ्रममादाय असाधारणश्च निरूपितः। यद्यपि विभागेऽस्मिन् तृतीयः अनुपसंहारी ।

परन्तु तद्विषये अस्ति बहु वक्तव्यमिति तं प्रकरणान्ते निरूपयिष्यामः । हेतुतावच्छेदकभ्रममादाय च यः हेत्वाभासः सः असिद्धिविभागे वक्ष्यते।

सम्प्रति पक्षं विशेष्यीकृत्य ये भ्रमाः, पक्षः साध्यवान्, पक्षः हेतुमान्, पक्षः पक्षतावच्छेदकवान् इत्याकारकाः, तेषु आद्यं पक्षः साध्यवान् इत्याकारकमादाय प्रतिबन्धवर्णनाय मूले विरुद्धमाह साध्याभावव्याप्तः इति।

  • विरुद्धनिरूपणम्

साध्याभावव्याप्तो हेतुर्विरुद्धः । यथा शब्दो नित्यः कृतकत्वादिति ।

कृतकत्वं हि नित्यत्वाभावेनानित्यत्वेन व्याप्तम् ।

साध्याभाववदवृत्तित्वम् साध्यसामानाधिकरण्यमिति हेतुविशेषणद्वयं यत्र न भवति सः विरुद्ध इति (पृ.२४९) आवेदितमेव।

यत्र हि साध्यसामानाधिकरण्यं नास्ति साध्याभाववदवृत्तित्वं च नास्ति तत्र हेतौ साध्याभावस्य व्याप्तिः अवश्यं भवति । तादृशं विरुद्धम् उदाहरति - यथा शब्दः नित्यः कृतकत्वात् घटवत्। अत्र कृतकत्वं हि नित्यत्त्वाभावेन अनित्यत्वेन व्याप्तम् इति । अत्र पूर्ववदेव शब्दः पक्षः। नित्यत्वं साध्यं, कृतकत्वं हेतुः। कृतकत्वम् इत्यस्य कार्यत्वमित्यर्थः। अस्मिन् कृतकत्वहेतौ नित्यत्वसामानाधिकरण्यं नास्ति। नित्यत्वाधिकरणे गगनादौ कृतकत्वस्य असत्वात्।

[[२५७]]

विरुद्धनिरूपणम्

नित्यत्वम्

वृत्तित्वम्

अभावः

गगनत्वम्

कृतकत्वम्

गगनम्

[[२५८]]

चि.स.१७९

एवं तस्य साध्याभाववदवृत्तित्वमपि नास्ति । नित्यत्वं प्रकृतसाध्यं, तदभावः नित्यत्वाभावः तद्वान् घटादिः तन्निरूपितवृत्तित्वमेव कृतकत्वेऽस्तीति तदभावरूपं नित्यत्वाभाववदवृत्तित्वं कृतकत्वे नास्ति। अतः कृतकत्वे उभयस्य अभावः आगतः । तर्हि भवेदेव तत्र साध्याभावस्य व्याप्तिः ।

एतावता ग्रन्थेन अस्माभिः त्रिविधा व्याप्तिः अवगता । सा सर्वाऽपि कृतकत्वे शक्यते दर्शयितुम्। तत्राद्या साध्याभाववदवृत्तित्वम्, या पूर्वपक्षव्याप्तिपदेन प्रसिद्धा । इह समन्वयकाले यस्य व्याप्तिः हेतौ नेतव्या सः साध्यपदेन स्वीकार्यः । यथा पर्वतो वह्निमान् इत्यत्र साध्यपदेन वह्निरेव (पृ. १८४) गृहीतः । सम्प्रति च साध्याभावस्य नित्यत्वाभावस्य व्याप्तिः कृतकत्वे दर्शनीया इति साध्यपदेन नित्यत्वाभावः ग्राह्यः। तदभावः

प्रकृतसाध्यम् → नित्यत्वम्

तदभावः →नित्यत्वाभावः

तस्य व्याप्तिः

नित्यत्वाभावः

साध्यम्

अभावः (नित्यत्वम्)

वृत्तित्वम्

गगनत्वे

(गगनम्) अधिकरणम्

चि.स.१८०

अभावः

कृतकत्वम्

विरुद्धनिरूपणम्

नित्यत्वाभावाभावः नित्यत्वरूपः तदधिकरणमाकाशं तन्निरूपितवृत्तित्वं आकाशत्वे वृत्तित्वाभावः कृतकत्वे अस्तीति पूर्वपक्षव्याप्तिः कृतकत्वे सङ्गच्छते ।

  • एवं नित्यत्वाभावस्य सिद्धान्तव्याप्तिरपि कृतकत्वे सुघटा। तस्याः स्वरूपं हेत्वधिकरणवृत्त्यत्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं (पृ.२०४) वर्णितम् । अस्यां व्याप्तौ हि यस्मिन् पदार्थे व्याप्तिर्नेतव्या सः हेतुपदेन ग्राह्यः । साध्यं च पूर्ववदेव व्यापकत्वेन अभिमतम्। प्रकृते च कृतकत्वं हेतुः, नित्यत्वाभावश्च व्यापकत्वात् साध्यम्। कृतकत्वस्य अधिकरणं घटः, तन्निष्ठः अत्यन्ताभावः न हि नित्यत्वाभावो नास्तीति अभावः। कुतः? नित्यत्वाभावस्य अनित्यत्त्वस्य घटपटादौ सत्वात्। किन्तु अन्यस्य कस्यचित् पर्वतत्वादेः अभावः । तत्प्रतियोगिता पर्वतत्वे प्रतियोगित्वाभावः नित्यत्वाभावे इति सः व्यापकः। तदधिकरणं घटः, तत्र कृतकत्वं वर्तते। अतः व्यापकस्य नित्यत्वाभावस्य सामानाधिकरण्यं कृतकत्वे आगतमिति सिद्धान्तव्याप्तिसङ्गमनं सुकरम्।

कृतकत्वम् वृत्तित्वम्

घटः

पर्वतत्वाभावः

निरूपिता

प्रतियोगिता

अभावः

पर्वतत्वम् नित्यत्वाभावः कृतकत्वम्

घटः

चि.स.१८१

एवं पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वात् इति केवलव्यतिरेकिनिरूपणप्रसङ्गे व्याप्यव्यापकयोः व्यतिरेकौ अभावौ व्याप्तौ अन्तर्भूतौ । तत्स्वरूपं च साध्याभाव- व्यापकीभूताभावप्रतियोगित्वम् । नित्यत्वाभावस्य इयं व्याप्तिरपि कृतकत्वे शक्या दर्शयितुम्। इहापि यस्य व्याप्तिः सङ्गमनीया तत् साध्यपदेन ग्राह्यम्। नित्यत्वाभावश्च तादृशः, तदभावः नित्यत्वाभावाभावः नित्यत्वरूपः। तद्व्यापकः अभावः कृतकत्वाभावः भवत्येव। नित्यत्वाधिकरणेषु सर्वत्र आत्माकाशादौ कृतकत्वाभावस्य सत्वात्।

[[२५९२६०]]

विरुद्धनिरूपणम

तादृशव्यापकीभूताभावस्य प्रतियोगित्वं कृतकत्वे इति कृतकत्वे व्यतिरेकव्याप्तिः अपि

भवत्येव।

नित्यत्वं प्रकृतसाध्यम् । तदभावस्य व्यतिरेक व्याप्तिः ।

नित्यत्वाभावः साध्यम्

प्रतियोगित्वम्

कृतकत्वम्

(नित्यत्वम्) अभावः व्यापकः कृतकत्वाभावः।

चि.स.१८२

इत्थं च नित्यत्वाभावरूपस्य साध्याभावस्य त्रिविधाऽपि व्याप्तिः कृतकत्वे योजयितुं शक्या। परन्तु सम्प्रदाये विरोधस्थले हेतौ तृतीया व्यतिरेकव्याप्तिरेव समन्वयाय स्वीक्रियते । सा च दर्शिता एव ।

  • एतावता विवरणेन नित्यत्वसाधनाय उपन्यस्ते कृतकत्वे नित्यत्व- सामानाधिकरण्यं, नित्यत्वाभाववदवृत्तित्वं नास्त्येव, प्रत्युत नित्यत्वस्य यः अभावः अनित्यत्वरूपः तन्निरूपिता व्याप्तिरेव अस्तीति आगतम्। तत्रापि न्यायसम्प्रदायानुसारेण व्यतिरेकव्याप्तिः। तथा च कृतकत्वं नित्यत्वाभावाभावव्यापकीभूताभावप्रतियोगित्ववत् इति निश्चयोऽयं प्रमात्मकः साध्याभावव्याप्यहेतुम् अवगाहते। एवं सति (पृ.२३४) पूर्वं कृतं विवेचनं प्रत्याकलयामः ।

तत्र हि तदभाववत्तानिश्चयमुद्रया इव तदभावव्याप्यवत्तानिश्चयमुद्रया विरोधित्वं वर्णितम्। तत्र हि पर्वतः वह्न्यभाववान् इति अनुमितिं प्रति पर्वतः वह्निव्याप्यधूमवान् इति परामर्शः, तदभावव्याप्यवत्तानिश्चयमुद्रया विरोधी भवतीत्युक्तम्। ह्रदः वह्निमान् इति अनुमितिं प्रति, वह्न्यभावव्याप्यजलवान् इति परामर्शस्य तदभावव्याप्यवत्ता- निश्चयमुद्रया, वह्निः अनुष्णः इत्यनुमितिं प्रति च वह्निः अनुष्णत्वाभावव्याप्यतेजस्त्ववान् इति परामर्शस्य च तदभावव्याप्यवत्तानिश्चयमुद्रया प्रतिबन्धकत्वमुक्तम्। प्रकृतेऽपि च कृतकत्वं नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् इति निश्चयोऽयं साध्याभावव्याप्तिं हेतौ अवगाहते। अतः तदभावव्याप्यवत्तानिश्चयमुद्रया विरोधी भवेत् ।

विरुद्धनिश्चयस्य सामानाकारकत्वं कथम् ?

  • विरुद्धनिश्चयस्य सामानाकारकत्वं कथम् ?

परन्तु अस्ति अत्र कृतकत्वं नित्यत्वाभावव्याप्यमिति हेतुमुख्यविशेष्यकः निश्चयः। पूर्वोक्ताः हि निश्चयाः साध्याभावव्याप्यं हेतुं पक्षे पर्वतादौ अवगाहन्ते इति अनुमितिसमानविशेष्यकत्वमायाति। तस्माच्च ते भवन्ति तत्र तत्र अनुमितिप्रतिबन्धकाः। प्रकृते शब्दः नित्यः इति या अनुमितिः तत्र शब्दत्वं विशेष्यतावच्छेदकम्। विरुद्धनिश्चये च कृतकत्वे नित्यत्वाभावव्याप्त्यवगाहनात् कृतकत्वत्वं विशेष्यतावच्छेदकमिति समानाकारकत्वं दर्शितं न घटते ।

नित्यत्वाभावः

अभावः

नित्यत्वम्

व्यापकत्वम्

नि

अनुमितिः

श्व

अभावः

यः

शब्दः

प्रतियोगित्वम्

[[२६१]]

चि.स.१८३

कृतकत्वम्

(व्यतिरेकव्याप्तिं कृतकत्वे अवगाहमानः निश्चयः

चि.स.१८४

निश्चयविशिष्टनिश्चयत्वेन प्रतिबन्धकत्वम्

अतः एवं वाच्यम्। नात्र एकाकी अयं निश्चयः अनुमितिविरोधी भवति । किन्तु निश्चयान्तरेण सहितः । कोऽसौ सहकारिनिश्चयः ? पक्षधर्मतानिश्चयः । यद्यपि विरुद्धनिश्चयः साध्याभावव्याप्यहेतुपर्यन्तमेव प्रकाशयति न तु हेतुमत्तामपि पक्षे, तथापि पक्षे हेतुमत्तानिश्चयसहकृतः सन् शब्दः नित्यः इत्यनुमितिं प्रति तदभावव्याप्यवत्तानिश्चयमुद्रया प्रतिबन्धको भवति ।

[[२६२]]

निश्चयविशिष्टनिश्चयत्वेन प्रतिबन्धकत्वम्

पर्यवसितं तु यदात्मनि समवायसम्बन्धेन शब्दः कृतकत्ववान् इति पक्षधर्मता- निश्चयः उत्पद्यते, तदात्मनि एव एतज्ज्ञानात् पूर्वं पश्चात् वा व्यतिरेकव्याप्तिघटनया कृतकत्वं नित्यत्वाभावाभावव्यापकीभूताभावप्रतियोगि अथवा कृतकत्वं नित्यत्व- व्यापकीभूताभावप्रतियोगि इति एवंविधः विरुद्धहेत्वाभासविषयकनिश्चयः अपि उत्पद्यते चेत्, तौ उभौ मिलित्वा शब्दः नित्यत्ववान् इति अनुमितिं प्रति प्रतिबन्धकौ

भवतः ।

अपूर्वमिदं प्रतिबन्धकत्वं नान्येषु हेत्वाभासेषु वर्णनीयं भवति । तत्रापि द्वितीयः निश्चयः विरुद्धं हेत्वाभासमवगाहते इति तस्यैव प्राधान्यमिति सः प्रथमनिश्चयेन विशिष्टः प्रतिबन्धकः इति अपि शक्यं वक्तुम् । वैशिष्ट्यं च सामानाधिकरण्यम् एककाले एकात्मवृत्तित्वरूपम्। वैशिष्ट्यं हि सम्बन्धः । स च सामानाधिकरण्यरूपः । सामानाधिकरण्यम् एकस्मिन् क्षणे एकस्मिन् आत्मनि च उभयोः निश्चययोः सत्वात् युज्यते। अत एव शब्दः कृतकत्ववान् इति हेतुमत्तानिश्चयविशिष्टः कृतकत्वं नित्यत्वव्यापकीभूताभावप्रतियोगि इति विरुद्धविषयकनिश्चयः निश्चयविशिष्टनिश्चयत्वेन शब्दः नित्यत्ववान् इति अनुमितिं प्रति प्रतिबन्धकः इति प्रामाणिकाः निरूपयन्ति।

तथा पूर्वोक्तरीत्या क्रमेण पदार्थनिरूपणायापि यतनीयम्। शब्दः नित्यत्ववान् इत्यनुमितेः भ्रमत्वात् भवति कृतकत्वं नित्यत्वव्यापकीभूताभावप्रतियोगि इति निश्चयः शब्दः कृतकत्वान् इति निश्चयसहकृतः अनुमितिप्रतिबन्धकः इह च शब्दत्वावच्छिन्न- विशेष्यतानिरूपितनित्यत्वत्वावच्छिन्नप्रकारताशालिबुद्धित्वावच्छिन्नप्रतिबध्यता- निरूपितशब्दत्वावच्छिन्नविशेष्यतानिरूपितनित्यत्वाभावव्याप्यकृतकत्वत्वावच्छिन्न-

प्रकारताशालिनिश्चयत्वावच्छिन्नप्रतिबन्धकतावान् भवति कृतकत्वं नित्यत्वाभाव- व्याप्यमिति निश्चयः शब्दः कृतकत्ववान् इति निश्चयविशिष्टः । अयं निश्चयः, शब्दः नित्यत्ववान् इति अनुमितिं प्रति तदभावव्याप्यवत्तानिश्चयमुद्रया प्रतिबन्धको भवति । तत्पदेन नित्यत्वं, तदभावः नित्यत्वाभावः, तद्व्याप्यं कृतकत्वं तद्वान् शब्दः तद्वत्ता शब्दे इति ।

अस्य निश्चयस्य प्रमारूपत्वेन प्रकारादारभ्य विशेष्यपर्यन्तं पदार्थस्य नित्यत्वाभावव्याप्यकृतकत्वस्य यद्विषयक- त्वेन इत्यत्र हेत्वाभासलक्षणे यत्पदेन ग्रहणं

निश्चयविशिष्टनिश्चयत्वेन प्रतिबन्धकत्वम्

प्रकारता

प्रतिबध्यानुमितिः

सम्भवति। तद्विषयकत्वेन निश्चयस्य,

नित्यत्वम्

कृतकत्वं नित्यत्वाभावव्याप्यमिति

निश्चयस्य शब्दः नित्यत्ववान् इति

अवच्छेदकता

अनुमितिप्रतिबन्धकत्वम् अस्तीति यत्पदेन

विशेष्यता

शब्दत्वम्

नित्यत्वाभावव्याप्यकृतकत्वस्य ग्रहणात्, तत्त्वं तादृशकृतकत्वे आगतमिति दोषलक्षणसमन्वयः। तं दोषं हेतौ प्रापय्य

शब्दः

चि.स. १८५

कृतकत्वम् -

तस्य दुष्टत्वसम्पादनाय च नित्यत्वा- भावव्याप्यकृतकत्वं कृतकत्वं चेति

निश्चयः

समूहालम्बनं ज्ञानं स्वीकुर्मः ।

[[२६३]]

शब्दः

चि.स.१८६

अत्र विरुद्धनिश्चये न शब्दः

प्रतिबन्धकनिश्चयौ

विशेष्यः इति समानविशेष्यकत्वं न

घटते अतः अपरनिश्चयग्रहणम् ।

नित्यत्वाभावः

विशिष्ट

कृतकत्वम्

व्यतिरेकव्याप्तिः

निश्चयः निश्चयः

शब्दः

कृतकत्वम्

आत्मा

(निश्चयौ एककाले एकात्मनि स्थितौ )

चि.स.१८७

[[२६४]]

विरुद्धसत्प्रतिपक्षयोः भेदः

तज्ज्ञानविषयप्रकृतहेतुतावच्छेदकं कृतकत्वत्वं, तद्वत्त्वं कृतकत्वे अस्तीति दोषवत्त्वात् कृतकत्वं दुष्टमिति। अतः सुष्ठु उक्तं मूलकृता अत्र च हेतुः कृतकत्वं तच्च साध्याभावेन अनित्यत्वेन व्याप्तमिति। तदिदं चित्रेणापि सुष्ठु निरूपितम् ।

  • विरुद्धसत्प्रतिपक्षयोः भेदः

अत्रेदं चिन्त्यम्। वक्ष्यमाणसत्प्रतिपक्षस्थलेऽपि साध्याभावव्याप्यवत्तानिश्चय- मुद्रया एव प्रतिबन्धकत्वमुच्यते। परन्तु तत्र निश्चयः हेतौ साध्याभावस्य सिद्धान्तव्याप्तिं विषयीकरोति। अन्यच्च सत्प्रतिपक्षस्थले वादिप्रतिवादिनौ भवतः । तौ च स्वस्य स्वस्य साध्यस्य साधनाय हेतूपन्यासं कुरुतः। तच्च साध्यद्वयं परस्परमभावरूपं भवतीति एवमापतति यत् एकस्य वादिनः स्वसाध्यसिद्धये यः यत्नः सः द्वितीयस्य यत् साध्यं तदभावं साधयेत्। एवं द्वितीयस्य स्वसाध्यसिद्ध्यै यः यत्नः सः प्रथमस्य यत् साध्यं तदभावं साधयेत्। यथा च सङ्ग्रहकृता उदाहृतम् शब्दः नित्यः श्रावणत्वात्, शब्दः अनित्यः कृतकत्वात् इति च। अत्र यो हि वादी श्रावणत्वेन नित्यत्वसाधनाय प्रयतते सः प्रतिवादिनः साध्यस्य अनित्यत्वस्य अभावमेव खलु साधयति । एवं द्वितीयो कृतकत्वहेतुना अनित्यत्वसाधनाय यतमानः आद्यस्य नित्यत्वस्य अभावमेव इह वाञ्छति ।

किञ्च सत्प्रतिपक्षस्थले तस्य तस्य यत् साध्यं, तदभावव्याप्ययोः हेत्वोः पक्षे भानं भवतीति तदभावव्याप्यवत्तानिश्चयमुद्रया प्रतिबन्धकत्वं वक्तव्यम्। पृथक् हेतुमत्ताज्ञानापेक्षा न भवति। नैवं विरुद्धे। अत्र ज्ञानान्तरापेक्षा दर्शिता एव। अन्यच्च नात्र वादिप्रतिवादिभ्यां परस्परसाध्याभावसाधनाय प्रवृत्तम् । किन्तु कश्चित् वादी भ्रान्तः वस्तुतः साध्याभावसाधकं हेतुं साध्यसाधकं मत्वा कथायामुपस्थापयति । एवञ्च तदभावव्याप्यवत्तानिश्चयत्वेन प्रतिबन्धकत्वे तुल्येऽपि एवंविधानेकवैलक्षण्यानि अनयोः सन्ति। अतः पूर्वम् उक्तः विरुद्धः, वक्ष्यमाणस्तु सत्प्रतिपक्ष इति सुदृढो भेदः ।

यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते सः सत्प्रतिपक्षः । यथा शब्दो नित्यः श्रावणत्वात् शब्दत्ववत् । शब्दोऽनित्यः कार्यत्वात् घटवत् ।

  • सत्प्रतिपक्षनिरूपणम्

सत्प्रतिपक्षनिरूपणम्

सम्प्रति सत्प्रतिपक्षे यत् वक्तव्यं तदुच्यते । सत्प्रतिपक्ष इति सञ्ज्ञा एव तावत् तदीयां स्थितिं ब्रवीति। प्रतिपक्षः इत्यस्य अभावसाधकः हेतुः अथवा तद्विषयकः परामर्शः इत्यर्थः अभिप्रेतः । एवञ्च सन् विद्यते विरोधिपरामर्शः यस्य सः सत्प्रतिपक्षः इति अर्थः फलति। विरोधी तस्यैव हेतोः भवति यः स्वयमपि किञ्चित् साध्यं साधयितुमुपन्यस्त इति प्रथमहेतोरपि परामर्शविषयत्वलाभः।

एतादृशस्थितिं बुद्धौ निधायैव मूलकृता यस्य साध्याभावसाधकं हेत्वन्तरमस्ति सः सत्प्रतिपक्ष इति सत्प्रतिपक्षलक्षणमभिहितम्। यत्पदेन एकस्य हेतोः ग्रहणे तस्य यत् साध्यं तदभावसाधकः अन्यः हेतुः, अन्यहेतुविषयकपरामर्शः अस्ति इति तस्य अर्थः । तुल्यं प्रकृतहेतोरपि परामर्शविषयत्वं विवक्षणीयम् ।

एवं हि तत्र स्थितिः प्रामाणिकी । एकस्मिन् पक्षे यत्किञ्चित्साध्यसाधनाय कश्चन वादी प्रवर्तते। तदर्थं च एकं हेतुमुपन्यस्यति । परस्तु तस्मिन्नेव पक्षे तत्साध्यस्याभावं साधयितुम् अन्यं हेतुमुपस्थापयतीति। यथा मीमांसकैः, शब्दः नित्यः श्रावणत्वात् २६५ शब्दत्ववत् इति शब्दरूपे पक्षे नित्यत्वसाधनाय श्रावणत्वहेतुः उपन्यस्तः। तत्रैव शब्दे नित्यत्वस्य अभावसाधनाय नैयायिकः कार्यत्वं हेतुं ब्रूते इति ।

नित्यत्वम्

अनित्यत्वम्

श्रावणत्वम्

कार्यत्वम्

शब्दः

शब्दः

(मीमांसकोपन्यासः)

(नैयायिकोपन्यासः)

चि.स. १८८

[[२६६]]

अव्याप्यवृत्तित्वनिरूपणम्

  • अव्याप्यवृत्तित्वनिरूपणम्

अत्र हि इदं सर्वदा चिन्त्यं यत् एकस्मिन् पदार्थे विरुद्धवस्तुनोः स्थितिः कथं सम्भाव्यते? वृक्षे कपिसंयोगः अग्ररूपदेशविशेषे भवति । कपिसंयोगाभावश्च मूलरूपदेशविशेषे भवति। इदमेव च अव्याप्यवृत्तित्वमित्युच्यते ।

1:

कोऽर्थः ? स्वाधिकरणे एव स्वाभावस्यापि वर्तनम्। कपिसंयोगस्याधिकरणे वृक्षे कपिसंयोगाभावः मूले अस्तीति कपिसंयोगः अव्याप्यवृत्तिः । एवं कपिसंयोगा- भावाधिकरणे तदभावः कपिसंयोगः अग्रे अस्तीति कपिसंयोगाभावोऽपि अव्याप्यवृत्तिः । भावाभावयोः एकत्र वर्तनं मूलाग्ररूपौ वृक्षावयवौ वृक्षदेशौ आदाय निरूप्यते इति इदं दैशिकाव्याप्यवृत्तित्वमित्युच्यते । इत्थमेव कालोपाधिमादाय स्थूलकाले भावाभावयोः सत्वं कालिकाव्याप्यवृत्तित्वमित्युच्यते । यथा एकस्मिन् स्थूलकाले संवत्सरे चैत्रमासरूपोपाधौ (पृ.५७) घटः अस्ति, कार्तिकमासरूपोपाधौ तदभावश्च। अत्र हि कालोपाधिं मासाख्यमादाय भावाभावयोः संवत्सरवृत्तित्वमुपपन्नम्।

परन्तु एवंविधव्यवस्था देशकृता कालकृता वा यत्र नैव सम्भाव्यते तत्र विरुद्धयोः भावाभावयोः मध्ये एकः कश्चित् तिष्ठेत् अभावो वा प्रतियोगी वा। यथा प्रकृतोदाहरणे शब्दरूपे पक्षे वादिनः साध्यं नित्यत्वम्, प्रतिवादिनश्चानित्यत्वम्। अनयोः भावाभावरूपता तु अस्त्येव। परन्तु देशं कालं वा आदाय तयोः उभयोः शब्दनिष्ठत्वमपि न शक्यते वर्णयितुम्। न हि एवं सम्भवति शब्दे एतद्देशे नित्यत्वं देशान्तरे तु अनित्यत्वम् इति । नापि इत्थं सम्भवेत् एतत्काले शब्दे नित्यत्वं कालान्तरे तु तत्रैव अनित्यत्वमपि । इत्थञ्च न स्तः नित्यत्वतदभावयोः देशकृताव्याप्यवृत्तित्वं कालकृताव्याप्यवृत्तित्वं च इति तत् उभयं व्याप्यवृत्ति इति कथ्यते ।

कोऽर्थः? यस्य पदार्थस्य हि अधिकरणे अन्यदेशे अन्यस्मिन् काले वा तस्य पदार्थस्य अभावः न तिष्ठति सः व्याप्यवृत्तिः । यथा प्रकृतं नित्यत्वं तदभावः वा। तयोः एकस्य अधिकरणे तदभावः न देशभेदेन कालभेदेन वा भवितुमर्हति इति नित्यत्वं तदभावः च व्याप्यवृत्तिः।

अव्याप्यवृत्तित्वनिरूपणम्

तथा च शब्दः नित्यो वा भवेत् अनित्यो वा । एवञ्च वादिनोः मध्ये एकस्य कस्यचित् अनुमितिः भवेत् प्रमा, अप्रमा तु अपरस्य । एवं तादृशानुमितिसाधक- परामर्शयोरपि। तयोः परामर्शयोः मध्ये यस्य कार्यरूपानुमितिः प्रमा, अर्थात् यस्य साध्यं पक्षेऽस्ति तस्यैव हेतुरपि पक्षे भवेदिति सः परामर्शः पक्षधर्मत्वांशे प्रमा। व्याप्तिरपि तस्मिन् हेतौ सम्भवतीति तस्य परामर्शस्य प्रमात्वं भवेत्। यस्य तु परामर्शस्य साध्यं

तु वस्तुतः पक्षे न भवति न तत्र हेतुर्भवेत् । कथं च व्यापके साध्ये निवृत्ते व्याप्यः तत्र स्थातुमर्हति। एवं च हेतोः पक्षे अवृत्तित्वेऽपि तदवगाहनात् सः परामर्शः पक्षधर्मतांशे भवेत् भ्रमः।

  • अथ साध्याभाववति पक्षे तिष्ठति हेतुः, तर्हि पक्षवृत्तित्वं तस्यास्तीति न सः परामर्शः पक्षधर्मतांशे भ्रमः, परन्तु स्वसाध्याभावाधिकरणे विद्यमानत्वात् व्यभिचारी एव भवेत् हेतुः । एवं च साध्याभाववद्वृत्तित्ववति व्यभिचारिणि साध्याभाववद्- वृत्तित्वाभावरूपां व्याप्तिमवगाहते प्रकृतपरामर्शः इति व्याप्त्यंशे सः भ्रमरूपो भवति।

यथा पर्वतो वह्निमान् धूमात् इति वादिनः पक्षे पर्वते वह्नेः सत्वात् तत्र व्याप्यस्य धूमस्य वृत्तित्वे न किञ्चित् बाधकम्। व्याप्तिरपि धूमेस्तीति पक्षधर्मतांशे, व्याप्त्यंशे च प्रमात्मक एव तत्रत्यः परामर्शः पर्वतः वह्निव्याप्यधूमवान् इति ।

[[२६७]]

प्रतिवादिना तु तत्रैव

वह्नयभावः

पर्वते वह्न्यभावसाधनाय

जलत्वं हेतुत्वेनोपन्यस्तम्।

व्याप्तिः

परामर्शः

तथा च स्थलं पर्वतः वह्नय-

जलत्वम्

भाववान् जलत्वात्। जलत्वं

अंशे भ्रमत्वम्।

यत्र यत्र तत्र वह्न्यभावोस्तीति

पर्वतः

भवति तत् वह्न्यभावव्याप्यम्

चि.स. १८९

इति पर्वते वह्न्यभावे असति कथं तद्व्याप्यं जलत्वं स्थातुमर्हति । तथा च पर्वते

अविद्यमानमपि जलत्वं तत्रावगाहते अयं परामर्श इति पक्षधर्मतांशे अयं भ्रमः ।

अव्याप्यवृत्तित्वनिरूपणम्

अथ च तत्र भ्रमत्ववारणाय पक्षे वस्तुतः विद्यमानं पाषाणमयत्वं हेतुं प्रतिवादी

वह्नयभावः

ब्रूयात् तदा

वह्नयभावस्य पर्वते

व्याप्तिः

अंशे भ्रमत्वम्।

असत्वात् तत्र च

परामर्शः

पाषाणमयत्वस्य

पाषाणमयत्वम्

सत्वात् आगता

पर्वतः

चि.स.१९०

हेतोः व्यभिचारिता

इति व्याप्त्यंशे तस्य

भ्रमत्वमनिवार्यम् ।

[[२६८]]

  • एतावता श्रमेणेदं निश्चितं यत् सत्प्रतिपक्षस्थले एकस्मिन् पक्षे (पृ.२६६) दर्शितं यत् व्याप्यवृत्तित्वं, तद्वतोः भावाभावयोः साधनाय प्रवृत्तौ अवश्यम् एकः परामर्शः पक्षधर्मतांशे व्याप्त्यंशे वा भवेत् भ्रमः । किमनेन गुरुणा आरम्भेण ? क्लेशपरिहारः । कः क्लेशः? विरोधप्रकरणोत्तरं च तस्य सत्प्रतिपक्षात् वैलक्षण्यप्रदर्शनाय कृतेन विवरणेन (पृ.२६४) सत्प्रतिपक्षस्थले उभौ परामर्शौ तदभावव्याप्यवत्तानिश्चयमुद्रया अनुमिति- प्रतिबन्धकौ भवतः इति दर्शितम् । सम्प्रति तयोः परामर्शयोः मध्ये एकस्य भ्रमत्वमपि वर्णितम्। परन्तु हेत्वाभासप्रकरणादौ इह प्रकरणे प्रतिबध्यज्ञानं भ्रम एव प्रतिबन्धकं प्रमात्मकमेव इति अपि प्रतिज्ञातम् । यदि सत्प्रतिपक्षस्थले एकतरपरामर्शस्य भ्रमत्वमावश्यकम् इति नियमः तर्हि अस्याः प्रतिज्ञायाः का गतिः ?

किञ्च परामर्शश्चेत् भ्रमः तद्विषयस्य (पृ.२२५) दर्शितरीत्या प्रकारात् प्रभृति विशेष्यपर्यन्तं निरूपणमपि न सम्भवति । अत्रैव पर्वतः वह्न्यभाववान् जलत्वात् इत्यत्र परामर्शः, पर्वतः वह्न्यभावव्याप्यजलत्ववान् इति भ्रमः इति तद्विषयः वह्न्यभावव्याप्य- जलत्ववत्पर्वतः, शशविषाणवत् अप्रसिद्धः। अतः न लक्षणे यद्विषयकत्वेन इत्यत्र यत्पदेन सः शक्यः धर्तुम् ।

अव्याप्यवृत्तित्वनिरूपणम्

एवं पर्वतः वह्नयभाववान् पाषाणमयत्वात् इत्यत्र परामर्शः पर्वतः वह्न्यभावव्याप्य- पाषाणमयत्ववान् इति च भ्रमः इति न तद्विषयः वह्नयभावव्याप्यपाषाणमयत्ववत्पर्वतः यत्पदेन ग्रहीतुं शक्यः। अप्रसिद्धत्वादेव। अतः अनेकविधनियमभङ्गः प्रकृते भवतीति कथं सत्प्रतिपक्षः हेत्वाभासः इति ?

कः अस्य परिहारः? उच्यते । सत्प्रतिपक्षस्थले हि पर्वतो वह्निमान् इत्यनुमितिं प्रति पर्वतः वह्न्यभावव्याप्यपाषाणमयत्ववान् इति परामर्शः तदभावव्याप्यवत्तानिश्चय- मुद्रया प्रतिबन्धको भवति इति वक्तव्यम् । एवं पर्वतः वह्न्यभाववान् इत्यनुमितिं प्रति पर्वतः वह्निव्याप्यधूमवान् इति परामर्शः तदभावव्याप्यवत्तानिश्चयमुद्रया प्रतिबन्धको भवतीति च वक्तव्यम्। तयोः परामर्शयोः मध्ये एकतरस्य भ्रमत्वमपि आवश्यकमेव ।

परन्तु (पृ.२२३) दर्शितरीत्या प्रतिबन्धाय निश्चयेन प्रमारूपेणैव भवितव्यम् इत्यपि न नियमोऽस्ति। ह्रदो वह्निमान् इति निश्चयेन भ्रमात्मकेनापि ह्रदो वह्न्यभाववान् इति बुद्धेः प्रतिबन्धस्य आनुभविकत्वात् ।

एवञ्च भ्रमात्मकोऽपि पर्वतः वह्न्यभावव्याप्यपाषाणमयत्ववान् इति परामर्शः पर्वतः वह्निमान् इति प्रमात्मिकामपि अनुमितिं प्रतिबध्नाति । अन्यस्तु पर्वतः वह्निव्याप्य- धूमवान् इति परामर्शः प्रमा इति सुतरां विरोधी भवति पर्वतः वह्न्यभाववान् इत्यनुमितिं प्रति इति परस्परानुमितिप्रतिबन्धात् तत्र न कापि अनुमितिः उत्पद्यते ।

एवं सत्यपि हेत्वाभासलक्षणसमन्वयाय परं प्रतिबध्या भ्रमात्मकानुमितिरेव ग्राह्या। तदभावव्याप्यवत्तानिश्चयमुद्रया प्रतिबन्धकत्वेन प्रमात्मकनिश्चय एव ग्राह्यः। येन तद्विषयोऽपि विशिष्टः प्रसिद्ध्यति इति न काप्यनुपपत्तिः ।

तथा च शब्दः नित्यः श्रावणत्वात् इति शब्दः अनित्यः कार्यत्वात् इति सङ्ग्रहोक्तसत्प्रतिपक्षोदाहरणस्थले शब्दः नित्यत्वव्याप्यश्रावणत्ववान् इति भ्रमात्मकोऽपि परामर्शः शब्दः अनित्यः इत्यनुमितिं प्रतिबध्नाति। कथमस्य भ्रमत्वम् ? नित्यत्वाभाववति

शब्दे श्रावणत्वस्य सत्त्वेन, तस्य व्यभिचारित्वात् । तत्र परामर्शेन व्याप्त्यवगाहित्वात्।

[[२६९२७०]]

दोषाणाम् अन्यनिष्ठत्वेऽपि परम्परया हेतौ आनयनं कुतः ?

अपरश्च शब्दः अनित्यत्वव्याप्यकार्यत्ववान् इति परामर्शः, शब्दः नित्यः इत्यनुमितिं प्रतिबध्नाति। तथापि लक्षणसङ्गमनाय शब्दः नित्यः इति भ्रमात्मकानुमितिरेव स्वीक्रियते। तां प्रति शब्दः नित्यत्वाभावव्याप्य कार्यत्ववान् इति परामर्शः प्रमात्मकः प्रतिबन्धकः भवति। अयं हि शब्दत्वावच्छिन्नविशेष्यतानिरूपितनित्यत्वत्वावच्छिन्न-

प्रकारताशालिबुद्धित्वावच्छिन्नप्रतिबध्यतानिरूपितशब्दत्वावच्छिन्नविशेष्यता- निरूपितनित्यत्वाभावव्याप्यकृतकत्वत्वावच्छिन्नप्रकारताशालिनिश्चयत्वावच्छिन्न- प्रतिबन्धकताशालिनिश्चयो भवति। स च तदभावव्याप्यवत्तानिश्चयमुद्रया शब्दः नित्यः इत्यनुमितिविरोधी भवति। तादृशनिश्चयविषयः नित्यत्वाभावव्याप्यकृतकत्ववन्त्-शब्दः हेत्वाभासलक्षणघटकेन यत्पदेन स्वीक्रियते । तद्विषयकत्वेन परामर्शस्य, शब्दः नित्यः इत्यनुमितिप्रतिबन्धकत्वमस्ति । अतः यत्पदेन तस्य ग्रहणे तत्त्वं नित्यत्वाभाव- व्याप्यकृतकत्ववच्छद्वे अस्तीति दोषलक्षणसमन्वयः।

अत्र हि द्वौ हेतू, नित्यत्वसाधनाय श्रावणत्वं, कृतकत्वं चानित्यत्वसाधनाय। तयोराद्य एव भवति दुष्टः न द्वितीयोऽपि । आद्येन श्रावणत्वेन यानुमितिरिष्टा, तत्प्रतिबन्धकं प्रमात्मकं ज्ञानं तद्विषयश्च प्रसिद्ध्यति । न कृतकत्वहेतोः। शब्दः अनित्यः इत्यनुमितेः प्रमारूपत्वेन तद्विरोधिनः परामर्शस्य प्रमात्वाभावात्। तद्विषयस्य च विशिष्टस्य नित्यत्वव्याप्यश्रावणत्ववच्छब्दस्य शशविषाणवत् अप्रसिद्धत्वात्। अतः आद्यः श्रावणत्वहेतुः एव दुष्टः। तत्र दोषवत्त्वदर्शनाय दर्शितरीत्या समूहालम्बनं ज्ञानं अनित्यत्वव्याप्यकृतकत्ववच्छब्दः श्रावणत्वं च इत्याकारकं ग्राह्यम्। तादृशज्ञानविषय- प्रकृतहेतुतावच्छेदकं श्रावणत्वत्वं, तद्वत्त्वं श्रावणत्वेऽस्तीति श्रावणत्वं सत्प्रतिपक्षः इति समञ्जसम्।

  • दोषाणाम् अन्यनिष्ठत्वेऽपि परम्परया हेतौ आनयनं कुतः ?

इहेदं चिन्त्यम्। साधारणस्थले हेतुः साध्याभाववति स्थितः, असाधारणे सपक्षे न स्थितः, अनुपसंहारिणि वक्ष्यमाणे च हेतौ व्याप्तिग्रहाय नान्वयदृष्टान्तः नापि व्यतिरेकदृष्टान्तः। विरुद्धोऽपि तावत् विपक्ष एव स्थितः इति आदिमेषु चतुर्षु स्थलेषु

ECC

[[4]]

दोषाणाम् अन्यनिष्ठत्वेऽपि परम्परया हेतौ आनयनं कुतः ?

हेतोरेव साक्षात् दोषः स्फुटः। सत्प्रतिपक्षस्थले तु विरोधिपरामर्शेनानुमितेरेव प्रतिबन्धः कृतः। न तु हेतोः व्यभिचारित्वादिकं तत्र विरोधिज्ञानविषयः। तथापि अनुमितेः भ्रमत्वे तज्जनकपरामर्शस्य भ्रमत्वं निश्चीयते । तच्च (पृ. २६७) दर्शितरीत्या हेतौ व्याप्तिभङ्गे पक्षधर्मताभङ्गे एव पर्यवस्यति। वक्ष्यमाणाश्रयासिद्धिबाधादौ अपि एवम्। तत्र साक्षात् हेतुगतदोषोद्भावनाभावेऽपि, यस्य कस्यापि दोषत्वे, तद्वत्त्वात् हेतोरेव दुष्टत्वं प्रकरणेऽस्मिन् सम्पादनीयम् ।

यदि कार्यविपत्तिः स्यात् मुखरस्तत्र हन्यते इति प्रसिद्धः न्यायः।

अनेकान् क्रीडापटून् आदाय कर्णधारः क्रीडायां जयार्थं प्रवर्तते। परन्तु कस्यचित् क्रीडापटोः प्रमादवशात् अपजये सति तं क्रीडापटुं दूषयाम एव वयम् । परन्तु तावतापि न सन्तुष्यामः यावत् मुखरः कर्णधारः न दूष्यते । इदमेव च श्लोकार्थेऽप्युक्तं मुखरस्तत्र हन्यते इत्यनेन। तद्वदेव प्रकृतहेत्वाभासप्रकरणे साध्यसाधनाय व्याप्तिपक्षधर्मता- रूपगुणाभ्यां न प्रवृत्तः इति यथा साक्षात् व्यभिचारेण वक्ष्यमाणस्वरूपासिद्धया वा हेतुः दूष्यते, तथैव साध्यरहिते, पक्षतावच्छेदकरहिते वा पक्षे अयं साध्यसाधनाय प्रवृत्तः इति अन्ततः स एव दूष्यते । अतः सत्प्रतिपक्षस्थले वक्ष्यमाणसाध्याप्रसिद्धि- आश्रयासिद्धिबाधादिस्थलेषु च दोषाणाम् अन्यरूपत्वेऽपि अन्यनिष्ठत्वेऽपि वा अन्ततः हेतुनिष्ठत्वसम्पादनं ग्रन्थकृतां युज्यते एव ।

  • मूले चतुर्थं हेत्वाभासं तद्विभागं चाह असिद्धस्त्रिविधः इत्यादिना ।

असिद्धस्त्रिविधः आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति । आश्रयासिद्धो यथा गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत् । अत्र गगनारविन्दमाश्रयः स च नास्त्येव ।

स्वरूपासिद्धो यथा शब्दोऽनित्यश्चाक्षुषत्वात् रूपवदिति ।

अत्र चाक्षुषत्वं पक्षे नास्ति । शब्दस्य श्रावणत्वात् ।

[[२७१]]

[[२७२]]

आश्रयासिद्ध्यादिकथनम्

आश्रयासिद्ध्यादिकथनम्

एतावता प्रबन्धेन हेतुविशेष्यकभ्रमौ आदाय सव्यभिचारः, पक्षविशेष्यकभ्रममादाय च विरुद्धसत्प्रतिपक्षौ निरूपितौ । सम्प्रति (पृ. २४३) दर्शितरीत्या पक्षतावच्छेदक- भ्रममादाय आद्यम् आश्रयासिद्धमाह - गगनारविन्दं सुरभि अरविन्दत्वात्। इह साध्यं सुरभित्वम्। समीचीनगन्धः इति तदर्थः । अरविन्दत्वं कमलगता जातिः । यत्र हि तादृशी जातिः तत्र सौरभः अस्तीति हेतौ साध्यव्याप्तौ न किञ्चित् बाधकम्। एवम् अरविन्दमित्येव यदि पक्षं निर्दिशेत् तत्र अरविन्दत्वमस्तीति हेतोः पक्षवृत्तित्वात् न पक्षधर्मतांशेऽपि क्लेशः।

परन्तु गगनारविन्दं प्रकृते पक्षः। गगनारविन्दमित्यस्य गगने उत्पन्नमरविन्दमिति अर्थः । तादृशार्थकथनाय गगनीयमरविन्दमिति च ब्रूमः । तेन च अरविन्दरूपे पक्षे गगनीयत्वं विशेषणमिति फलितम्। तथा च अरविन्दत्वे हेतौ साध्यव्याप्तेः केवलारविन्द- वृत्तित्वस्य च सत्वेऽपि प्रकृतपक्षीभूतगगनीयारविन्दवृत्तित्वं न सम्भवति। तथाविधस्य अरविन्दस्य अप्रसिद्धत्वात्। अतः अत्र पक्षधर्मतांशे व्याप्त्यंशे वा न परामर्शस्य भ्रमत्वं किन्तु पक्षविशेषणांशे।

किन्तत् पक्षविशेषणम् ? गगनीयत्वम्। केवलारविन्दे सौरभव्याप्य- अरविन्दत्वभाने परामर्शस्य प्रमात्वेऽपि गगनीयारविन्दे तादृशारविन्दत्वभाने भवेदेव सः पक्षविशेषणांशे भ्रमः इति अरविन्दम् गगनीयत्वाभाववत् इति प्रमात्मकः निश्चयः तद्विरोधी भवति। उभयत्र अरविन्दत्वस्य विशेष्यतावच्छेदकत्वात् भावाभावप्रकारकत्वाच्च समानाकारकत्वं सुवचम्।

अत्र हि अरविन्दत्वावच्छिन्नविशेष्यतानिरूपितगगनीयत्वत्वावच्छिन्नप्रकारता- शालिबुद्धित्वावच्छिन्नप्रतिबध्यतानिरूपितारविन्दत्वावच्छिन्नविशेष्यतानिरूपित- गगनीयत्वाभावत्वावच्छिन्नप्रकारताशालिनिश्चयत्वावच्छिन्नप्रतिबन्धकताश्रयोऽयं निश्चयः गगनीयारविन्दं सौरभव्याप्यारविन्दत्ववान् इति परामर्शं प्रति पक्षविशेषणांशे तदभाववत्तानिश्चयमुद्रया प्रतिबन्धको भवति । तत्पदेन गगनीयत्वस्य ग्रहणे तदभावः

आश्रयासिद्ध्यादिकथनम्

गगनीयत्वाभावः, तदभाववत् अरविन्दम्, तदभाववत्ता अरविन्दे। अतः तदभाववत्ता- निश्चयमुद्रा निश्चयस्यास्य सुगमा । अत्र च प्रमात्मकस्य प्रतिबन्धकज्ञानस्य विषयः गगनीयत्वाभाववदरविन्दं हेत्वाभासलक्षणे यत्पदेन गृह्यते । तद्विषयकत्वेन निश्चयस्य, अरविन्दं गगनीयत्वाभाववत् इत्याकारकस्य परामर्शप्रतिबन्धकमस्तीति तत्पदेन पुनः स एव पदार्थः ग्राह्यः। तत्त्वं तस्मिन् पदार्थेऽस्तीति दोषरूपहेत्वाभासलक्षणसमन्वयः। दोषवत्त्वेन हेतोः दुष्टत्वसम्पादनाय परं गगनीयत्वाभाववदरविन्दम् अरविन्दत्वं च इति समूहालम्बनं ज्ञानमादाय एकज्ञानविषयप्रकृतहेतुतावच्छेदकं यत् अरविन्दत्वत्वं तद्वत्त्वं अरविन्दत्वहेतौ अस्तीति तस्यापि दुष्टत्वनिर्वाहः कार्यः ।

  • सम्प्रति पक्षविशेष्यकभ्रममादायैव असिद्धप्रकारान्तरमाह - स्वरूपासिद्धः इति। परामर्शस्य हेतौ व्याप्त्यवगाहित्वमिव पक्षे हेतुप्रकारकत्वमपि असकृत् चिन्तितम्। तत्र शब्दः गुणः चाक्षुषत्वात् इति उदाहृतस्थले शब्दरूपे पक्षे गुणत्वसाधनाय उपन्यस्तः यः चाक्षुषत्वं हेतुः सः तत्र नास्ति । अतः पक्षे हेत्वभावेऽपि तदवगाहित्वात् भवति परामर्शः भ्रमः । शब्दः चाक्षुषत्वाभाववान् इति निश्चयः, शब्दः गुणत्वव्याप्य-चाक्षुषत्ववान् इति परामर्शं प्रति पक्षे हेतुमत्तावगाहित्वांशे प्रतिबन्धकः ।

तथा च शब्दत्वावच्छिन्नविशेष्यतानिरूपितचाक्षुषत्वत्वावच्छिन्नप्रकारताशालि- बुद्धित्वावच्छिन्नप्रतिबध्यतानिरूपितशब्दत्वावच्छिन्नविशेष्यतानिरूपितचाक्षुषत्वा-

भावत्वावच्छिन्नप्रकारताशालिनिश्चयत्वावच्छिन्नप्रतिबन्धकताश्रयः भवति अयं निश्चयः। स च शब्दः चाक्षुषत्ववान् इति बुद्धिं प्रति तदभाववत्तानिश्चयमुद्रया प्रतिबन्धको भवति । तत्पदेन चाक्षुषत्वम्। तदभावः चाक्षुषत्वाभावः। तदभाववान् शब्दः। तदभाववत्ता शब्दे इति अयं भवति तदभाववत्तानिश्चयः । अस्य निश्चयस्य प्रमारूपत्वेन अस्य विषयोऽपि प्रकारात् प्रभृति विशेष्यपर्यन्तं निरूपयितुं शक्यः।

अतः हेत्वाभासलक्षणघटकयत्पदेन स एव स्वीक्रियते । यद्विषयकत्वेन चाक्षुषत्वाभाववच्छब्दविषयकत्वेन निश्चयस्य, शब्दः चाक्षुषत्वाभाववान् इति निश्चयस्य, परामर्शप्रतिबन्धकत्वं भवतीति तत्पदेन तस्यैव ग्रहणे, तत्त्वं चाक्षुषत्वाभावच्छब्दे अस्तीति

[[२७३]]

सोपाधिककथनम्

तत्र हेत्वाभासलक्षणसमन्वयः। तादृशदोषवत्त्वेन हेतोः दुष्टत्वसम्पादनाय समूहालम्बन- निश्चयः चाक्षुषत्वाभाववच्छब्दः चाक्षुषत्वं च इत्याकारकः ग्राह्यः। तादृशैकज्ञानविषय- प्रकृतहेतुतावच्छेदकं चाक्षुषत्वत्वं, तद्वत्त्वं चाक्षुषत्वे अस्तीति चाक्षुषत्वं दुष्टम् इति सिद्धम्।

  • सोपाधिककथनम्

उक्तेषु वक्ष्यमाणेषु च हेत्वाभासेषु तद्विषयकनिश्चयः परामर्श, तज्जन्याम् अनुमितिं वा प्रतिबध्नाति । सम्प्रति यः निरूप्यते व्याप्यत्वासिद्धः तत्र उपाधिपदार्थः निरूप्यः। ततः हेतुः तादृशोपाधिमान् इति ज्ञातव्यम् । तेन च हेतुः साधारणः इति ज्ञायते। साधारणश्च (पृ.२५१) निरूपितरीत्या परामर्शविरोधी । एवञ्च अधुना निरूप्यस्य उपाधेः न अन्य हेत्वाभासवत् प्रतिबन्धकत्वम् । किन्तु प्रसिद्ध- हेत्वाभासज्ञापनद्वारा इति विशेषः ।

अथ कोयमुपाधिः? उच्यते। यः स्वधर्मम् अन्यत्र विद्यमानमिव बोधयति। २७४ यथा स्फटिकस्य लौहित्ये रक्ततायां जपापुष्पमुपाधिः । जपापुष्पं हि स्वस्य लौहित्यं समीपवर्तिनि स्फटिके अविद्यमानमपि बोधयति । प्रकृतेऽपि अव्याप्ये, अत एव साधारणे हेतौ वस्तुतः व्याप्तेरसत्वेऽपि स्वस्मिन् विद्यमाना साध्यव्याप्तिः अनेन बोध्यते इति सः भवति उपाधिः। तेन च उपाधिना युक्तः हेतुः सोपाधिकः इत्युच्यते। तं सम्प्रति

आह

सोपाधिको हेतुः व्याप्यत्वासिद्धः। साध्यव्यापकत्वे सति साधनाव्यापकत्वम् उपाधित्वम् । साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम्। साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम् । यथा पर्वतो धूमवान्वह्निमत्वादित्यत्र आर्द्रेन्धनसंयोग उपाधिः । तथा हि यत्र धूमस्तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकत्वम् । यत्र वह्निस्तत्रार्द्रेन्धनसंयोगो नास्ति । अयोगोलके आर्द्रेन्धनसंयोगाभावादिति साधनाव्यापकत्वम् ।

सोपाधिककथनम्

एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वादार्द्रेन्धनसंयोग उपाधिः । सोपाधिकत्वात् वह्निमत्त्वं व्याप्यत्वासिद्धम् इति ।

तस्य सञ्ज्ञान्तरमाह व्याप्यत्वासिद्ध इति । तत्र सोपाधिकत्वज्ञानाय उपाधि- लक्षणमाह। साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिरिति ।

साध्यव्याप्यत्वं साधनाव्यापकत्वं चोपाधिधर्मौ इति तौ स्वयं न उपाधिरूपौ । अतः अत्रत्यमुपाधिपदं तद्धर्मपरम्। तथा च साध्यव्यापकत्वे सति साधनाव्यापकत्वम् उपाधित्वम् इति अर्थः।

एतावता ग्रन्थकृता व्यापकत्वस्य परिष्कारः न स्वयं दर्शितः अतः तमेव सम्प्रति आह साध्यसमानाधिकरणेति । उपाधिलक्षणघटकं द्वितीयं दलमाह - साधनेति । साधनं प्रकृतहेतुः। उपाधिनिरूपणाय स्थलमुदाहरति । पर्वतः इति । पर्वतः धूमवान् वह्नेः इति हि स्थलम्। पर्वतः इति पक्षः, धूमः साध्यम्, वह्निर्भवति हेतुः । अत्र आर्द्रेन्धनसंयोगः उपाधिः। कोयमार्द्रन्धनसंयोगः? आर्द्रं जलसंयुक्तं वह्निसंयुक्तं च इन्धनं काष्ठादि तस्य संयोगः भवति प्रकृते उपाधिः ।

कथं तस्योपाधित्वम्? को नाम तस्य धर्मः ? कथं सः तं धर्मम् अन्यत्र बोधयति? कुत्र च धर्मं बोधयति? तस्य धर्मः धूमनिरूपिता व्याप्तिः। यत्र हि जलसंयुक्तं वह्निसंयुक्त- मिन्धनं संयोगेन भवति, पर्वतादौ, तत्र धूमः अवश्यं भवति। अतः धूमः भवति आर्द्रेन्धन- संयोगस्य व्यापकः। तुल्यवित्तिवेद्यतया आर्द्रेन्धनसंयोगः भवति धूमस्य व्याप्यः। या आर्द्रेन्धनसंयोगे विद्यमाना धूमव्याप्तिः सा समीपवर्तिनि वह्नौ अपि अस्ति इति भवति कस्यचित् भ्रमः। अतः स्वधर्मस्य धूमव्याप्तेः अन्यत्र भ्रमजनकत्वात् उपाधित्वम् आर्द्रेन्धनसंयोगस्य ।

  • एतच्च आर्द्रेन्धनसंयोगे उपाधिपदव्यवहारसामञ्जस्याय उक्तम् । परन्तु तेन उपाधौ साध्यव्याप्तिः उक्ता भवति । तच्च प्राचीनमतम् । ग्रन्थकृता तु नवीनमतरीत्या उपाधित्वं परिष्कृतम्। तस्य समन्वयमाह यत्र धूम इति । धूमाधिकरणानि पर्वतादयः,

[[२७५]]

[[२७६]]

सोपाधिककथनम्

तत्र विद्यमानः अभावः न हि आर्द्रेन्धनसंयोगो नास्तीत्यभावः किन्तु घटो नास्तीति अभावः तत्प्रतियोगित्वं घटे प्रतियोगित्वाभावरूपव्यापकत्वम् आर्द्रेन्धनसंयोगेऽस्तीति प्रथमदल-समन्वयः ।

द्वितीयदले साधनपदेन वह्निमादाय अव्यापकत्वम् आर्द्रेन्धनसंयोगे दर्शयति यत्र वह्निः इति। वह्नयधिकरणं यथा पर्वतादयः तथा तप्तायःपिण्डोऽपि। तप्तः, वह्निसंयुक्तः अयसः लोहस्य पिण्डः । तत्र वह्निसत्वेऽपि जलसंयोगाभावेन आर्द्रत्वं नास्तीति आर्द्रेन्धनसंयोगो नास्तीति अभावः लभ्यते। तत्प्रतियोगित्वमेव आर्द्रेन्धनसंयोगेऽस्तीति वह्निं प्रति अव्यापकत्वं तस्य आगतम्। अतः आर्द्रेन्धनसंयोगे धूमव्यापकत्वं वह्निं प्रति व्यापकत्वमागतम्।

यत्र हि एवंविधः कश्चित् पदार्थः अस्तीति ज्ञायते, तत्र हेतोः साध्यव्यभिचारित्वं अपि ज्ञायते। तथा हि - दर्शितरीत्या आर्द्रेन्धनसंयोगः धूमव्यापकः इत्यागतम्।

तेन अधिकरणगणनायां धूमस्य यानि पश्च अधिकरणानि तत्र सर्वत्र आर्द्रेन्धनसंयोगोऽस्तीति लब्धम्। द्वितीयदलेन वह्निं प्रति तस्य अव्यापकत्वं दर्शितम् । तेन अधिकरणगणनायां वह्नेः यानि दश अधिकरणानि तेषु क्वचन तप्तलोहपिण्डादौ आर्द्रेन्धनसंयोगो नास्तीति आगतम् । इत्थञ्च धूमस्य सर्वेषु पञ्चसु अधिकरणेषु स्थितः आर्द्रेन्धनसंयोगः यदि नास्ति तदा व्यापकस्य तस्य अभावेन धूमोऽपि वह्नयधिकरणे क्वचित् नास्तीति गम्यते।

निरूपिता

साध्यम् (धूमः)

वृत्तित्वम्

अभावः

अधिकरणम्

चि.स.१९१

प्रतियोगिता

घटः

अभावः

आर्द्रेन्धनसंयोगः

घटत्वादिदृष्टान्तेन वह्नौ धूमव्यभिचारसमर्थनम्

वह्निः

प्रतियोगिता

वृत्तित्वम्

निरूपिता

अधिकरणम् (तप्तलोहपिण्डः)

अभावः

आर्द्रेन्धनसंयोगः

चि.स.१९२

एताभ्यां चित्राभ्यां आर्द्रेन्धनसंयोगरूपोपाधेः साध्यव्यापकत्वे सति साधना-

व्यापकत्वं साधितम्।

सम्प्रति घटत्वादिदृष्टान्तेन वह्नेः धूमाभाववद्वृत्तित्वमवगच्छामः।

घटत्वम्

पृथिवीत्वम्

द्रव्यत्वम्

शतमधिकरणानि

पटाद्यधिकरणानां नव शतानि

जलाद्यधिकरणानां

[[२७७]]

नव सहस्राणि

व्यापकत्वम्

घटत्वम्

पृथिवीत्वम्

द्रव्यत्वम्

अभावः

अभावः

[वृत्तित्वम्

जलाद्यधिकरणानि

चि.स.१९३

  • घटत्वादिदृष्टान्तेन वह्नौ धूमव्यभिचारसमर्थनम्

अत्रापि प्रसिद्धस्थले इत्थमेव वर्णनं सम्भवति । घटत्वस्य शतम् अधिकरणानि इति मन्यामहे । पृथिवीत्वस्य च अधिकरणानां तत् शतम्, अन्यानि च नव शतानि

[[२७८]]

घटत्वादिदृष्टान्तेन वह्नौ धूमव्यभिचारसमर्थनम्

इति आहत्य अधिकरणानां सहस्रं भवति। अतः पृथिवीत्वं घटत्वस्य व्यापकमिति आगतम्। द्रव्यत्वजातेस्तु अधिकरणानां पूर्वोक्तं सहस्रम्, अन्यानि च नव सहस्राणि इति मिलित्वा अधिकरणानामयुतं भवति इति स्थितिः ।

तत्र द्रव्यत्वं तावत् घटत्वव्यापकस्य पृथिवीत्वस्यैव व्यभिचारि भवति चेत् सुतरां घटत्वस्य व्यभिचारि भवति । पृथिवीत्वाभाववति जले विद्यमानं द्रव्यत्वं घटत्वाभाववति पटे सुतरां भवति। अतः व्यापकव्यभिचारी व्याप्यस्यापि व्यभिचारीति नियमः सिद्ध्यति।

प्रकृतेऽपि धूमव्यापकस्य आर्द्रेन्धनसंयोगस्य यदि वह्निः व्यभिचारी, सुतरां व्याप्यस्य धूमस्यापि व्यभिचारी इति वह्निः धूमाभाववद्वृत्तित्ववान् इति ज्ञायते। अयं साधारणनिश्चयः वह्निः धूमव्याप्यः इति परामर्शे व्याप्त्यंशे प्रतिबन्धको भवति । हेत्वाभासीयनवपदार्थनिरूपणात् प्राक् व्याप्यत्वासिद्धिस्थले चित्राणि कीदृशानि इति

पश्यामः ।

धूमः

आर्द्रेन्धनसंयोगः

वह्निः

पञ्चाधिकरणानि

सप्त अधिकरणानि

दशाधिकरणानि

चि.स. १९४

व्यापकत्वम्

धूमः

आर्द्रेन्धनसंयोगः

वह्निः

अभावः

अभावः

वृत्तित्वम्

तप्तायःपिण्डः

चि.स.१९५

चित्रे दर्शितरीत्या आर्द्रेन्धनसंयोगाभाववद्वृत्तित्वं यथा वह्नौ ज्ञायते तथा

तदधिकरणे धूमो नास्तीति अपि ज्ञायते ।

बाधलक्षणम्

  • मास्तु धूमः किन्तेन ? उच्यते । वह्निश्च प्रकृतानुमाने हेतुः । तदधिकरणे साध्यस्य, धूमस्य अभावः ज्ञातश्चेत् तुल्यवित्तिवेद्यतया धूमाभावाधिकरणे वह्निवृत्तित्वमपि ज्ञातमिति साध्याभावाधिकरणवृत्तित्वरूपसाधारणत्वं वह्नौ ज्ञातमेव ।

तथा च घटत्वव्यापकपृथिवीत्वाभाववति जलादौ द्रव्यत्वस्यत्वात् यथा द्रव्यत्वं घटत्वव्यभिचारीति गम्यते, तद्वदेव धूमव्यापकार्द्रेन्धनसंयोगाभाववति तप्तायःपिण्डादौ वह्नेः सत्वात् वह्निः धूमव्यभिचारी इति निश्चीयते । स च निर्णयः वह्निः धूमाभाववद्- वृत्तित्ववान् इत्याकारकः परामर्शे व्याप्त्यंशे तदभाववत्तानिश्चयमुद्रया प्रतिबन्धको भवति। एवं च वह्नित्वावच्छिन्नविशेष्यतानिरूपितधूमाभाववद्वृत्तित्वाभावत्वावच्छिन्नप्रकारता- शालिबुद्धित्वावच्छिन्नप्रतिबध्यतानिरूपितवह्नित्वावच्छिन्नविशेष्यतानिरूपितधूमाभाववद्- वृत्तित्वत्वावच्छिन्नप्रकारताशालिनिश्चयत्वावच्छिन्नप्रतिबन्धकताश्रयो यं वह्निः धूमाभाववद्वृत्तित्वाभाववान् इति बुद्धिं प्रति तदभाववत्तानिश्चयमुद्रया प्रतिबन्धको भवति ।

तत्पदेन धूमाभाववद्वृत्तित्वाभावः पूर्वपक्षव्याप्तिरूपः ग्राह्यः। तदभावः धूमाभाववद्वृत्तित्वाभावाभावः धूमाभावववृत्तित्वरूपः तादृशाभाववान् वह्निः तादृशाभाववत्ता वह्नौ। प्रतिबन्धकज्ञानविषयः धूमाभाववद्वृत्तिवह्निः हेत्वाभासलक्षण- घटकयत्पदेन स्वीकार्यः। तद्विषयकनिश्चयस्य परामर्शप्रतिबन्धकता दर्शिता एव। अतः तत्पदेन तस्यैव ग्रहणे तत्त्वं धूमाभाववद्वृत्तिवह्नौ अस्तीति हेत्वाभासलक्षणसमन्वयः। तस्य हेतुनिष्ठत्वसम्पादनं तु तद्विषयकं हेतुविषयकं च समूहालम्बनं ज्ञानमादाय । एकज्ञानविषयप्रकृतहेतुतावच्छेदकं वह्नित्वं, तद्वत्त्वं वह्नौ अस्तीति हेतौ दुष्ट इति व्यवहारः

उपपन्नः।

[[२७९]]

  • बाधलक्षणम्

यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः। यथा वह्निरनुष्णो द्रव्यत्वात् । अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं स्पार्शनप्रत्यक्षेण गृह्यत

इति बाधितत्वम् । व्याख्यातमनुमानम् ।२८०

बाधलक्षणम

क्रमप्राप्तस्य बाधस्य लक्षणमाह यस्य साध्याभाव इति। हेतुसम्बन्धि यत्साध्यं तस्य अभावः इत्यर्थः। प्रमाणान्तरेण अनुमानातिरिक्तप्रमाणेन निश्चितः सः हेतुः बाधितः। तमुदाहरति - वह्निरनुष्णः द्रव्यत्वादिति । अत्रत्या रीतिः हेत्वाभासप्रकरणादौ (पृ.२४७) निरूपिता एव । क्रमेण पदार्थनिरूपणं तावत्कर्तव्यम् ।

वह्निः अनुष्णत्ववान् इति अनुमितिं प्रति वह्निः अनुष्णत्वाभाववान्, वह्निः उष्णत्ववान् इति वा निश्चयः समानाकारकत्वात् विरोधी भवति । वह्नित्वावच्छिन्न- विशेष्यतानिरूपितानुष्णत्वत्वावच्छिन्नप्रकारताशालिबुद्धित्वावच्छिन्नप्रतिबध्यता- निरूपितवह्नित्वावच्छिन्नविशेष्यतानिरूपितोष्णत्वत्वावच्छिन्नप्रकारताशालि- निश्चयत्वावच्छिन्नप्रतिबन्धकताशाली अयं निश्चयः वह्निः अनुष्णत्ववान् इति बुद्धिं प्रति तदभाववत्तानिश्चयमुद्रया प्रतिबन्धको भवति । तत्पदेन अनुष्णत्वं, तदभावः उष्णत्वं तादृशाभाववान् वह्निः, तदभाववत्ता वह्नौ भवति ।

अस्य निश्चयस्य प्रमारूपत्वेन प्रकारात् प्रभृति विशेष्यपर्यन्तं पदार्थः उष्णत्व- वद्वह्निः हेत्वाभासलक्षणघटकयत्पदेन ग्रहीतुं शक्यः । तद्विषयकनिश्चयस्य अनुमिति- प्रतिबन्धकत्वमपि दर्शितमिति तत्त्वम् उष्णत्ववद्वह्नौ अस्तीति हेत्वाभासलक्षण- सङ्गतिः। हेतोः दुष्टत्वसम्पादनाय परम् उष्णत्ववद्वह्निः द्रव्यत्वं च इति समूहालम्बनं स्वीकार्यम्। एकज्ञानविषयप्रकृतहेतुतावच्छेदकं द्रव्यत्वत्वं तद्वत्त्वं द्रव्यत्वे अस्तीति दुष्टे लक्षणसमन्वयः इति सर्वं समञ्जसम् ।

  • अनुपसंहारी

अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी ।

यथा सर्वमनित्यं प्रमेयत्वादिति । अत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तो नास्ति ।

निरूपिताः अनुपसंहारिणं विहाय अन्ये हेत्वाभासाः। अनुपसंहारी तु न निरूपितः। कुतः? अस्ति कश्चित् क्लेशः। कः क्लेशः ? अन्यस्मिन् हेत्वाभासे यथा इदं प्रतिबध्यज्ञानम्, अयं विरोधिनिश्चयः, तस्यायं विषयः इत्येवं निरूपणं सम्भवति, तथात्र न भवति ।

अनुपसंहारी

तदेतत् सम्यक् परिज्ञातुमादौ सङ्ग्रहोक्तम् अनुपसंहारिणं चिन्तयामः। स च सङ्ग्रहकृता इत्थं लक्षितः अन्वयव्यतिरेकदृष्टान्तरहितः अनुपसंहारी इति। उदाहरणं चोक्तं यथा सर्वमनित्यं प्रमेयत्वादिति । हेतुसाध्ययोः व्याप्तिग्रहः यस्मिन् अधिकरणे भवति सः अन्वयदृष्टान्तः इत्युच्यते। पर्वते धूमेन वह्निसाधने महानसं तथाविधम् । तत्र खलु हेतुरस्ति साध्यमपि अस्ति इति अन्वयव्याप्तिग्रहो भवति ।

साध्याभावहेत्वभावयोः व्याप्तिग्रहः यदधिकरणे भवति, सः व्यतिरकेदृष्टान्तः इत्युच्यते। यथा तस्मिन् एव स्थले जलह्रदः।

क्वचित् हेतौ अन्वयदृष्टान्त एव उपलभ्यते, न तु व्यतिरकेदृष्टान्तः। यथा घटः अभिधेयः प्रमेयत्वात् इत्यत्र साध्याभावहेत्वभावयोः अप्रसिद्धत्वात् तद्घटिता व्यतिरेकव्याप्तिः नैव शक्या ग्रहीतुम् ।

पृथिवी इतरेभ्यो भिद्यते इत्यत्र तु अनुमितेः पूर्वं न क्वचित् साध्यं प्रसिद्धमिति नान्वयव्याप्तिग्रहः। तदेतदुभयं केवलान्वयिनिरूपणे, केवलव्यतिरेकिनिरूपणे निरूपितम् ।

तत्र केवलान्वयिनि, व्यतिरेकदृष्टान्ताभावेऽपि अन्वयदृष्टान्तो वर्तते। तत्र च व्याप्तिज्ञानसम्भवात् अनुमित्युत्पत्तौ न कोऽपि क्लेशः । केवलव्यतिरेकिणि अपि व्यतिरेक- दृष्टान्तः अस्ति। अतः अनुमित्युत्पत्तिः सम्भवति । परन्तु प्रकृतोदाहरणे, सर्वमनित्यं प्रमेयत्वात् इत्यत्र पक्षनिर्देशः सर्वम् इति कृतः । सर्वपदस्य हि एषः स्वभावः । तत् यदि अन्येन, विशेष्यवाचकेन सम्बद्धं भवति तदा तदर्थस्य सर्वत्वं बोधयति । यथा सर्वे घटाः इत्युक्तौ विशेष्यस्य घटस्य सर्वत्वं बोधयति। यदा तु केवलं सर्वपदमेव प्रयुज्यते, तदा सङ्कोचकं न किञ्चिदस्ति। अतः जगन्मात्रं बोधयति। सङ्ग्रहोक्तविभागरीत्या तु सप्तापि पदार्थान् बोधयति ।

एवं सति, सर्वमनित्यम् इति प्रतिज्ञायां सर्वपदं पक्षबोधकं सर्वस्य जगतः पक्षत्वं ज्ञापयति। पक्षश्च सः भवति यत्र साध्यस्य संशयः । तथा चास्मिन् अनुमाने जगन्मात्रं पक्षः।

[[२८१]]

[[२८२]]

अनुपसंहारी

न च तर्हि अनुमितेः पूर्वं तादृशं स्थलं लभामहे यत्र हेतुसाध्ययोः अन्वय- व्याप्तिज्ञानं भवेत्। नापि तथाविधं स्थलं, यत्र साध्याभावहेत्वभावयोः व्याप्तिज्ञानं भवेत्। अतः अस्मिन् अनुपसंहारिणि अन्वयव्याप्तिज्ञानं नोत्पद्यते, व्यतिरेकव्याप्तिज्ञानं च नोत्पद्यते इत्यागतम् ।

ज्ञानं नोत्पद्यते इत्येतावता कस्य केन प्रतिबन्धः ? अन्येषु हेत्वाभासेषु परामर्शानुमित्योः कश्चित् अंशः अस्माभिः स्वीक्रियते, यदंशे तज्ज्ञानं भवति भ्रमः। तत्र च भवति तत्तद्धेत्वाभासज्ञानं प्रतिबन्धकम् । इह तु व्याप्तिज्ञानं नोत्पद्यते, न तावता कस्यचित् प्रतिबन्धः ।

यथा हि कश्चित् सुप्तः पुरुषः, न अन्वयव्याप्तिमवगच्छति, व्यतिरेकव्याप्तिं चापि नावगच्छति, तावता तत्पुरुषं प्रति अयं हेत्वाभासः इति न व्यवहर्तुं शक्यम्। कुतः ? परामर्शानुमित्त्योः प्रतिबन्धाभावात्। तद्वदेव अस्मिन् स्थले दृष्टान्ताभावेन उभयविधस्यापि व्याप्तिज्ञानस्य अनुत्पत्तौ अपि परामर्शानुमित्योः प्रतिबन्धाभावात् हेत्वाभासवर्णनं न सम्भवति ।

  • हेत्वाभासलक्षणं तावत् यद्विषयकत्त्वेन ज्ञानस्य अनुमितिपरामर्शान्यतर- विरोधित्वं तत्वमिति कृतम्। तत्र च कश्चन पदार्थः ग्रहीतव्यः । तद्विषयकेन निश्चयेन अनुमितेः परामर्शस्य वा प्रतिबन्धः सम्पादनीयः। ततः मुद्रादिपदार्थान् वर्णयित्वा खलु अस्माभिः तत्र तत्र हेतौ लक्षणसमन्वयः कार्यः । प्रकृते न किञ्चित् विरोधिज्ञानं ब्रूमः येन तयोः प्रतिबन्धो भवेत् । ज्ञानाभाव एव तत्र वक्तुं शक्यः । एतादृशक्लेशः प्रकृते अस्तीति साधारणादिनिरूपणे नायमस्माभिः निरूपितः।

अमुं क्लेशमभिसन्धाय नवीनैः अनुपसंहारी एव परिवर्तितः। तथा हि - तेषां मते यत् केवलान्वयि साध्यं तादृशं यत् किञ्चित् स्थलं वक्तव्यम् । निदर्शनाय घटः अभिधेयत्ववान् पृथिवीत्वात् इति स्वीकुर्मः । अत्र च साध्याभावः (पृ. २११ ) दर्शितरीत्या अप्रसिद्धः। एवं सति कश्चित् वादी यदि व्यतिरेकव्याप्तिं बोधयितुं व्यतिरेकदृष्टान्तं ब्रूयात् तर्हि अत्र प्रतिबध्यप्रतिबन्धकभावः वक्तुं शक्यः।

साध्याभावव्यापकाभावप्रतियोगित्वं

खलु व्यतिरेकव्याप्तिः। अत्र साध्याभावः प्रविष्टः ।

तत्र (पृ.१८४,२०८) दर्शितरीत्या यथा

अनुपसंहारी

साध्यम्

अत्यन्ताभावः

अभावांशे प्रतियोगितासम्बन्धेन साध्यं विशेषणं, अत्यन्ताभावः

तुल्यवित्तिवेद्यतया साध्येऽपि अभावः

अनुयोगितासम्बन्धेन विशेषणम् ।

साध्यम्

चि.स.१९६

परन्तु अभिधेयत्वादि साध्यं च अत्यन्ताभावस्य अप्रतियोगि इत्यपि (पृ.२११) निरूपितमेव। एवं सति व्यतिरेकव्याप्त्यंशे यः साध्याभावग्रहः तत्तुल्यग्रहः साध्यम् अत्यन्ताभावप्रतियोगि इति ग्रहः । तं प्रति साध्यम् अत्यन्ताभावाप्रतियोगि इति निश्चयः प्रतिबन्धको भवति । तद्विषयः अत्यन्ताभावाप्रतियोगि-अभिधेयत्वं पूर्वोक्तस्थले अनुपसंहारी भवति । अस्य निश्चयस्य पूर्ववत् समानाकारकत्वं, मुद्रा इति सर्वं वक्तुं शक्नुमः । एवमेव केवलान्वयिहेतुकेऽपि वक्तव्यमिति ।

सङ्ग्रहकृता परम् एतादृशलक्षणं बुद्धौ अनिधाय सव्यभिचारे अनुपसंहारी परिगणितः। यथा हि साधारणासाधारणयोः स्थले प्रतिबन्धकज्ञानसत्वेन परामर्शः नोत्पद्यते फलतश्च अनुमितिः नोत्पद्यते, तथैव अनुपसंहारिणि उभयविधदृष्टान्ताभावात् व्यप्तिज्ञानं न जायते, व्याप्तिज्ञानाभावात् परामर्शः नोत्पद्यते फलतश्च अनुमितिः नोत्पद्यते । अत एव सव्यभिचारे सः गणितः । अत्र हि त्रयः अपि परामर्शस्य अनुत्पत्तिं प्रयोजयन्ति। आद्यौ द्वौ विरोधिज्ञानसम्पादनेन। अन्त्यस्तु जनकं यत् व्याप्तिज्ञानं तदभावसम्पादनेन इति। अनुपसंहारिणि दृष्टान्ताभावेन व्याप्तिज्ञानाभावात् परामर्शानुत्पादः उक्त एव। तदनेन प्रकारेण सद्धेतोः हेत्वाभासस्य च विस्तरेण निरूपणं कृतम्।

इति श्रीगोडाकुलाब्धिपूर्णचन्द्रमहामहोपाध्यायश्रीसुब्रह्मण्यगुरुचरणान्तेवासिनः देवदत्तस्य कृतौ तर्कसङ्ग्रहव्याख्यायां विद्याधरीसञ्ज्ञकायाम् अनुमानखण्डः।


[[२८३]]