०५ अनुमाननिरूपणम्

  • अनुमाननिरूपणम् अनुमितिकरणमनुमानम् ।

परामर्शजन्यं ज्ञानमनुमितिः ।

अनुमाननिरूपणम्

अथ अनुमानं निरूप्यते। संस्कारनिरूपणे (पृ.१२५) एवं ज्ञायमानस्य कारणत्वव्यवस्थापनप्रकरणे (पृ. १५६) विषयोऽयं सङ्क्षेपतः निरूपितः, येन काचन पूर्वालोचना सम्भवति । सम्प्रति विस्तरेण सर्वोऽपि अर्थः निरूप्यते। चैत्रः अनुगच्छति, अनुभुङ्क्ते, इत्यादिप्रयोगस्थले इदमवगच्छामः, आदौ किञ्चित् गमनं भवति ततः चैत्रः गच्छति। आदौ कश्चित् भुङ्क्ते ततः चैत्रः भुङ्क्ते । एवञ्च तुल्यक्रियाद्वयं यत्र भवति तत्र अनु इति उपसर्गस्य प्रयोगः भवतीति आगतम्।

प्रकृते अस्ति अनुमान इति शब्दः । तत्रास्ति भागत्रयम् अनु+मा+अन। अत्र मा इत्यस्य धातोः ज्ञानमर्थः इति प्रमालक्षणस्थले उक्तमेव । तथा च अनुगच्छति इत्यादौ पश्चात् जायमानं गमनमिति यथा बोधः, तथैव अनु + मा इत्यनेन पश्चात् जायमानं ज्ञानमिति लभ्यते। तत्पूर्वं च ज्ञानरूपा क्रिया एव भवेत् इत्यपि गमनदृष्टान्तेन १७९ सिद्ध्यति। तेन ज्ञानोत्तरं जायमानं ज्ञानमिति अर्थः अनुमा इति पदेन लभ्यते।

तस्याः च अनुमायाः कारणबोधनाय करणार्थकः अनप्रत्ययः व्याकरणेन विहितः। अतः अन इत्यस्य करणम् इत्यर्थः । (पृ.१४४) दर्शितरीत्या करणमित्यस्य असाधारणकारणमित्यर्थः। तथा च अनु इति उपसर्गः, मा इति धातुः अन इति प्रत्ययः एतैः त्रिभिः मिलित्वा ज्ञानोत्तरं जायमानस्य ज्ञानस्य असाधारणकारणमिति अर्थः फलति। कार्यकारणभावनिरूपणावसरे अभिहितमेव (पृ.२९) अस्माभिः यत् (१) कार्याधिकरणे (२) कार्योत्पत्तेः पूर्वक्षणे (३) सर्वदा विद्यमानं कारणमिति एवं सति ज्ञानोत्तरं जायमानं ज्ञानम् अनुमा इति कथने अनुमायाः पूर्वं ज्ञानमस्ति इति आगतम्। तदेव च अनुमायाः असाधारणं कारणमपि भवति। इदमादौ चित्रेण

अवगच्छामः ।पक्षसाध्यहेतुनिरूपणम्

अनु-पश्चात्

पूर्वं जायमानं

जायमानं ज्ञानम्

ज्ञानम्

अनुमानम्

अनुमा

अनुमितिः

असाधारणं कारणम्

चि.स.१३१

कारणेन पूर्ववर्तिना भाव्यमिति उक्तत्वात् अनुमानमिति यदुक्तं यच्च पूर्वं जायमानं ज्ञानम् इति उक्तम् तदुभयम् एकम् अभिन्नमिति लभ्यते।

  • पक्षसाध्यहेतुनिरूपणम्

अथ केयम् अनुमा अनुमितिः १ चक्षुषा असन्निकृष्टस्यापि वह्नेः, वह्निधूमयोः सम्बन्धज्ञानात् पर्वते जायमानं ज्ञानं पर्वतः वह्निमान् इत्याकारकम् । अत्र विशेष्यविधया पर्वतः, संसर्गः संयोगः, वह्निश्च प्रकारविधया भासते। अस्याः अनुमितेः असाधारणकारणं १८० ज्ञानम् अनुमानमित्युच्यते । एतज्ज्ञानवर्णनाय आदौ पक्षसाध्यादिपदानामर्थज्ञानमावश्यकम्।

अतः आदौ तान् अर्थान् चिन्तयामः। अनुमितेः पूर्वं अज्ञातं यत् अनुमितौ विषयो भवति तत् साध्यम् इत्युच्यते । यत्र च तादृशं साध्यं सिद्ध्यति सः पक्षः इत्युच्यते । यज्ज्ञानात् च पक्षे साध्यसिद्धिः सः पदार्थः हेतुः इत्युच्यते । प्रकृतोदाहरणे अज्ञातः वह्निः अनुमितिविषयः इति सः साध्यम् । स च पर्वते सिद्ध्यति इति पर्वतः पक्षः । पर्वते च धूमज्ञानात् वह्निः सिद्ध्यति इति धूमः हेतुः साधकः वा इत्युच्यते ।

पदस्वभावमादाय व्याप्तिपदार्थनिरूपणम्

कथं हि धूमः साधकः ? उच्यते। अस्ति धूमे वह्निसम्बन्धः व्याप्तिसञ्ज्ञकः। व्याप्ति इति पदं पञ्च पदार्थान् बोधयति । सत्यम्, पदं बोधकम् । कथं तु तत् पञ्च पदार्थान् बोधयति ? उच्यते। पदानां बोधकता प्रसिद्धैव । घट इति पदं यदि स्वीकुर्मः, तेन पदेन घटः, घटत्वं, समवायः इति त्रयाणामर्थानां ज्ञानं भवति।

(१) (बोधः, ज्ञानम्

(बोधजनकता)

बोधकता

पदस्वभावमादाय व्याप्तिपदार्थनिरूपणम्

(बोधविषयत्वम्)

घटपदम्

बोध्यता

घटत्वम्

समवायः

घटः

चि.स.१३२

(२) इदानीम् अन्यत्, स्वर्गपदं स्वीकुर्मः । इदं च सुखं बोधयति। परन्तु तत्सुखं न शुद्धं सुखम्। किन्तु दुःखेन असङ्कीर्णम् । सुखधारा तादृशी यत्र ईषदपि दुःखं न स्यादिति यावत्। इदमेव सुखं दुःखासम्भिन्नम् इति श्रूयते। तथा च स्वर्गपदेन दुःखासम्भिन्नं सुखं बोध्यते ।

बोधकता

बोध्यता

स्वर्गेपदम्

दुःखासम्भिन्नत्वम्

स्वरूपम्

सुखत्वम्

समवायः

[[१८१]]

सुखम्

चि.स.१३३

पूर्वपदात् अस्य इदं वैलक्षण्यं यत् अत्र आश्रयः एकम् एव सुखम्। परन्तु

प्रकारौ द्वौ । पूर्वत्र तु विशेष्यं प्रकारश्च एकः ।

(३) पुष्पवन्त इति पदं सम्प्रति पश्यामः । कोशे अभिहितम् - एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ ।

सकृत् उच्चरितमेव पुष्पवन्तपदं सूर्यं चन्द्रमसं च बोधयति इति तदर्थः ।

[[१८२]]

गमनपदेन कस्य बोधः ?

सूर्यत्वम्

चन्द्रत्वम्

बोधकता

बोध्यता

समवायः

समवायः

सूर्यः

चन्द्रः

पुष्पवन्तपदम्

चि.स.१३४

कोऽस्य पदस्य विशेषः ? अत्र द्वौ प्रकारौ, तयोः विशेष्यौ अपि भिन्नौ । स्वर्गपदस्थले एकस्मिन्नेव सुखे उभयोः प्रकारत्वम्। इह तु सूर्ये सूर्यत्वं’ प्रकारः, चन्द्रत्वं` प्रकारः इति विशेष्यद्वयं प्रकारद्वयं च ।

  • गमनपदेन कस्य बोधः ?

(४) गमन इति पदं सम्प्रति पश्यामः।

उत्तरदेशे यः संयोगः, तज्जनकक्रिया गमनपदेन बोध्यते ।

चन्द्रे

उत्तरदेशः

संयोगः

बोधकता

बोध्यता

जनकत्वम्

गमनपदम्

क्रिया(व्यापारः)

चि.स.१३५

इह हि चत्वारः पदार्थाः ज्ञाने विषयाः । तत्रापि क्रियायां जनकत्वं प्रकारः । जनकत्वे संयोगः प्रकारः, संयोगे उत्तरदेशः प्रकारः । इति उत्तरोत्तरविशेष्यविशेषण- भावापन्नाः चत्वारः पदार्थाः गमनपदेन बोध्यन्ते ।

पूर्वत्र पुष्पवन्तपदस्थले चन्द्रे चन्द्रत्वं सूर्ये सूर्यत्वमिति भानात् द्वे विशेष्यते

१, २ - अनयोः जातिरूपत्वे समवायः अन्यथा तु स्वरूपसम्बन्धः ।

गमनपदेन कस्य बोधः ? स्तः इति तज्ज्ञानं (पृ.१७२ ) उक्तरीत्या समूहालम्बनमित्युच्यते। यस्य ज्ञानस्य नाना मुख्यविशेष्यताः भवन्ति तज्ज्ञानं समूहालम्बनमित्युच्यते। तत्र च सूर्यचन्द्रयोः परस्परं विशेष्यविशेषणभावो नास्ति। अतः विशेष्यतयोः अपि उभयनिष्ठयोः न निरूप्य- निरूपकभावः। प्रकृते च गमनपदेन जायमाने ज्ञाने प्रकारत्वविशेष्यत्वयोः अस्ति निरूप्यनिरूपकभावः। मुख्य विशेष्यता तु एका व्यापारनिष्ठा एव इति विशेषः ।

विशेष्यता

उत्तरदेशः

संयोगः

प्रकारता

प्रकारता

विशेष्यता

जनकत्वम्

विशेष्यता

क्रिया

प्रकारता

ज्ञानं

[[१८३]]

गमनपदजन्यम्

चि.स.१३६

अस्य गमनपदस्य स्वभावं यदि वयं सम्यक् अवगच्छामः तदा व्याप्तिपदस्यापि स्वभावग्रहणे न कोऽपि क्लेशः । तदपि पदम् अनेकान् पदार्थान् बोधयति । तेऽपि दण्डचक्रकुलालघटाः इति ज्ञाने यथा विशकलिताः, परस्परमसम्बद्धाः भासन्ते, तथा न भासन्ते। किन्तु परस्परं विशेष्यविशेषणभावापन्नाः एव ।

व्याप्तिपदेन के पदार्थाः बोध्यन्ते ?

  • व्याप्तिपदेन के पदार्थाः बोध्यन्ते ?

के ते पदार्थाः ये व्याप्तिपदेन बुद्ध्यन्ते? साध्यम्, अभावः, अधिकरणं, वृत्तित्वम्, अभावः इति पञ्च पदार्थाः । प्रथमाभावस्य साध्यं प्रतियोगि, द्वितीयाभावस्य वृत्तित्वम् आधेयत्वं प्रतियोगि भवति । साध्यस्यः यः अभावः, तस्य यत् अधिकरणं तन्निरूपिता या वृत्तिता तस्याः अभावः इति विशेष्यविशेषणभावापन्नाः पञ्च पदार्थाः व्याप्तिपदेन उच्यन्ते ।

साध्यम

वह्निः

प्रतियोगितासम्बन्धः

अभावः

अभावः

स्वरूपसम्बन्धः

अधिकरणम्

ह्रदादि

निरूपितत्वसम्बन्धः

वृत्तित्वम्

वृत्तित्वम्

[[१८४]]

प्रतियोगितासम्बन्धः

अभावः

अभावः

स्वरूपसम्बन्धः

हेतुः

धूमः

चि.स. १३७

वह्नेः अधिकरणानि पर्वतचत्वरमहानसगोष्ठादीनि, वह्नयभावस्य अधिकरणं ह्रदः, भूतलं, पुस्तकं, लेखनी इत्यादीनि अनन्तानि। तेषु अभावाधिकरणेषु कदाचिदपि धूमः न भवति । अतः तानि यानि अभावाधिकरणानि तन्निरूपिता आधेयता वृत्तित्वं धूमे कदाचिदपि न सम्भवति । कुत्र तर्हि सा आधेयता भवेत्? ह्रदे जलं स्यात्। पुस्तके लेखनी स्यात् । एवं च ह्रदादिनिरूपितवृत्तित्वं जले, मीने, लेखन्यां वा भवति ।

ज्ञानद्वयेन परामर्शोत्पत्तिः वृत्तित्वाभावः धूमे भवति । एवंविधो हि धूमस्य स्वभावः यत् यत्र वह्निर्नास्ति तत्र धूमोऽपि न भवति। तेन वह्न्यभावाधिकरणेषु अवृत्तित्वं धूमस्य सिद्ध्यति । इदं यत् अवृत्तित्वं, वृत्तित्वाभावः धूमनिष्ठः सा एव धूमनिष्ठा व्याप्तिः ।

एवं पदानां स्वभावान् आदाय अस्माभिः व्याप्तिः निरूपिता। एतादृशः व्याप्त्याख्यः सम्बन्धः यस्मिन् ज्ञायते, तस्य हेतुभूतस्य धूमस्य ज्ञानेन वह्नेः ज्ञानं भवति। तच्च व्याप्तिरूपसम्बन्धस्य ज्ञानं धूमे न केवलं व्याप्तिम् अवगाहते, किन्तु धूमः वह्निव्याप्य इति पर्वतः धूमवान् इति ज्ञानाभ्यां जायमानत्वात् पर्वते धूमं, धूमे व्याप्तिं चावगाहते। तच्च धूमज्ञानं परामर्शः इत्युच्यते। यदग्रिमक्षणे वह्निप्रमा अनुमितिरूपा उत्पद्यते।

  • ज्ञानद्वयेन परामर्शोत्पत्तिः

कथं हि ताभ्यां ज्ञानाभ्यां परामर्शः उत्पद्यते ? उच्यते । विशिष्टवैशिष्ट्या- वगाहिज्ञानं प्रति विशेषणतावच्छेदकप्रकारकज्ञानस्य कारणत्वं निरूपितमेव प्रत्यक्षखण्डे

सन्निकर्षवर्णनप्रसङ्गे।

(पृ.१६७) परामर्शः

मक्षिका

व्याप्तिः

अत्र भवति विशिष्ट-

विशिष्टः

वैशिष्ट्यावगाहि-

दण्डः

धूमः

ज्ञानरूपः। यथा

संयोगः(वैशिष्ट्यम्)

संयोगः(वैशिष्ट्यम्)

उदाहरणे मक्षिका-

पुरुषः

पर्वतः

विशिष्टः दण्डः पुरुषे

चि.स.१३८

ज्ञायते इति तत्

विशिष्टवैशिष्ट्यावगाहिज्ञानं भवति, तद्वदेव इह व्याप्तिविशिष्टः धूमः पर्वते ज्ञायते

इति तत् भवति विशिष्टवैशिष्ट्यावगाहिज्ञानम्।

एवञ्च जन्यज्ञानस्य विशिष्टवैशिष्ट्यावगाहित्वं सिद्धम्। एतादृशज्ञानं प्रति

[[१८५]]

ज्ञानद्वयेन परामर्शोत्पत्तिः

विशेष्यता

विशेष्यता

वह्निः

अभावः

(अधिकरणम

प्रकारता विशेषणतावच्छेदकप्रकारकज्ञानस्य कारणत्वं

प्रकारता

प्रकारता

वक्तव्यम्। (पृ.१६७) पूर्वोक्तरीत्या जन्यज्ञाने यः विशिष्टपदेन गृहीतः, सः जनकज्ञाने विशेषणपदेन ग्राह्यः । प्रकृते जन्यज्ञाने धूमवैशिष्ट्यं पर्वते भासते। अतः विशेषणपदेन धूमः धर्तव्यः । विशेषणता धूमे, विशेषणतावच्छेदकं व्याप्तिः, तत्प्रकारकं ज्ञानं, धूमः वह्निव्याप्यः इति व्याप्तिज्ञानं, तदेव कारणं भवति। तज्ज्ञान-विषयस्य च धूमस्य पर्वते भानाय पर्वतः धूमवान् इति ज्ञानमावश्यकमिति उभाभ्यां ज्ञानाभ्यां परामर्शः उत्पद्यते।

अस्मिन् परामर्शे या व्याप्तिः विषयी-भवति, सा पञ्चपदार्थघटिता इति प्रागुक्तमेव। अतः ताम् अपि विकसितावस्थायां पश्यामश्चेत् आहत्य सप्त पदार्थाः परामर्शे विषयीभवन्ति। मुख्यप्रकारः वह्निः। प्रकारता कोर्थः ? यस्मिन् विशेष्यता नास्ति सः मुख्यप्रकारः। ज्ञाने हि वह्नौ न विशेषणान्तरं भासते इति तत्र विद्यमाना प्रकारता मुख्यप्रकारता । एवमेव पर्वते

। विशेष्यता

प्रकारता

वृत्तित्वम्

[[१८६]]

विशेष्यता

अभावः

विशेष्यता

धूमः

विशेष्यता

पर्वतः

चि.स.१३९

प्रकारता विद्यमाना विशेष्यता मुख्यविशेष्यता । तस्याः अधिकरणे पर्वते प्रकारता नास्तीति सा विशेष्यता मुख्यविशेष्यता भवति।

अत्र मुख्यप्रकारतायाः प्रभृति विषयता- निरूपणे आरब्धे प्रकारतानिरूपितविशेष्यता इति सर्वत्र वाच्यम्। विशेष्यताश्रयनिष्ठप्रकारता इति च

वाच्यम्।

परामर्शविषयतानिरूपणम्

मुख्यविशेष्यतायाः प्रभृति विषयतानिरूपणे आरब्धे विशेष्यतानिरूपितप्रकारता इति सर्वत्र वक्तव्यम्। प्रकारताश्रयनिष्ठविशेष्यता इति च वक्तव्यम् ।

  • परामर्शविषयतानिरूपणम्

तथा च वह्निनिष्ठप्रकारतानिरूपितविशेष्यताश्रयअभावनिष्ठप्रकारतानिरूपित विशेष्यताश्रयाधिकरणनिष्ठप्रकारतानिरूपितविशेष्यताश्रयवृत्तित्वनिष्ठप्रकारता- निरूपितविशेष्यताश्रयाभावनिष्ठप्रकारतानिरूपितविशेष्यताश्रयधूमनिष्ठप्रकारता- निरूपितपर्वतनिष्ठविशेष्यतानिरूपकज्ञानं परामर्शः, पर्वतः वह्न्यभावाधिकरणनिरूपित- वृत्तित्वाभाववद्धूमवान् इत्याकारकः, सङ्क्षेपतश्च पर्वतः वह्निव्याप्यधूमवान् इत्याकारकः।

यदि मुख्यविशेष्यतायाः प्रभृति विषयताः निरूपयामः तदा पर्वतनिष्ठविशेष्यता- निरूपितप्रकारताश्रयधूमनिष्ठविशेष्यतानिरूपितप्रकारताश्रयाभावनिष्ठविशेष्यता- निरूपितप्रकारताश्रयवृत्तित्वनिष्ठविशेष्यतानिरूपितप्रकारताश्रयाधिकरणनिष्ठ- विशेष्यतानिरूपितप्रकारताश्रयाभावनिष्ठविशेष्यतानिरूपितवह्निनिष्ठप्रकारतानिरूपकं

ज्ञानं पूर्ववदेव, पर्वतः वह्न्यभावाधिकरणनिरूपितवृत्तित्त्वाभाववद्धूमवान् इत्याकारकम्।

इह समानाधिकरणयोः विषयतयोः

[[१८७]]

अवच्छेद्यावच्छेदकभावो भवति । यथा वह्निनिष्ठ- प्रकारतानिरूपिता या अभावनिष्ठविशेष्यता एवं

विशेष्यता

प्रकारता

अभावः

अधिकरणनिष्ठविशेष्यतानिरूपिताभावनिष्ठ-

चि.स.१४०

प्रकारता अनयोः सामानाधिकरण्यमस्ति। अतः

तयोः प्रकारत्वविशेष्यत्वयोः अवच्छेद्यावच्छेदकभावः भवति ।

पूर्वम् एतादृशावच्छेद्यावच्छेदकभावानालोचने अस्माभिः विशेष्यताश्रयाभाव- निष्ठप्रकारता इति प्रकारताश्रयाभावनिष्ठविशेष्यता इति रीत्या वा सर्वत्रोक्तम् । सम्प्रति अवच्छेद्यावच्छेदकभावे आलोचिते विशेष्यत्वावच्छिन्नाभावनिष्ठप्रकारता इति प्रकारत्वावच्छिन्नाभावनिष्ठविशेष्यता इति वा वाच्यम् ।

परामर्शविषयतानिरूपणम्

तर्हि समग्रपरिष्कारः कीदृशः भवेत् इति पर्यालोचनीयम् ।

  • किञ्च मुख्यप्रकारतायाः आरभ्य कथने यथा प्रकारतायाः समानाधिकरण- विशेष्यता अवच्छेदिका तथैव अभावे विद्यमानमभावत्वमपि अवच्छेदकम् ।

एवं मुख्यविशेष्यतायाः प्रभृति निरूपणे विशेष्यता यथा प्रकारतावच्छिन्ना भवति तद्वदेव सा अभावत्वावच्छिन्नापि भवति ।

अवच्छिन्ना

अवच्छिन्ना

अभावत्वम्

विशेष्यता

प्रकारता

अभावः

अथवा

अवच्छिन्ना

[[१८८]]

अवच्छिन्ना

अभावत्वम्

विशेष्यता

प्रकारता

अभावः

चि.स.१४१

अतः इतः वह्नित्वादेरपि अवच्छेदकत्वमन्तर्भाव्य सर्वाः विषयताः निरूपणीयाः। तत्प्रकारश्च वह्नित्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्वावच्छिन्नाभावत्वावच्छिन्ना-

भावनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नाधिकरणत्वावच्छिन्न-अधिकरण- निष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नवृत्तित्वत्वाच्छिन्नवृत्तित्वनिष्ठप्रकारता-

निरूपितविशेष्यत्वावच्छिन्नाभावत्वावच्छिन्नाभावनिष्ठप्रकारतानिरूपितविशेष्यत्वा-

परामर्शविषयतानिरूपणम्

वच्छिन्नधूमत्वावच्छिन्नधूमनिष्ठप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यतानिरूपकं ज्ञानं

परामर्शः। इत्थमेव मुख्यविशेष्यतायाः प्रभृति विषयताः निरूपणीयाः ।

मणित्वम् मणिः

प्रकारता

विषयतानां निरूप्यनिरूपकभावस्य अवच्छेद्यावच्छेदकभावस्य च अभ्यासार्थम्

एवंविधानि नैकानि ज्ञानानि सम्प्रदायसिद्धानि

विशेष्यता

प्रकारता

मुकुटत्वम्

गृहीत्वा चिन्तनीयम् । तेषु च अस्मद्गुरुचरणाः प्रातःस्मरणीयाः कालटीस्थाः रामकृष्णभट्टाः एकं ज्ञानमुदाहरन्ति भूतलं मणिवत्-मुकुटवत्- श्रीरामवत्-रथवत् इत्याकारकम् ।

मुकुटः

विशेष्यता

प्रकारता

‘श्रीरामत्वम्’

श्रीरामः

एवमेव अधुनातनच्छात्रैः निर्दिष्टं

क्षीरसागरः चतुर्मुखवत्कमलवत्कमलनेत्रवत्-

विशेष्यता

प्रकारता

शेषवान् इति च धर्तुं शक्यम् ।

रथत्वम

[[१८९]]

प्रकृतमनुसरामः। एतादृशात् पर्वतः

रथः

बह्निव्याप्तिमद्धूमवान् इति परामर्शात् जायमानं

विशेष्यता

पर्वतो वह्निमान् इति ज्ञानमनुमितिः ।

भूतलत्वम्

एतादृशकार्यकारणभावं बुद्धौ निधाया-

नुमानलक्षणम् अनुमितिलक्षणं चाह

अनुमितिकरणमनुमानम्। परामर्शजन्यं ज्ञानम् अनुमितिः इति ।

  • अस्याः अनुमितेः जनकीभूतः परामर्शः सविषयः निरूपित एव । तल्लक्षणं तज्जन्यत्वं च अनुमितेराह सङ्ग्रहे -

व्याप्तिविशिष्टपचधर्मताज्ञानं परामर्शः । यथा वह्निव्याप्यधूमवानयं पर्वतः इति ज्ञानं परामर्शः । तज्जन्यं वह्निमान् पर्वतः इति ज्ञानमनुमितिः।

भूतलम्

चि.स.१४२१९०

सम्बन्धस्य प्रकारतावच्छेदकत्वम्

व्याप्त्या विशिष्टं व्याप्तिविशिष्टं, तादृशं यत् पक्षधर्मताज्ञानमिति तदर्थः । व्याप्तिविशिष्टं पक्षधर्मतायाः ज्ञानम् । विशिष्टमित्यस्य सम्बद्धमित्यर्थः ।

साध्याभावाधिकरणवृत्तित्वाभावः व्याप्तिः निरूपितैव अनुपदम् । तया सम्बद्धं ज्ञानमिति अर्थः प्रतिभाति । तादृशवृत्तित्वाभावस्तु दर्शितरीत्या धूमादिना सम्बद्धः, ज्ञाने इति अत्र सम्बन्धः विषयतारूपः ग्राह्यः । सर्वस्यापि ज्ञानस्य स्वविषयेण विषयतासम्बन्धः अबाधित इति उक्तोपपत्तिः ।

पक्षधर्मतायाः ज्ञानमित्यत्रापि धर्मतापदं सम्बन्धार्थकम्। पक्षस्य सम्बन्धः इत्यर्थः । स च उक्तपरामर्शे भासमानः, धूमरूपे हेतौ पर्वतरूपपक्षस्य संयोगः सम्बन्धः। अयं च पक्षधर्मता इति पदार्थः संवृत्तः। ततः विद्यमानायाः षष्ठ्याः अपि विषयता इत्यर्थः । तथा च यज्ज्ञानं व्याप्तिं विषयीकरोति एवं पक्षहेत्वोः सम्बन्धं च विषयीकरोति तज्ज्ञानं परामर्शः इति फलितम्। भवति हि परामर्शः तथाविधः । तत्र उक्तरीत्या व्याप्तेः पक्षहेतुसम्बन्धस्य च विषयीकरणात् ।

सम्बन्धस्य प्रकारतावच्छेदकत्वम्

तत्र एकः पदार्थः यदा अपरपदार्थे विशेषणीभूय, ज्ञाने विषयीभवति तदा तयोः सम्बन्धोऽपि नियमेन ज्ञानेन प्रकाश्यते । तत्र सम्बन्धे या ज्ञानीया विषयता सैव संसर्गता इति चिन्तितमेव अस्माभिः तत्र तत्र। (पृ.३४) तथा च परामर्शे मुख्यप्रकारः वह्निः अभावे प्रतियोगितासम्बन्धेन भासते, साध्याभावः वह्नयभावः अधिकरणे स्वरूपसम्बन्धेन, वह्न्यभावाधिकरणं वृत्तित्वे निरूपितत्वसम्बन्धेन, वह्न्यभावा- धिकरणवृत्तित्वम् अभावे प्रतियोगितासम्बन्धेन, वह्न्यभावाधिकरणवृत्तित्वाभावः धूमे स्वरूपसम्बन्धेन, एवं वह्न्यभावाधिकरणनिरूपितवृत्तित्वाभाववद्धूमः पर्वते संयोगेन प्रकारीभवतीति वह्न्यभावाधिकरणवृत्तित्वाभावरूपा या व्याप्तिः तन्निष्ठविषयता- निरूपकत्वमिव धूमपर्वतसंयोगादिनिष्ठसांसर्गिकविषयतानिरूपकत्वमपि तादृशपरामर्शस्य अक्षतमेव ।

वह्निधूमयोः अधिकरणानि तावत् गणयामः

एतादृशविस्तरस्तु वह्नित्वादिधर्मवत् संसर्गस्यापि प्रकारतावच्छेदकत्वबोधनाय कृतः । पूर्वं प्रकारतादीनां निरूपणे समानाधिकरणधर्माणां वह्नित्वाभावत्वादीनामिव समानाधिकरणविषयतानामपि विशेष्यत्वप्रकारत्वरूपाणामवच्छेदकत्वं विशेष्यता- वच्छिन्नाभावत्वावच्छिन्नाभावनिष्ठप्रकारता इत्येवं रीत्या अभिहितम् । सम्प्रति प्रकारस्य येन सम्बन्धेन भानं सः सम्बन्धोऽपि प्रकारतावच्छेदको भवतीत्युक्तत्वात् विषयतानिरूपणे पूर्वोक्तसम्बन्धानां तत्र तत्र निवेशः कार्यः । एवम् अभावत्वावच्छिन्नेत्युक्तत्वात् सम्प्रति अभावनिष्ठेत्यादि न वक्तव्यम्। तथा च वह्नित्वावच्छिन्नप्रतियोगितासम्बन्धावच्छिन्न- प्रकारतानिरूपितविशेष्यत्वावच्छिन्नाभावत्वावच्छिन्नस्वरूपसम्बन्धावच्छिन्नप्रकारता- निरूपितेत्यादिरीत्या पर्वतत्वावच्छिन्नविशेष्यतानिरूपकं ज्ञानं परामर्शः इति फलितम् । तथा चैतादृशज्ञाने व्याप्तेः पक्षसम्बन्धस्य च विषयत्वात् सङ्ग्रहोक्तं लक्षणं सङ्गच्छते एव । * यत्र यत्र धूमः तत्राग्निरिति साहचर्यनियमः व्याप्तिः ।

व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ।

सम्प्रति परामर्शे विषयीभवन्तौ पदार्थौ व्याप्तिपक्षधर्मते मूलकारः निरूपयति यत्र १९१ यत्र धूमः इति। यत्र यत्र इति द्विरुक्तयत्रपदेन सर्वाणि धूमाधिकरणानि लभ्यन्ते । तत्राग्निरित्यनेन तेषु सर्वेषु धूमाधिकरणेषु अवश्यं वह्निरस्ति इति ज्ञायते ।

अत्र इत्थं चिन्तयामः ।

वह्निधूमयोः अधिकरणानि तावत्

गणयामः

जगति चतुःषष्टिसङ्ख्याकानि एव अधिकरणानि सन्ति इति भावयामः। न हि तेषु सर्वत्र अग्निरस्ति। किन्तु चित्रे दर्शितरीत्या अष्टसु स्थलेषु वर्तते। धूमः कियत्सु स्थलेषु दृश्यते? वह्नेः यानि अष्टौ स्थलानि, तेष्वपि

वह्निः

वह्निः

वह्निः

वह्निः

धूमः

धमः

वह्निः

वह्निः

वह्निः

वह्निः

धूमः

धूमः

धूमः

चि.स.१४३

[[१९२]]

वह्निधूमयोः अधिकरणानि तावत् गणयामः

पञ्चसु स्थलेषु वर्तते न सर्वेषु । तेन इदं लभ्यते, धूमस्य सर्वेषु अधिकरणेषु वह्निः वर्तते। एवंविधः यः वह्नेः स्वभावः तत् व्यापकत्वम् इत्युच्यते। धूमस्य यानि अधिकरणानि तत्र सर्वत्र वर्तमानत्वमिति यावत्। अतः तत्र इत्यनेन वह्नेः स्वभावः व्यापकत्वरूपः निरूपितो भवति।

तादृशं व्यापकत्वं वह्नौ ज्ञायते चेत् धूमस्य व्याप्यत्वं पूर्वोक्ता व्याप्तिः ज्ञातुं शक्या। कथम्? पूर्वोक्तेषु चतुष्षष्ट्याम् अधिकरणेषु वह्न्यभाववन्ति यानि षट्पञ्चाशत् अधिकरणानि तत्र सर्वत्र धूमोऽपि नास्ति । एवं च वह्न्यभावाधिकरणेषु अवर्तनम्, तादृशाधिकरणनिरूपितवृत्तित्वाभावः धूमस्य स्वभावः अस्माभिः ज्ञातुं शक्यः । तस्यैव स्वभावस्य व्याप्तिरिति व्याप्यत्वमिति वा सञ्ज्ञा । निरूपितश्चायमर्थः अस्माभिः प्राक् विशदतया। एवञ्च यत्र यत्र धूमः तत्राग्निरिति सङ्ग्रहवाक्यं वह्निस्वभावं साध्यस्वभावं व्यापकत्वरूपं ब्रूते । धूमस्य हेतोः स्वभावः व्याप्तिस्तु विपरीतालोचनेन लभ्यते ।

इदानीं स्वयं धूमस्वभावमाह साहचर्यनियमः व्याप्तिः इति । साहचर्यं सामानाधिकरण्यं, तस्य नियमः अपरित्यागः। धूमः वह्निसामानाधिकरण्यं न परित्यजति इति तदर्थः । यदि हि धूमः वह्न्यभावाधिकरणेऽपि भवेत्, वह्निसामानाधिकरण्यं त्यजेत् । नैवंविधः सः। अर्थात् वह्न्यभावाधिकरणे न भवतीति लभ्यते। तेन च धूमः वह्न्यभावाधिकरणनिरूपितवृत्तित्वाभाववान् इति पूर्वोक्तः व्याप्तिपदार्थः वाक्यादेव लभ्यते। साम्प्रदायिकानाम् अत्रत्यवर्णनप्रकारः क्लिष्टत्वादुपेक्षितः।

एतावता परामर्शविषयीभूता व्याप्तिः अर्थात्, पदैः च निरूपिता। इदानीं व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः इति परामर्शलक्षणे या पक्षधर्मता प्रविष्टा, तामाह व्याप्यस्येति। व्याप्यस्य धूमादेः पर्वतादिवृत्तित्वं पर्वतादिनिरूपितसंयोगसम्बन्धा- वच्छिन्नवृत्तित्वं पक्षधर्मता, तदवगाहिज्ञानं, पक्षधर्मताज्ञानम् । इदं च पर्वतो धूमवान् इत्याकारकं पर्वतः वह्निव्याप्यधूमवान् इत्याकारकं वा उभयविधं शक्यं धर्तुम् । उभयमपि तत् अवगाहते एव पर्वतधूमयोः सम्बन्धम् । अतः उभयं पक्षधर्मताज्ञानम् । तावन्मात्रविषयकः तु न परामर्शः । तत्र व्याप्तेरपि भानादिति द्रष्टव्यम् ।

तु

अनुमित्युत्पादः

  • अनुमानं द्विविधम् । स्वार्थं परार्थं च । तत्र स्वार्थं स्वानुमितिहेतुः । तथा हि- स्वयमेव भूयोदर्शनेन यत्र धूमस्तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतः तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र धूमस्तत्राग्नि इति । तदनन्तरं वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानमुत्पद्यते । अयमेव लिङ्गपरामर्श इति उच्यते । तस्मात् पर्वतः वह्निमान् इति ज्ञानमनुमितिरुत्पद्यते । तदेतत्स्वार्थानुमानम् ।

[[1]]

एतावता ग्रन्थेन प्रमाप्रभेदः अनुमितिरूपः, तस्य करणम् अनुमानप्रमाणं, तद्विषयौ व्याप्तिः पक्षधर्मता च निरूपितौ। तस्यैव अनुमानस्य सम्प्रति विभागमाह- तत् द्विविधं स्वार्थं परार्थं चेति । अर्थ इति पदं शास्त्रे फले व्यवह्रियते । फलं प्रयोजनम् अर्थः इति पर्यायाः । स्वस्य प्रयोजनं येन तत्स्वार्थम् अनुमानम्। किं पुनः स्वस्य फलं परामर्शात्मकानुमानेन ? उच्यते।

अस्मिन् अनुमानप्रकरणे एव उपरिष्टात् निश्चयस्य संशयविरोधित्वं व्यवस्थाप्यते । संशयस्तु प्रत्यक्षनिरूपणान्ते ज्ञानभेदनिरूपणप्रस्तावे निरूपितः । १९३ (पृ.१६९) अयं च संशयः पुरुषस्य दुःखं जनयतीति आनुभविकमेतत् । अनुमितिरूपनिश्चयेन पुरुषस्य संशये उच्छिन्ने संशयजन्यं दुःखमपि नश्यति। अयं दुःखध्वंसः एव प्रकृते फलं, प्रयोजनमिति वा अर्थ इति वा उच्यते। तथा च एतादृशदुःखध्वंसः स्वात्मनि येन परामर्शात्मकानुमानेन भवति तत् स्वार्थमनुमानम्। स्वस्य ज्ञातुः अर्थः प्रयोजनं दुःखनाशरूपं येन तत् स्वार्थम् अनुमानम्।

अनुमित्युत्पादः

तदेतत् स्वार्थानुमानं कथमुत्पद्यते इति क्रमं सम्प्रति दर्शयति तथा हीत्यादिना । स्वयमेव ज्ञाता भूयो दर्शनेन पुनः पुनः दर्शनेन महानसादौ व्याप्तिं गृहीत्वा महानसरूपे अधिकरणे धूमोऽस्ति, वह्निरपि अस्ति इति ज्ञात्वा पूर्वोक्तां धूमः वह्न्यभावाधिकरणनिरूपितवृत्तित्वाभाववान् इति व्याप्तिं गृह्णाति अनुभवति ।

[[१९४]]

अनुमित्युत्पादः

अत्र धूमः व्याप्तेः आश्रयः। आधेया भवति व्याप्तिः तादृशवृत्तित्वाभावरूपा । स च वह्न्यभावाधिकरणनिरूपितवृत्तित्वाभावः धूमे स्वरूपसम्बन्धेन अस्ति । तेनैव सम्बन्धेन ज्ञायते। तादृशव्याप्तेरनुभवात् तस्मिन् आत्मनि संस्कारः उत्पद्यते। तस्योपयोगः वक्ष्यते ।

पर्वतसमीपं गतः इत्यनेन पर्वतः दृष्टः इति सूचितम् । तद्गते चाग्नौ सन्दिहानः इत्यनेन पर्वतः वह्निमान् न वा इत्याकारकः दुःखजनकः संशयः ज्ञातुः भवतीति उक्तम् । धूमं दृष्ट्वा इत्यनेन पर्वते धूमज्ञानमुत्पद्यते इत्युक्तम्। तदेव च पक्षधर्मताज्ञानमुक्तं भवति ।

व्याप्तिं स्मरतीति । प्रत्यक्षखण्डे हि हस्तिहस्तिपकदृष्टान्तेन एकसम्बन्धिज्ञानम् अपरसम्बन्धिस्मारकमिति लोकसिद्धः न्यायः (पृ.१५६) उक्तः। इहापि महानसे वह्निधूमौ दृष्ट्वा वह्निव्याप्तिरूपः वह्न्यभावाधिकरणनिरूपितवृत्तित्वाभावः धूमे ज्ञायते । इदं च ज्ञानं व्याप्तेरनुभवः। तेन चात्मनि तद्विषयकः संस्कारः उत्पद्यते। तथा च दृष्टान्ते यथा एकसम्बन्धिनः हस्तिपकस्य ज्ञानेन अपरसम्बन्धिनः हस्तिनः ज्ञानं, स्मरणरूपमुत्पद्यते, तथा प्रकृतेऽपि धूमरूपस्य एकसम्बन्धिनः चक्षुषा दर्शनेन, अपरसम्बन्धिनः व्याप्तेः स्मरणम् उत्पद्यते । अतः एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकमिति नियमेनैव धूमज्ञानेन व्याप्तिस्मरणं भवतीति ज्ञापनाय धूमं दृष्ट्वा व्याप्तिं स्मरतीति मूलकृता अभिहितम्। व्याप्तेः पूर्वोक्तमेव स्वरूपमाह यत्र यत्र धूम इति । वस्तुतस्तु अनेन वाक्येन वह्निः व्यापकः इति ज्ञाते अर्थात् धूमः व्याप्यः इति ज्ञायते इति प्रागावेदितमेव ।

  • उत्पन्नं व्याप्तिरूपविशेषणतावच्छेदकप्रकारकज्ञानम्। अग्रिमक्षणे (पृ. १८५) दर्शितरीत्या विशिष्टवैशिष्ट्यावगाहिज्ञानमुत्पद्यते । तं परामर्शमाह - तदनन्तरमिति । तदनन्तरमिति व्याप्तिज्ञानपरामर्शयोः कार्यकारणभावसूचनाय ।

वह्निव्याप्यधूमवान् अयं पर्वतः इति ज्ञानमुत्पद्यते इति । इह सङ्ग्रहादिग्रन्थेषु यद्यपि ज्ञानाकारनिरूपणे प्रकारात् आरभ्य विशेष्यपर्यन्तं ग्रन्थकाराः लिखन्ति तथापि अनुवादाद्यवसरे अस्माभिः विशेष्यनिर्देशः आदौ कार्यः । तथैव सम्प्रदायात् । ग्रन्थकर्तृभिस्तु निरूपणलाघवानुरोधेन तथा लिख्यते इति अन्यदेतत्। इत्थमेव

RECE

परार्थानुमानम्

वक्ष्यमाणानुमितिरूपकार्यस्य आकारः वह्निमान् पर्वतः इति लिखितोऽपि पर्वतः वह्निमान् इत्येव बोद्धव्यः। तादृशसम्प्रदायरीतिप्रयोजनं तु उद्ग्रन्थे ज्ञेयम् । तथा च एतादृशानुमित्युत्पत्त्या संशयविरोधः भवति, तथा सति दुःखनाशः भवतीति स्वार्थ- प्रयोजकत्वात् स्वार्थानुमानमित्याह तदेतत् स्वार्थानुमानमिति ।

इदानीं परार्थानुमानमाह । इह वक्ष्यमाणस्य वाक्यसमूहात्मकन्यायस्य श्रवणेन श्रोतुः शाब्दबोधः (पृ.२०२) उत्पद्यते । तेन च परामर्शः उत्पद्यते । परामर्शात् अनुमितिः। तया च संशयोच्छेदः। तेन च दुःखच्छेदः इत्येवं परस्य श्रोतुः दुःखच्छेदस्य सम्भवात् इदम् अनुमानं परामर्शरूपं परार्थं परस्य प्रयोजनं फलं येन भवति तादृशमिति तदेव परार्थानुमानम्।

यत्तु स्वयं धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुज्यते, तत्परार्थानुमानम् । यथा पर्वतो वह्निमान् । धूमवत्त्वात् । यो यो धूमवान् सोग्निमान् यथा महानसम् । तथा चायम् । तस्मात्तथा इति । अनेन प्रतिपादिताल्लिङ्गात्परोऽप्यग्निं प्रतिपद्यते । प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः । पर्वतो वह्निमानिति प्रतिज्ञा । धूमवत्त्वादिति हेतुः । यो यो धूमवान् सोऽग्निमान् यथा महानसम् इत्युदाहरणम् । तथा चायमित्युपनयः। तस्मात्तथेति निगमनम् ।

यद्यपि सङ्ग्रहे यत्तु स्वयं धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुज्यते तत् परार्थानुमानमिति लेखनात् वाक्यमेव परार्थानुमानमिति भाति परन्तु पूर्वोत्तरग्रन्थसन्दर्भेण परामर्शे एव ग्रन्थकर्तुः अनुमानशब्दप्रयोगः इति निश्चीयते । अतः तत् परार्थानुमानमित्यस्य तादृशवाक्यप्रयोज्यः परामर्शः परार्थानुमानमित्यर्थः ।

यद्धि साक्षात् तस्मात् न जायते किन्तु तत्कार्यकार्यादिपरम्परया कुतश्चित् जायते तत् तस्य कार्यमिति व्यवहारयोग्यं न भवति । परन्तु तदधीना उत्पत्तिः तस्य आनुभविकी इति एतादृशकार्ये तत्प्रयोज्य इति व्यवहारः भवति । निरूपितश्च एषः

[[१९५]]

[[१९६]]

अनुमित्युत्पादः

अर्थः । (पृ.१६१) तथा च प्रकृते वाक्यैः साक्षात् परामर्शः न भवति चेदपि तज्जन्यबोधानन्तरं श्रोतुः परामर्शः उत्पद्यते इति परामर्शस्य तादृशवाक्यप्रयोज्यत्वं अक्षतमिति। एतदेवाभिप्रेत्य न्यायबोधिन्यादिव्याख्यानेषु न्यायप्रयोज्यमनुमानं परार्थानुमानमित्युक्तम्।

  • न्याय इति पदं तत्र तत्र उपयुक्तं दृश्यते । प्रमाणेन अर्थपरीक्षणं न्यायः इति क्वचिदुक्तम्। न्यायः इत्यस्य युक्तिः इत्यपि अर्थः प्रसिद्धः। प्रकृते च वक्ष्यमाणं वाक्यपञ्चकं न्यायः इत्यभिधीयते। न्यायः वाक्यसमूहः । तस्मिन् एकैकं वाक्यम् अवयवः इति प्रसिद्धम् ।

तादृशन्यायप्रयोज्यः परामर्शः इति उक्तम् । तानि वाक्यानि क्रमेण दर्शयति- पर्वतो वह्निमानित्यादिना । इयमत्र स्थितिः प्रामाणिकी । यं प्रति वक्ता इमानि वाक्यानि उच्चारयति सः द्विविधः सम्भाव्यते । वह्निसन्देहवान् आद्यः, वह्नयभाव- निश्चयवान् द्वितीयः । यो हि वक्तृवत् पर्वते वह्निं जानाति न तं प्रति किञ्चित् बोधनीयमस्ति। इमौ तु बोधनीयौ भवतः ।

I

तत्रापि आद्यः संशयवान् उक्तः। तस्य यज्ज्ञानं पर्वतः वह्निमान् न वा इत्याकारकं तेन तस्य दुःखं भवतीति प्रागुक्तमेव । परन्तु तस्य एकः विशेषः । तादृशसंशयात्मकज्ञाने सत्यपि विरोधिनिश्चयात्मकं ज्ञानं तस्य भवितुमर्हति । निश्चयः इत्यस्य संशयभिन्नं सर्वमपि ज्ञानमित्यर्थः । संशयो हि वह्निं तद्विरुद्धवह्न्यभावञ्च पर्वते अवगाहते इति उक्तमेव प्रत्यक्षनिरूपणे। परन्तु तादृशसंशयोत्तरमपि पर्वते वह्निमेव, वह्न्यभावमेव वा यत् अवगाहते तादृशं निश्चयात्मकं ज्ञानं तस्य पुरुषस्योत्पद्यते इति आनुभविकम् ।

संशयस्य न निश्चयविरोधिता किन्तु आनुकूल्यमेव । स्वगृहे सुखेनोपविष्टस्य दिवापि किञ्चिदिव तमसा आवृतं गृहमिति ज्ञाते किं गगनं मेघाकुलम् इति संशयः भवति। ततः घनगर्जितश्रवणात् भवति निश्चयः गगनं मेघवत् इति । अत एव सङ्ग्रहकृतापि तद्गते चाग्नौ सन्दिहानः इत्यादिग्रन्थेन अनुमितेः पूर्वं संशयं प्रदर्श्य तस्य अनुमितिं प्रति न प्रातिकूल्यम् इति सूचितम् ।

विपरीतनिश्वये सति का गतिः ?

तथा च यस्य पर्वते वह्निसंशयः अस्ति तस्य वक्ष्यमाणैः वाक्यैः तत्तद्वाक्यजन्यः बोधः भवति। तादृशबोधेन च तस्य परामर्शः उत्पद्यते । ततः पर्वतो वह्निमान् इति अनुमितिः उत्पद्यते । इदं च सङ्ग्रहकृतापि उक्तम्, अनेन प्रतिपादितात् लिङ्गात् परोप्यग्निं प्रतिपद्यते इति। अनेन इत्यस्य वक्ष्यमाणप्रतिज्ञादिवाक्यपञ्चकेन इत्यर्थः । प्रतिपादितात् लिङ्गात् इत्यस्य परामर्शरूपा या प्रतिपत्तिः, ज्ञानं तद्विषयीभूतात् लिङ्गात्, हेतोः इत्यर्थः। तेन हेतुविषयकं परामर्शात्मकं ज्ञानं लब्धम् । तस्मात् परः श्रोता अपि अग्निं प्रतिपद्यते अग्न्यनुमितिमान् भवतीत्यर्थः । तथा च संशयवतः पुरुषस्य न्यायेन परामर्शः अनुमितिश्च सुघटा।

  • विपरीतनिश्वये सति का गतिः ?

यस्तु द्वितीयः विपरीतनिश्चयवान् तद्विषयेऽपि अस्ति विस्तरेण वक्तव्यम्। पर्वतः वह्न्यभाववान् इति निश्चयः यस्मिन् आत्मनि अस्ति, तस्मिन् आत्मनि पर्वतः वह्निमान् इति ज्ञानं न भवितुमर्हति । एकस्मिन् सति परस्य उत्पादः न भवतीत्युक्तौ पूर्वः परस्य विरोधी, प्रतिबन्धकः इति वा उच्यते । परश्च पूर्वस्य प्रतिबध्यः । अतश्च प्रकृते पर्वतः वह्न्यभाववान् इति निश्चयः प्रतिबन्धकः । पर्वतः वह्निमान् इति ज्ञानं प्रतिबध्यमिति चागतम्।

इह पूर्ववाक्ये निश्चयः इति लिखितं मया, द्वितीयवाक्ये ज्ञानम् इति च। एवंविध- लेखनस्यास्ति स्वारस्यम् । निश्चय इत्यनेन यज्ज्ञानं वह्न्यभावम् एकमेव प्रकारतया अवगाहते तदेव ग्राह्यं भवति । ज्ञानशब्दस्तु संशयमपि बोधयति निश्चयमपि । तथा च यस्यास्ति निश्चयः इत्युक्तत्वात् इदं लभ्यते यत् कस्यचित् ज्ञानस्य प्रतिबन्धः कर्तव्यः चेत् प्रतिबन्धकं ज्ञानं निश्चयात्मकमेवावश्यकम्। न तु संशयेनापि ज्ञानस्य प्रतिबन्धः। वर्णितं च संशयस्य अप्रतिबन्धकत्वम् । सत्यपि संशये भवति अस्माकं पर्वतो वह्निमान् इत्यनुमितिः।

प्रतिबध्यं परं उभयविधमपि ज्ञानं भवति । पर्वतः वह्न्यभाववान् इति निश्चये सति पर्वतः बह्निमान् न वा इति संशयो न भवति, नापि पर्वतः वह्निमान् इति विपरीतनिश्चयः ।

[[१९७]]

[[१९८]]

विपरीतनिश्चये सति का गतिः ?

अतः ज्ञानयोः प्रतिबध्यप्रतिबन्धकभावे आलोचनीये, वक्तव्ये वा प्रतिबन्धकत्वेन अभिमतं निश्चयरूपमेव भवेदिति, प्रतिबध्यं परमुभयविधमपि सम्भाव्येत इति आदौ सर्वदा चिन्त्यम्।

प्रकृते च यस्य पुरुषस्य पर्वतः वह्न्यभाववान् इति निश्चयः वर्तते, किं तस्य परामर्शात् अपि पर्वतः वह्निमान् इति अनुमितिः सम्भाव्यते? यदि नैव सम्भाव्यते तदा परोप्यग्निं प्रतिपद्यते इति पूर्वोक्तः परः वह्निसंशयवान् आद्यः एव ग्राह्यः न तु द्वितीयः।

अतः अत्र इत्थं व्यवस्था वक्तव्या। तत्र पूर्वोक्तेन विशेषणतासन्निकर्षेण कस्यचित् पर्वतः (पृ.१७६) वह्न्यभाववान् इति अभावप्रत्यक्षं वा उत्पद्यताम्, वृक्षादौ वह्न्यभावव्याप्तिज्ञानेन पर्वतः वह्न्यभावव्याप्यवृक्षवान् इति परामर्शात् पर्वतः वह्न्यभाववान् इति अनुमितिः वा उत्पद्यताम्, कस्यचित् वञ्चकस्य पुरुषस्य पर्वते वह्निः नास्ति इति वाक्यात् शाब्दबोधो वा जायताम् एतत् त्रितयमपि निश्चयात्मकमेव ज्ञानम् । अतः एवंविधनिश्चयवतः पुरुषस्य न्यायश्रवणेन शाब्दबोधोत्तरं पर्वतः वह्निव्याप्यधूमवान् इति परामर्शोत्पत्तौ अपि प्रतिबन्धकस्य पूर्वोक्तस्य निश्चयस्य सत्वेन न उत्पद्यते एव अनुमितिः।

परन्तु यदि तस्यैव पुरुषस्य भवेत् इत्थं ग्रहः मम इन्द्रियं दुष्टम् अथवा मम परामर्शः भ्रमः अप्रमा पर्वते वह्निर्नास्तीति वक्ता वा अनाप्तः तदा प्रतिबन्धकीभूत- निश्चयस्य यत् यत् साधनं तत्र दुष्टत्वज्ञानेन तेन तेन जायमाने निश्चयेऽपि अप्रामाण्यज्ञानं भवति । कोऽर्थः ? पर्वतः वह्न्यभाववान् इति प्रत्यक्षम्, अनुमितिः, शाब्दबोधो वा न समीचीनः, अप्रमा, न विषयसाधकः इति तेन ज्ञायते । विरोधित्वेन अभिमतं ज्ञानं यदि न समीचीनमिति ज्ञायते तदा तस्य विरोधिता एव न भवति तत् प्रतिबन्धकं नैव भवति। अतः तादृशस्य पुरुषस्य पूर्वोक्तः पर्वतः वह्निव्याप्यधूमवान् इति परामर्शः उत्पद्यते चेत् भवत्येव अनुमितिः पर्वतः वह्निमानिति । एतादृशं च पुरुषमभिप्रेत्य सङ्ग्रहकृता उक्तं परोऽप्यग्निं प्रतिपद्यते इति ।

१ प्रमाणपरिगणने चतुर्विधानि प्रमाणानि यद्यपि परिगणितानि तथापि उपमानस्य वक्ष्यमाणशक्ति- निर्णयमात्रहेतुत्वात् तदतिरिक्तानि त्रीणि प्रमाणान्येव प्रकृतविषयोपपादनाय स्वीकुर्मः ।

प्रतिज्ञा,

उदाहरणवाक्यम्

यस्य तु पर्वतः वह्न्यभाववानिति निश्चयः, इन्द्रियादिसाधनेषु न दोषज्ञानं तस्य निश्चयस्य प्रतिबन्धकत्वमस्ति एव इति न्यायवाक्यश्रवणेन परामर्शे उत्पन्नेऽपि न भवत्येव पर्वतः वह्निमान् इत्यनुमितिरिति पूर्वमुक्तमेवेत्यलं विस्तरेण ।

  • प्रतिज्ञा

प्रकृतमनुसरामः। स्वयं धूमपरामर्शात् वह्नयनुमितिमान् भूत्वा परज्ञानाय यान् पञ्चावयवान् प्रयुङ्क्ते तान् क्रमेणाह पर्वतो वह्निमानित्यादिना । यद्यपि परामर्शजन्या प्रमा अनुमितिः पर्वतो वह्निमान् इत्याकारिका उक्तैव । इदमपि वाक्यं तादृशमेव शाब्दबोधं जनयति । एवं च तज्ज्ञानम् अनुमित्या समानविषयकमुत्पन्नमिति का अपेक्षा अनुमितेः इति शङ्का भवति, तथापि तादृश एव अत्र श्रोता ग्राह्यः यस्य हेत्वाद्युपन्यासेन विना केवलं पर्वतो वह्निमान् इति वाक्यमात्रात् जिज्ञासा न शाम्यति । ज्ञातुमिच्छति च पर्वते वह्निसाधकः कः इति । तं प्रत्येव अग्रिमवाक्यानां प्रयोगः ।

यस्तु पर्वतो वह्निमान् इति वाक्यं श्रुत्वा तज्जन्यशाब्दबोधेन कृतकृत्यः न हेतुं जिज्ञासते, न तं प्रति हेत्वाद्युपन्यासः आवश्यकः । नापि परामर्शः तस्य निश्चयजनकः किन्तु शब्द एव । तस्य जायमानोऽपि शाब्दबोध एव इति ध्येयम् । एवञ्च शब्दात् पर्वते वह्निं ज्ञात्वापि कुतः तत्साधकं प्रमाणं किम् इति श्रोतुः जिज्ञासायां द्वितीयं वाक्यं प्रवर्तते धूमात् इति ।

उदाहरणवाक्यम्

यस्मात् पर्वते धूमः अस्ति अतः । अत्र च श्रोतुः आकाङ्क्षा भवति कुतो न जलात्, धूमादेव च कुतः? ताम् आकाङ्क्षां शमयितुं धूमे व्याप्त्याख्यः वह्निसम्बन्धः अस्ति इति बोधनाय तृतीयं वाक्यं प्रवर्तते यो यो धूमवान् सः वह्निमान् इति। अनेन वाक्येन हि पूर्वदर्शितरीत्या सकलधूमाधिकरणेषु वह्निसत्वं प्रतिपाद्यते ।

सर्वेषु धूमाधिकरणेषु वह्निरस्ति इत्यस्य अयमपि अर्थः भवति धूमाधिकरणेषु वह्न्यभावः नास्ति इति। तर्हि धूमाधिकरणेषु विद्यमानाः ये घटपटादीनामभावाः तेषां

१९९उदाहरणवाक्यम्

प्रतियोगित्वं घटे, पटे इत्यादौ । न कदाचिदपि वह्नौ । तदभावस्य धूमाधिकरणे असत्वात्। अतः धूमाधिकरणे विद्यमानः यः अभावः तस्य या प्रतियोगिता घटपटादौ विद्यमाना सा नास्तीत्यभावः वह्नौ लभ्यते । इदमेव वह्नेः धूमं प्रति व्यापकत्वं नाम ।

इत्थमेव घटाधिकरणे कपाले विद्यमानः अभावः पटो नास्ति, पुस्तकं नास्तीति अभावः, न हि क्वचिदपि चक्रं नास्तीति अभावः, कपाले संयोगसम्बन्धेन चक्रस्य सत्वात्। अतः घटाधिकरणवृत्त्यभावाः अन्येषामभावा एव। तत्प्रतियोगित्वं पटे, पुस्तके वा, प्रतियोगित्वं नास्तीति अभावः चक्रे अस्ति। अतः चक्रमपि भवति घटव्यापकम् । एवमेव सर्वत्र कार्यकारणभावस्थले कार्याधिकरणनिष्ठ-अभावप्रतियोगित्वाभावः तत्तत्कारणस्य आलोच्यः । तेन तत्तत्कारणस्य कार्यं प्रति व्यापकत्वसिद्धिः ।

परन्तु कारणत्वे अपरोऽयं विशेषः । तत्र कार्योत्पत्तेः पूर्वकाले कारणेन भाव्यम् । व्यापकत्वे तु कालविचारः नास्ति इति कारणत्वस्य व्यापकत्वस्य च भवति विवेकः। तदेतत् व्यापकत्वं सम्प्रति चित्रदृष्ट्या पश्यामः ।

[[२००]]

धूमः

वृत्तिः

निरूपिता

अधिकरणम्

अभावः (घटस्य)

चि.स.१४४

प्रतियोगिता

घटः

अभावः

वह्निः

एवमेव धूमस्य स्थाने घटं संस्थाप्य चक्रादौ प्रतियोगित्वाभावः दर्शनीयः । प्रकृते च यत्र यत्र धूमः तत्राग्निः इति वाक्येन वह्नौ धूमव्यापकत्वं बुद्ध्यते चेत् धूमेऽपि वह्निव्याप्यत्वं तुल्यवित्तिवेद्यं भवति । एकपदार्थज्ञाने नियमेन अपरपदार्थभानं भवति, अथवा एकपदार्थज्ञानेन नियमेन अपरपदार्थज्ञानं भवति चेत् तुल्यवित्तिवेद्यमिति अस्ति शास्त्रीयः व्यवहारः। यथा दशरथः रामस्य पिता इति ज्ञाने अवश्यं रामः दशरथपुत्रः

हेतोः द्वौ गुणौ

इति ज्ञायते। तत्र च पुत्रत्वं पितृत्वं तुल्यवित्तिवेद्यमिति उच्यते । एवं प्रकृतेऽपि एकस्य व्यापकत्वे ज्ञाते अपरस्य व्याप्यत्वमपि तुल्यवित्तिवेद्यं भवति । एवञ्च उदाहरणवाक्येन धूमनिष्ठा व्याप्तिः बोध्यते इति सिद्धम् ।

हेतुवाक्येन यद्यपि पर्वते धूमः अस्ति इति बोधितम् । परन्तु केवल धूमेन न वह्निज्ञापनाय अलम् । यो हि न वह्निव्याप्तिं धूमे जानाति, जानाति च केवलं धूमं, न हि तस्य वह्न्यनुमितिर्भवति। अतः वह्निव्याप्तिविशिष्टधूमः पर्वते ज्ञातव्यः। स च न एतावता बोधितः। अतः उदाहरणवाक्येन धूमे व्याप्तिबोधे जाते तादृशधूमः पर्वते अस्ति इति ज्ञापनाय प्रवृत्तमुपनयमाह तथा चायमिति । इह तथा इत्यस्य घटकेन तत्पदेन व्याप्तिविशिष्टः धूमः बोध्यते। तथा इत्यत्र यः थाल्प्रत्ययोऽस्ति सः आश्रयत्वं बोधयति। अयमिति सर्वनाम पर्वतबोधकम् । तस्य च पुरोवर्तित्वात् । तथा चाहत्य पर्वतः वह्निव्याप्यधूमवान् इति बोधः जायते।

  • हेतोः द्वौ गुणौ

अत्रेदं वक्तव्यम्। हेतुज्ञानेन साध्यानुमितिर्भवतीति एतावता आगतमेव । केवलस्य २०१ हेतोः ज्ञानेन न साध्यानुमितिर्भवति किन्तु गुणद्वयविशिष्टस्य ज्ञानेन । किं तत् गुणद्वयम् ? न रूपरसादि वैशेषिकशास्त्रगतम् । किन्तर्हि ? व्याप्तिराद्या, पक्षधर्मता अपरा । उदाहरणवाक्येन व्याप्तिर्बोध्यते इत्युक्तमेव । पक्षधर्मतापि च प्रतिज्ञाहेतुवाक्याभ्यां बोध्यते । प्रतिज्ञावाक्येन पर्वते वह्निबोधे जाते पर्वते एव तस्य साधकं किमिति जिज्ञासा भवति । तस्मात् हेतुवाक्येन यः धूमः बोध्यते सः पर्वते एव बोध्यते। तथा च विभिन्नवाक्याभ्यां व्याप्तिः पक्षधर्मता च यद्यपि बोधिता, तथापि न एकेन वाक्येनोभयबोधः इति भवति उपनयप्रवृत्तिः।

ननु किं गुणद्वयेन? अस्तु व्याप्तिरेव हेतुगुणः । भवति तेनैव अनुमितिः। किं पक्षधर्मतया ? सत्यम्, भवति व्याप्तिमात्रेण हेतुः साधकः । परन्तु साधकोऽपि हेतुः धर्मिविशेषानिर्धारणे असाधक एव स्यात् । तादृशं च विशेष्यं पक्षधर्मतया निश्चीयते ।

निगमनवाक्ये बोधवर्णनम्

हेतौ हि यन्निरूपितवृत्तित्वं परामर्शविषयः, स एव पदार्थः अनुमितौ विशेष्यविधया भासते नान्यः । प्रकृते च पञ्चावयववाक्यजन्यबोधेन जायमाने परामर्शे पर्वतः विशेष्यविधया भासते इति स एव अनुमितिविशेष्यः नान्यः । एवंविधं प्रयोजनं बुद्धौ निधाय व्याप्तिः पक्षधर्मता च द्वौ हेतुगुणौ इत्याहुः ।

  • निगमनवाक्ये बोधवर्णनम्

प्रकृतमनुसरामः । उपनयवाक्येन धूमे व्याप्तिः पक्षधर्मता च बोधिता । तादृशगुणवता हेतुना बोध्यः वह्निः पर्वतेऽस्तीति बोधनायाग्रिमवाक्यं यत् प्रवर्तते निगमनरूपं तदाह तस्मात् तथा इति । इह प्रथमतत्पदेन पूर्ववाक्योक्तः वह्निव्याप्यपर्वतवृत्तिधूमः ग्राह्यः, पञ्चम्यर्थः बोध्यत्वम् । तच्च द्वितीयतत्पदार्थे वह्नौ सम्बध्यते । तदुत्तरवर्तिथालूप्रत्ययस्य पूर्ववत् आश्रयत्वमर्थः । उपनयात् अयमिति पर्वतबोधकं पदमत्र अनुषञ्जनीयम् ।

तत्

स्मात्

तत्

था

अयम्

वह्निव्याप्यधूमः

→ बोध्यत्वम्

वह्निः

[[२०२]]

आश्रयत्वम् पर्वतः

इति दर्शितरीत्या पदार्थानां सम्बन्धे

वह्निव्याप्यधूम → बोध्य

→ वह्नि

आश्रयत्ववान् पर्वतः

चि.स. १४५

इतीष्टबोधः सिद्ध्यति । अत्र च पदैः उपस्थितानां पदार्थानां परस्परसम्बन्धे विशेषः शब्दखण्डे निरूपयिष्यते 1

एवं च निगमनजन्यबोधे जाते श्रोतुः परामर्शः उत्पद्यते । ततश्च तस्य पर्वतो वह्निमान् इत्यनुमितिः उत्पद्यते। एतत्तत्त्वं तु असकृदावेदितमेव इति नात्र बहु वक्तव्यम्।

अनुमितिप्रकरणे तल्लक्षणम् अभिधाय तज्जनकीभूतपरामर्शे विषयीभवन्ती व्याप्तिः पक्षधर्मता च उक्ते । ततः कथं व्याप्तिज्ञानं परामर्शं जनयति, कथं वा परामर्शः

अन्वयव्यतिरेकिहेतुः

जनयति अनुमितिमिति निरूप्य यत्तु स्वयं धूमादग्निमनुमाय इत्यादिना परार्थानुमान- प्रयोजकपञ्चावयवान् ग्रन्थकारः दर्शितवान्। इदानीम् उभयत्र निरूपितं परामर्शस्य अनुमितिकरणत्वम् असाधारणकारणत्वरूपम् उपसंहरति- तस्मात् स्वार्थानुमिति- परार्थानुमित्योः लिङ्गपरामर्शः एव करणम् इति ।

  • अन्वयव्यतिरेकिहेतुः

द्वौ हेतुगुणौ प्रागुक्तौ । तत्र पक्षधर्मता भवति एकविधा एव । व्याप्तिस्तु द्विविधा । एका अन्वयव्याप्तिः। अपरा व्यतिरेकव्याप्तिः। कश्चित् हेतुः उभयाश्रयो भवति। कश्चित् एकैकस्याः एवाश्रयः। तेन च हेतोरपि त्रैविध्यं भवति । तदेव सम्प्रति आह लिङ्ग त्रिविधमिति ।

लिङ्गं त्रिविधम् । अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि । यथा वह्नौ साध्ये धूमवत्त्वम् । यत्र धूमस्तत्राग्निः यथा महानसमित्यन्वयव्याप्तिः। यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाह्रद इति व्यतिरेकव्याप्तिः । अन्वयमात्रव्याप्तिकं केवलान्वयि । यथा घटोऽभिधेयः प्रमेयत्वात् पटवत् ।

अत्र प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्तिर्नास्ति सर्वस्यैव प्रमेयत्वादभिधेयत्वाच्च । व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि । यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात् । यदितरेभ्यो न भिद्यते। न तद्गन्धवत् यथा जलम् । न चेयं तथा । तस्मात् न तथेति । अत्र यद्गन्धवत् तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति । पृथिवीमात्रस्य पक्षत्वात् ।

अयमाशयः। व्याप्तिः साध्यहेत्वोः सम्बन्धः इति प्रागुक्तम् । स च अनेक- पदार्थघटितः। (पृ.१८४)दर्शिता व्याप्तिः पञ्चपदार्थघटिता। पञ्चपदार्थघटिता इत्यस्य पञ्च पदार्थान् ज्ञात्वा एव तस्याः ज्ञानं भवतीत्यर्थः। ते च पञ्च पदार्थाः व्याप्तिघटकाः इत्युच्यन्ते। व्याप्तिघटक इत्यस्य तज्ज्ञानेनैव व्याप्तिः ज्ञायते इत्यर्थः । तथा च यस्यां हेतुः

[[२०३]]

[[२०४]]

अन्वयव्यतिरेकिहेतुः

साध्यं च घटकौ, हेतुसाध्ययोः ज्ञानेनैव या व्याप्तिः ज्ञायते सा अन्वयव्याप्तिरित्युच्यते ।

शब्दखण्डे यद्यपि अन्वयपदेन पदार्थयोः संसर्गः अभिधास्यते तथापि इह अन्वयपदेन हेतुः, साध्यं च, अथवा तयोः विद्यमानत्वं ग्राह्यम् । विद्यमानत्वमिति कुतः उच्यते? यस्मात् अन्या या व्यतिरेकव्याप्तिः, सा तयोः अविद्यमानत्वमादाय वर्णिता। अविद्यमानत्वम् अभावः, साध्यस्य अभावः, हेतोः च अभावः । तथा च यस्यां व्याप्तौ साध्याभावः हेत्वभावश्च घटकौ सा व्यतिरेकव्याप्तिः इत्युक्तौ, तद्विपरीतं विद्यमानत्वमेव अन्वयपदेन ग्राह्यं भवति । क्वचित् ग्रन्थे अन्वयः इत्यस्य साध्यम् इति अर्थः वर्णितः ।

[[1]]

न्यायभाष्यवार्तिकादौ अपि पदमिदं प्रयुक्तम् । परन्तु विशिष्य अन्वय इति पदस्य अर्थमनुक्त्वा फलतः साध्यहेत्वोः व्याप्तिः इति वर्णितम् । तदनुरोधेन च मयापि तादृशार्थः वर्णितः । तथा च यस्याः व्याप्तेः ज्ञानं साध्यहेत्वोः ज्ञानेन भवति साध्यहेतू यस्याः घटकौ भवतः सा अन्वयव्याप्तिः इति फलितम् । साध्याभावहेत्वभावाभ्यां यस्याः व्याप्तेः ज्ञानं भवति साध्याभावहेत्वभावौ यस्याः घटकौ, यस्याम् अन्तर्भूतौ, सा व्यतिरेकव्याप्तिः इति च । तदेतत् सर्वं मूलव्याख्याने इतोऽपि स्पष्टी भविष्यति ।

तत्रादौ उभयव्याप्तिमन्तं हेतुमेव दर्शयति अन्वयेनेत्यादिना । धूमे वह्नेः अन्वयव्याप्तिरस्ति, व्यतिरेकव्याप्तिरप्यस्ति। पूर्वविवरणानुरोधेन यस्यां व्याप्तौ हेतुः साध्यं च घटकं ताम् अन्वयव्याप्तिं धूमे दर्शयति यत्र धूम इति ।

यत्र धूमः तत्राग्निरिति अन्वयव्याप्तिप्रदर्शकं वाक्यं मूले अभिहितम् । तेन (पृ.१९१) उक्तरीत्या सर्वेषु धूमाधिकरणेषु अग्निः अस्ति इत्येव ज्ञायते । तच्च तत्रैव चित्रादौ दर्शितरीत्या व्यापकत्वरूपं भवति । तच्च व्यापकत्वं वह्नेः धर्मः । व्याप्तिस्तु धूमस्य धर्मः। स च प्रकृते अनेन वाक्येन नैव बोध्यते इति कथं ग्रन्थकारेण तथोक्तमिति आशङ्का यद्यपि भवति, तथापि धूमस्य सर्वेषु अधिकरणेषु वह्निः वर्तते इत्यनेन वह्नेः व्यापकत्वमिव तुल्यवित्तिवेद्यतया धूमे वह्निसामानाधिकरण्यम् अस्ति इत्यपि बोध्यते एव ।

व्यतिरेकव्याप्तिः

न हि एवं सम्भवति वह्निः धूमव्यापकः, धूमस्तु वह्नयधिकरणे नास्ति। न हि एवं सम्भवति चक्रं घटव्यापकम्। घटस्तु चक्राधिकरणे नास्ति । एवञ्च एकपदार्थे व्यापकत्वभाने अपरपदार्थे तत्सामानाधिकरण्यमवश्यं भासते इत्यभ्युपेयम् । अर्थात् तद्धूमनिष्ठम्। अतः स्वस्य यः व्यापकः वह्निः, तत्सामानाधिकरण्यं धूमे आगतमिति इयमेव अन्वयव्याप्तिः धूमनिष्ठा अनेन वाक्येन पदैः, अर्थाच्च बोध्यते इति न दोषलेशः । इह च साध्यस्य वह्नेः, हेतोः धूमस्य व्यतिरेकः अभावः न ज्ञातव्यो भवति। धूमाधिकरणे घटादीनामेव अभावः खलु गृहीतः। अतः व्यतिरेकस्य अनावश्यकत्वात्, वह्निधूमयोः ज्ञानादेव अस्याः व्याप्तेः ज्ञानमिति इयम् अन्वयव्याप्तिरित्युच्यते ।

  • व्यतिरेकव्याप्तिः

सम्प्रति व्यतिरेकव्याप्तिं दर्शयति यत्र वह्निर्नास्तीति । व्यतिरेकः अभावः । स च साध्यस्य हेतोश्च ग्राह्यः । तयोः व्याप्तिरूपः सम्बन्धः । इहापि एकः व्यापको भवति अपरः व्याप्यः। यः व्यापकः सः व्याप्तिनिरूपकः इत्युच्यते । यः व्याप्यः सः व्याप्त्याश्रयः। यथा वह्निः व्यापकः धूमनिष्ठव्याप्तिनिरूपकः । धूमः वह्निनिरूपितव्याप्त्याश्रयः। पूर्वोदाहृतस्थले दृष्टमिदमस्माभिः । शते अधिकरणेषु मध्ये दशसु स्थलेषु अस्ति वह्निः, धूमश्च पञ्चसु स्थलेषु । तर्हि दशभ्यः अधिकरणेभ्यः भिन्नाः ये ये पदार्थाः ह्रदादयः तत्र वह्निः नास्ति धूमोऽपि नास्ति। न तु एतावन्मात्रम् । वह्नेरपि यानि दश अधिकरणानि तेषु पञ्चसु एव अस्ति धूमः। तदितरेषु तर्हि धूमो नास्तीति अभावः आगतः।

आहत्य नवत्यां स्थलेषु वह्न्यभावः, पञ्चनवत्यां स्थलेषु धूमाभावः इति लभ्यते । तेन च धूमाभावः व्यापकः वह्न्यभावनिष्ठव्याप्तिनिरूपकः। वह्नयभावश्च धूमाभावव्याप्यः, धूमाभावनिरूपितव्याप्त्याश्रयः इति च आयाति। अतः यत्र यत्र वह्न्यभावः तत्र धूमाभावः इति उक्तं साधु सङ्गच्छते।

अन्यूनवृत्तित्वं व्यापकत्वं न तु अधिकदेशवृत्तित्वम्

अत्रेदमवधेयम्। वह्निधूमयोः उदाहरणं, तदुपपादनाय तयोः अधिकरणानां परिगणनं, तत्र न्यूनत्वाधिक्यविचारः इति सर्वं ज्ञात्वा एवं कस्यचित् भवति ज्ञानम्,

[[२०५]]

[[२०६]]

अन्यूनवृत्तित्वं व्यापकत्वं न तु अधिकदेशवृत्तित्वम्

व्यापको नाम अधिकस्थलवृत्तिः, व्याप्यो नाम न्यूनस्थलवृत्तिः । युज्यते चापीदं प्रकृतोदाहरणे। व्याप्यस्य धूमस्य पञ्च स्थलानि । व्यापकस्य वह्नेः दश स्थलानि। एवमभावयोरपि। व्याप्यस्य वह्न्यभावस्य नवतिः स्थलानि । व्यापकस्य धूमाभावस्य पञ्चनवतिः स्थलानि ।

परन्तु अनेकानि तथाविधानि साध्यहेत्वोः उदाहरणानि भवन्ति यत्र साध्यस्य यावन्ति स्थलानि, तत्तुल्यानि हेतोरपि । न हि तत्र न्यूनाधिकभावः । यथा वह्निः तेजस्त्ववान् उष्णस्पर्शात् इत्यत्र। अत्र च वह्निः पक्षः। तेजस्त्वजातिः साध्यते। उष्णस्पर्शः हेतुः। अत्र तेजस्त्वजातेः यावन्ति अधिकरणानि तत्र सर्वत्र उष्णस्पर्शः वर्तते। एवम् उष्णस्पर्शः यावत्सु अधिकरणेषु अस्ति तत्र सर्वत्र तेजस्त्वजातिः। न हि अत्र अधिकरणानां न्यूनाधिकभावः । अस्ति च व्याप्यव्यापकभावः ।

अतः साध्यत्वेन यत् अभिमतं तत् हेतोः यावन्ति अधिकरणानि तदपेक्षया न्यूनस्थलेषु मा भूत् इत्येव अपेक्षितम् । एवंविधम् एव अन्यूनवृत्ति इत्युच्यते । तस्य च भावः अन्यूनवृत्तित्वम्।

धूमः

पर्वतः

धूमशकटम्

चत्वरः

गोष्ठम्

महानसम्

चि.स.१४६

इमानि हि धूमस्याधिकरणानि । तदपेक्षया वह्नेः अधिकरणानि न न्यूनानि । अधिकानि सन्तुं वा न वा । व्यापकत्वाय तत् न चिन्तनीयम् । न्यूनानि तावत् मा भूवन् । अतः वह्निः धूमस्य व्यापकः । वह्निः तेजस्त्ववान् उष्णस्पर्शात् इत्यत्रापि उष्णस्पर्शः हेतुः। तस्य यावन्ति स्थलानि तदपेक्षया साध्यस्य अधिकरणानि यद्यपि नाधिकानि,

अनतिरिक्तवृत्तित्वं व्याप्यत्वम्

न न्यूनान्यपि। अतः तेजस्त्वं उष्णस्पर्शस्य भवति व्यापकम् । इत्थमेव सर्वत्र साध्यपदार्थः ज्ञातव्यः यः हेत्वपेक्षया अन्यूनवृत्तीति ।

  • अनतिरिक्तवृत्तित्वं व्याप्यत्वम्

एवं विस्तरेण साध्यस्वभावे चिन्तिते हेतोरपि न्यूनवृत्तित्वम् अनपेक्षितमिति सुज्ञेयम् । तथापि हितार्थमुच्यते । यदि हेतुः न्यूनाधिकरणवृत्तिः आवश्यकः इति नियमो भवेत्, तदा पूर्वोक्ते वह्निः तेजस्त्ववान् उष्णस्पर्शात् इति स्थले दोषः। दर्शितरीत्या तत्र साध्यहेत्वोः तुल्याश्रयाश्रितत्वात् । अतः यः हेतुत्वेन अभिमतः सः साध्याधिकरणभिन्ने न भवेत् साध्याभावाधिकरणे न भवेत् ।

वह्निः

सर्वं जगत्

वह्नयभाववत् (हृदादि)

वृत्तित्वम्

जलादौ

चि.स.१४७

इमानि च वह्नेः अधिकरणानि । धूमस्य तदपेक्षया अधिकानि न सन्ति । न्यूनानि सन्तु वा मा स्म भवन्। न हि तत् व्याप्यत्वनिर्वाहाय आवश्यकम् । अधिकानि तावत् मा भूवन्। एष एव हि हेतुः, यः साध्यापेक्षया अधिकस्थलेषु भवति सः साधारणः, व्यभिचारी इति वा कथ्यते । तदेतत् हेत्वाभासप्रकरणे चिन्तयामः । प्रकृते च धूमः न तथाविधः । न सन्त्येव तस्य अधिकानि अधिकरणानि ।

एवमेव वह्नौ उष्णत्वसाधकः तेजस्त्वहेतुः । मा भूत् नाम सः न्यूनस्थलेषु । अधिकेषु परं नास्तीति सः अनतिरिक्तवृत्तिः इति कथ्यते । तस्य भावः अनतिरिक्त- वृत्तित्वम् । प्रकरणार्थस्तु साध्यस्य अन्यूनवृत्तित्वं, साधकस्य हेतोः अनतिरिक्तवृत्तित्वं चापेक्षितमनुमितये। अतः तदस्तित्वनास्तित्वे एव सर्वदा इह चिन्त्ये इत्यलम्।

[[२०७]]

व्यतिरेकव्याप्त्या हेतोः कः लाभः ?

वह्नित्वम् प्रकारता

वह्निः

विशेष्यता अभावत्वम्

प्रकारता

अभावः

विशेष्यता

व्यापकत्व- त्वम्

व्यापकत्वम्

विशेष्यता

अभावत्वम्

प्रकारता

प्रकारता

अभावः

[[२०८]]

विशेष्यता प्रतियोगि-

प्रकारता

त्वत्वम्

प्रतियोगित्वम्

विशेष्यता

प्रकारता

धूमत्वम्

धूमः

विशेष्यता पर्वतत्वम्

पर्वतः

चि.स.१४८

  • व्यतिरेकव्याप्त्या हेतोः कः लाभः ?

प्रकृतमनुसरामः । व्यतिरेकयोः व्याप्तिः व्यतिरेकव्याप्तिः इति हि प्रक्रान्तम् । साध्याभाव- हेत्वभावौ प्रकृताभावौ। तयोः व्याप्तिः। तत्रापि वह्नयभावः व्याप्यः धूमाभावः व्यापकः इति ।

अस्तु तावत् वह्न्यभावधूमाभावयोः व्याप्यव्यापकभावः। तेन प्रकृतहेतोः धूमस्य को लाभः? वह्न्यभावे विद्यमाना धूमाभावव्याप्तिः तत्रैव भवेत्। न तु प्रकृतहेतौ धूमे। साधकस्य धूमस्य खलु व्याप्तिः पक्षधर्मता इति द्वौ गुणौ अपेक्षितौ । दर्शितव्याप्तिस्तु अस्ति वह्न्यभावे। यत्र यत्र वह्न्यभावः तत्र धूमाभाव इत्युक्तत्वात् इति चेत्

सत्यम् - इयं व्याप्तिः वह्न्यभावनिष्ठा एव । तथापि तु व्यापकीभूतः यः धूमाभावः तत्प्रतियोगित्वं धूमे ब्रूमः चेत् परम्परया सा धूमनिष्ठापि भवति ।

वह्नयभावस्य व्यापकः यः धूमाभावः तत्प्रतियोगित्वं तदर्थः। इहापि सन्ति पञ्च पदार्थाः । साध्यम्, अभावः, व्यापकत्वम्, अभावः, प्रतियोगित्वं च । एतादृशप्रतियोगित्वरूपा या व्याप्तिः सा परामर्शे हेतौ भासते । तादृशश्च हेतुः पक्षे इति आहत्य पूर्ववदेव परामर्शे सप्त पदार्थाः विषयाः । साध्ये मुख्यप्रकारत्वम् । पक्षे च मुख्यविशेष्यत्वम् । अत्र ज्ञानीयप्रकारत्वविशेष्यत्वे चित्रेण स्पष्टे ।

अभिधेयत्वपदार्थः

एतादृशविवरणेन इदं निश्चितं यत् धूमे, स्वस्य यः व्यापकः वह्निः, तत्सामानाधिकरण्यरूपा अन्वयव्याप्तिर्वर्तते। (पृ.२०४) एवम् अनुपदं निरूपिता या अभावयोः व्याप्तिः, वह्न्चभावव्यापकीभूताभावप्रतियोगित्वरूपा, सापि वर्तते । अतः उभयविधव्याप्तिमत्त्वात् धूमः अन्वयव्यतिरेकी इति कथ्यते । वक्ष्यमाणहेत्त्वोस्तु अन्वयव्याप्तिः व्यतिरेकव्याप्तिर्वा एका काचन भवति न द्वे अपि इति अन्वयव्याप्तिमतः केवलान्वयी इति, व्यतिरेकव्याप्तिमतः केवलव्यतिरेकी इति च सञ्ज्ञा भवति । तत्रादिममाह। घटोऽभिधेयः प्रमेयत्वादिति ।

एतावत्पर्यन्तं यत् साध्यं वा हेतुर्वा निर्दिष्टः, सः भवति लोकसिद्धः। वह्निः, धूमः, उष्णस्पर्शः इत्येते लोकसिद्धा एव। तेजस्त्वजातिरपि च सर्वेषु तेजस्सु प्रत्यक्षसिद्धा न वर्णनीया। परन्तु इह यौ साध्यहेतू वर्तेते तयोरुपपादनाय यत्नो विधेयः। इह घटः पक्षः इति न तद्विषये किञ्चित् वक्तव्यमस्ति।

घटोऽभिधेयः प्रमेयत्वात् इति पक्षसाध्यहेतुनिर्देशे अभिधेयः इति साध्यनिर्देशः। परन्तु अभिधेयस्तु पक्ष एव भवतीति सः साध्यं न भवितुमर्हति । यथा च गन्धवती पृथिवी इति लक्ष्यलक्षणबोधके ग्रन्थे पृथिवीस्वरूपमुक्तं भवति । तथा इहापि घटः अभिधेयः इत्यनेन पक्षस्वरूपसाध्यस्यैव निर्देशः। अतः पक्षवृत्तिधर्मज्ञानाय अभिधेयपदोत्तरं भावप्रत्ययः कार्यः। अभिधेयत्वमिति निष्पन्ने ततः आधाराधेयभावबोधाय मतुप्प्रत्ययः । तथा च घटः अभिधेयत्ववान् प्रमेयत्वादिति निर्देशः फलति।

  • अभिधेयत्वपदार्थः

सम्प्रति साध्यम् अभिधेयत्वं हेतुश्च प्रमेयत्वं किंरूपमिति ज्ञातव्यम् । कुतः एतत्? तत्स्वरूपे ज्ञाते तत्र अन्वयव्याप्तिरेव सम्भवति न व्यतिरेकव्याप्तिरिति सम्यक् ज्ञातुं शक्यते नान्यथा। तदर्थमावश्यकमभिधेयत्वस्य प्रमेयत्वस्य च स्वरूपज्ञानम् । व्याप्तिपदार्थनिरूपणप्रसङ्गे उक्तास्माभिः पदानां बोधकता । पदमिति किम् ? क्रमविशिष्टः वर्णसमुदायः येन कश्चित् अर्थः बोध्यते । तत्रादौ घटपदमुदाहरामः ।

[[२०९२१०]]

अभिधेयत्वपदार्थः

घकारोत्तरवर्ति-अकारोत्तरवर्ति-टकारोत्तरवर्ति-अकाररूपः घटपदे अस्ति क्रमः। तेन क्रमेण तेषां वर्णानां ज्ञाने सति कम्बुग्रीवादिमान् पदार्थः बुद्धौ आयाति ।

न आयाति ।’ यो हि नाम न जानाति तादृशक्रमविशिष्टवर्णैः घटः बोध्यते, सः न जानात्येव घटपदं श्रुत्वापि अर्थम् । अन्यथा हि सर्वोऽपि सर्वाः भाषाः जानीयात् । यदा कश्चित् संस्कृतभाषाभिज्ञः घट इति पदस्य अयं कम्बुग्रीवादिमान् अर्थः इति कथयति ततः परं खलु पदश्रवणेन अर्थज्ञानं, न पूर्वमपि ।

सत्यम्, न केवलं पदज्ञानं पर्याप्तम्। किन्तु पदमिदं कस्य बोधकमिति ज्ञानमपि आवश्यकम् एव। अयं हि पदस्य विशेषः यत् बोधकमिति ज्ञातं सत् बोधकम्। न तथा इन्द्रियम्। न तत्र कस्यचित् ज्ञानस्य अपेक्षा। उद्घाटितनयनस्य पुंसः हि कस्यचित् ज्ञानेन विनैव उत्पद्यते घटप्रत्यक्षम् । नापि एवंविधः हेतुः । न हि सः बोधकः इति ज्ञातः बोधको भवति। अयं हेतुः साध्यव्याप्यः, पक्षवृत्तिः इति ज्ञातः सन् खलु भवति बोधकः । अतः हेतोरपि धूमः वह्निबोधकः इति ज्ञानापेक्षा नास्ति। परन्तु पदं न ज्ञानमात्रेण बोधकं किन्तु घटपदं घटबोधकमिति ज्ञातं सत् बोधकम् ।

घटपदं घटपदार्थं बोधयति न पटपदार्थमिति च व्यवस्थितं दृष्टम् । केन इयं व्यवस्था ? उच्यते। साधयामस्तावत् निदर्शनेन । तत्र लोके यज्ञदत्तस्य स्तः द्वौ पुत्रौ । चैत्रः एकः मैत्रः अपरः । तत्रापि हि चैत्र इति क्रमिकवर्णैः चैत्रशरीरमेव कुतः बुध्यते, मैत्रशरीरं कुतो न ? एवं मैत्र इति क्रमिकवर्णैः मैत्रशरीरमेव बुद्ध्यते न चैत्रशरीरमिति च कुतः ? तत्र नियामकगवेषणायाम् इतरस्य अभावात् पित्रोः इच्छया एव इयं व्यवस्था इति वक्तव्यम्। पित्रोः इच्छया खलु चैत्रशरीरं चैत्र इति सम्बोध्यते, मैत्रशरीरं च मैत्र इति सम्बोध्यते। अतः सर्वत्र पदविशेषेण अर्थविशेषे बोध्ये इच्छायाः नियामकत्वं

कल्पयामः।

आधुनिकपदार्थेषु एवंविधेच्छा यद्यपि पित्रोः, सङ्गणकादौ तत्तत्पदार्थकर्तुः वा सम्भवति, अनादिघटादिपदार्थे तु कस्येच्छा सम्भवति ? न कश्चित् अल्पज्ञः आत्मा अनादौ व्यवहारे पर्याप्तः यस्य इच्छया सर्वे घटपटादिव्यवहाराः निर्वर्तयितुं शक्याः ।

१ - शङ्का ।

[[7]]

अभिधेयत्वस्य केवलान्वयित्वम्

अतः सर्वज्ञस्य भगवतः एव सा इच्छा, यया सर्वेषां पदानां भवति व्यवस्था, घटपदं घटबोधकं न पटबोधकं, पटपदं च पटबोधकं नान्यबोधकमिति कल्पयामः । यद्यपि उद्देशग्रन्थे गुणेषु सा इच्छा इत्येव निर्दिश्यते, तथापि पदानां बोधकत्वव्यवस्थायै सैव शक्तिः, अभिधा वा इत्युच्यते । अभिधा इत्यस्य ईश्वरेच्छा इत्यर्थः ।

  • अभिधेयत्वस्य केवलान्वयित्वम्

इयमभिधा इच्छारूपा इति ज्ञानादिवदेव सविषया भवति । स्वविषयनिष्ठविषयता- निरूपिका इत्यर्थः । क्व अभिधायाः विषयता वर्तते ? जगति सर्वत्र । घटे, पटे, मठे, पुस्तके । क्व नास्ति विषयता ? किम्बहुना स्वस्मिन्नपि अस्ति। यद्धि अभिधापदं, तस्य बोध्यतां स्वस्मिन्नेवेयम् अवगाहते। किमुत अन्यपदार्थेषु। एवंविधाभिधाविषयत्वमेव अभिधेयत्वम् । तच्च सर्वत्रास्ति । तस्य अभावः अप्रसिद्धः । शशविषाणवत् ।

या च अभावघटिता व्याप्तिः साध्याभावव्यापकीभूताभावप्रतियोगित्वरूपा तत्र साध्याभावः प्रविष्ट इति निरूपितमेव । प्रकृते च अभिधेयत्वमस्ति सर्वत्र इति तदभावं ज्ञात्वा या व्याप्तिः ज्ञातव्या सा ज्ञातुं न शक्यते । पूर्वं हि वह्न्यभावं ह्रदे २११ ज्ञात्वा तत्र धूमाभावमपि ज्ञातवान् । ततः तत्प्रतियोगित्वं धूमे ज्ञातमिति धूमे व्यतिरेकव्याप्तिः सुज्ञेया इति निरूपितम् । प्रकृते तु साध्याभावस्य शशविषाणवत् अप्रसिद्ध्या न सः क्वापि ज्ञातुं शक्यः इति नतरां तत्र हेत्वभावः, तत्प्रतियोगित्वं वा हेतौ सम्भवति। अतः इह व्यतिरेकघटितव्याप्तिग्रहः न सम्भवति इति अयं हेतुः केवलान्वयी इति कथ्यते ।

एवंविधः सर्वत्र विद्यमानः पदार्थः एव केवलान्वयी इति शास्त्रे व्यवह्नियते । किं तस्य केवलान्वयित्वं नाम ? न तस्य क्वापि अत्यन्ताभावः भवति। तर्हि यथा नित्यत्व- परिष्कारे पदार्थान्तरध्वंसमादाय तदप्रतियोगित्वमेव नित्यत्वं गगनादौ दर्शितं, (पृ.३९) तद्वदेव इहापि घटाद्यभावमादाय तादृशाभावस्य यत् प्रतियोगित्वं, तदभावः अभिधेयत्वेऽस्तीति अभिधेयत्वं केवलान्वयि इति साधनीयम् ।

[[२१२]]

अभिधेयत्वस्य केवलान्वयित्वम

घटे तु पटाभावप्रतियोगित्वं यद्यपि नास्ति तथापि स्वाभावप्रतियोगित्वं सुतरामिति न सः तथा केवलान्वयी । एवमेव पटादौ द्रष्टव्यम् । अतः एव शास्त्रे एतेषां व्यतिरेकी इति व्यवहारो दृश्यते, येषां हि अभावः प्रसिद्ध्यति । अभिधेयत्वं तु न तथा इति तस्य केवलान्वयित्वमिति प्रागुक्तमेव ।

एवमेव प्रमेयत्वरूपहेतुरपि ज्ञातव्यः । प्रमा च यथार्थज्ञानम्। ईश्वरीयज्ञानं भवति तथाविधम्। तद्विषयत्वं च प्रमेयत्वम्। तदपि घटे, पटे, मठे, सर्वत्र जगति वर्तते इति तदपि भवति केवलान्वयि । तदभावोऽपि तर्हि अप्रसिद्धः। अतः हेत्वभावघटिता व्याप्तिः ज्ञातुं न शक्यते । तदेतत् सर्वं मनसि निधाय उक्तं सर्वस्यैव प्रमेयत्वात् अभिधेयत्वाच्च ।

कीदृशस्तर्हि व्याप्तिग्रहः प्रकृते ? उच्यते । साध्यहेत्वोरन्वयव्याप्तिरेव इह गृह्यते। प्रमेयत्वस्य यदधिकरणं भूतलं तत्र विद्यमानः अभावः, न हि अभिधेयत्वस्य अभावः, तस्य अप्रसिद्धत्वात्। किन्तु घटो नास्तीति अभावः । तत् प्रतियोगित्वं घटे, प्रतियोगित्वाभावः अभिधेयत्वे इति भवति अभिधेयत्वं प्रमेयत्वस्य व्यापकम् । तत्सामानाधिकरण्यं प्रमेयत्वे अस्ति इति प्रमेयत्वे अभिधेयत्वस्य अन्वयव्याप्तिरागता । तादृशस्य प्रमेयत्वस्य घटे ज्ञानमेव इह परामर्शः । तदाकारस्तु घटः प्रमेयत्वाधिकरण-

प्रमेयत्वम्

प्रतियोगिता

वृत्तित्वम्

निरूपिता

अभावः

घटादिः

पटस्य अभावः

पटः

अभिधेयत्वम्

प्रमेयत्वम्

घटः

घटः

चि.स.१४९

केवलव्यतिरेकिणः निरूपणम्

वृत्त्यभावप्रतियोगित्वाभाववद्-अभिधेयत्वसमानाधिकरणप्रमेयत्ववान् इति । तेन च घटः अभिधेयत्ववान् इति अनुमितिर्जायते इति सिद्धं प्रमेयत्वस्य केवलान्वयित्वम् ।

  • केवलव्यतिरेकिणः निरूपणम्

इदानीं केवलव्यतिरेकिणमाह पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वादिति । अयमत्र विवेकः । हेतोः स्वभाववर्णने अन्वयव्याप्तिः व्यतिरेकव्याप्तिश्च निरूपिता । तत्र घटे अभिधेयत्वसाधने प्रमेयत्वहेतौ व्यतिरेकव्याप्तिर्नास्ति इति सः केवलान्वयिहेतुः इत्युक्तम्। तत् कुतः? व्यतिरेकव्याप्तिः साध्याभावहेत्वभावाभ्यां घटिता इति प्राक् दर्शितम्। तयोस्तु साध्यहेत्वोः केवलान्वयित्वात् अभावः न प्रसिद्ध्यति इति न व्यतिरेकव्याप्तिः ।

अत्र हि, यत् साध्यं, वक्ष्यमाणः इतरभेदः न सः अप्रसिद्धः। तथा हि - इह पृथिवी पक्षः, इतरभेदः साध्यम्, गन्धवत्त्वं हेतुः। गन्धवत्त्वं तु गन्धः। सः पृथिवीलक्षणमित्युक्तमेव। तेन च गन्धेन पृथिव्याम् इतरभेदः साध्यते । कोयमितरभेदः ? पृथिवीं विहाय, यावन्ति द्रव्याणि, यावन्तो गुणाः, कर्माणि, सर्वाणि सामान्यानि, विशेषाः, समवायः, अभावाश्च इति ये सप्तापि पदार्थाः तेषां भेदाः। तत्र गुणाः चतुर्विंशतिः, २१३ कर्माणि पञ्च, अभावाश्च चत्वारः, समवायः एकः, जातयः विशेषाश्च अनन्ता इति अनेके भेदाः स्वीकार्याः स्युरिति लाघवात् गुणो न इति एकः भेदः, एवं कर्म न, सामान्यं न, विशेषो न, समवायो न, अभावो न इति षट् भेदाः, गृहीतव्याः ।

तत्र गुणो न इति भेदप्रतियोगिता सर्वगुणेषु, प्रतियोगितावच्छेदकं गुणत्वमिति, गुणत्वावच्छिन्नप्रतियोगितानिरूपकोऽयं भेदः। अयमेव गुणसामान्यभेदः इत्युच्यते। अयं च गुणेषु न क्वापि अस्ति । कुतः ? यतः रूपादौ स्वात्मकगुणः तादात्म्येन भवति । यत्र हि तादात्म्येन प्रतियोगी, न तत्र भेद इति गुणो न इति भेदः गुणान् विहाय सर्वेषु पदार्थेषु वर्तते । एवं कर्म न इति सामान्यभेदोऽपि कर्म विहाय अन्येषु पदार्थेषु वर्तते। सामान्यं न इति भेदः सर्वसामान्यानि विहायान्यत्र वर्तते । विशेषो न, समवायो न, अभावो न इत्यत्रापि तथैव।

केवलव्यतिरेकिणः निरूपणम्

  • द्रव्यं न इति भेदस्तु न साध्ये अन्तर्भवति । पृथिवी खलु प्रकृतपक्षः। सापि द्रव्यम्। अतः तत्र जलं न, तेजः न, इत्यादिभेदाः सन्तु नाम । द्रव्यं न इति भेदः न पृथिव्यां साधयितुं शक्यः। अतः पृथिवीं विहाय, अन्यानि अष्टौ द्रव्याणि आदाय तेषाम् अष्टौ भेदाः, गुणादीनां तु षट् सामान्यभेदाः, आहत्य चतुर्दश भेदाः लभ्यन्ते । तथा च सङ्ग्रहपङ्कौ इतरेभ्यो भिद्यते इति यः साध्यनिर्देशः कृतः सः एतान् चतुर्दश भेदान् बोधयति ।

पर्वतो वह्निमान् इत्यादौ

वह्नित्वेन वह्निरेव साध्यते । इह तु

गुणः

गुणो न इति भेदः

तादात्म्यम्

गुणः

इतरेभ्यो भिद्यते इत्यत्र इतरपदेन अष्टौ द्रव्याणि गुणादयः षट् पदार्थाः

द्रव्यादयः षट्पदार्थाः

च बोध्यन्ते । भिद्यते इति पदेन

जलम्

जलं न इति भेदः

बोधिते भेदे चतुर्दशानां पदार्थानां

[[२१४]]

तादात्म्यम्

प्रत्येकमन्वयः इति चतुर्दश भेदाः

जलम्

जलातिरिक्तं सर्वं जगत्

साध्यमित्यर्थो लभ्यते। यद्यपि गुणो न, कर्म न इति एकैकः भेदः गुणं

इत्येवं सर्वत्र चिन्त्यम् ।

विहाय सर्वत्र, कर्म विहाय सर्वत्र

चि.स.१५०

भवेत्, तथापि चतुर्दशानां भेदानां

समुदायस्तु पृथिव्यामेव इति न क्लेशः।

इह पृथिवीरूपे पक्षे सन्ति चतुर्दश भेदाः न तथा जले । तत्र इतरेषु त्रयोदशसु भेदेषु सत्सु अपि जलभेदो नास्ति। एवमात्मनि अपि । तत्र जलादिभेदेषु सत्सु अपि आत्मभेदो नास्ति। गुणेऽपि तथा। भवेयुस्तत्र अन्ये भेदाः । न तत्र गुणभेदोऽस्ति। न हि गुणः, न गुणः इति सम्भवति । परमार्थतस्तु जलादिपदार्थेषु चतुर्दशसु इतरेषां भेदानां सत्त्वेऽपि स्वभेदः न भवितुमर्हति इति न क्वापि चतुर्दश भेदाः । पृथिव्यां तु जलादिसकलपदार्थानां भेदसत्त्वे न किञ्चित् बाधकम्।

जलं न

वायुर्न

। कालो न

केवलव्यतिरेकिणः निरूपणम्

आत्मा न

तेजः न

आकाशः न

दिकून

मनः न

गुणो न

कर्म न

सामान्यं न

विशेषो न

समवायो न

अभावो न

जलम्

आत्मा

पृथिवी

गुणः

अभावः

चि.स.१५१

  • परन्तु एतेषां चतुर्दशानां भेदानां ज्ञानं किमधीनम् ? गन्धाधीनम्। गन्धश्च पृथिवीलक्षणम्। लक्षणं तद् भवति यत् अयं मदाश्रयः इतरव्यतिरिक्तः इति बोधयति। तथा च गन्धज्ञानेन पृथिव्याम् इमे चतुर्दश भेदाः साधनीयाः । नैतावता कापि पृथिव्याम् अस्माभिः ते ज्ञाताः। अतः अत्र अन्वयव्याप्तिः न शक्यते ज्ञातुम् ।

कुतः? उच्यते। अन्वयव्याप्तिः हि हेतुसाध्ययोः भूयोदर्शनादिना महानसादौ गृहीता इत्युक्तम् । एवं च तत्र साध्यस्य संशयः पर्वते, तदन्यस्मिन् महानसे व्याप्तिनिश्चयः जातः। ततः संस्कारादिक्रमेण अनुमित्युत्पत्तिः। इह तु सर्वापि पृथिवी पक्षः । पक्षश्च सः भवति यत्र साध्यसंशयोऽस्ति इति अग्रे ग्रन्थकृत् स्वयमेव वक्ष्यति । ततः यत्र पृथिव्यां साध्यं हेतुः वा सम्भाव्यते, तत्र तु सर्वत्र साध्यसंशय एव । अन्यत्र जलादौ न गन्धोऽस्ति, नापि दर्शितरीत्या चतुर्दश भेदा इति इह हेतोः साध्यस्य च विद्यमानत्वरूपः यः अन्वयः तद्घटिता व्याप्तिः न ज्ञातुं शक्यते ।

केवलान्वयिस्थले साध्यस्य अभिधेयत्वस्य अभावः सर्वदा अप्रसिद्ध इति न तत्र व्यतिरेकव्याप्तिग्रहः सम्भवति । सर्वदा इत्यस्य कोऽर्थ ? अनुमितेः पूर्वं परतो वा न अभिधेयत्वाभावः केनचित् प्रमाणेन सिद्ध्यति। अतः तत्र साध्यस्य अप्रसिद्धिः सार्वदिकी । प्रकृते तु अनुमितेः प्राक् इतरभेदः असिद्धः । अनुमितौ तु पक्षे इतरभेदरूपसाध्यं विषयो भवत्येव इति वैषम्यम् ।

[[२१५]]

व्यतिरेकव्याप्तिग्रहः

  • व्यतिरेकव्याप्तिग्रहः

अतः अत्र व्यतिरेकव्याप्तिः साध्याभावव्यापकाभावप्रतियोगित्वरूपा अनुमितेः प्राक् हेतौ ज्ञातव्या । शक्यते च इयं ज्ञातुम् । दर्शितरीत्या जले इतरभेदसत्वेऽपि न तत्र जलभेदः। अतः जलादिपदार्थेषु चतुर्दशसु सर्वत्र चतुर्दश भेदाः प्रकृतसाध्यं न सम्भवति। अतः तादृशसाध्यं नास्तीत्यभावः, जले, तेजसि, अन्येषु द्रव्येषु, गुणादिपदार्थेषु च वर्तते एव । तत्र च सुतरां गन्धभावः। पृथिवीलक्षणं हि गन्धः । न जलादौ सः अस्तीति तदभावः इतरभेदाभावाधिकरणे जलादौ सर्वत्रास्ति। अत गन्धाभावः इतरभेदाभावव्यापकः । तादृशव्यापक-गन्धाभावस्य प्रतियोगित्वं गन्धेऽस्तीति व्यतिरेकव्याप्तिः गन्धे ज्ञातुं शक्यते ।

एवं च पूर्ववदेव (पृ.१९३ ) जलादौ साध्याभावहेत्वभावयोः व्याप्तिग्रहः अनुभवात्मकः। तेन च संस्कारः । ततः पृथिव्यां गन्धज्ञानम्। इदमेव पक्षधर्मताज्ञानम् । तच्च संस्कारोद्बोधकमपि । संस्कारोद्बोधात् व्यतिरेकव्याप्तिस्मरणं गन्धः इतरभेदाभावव्यापकीभूताभावप्रतियोगी इत्याकारकम् । ततः परामर्शः पृथिवी २१६ इतरभेदाभावव्यापकीभूताभावप्रतियोगिगन्धवती इत्याकारकः उत्पद्यते । ततः पृथिवी

इतरभेदवती, इतरेभ्यो भिद्यते इतरभिन्ना इति वा अनुमितिर्जायते ।

एवञ्च अन्वयव्याप्तिग्रहासम्भवात् केवलव्यतिरेकी गन्धः इति बोधनाय मूले उक्तम् अत्र यत् गन्धवत् तत् इतरभिन्नम् इति अन्वयदृष्टान्तो नास्ति । पृथिवीमात्रस्य पक्षत्वात्। पृथिवीमात्रमित्यस्य सर्वा पृथिवी इत्यर्थः। अनेन च वह्निमान् धूमादित्यादौ पक्षभिन्ने दृष्टान्ते महानसादौ व्याप्तिज्ञानं भवति । प्रकृते तु सर्वस्याः पृथिव्याः पक्षत्वात् तत्र च साध्यसंशयात् न अन्वयव्याप्तिज्ञानम् इति निरूपितम्।

इह च सङ्ग्रहकृता व्यतिरेकव्याप्तिमति हेतौ पञ्चावयववाक्यप्रयोगप्रकारोऽपि दर्शितः यथा पृथिवीतरेभ्यो भिद्यते इत्यादिना । तं सम्प्रति परिशीलयामः। पृथिवीतरेभ्यो भिद्यते इति प्रतिज्ञा । पृथिवीतरेभ्यः इत्यत्र सवर्णदीर्घसन्धिविग्रहे सति पृथिवी इतरेभ्यः इति पदद्वयलाभः। तत्र पृथिवी इति पक्षनिर्देशः। इतरेभ्यः भिद्यते इति साध्यबोधकभागः।

व्यतिरेकव्याप्तिग्रहः

तत्रापि इतरपदेन चतुदर्श जलादिपदार्थाः बोध्यन्ते । भिद्यते इति पदबोध्ये भेदे तेषां प्रत्येकं सम्बन्धात् चतुर्दश भेदाः साध्यमिति सिद्ध्यति अतः पक्षे साध्यसम्बन्धबोधनात् पर्वतो वह्निमान् इतिवत् भवति इयमपि प्रतिज्ञा।

गन्धवत्त्वात् इति हेतुः । अत्र न कश्चित् धूमात् इति अन्वयस्थलीयहेतुवाक्यात् विशेषः। ततः उदाहरणं भवति यदितरेभ्यो न भिद्यते न तत् गन्धवत् इति । यत्र वाक्ये नञ् भवति तत्र आदौ तं विहाय इतरपदार्थानां सम्बन्धेन अर्थवर्णनं कर्तव्यम् । ततः नञा यस्य सम्बन्धः विवक्षितः, तदभावः नञ्योजनेन ज्ञातव्यः ।

यथा भूतलं न घटवत् इति वाक्ये । अत्रादौ नञ् अपसार्यः। किमवशिष्टम् ? भूतलं घटवत् इति पदद्वयम् । ताभ्यां च भूतले घटः ज्ञातः। ततः नञ्सम्बन्धः केन विवक्षितः इति चिन्त्यम्। प्रकृते घटेन सह इष्टः । अतः घटस्य अभावः ज्ञातः । तस्य च भूतले सम्बन्धः तेन वाक्येन बोध्यते। अतः भूतलं न घटवत् इत्यस्य भूतलं घटाभाववत् इत्यर्थः।

प्रकृतोदाहरणवाक्ये नञं विहाय यत् इतरेभ्यो भिद्यते इति अंशे सन्ति त्रीणि

पदानि। तैः क्रमेण

यत्

इतरेभ्यः

भिद्यते

जलम

चतुर्दश पदार्थाः

प्रतियोगिता

भेदः

चि.स.१५२

इति पदार्थोपस्थितिः। ततः भेदे पदार्थानां प्रत्येकं सम्बन्धात् चतुर्दश भेदाः लभ्यन्ते। इतः सौकर्याय वयं तान् भेदसमुदायः इति सम्बोधयामः। आहत्य जलं भेदसमुदायवत् आदौ बोधः। ततः नञर्थस्य अभावस्य, भेदसमुदायेन सह अन्वये जलं भेदसमुदायाभाववत् इति बोधः। तेन च जले चतुर्दशानां भेदानां साध्यरूपाणामभावः उक्तो भवति ।

[[२१७]]

[[२१८]]

व्यतिरेकिणि उपनयः

तत्र द्वितीयांशः न तत् गन्धवत् इति । इहापि तत् इत्यस्य जलम् अर्थः। नञं विहाय तत् गन्धवत् इत्येताभ्यां जलं गन्धवत् इति बोधः । ततः नञर्थस्य अभावस्य गन्धेन अन्वये सति जलं गन्धाभाववत् इति बोधः । आहत्य च यत् इतरेभ्यो न भिद्यते न तत् गन्धवत् इति वाक्येन जलं भेदसमुदायाभाववत् तदेव च गन्धाभाववत् इति बोधः जातः। तेन च गन्धाभावे भेदसमुदायाभावव्यापकत्वबोधः। अतः व्यतिरेक- व्याप्तिविषयकबोधजनकत्वं प्रकृतोदाहरणस्य।

  • व्यतिरेकिणि उपनयः

ततः उपनयमाह - न चेयमिति पूर्ववदेव इयमिति पक्षनिर्देशः। अन्वयोपनये हि तथा चायमित्यत्र अयमिति पदेन पर्वतः गृहीतः । इहापि इयमिति पृथिवीग्रहणम् । नञमपहाय इयं तथा इति पदद्वयग्रहणे तत्पदेन पूर्ववाक्ये यत्र व्यापकत्वबोधः जातः सः गन्धाभावः धर्तव्यः । इयं पृथिवी गन्धाभावाश्रयः इति बोधः। ततः नञर्थस्य अभावस्य गन्धाभावेन सम्बन्धः । तेन गन्धाभावाभावबोधः । एवञ्च पृथिवी गन्धाभावाभाववती इति उपनयजन्यबोधः। गन्धाभावाभावः गन्ध एव ।

गन्धस्य गन्धाभावाभावस्य च अभेदसाधनम्

कुत एतत् ? द्विविधं हि जगत् स्यात् । गन्धवत् गन्धाभाववत् वा । पृथिवी सर्वापि भवेत् गन्धवती। तदितरत् सर्वं जगत् गन्धाभाववत्। गन्धाभावः नास्तीति ज्ञानं पुनरपि पृथिव्यामेव भवति । तथा च क्लृप्तः निश्चितः यत्र गन्धः तत्रैव गन्धाभावाभावोऽपि प्रतीयते। अतः, गन्धः, गन्धाभावाभावः इत्यनयोः अधिकरणानि तुल्यसङ्ख्याकानि । सर्वासु पृथिवीषु गन्धः । तत्रैव गन्धाभावाभावः। अतः एतौ समनियतौ इत्युच्येते । यत्र यत्र गन्धः तत्र गन्धाभावाभावः इति नियमेन गन्धः व्याप्यः गन्धाभावाभावः व्यापकः । एवमपि हि नियमः समस्ति - यत्र यत्र गन्धाभावाभावः तत्र गन्धः। तेन गन्धाभावाभावः व्याप्यः, गन्धः व्यापकः। एवंविधः परस्परं व्याप्यव्यापकभावः ययोः भवति तौ समनियतौ समव्याप्तौ ।

गन्धस्य गन्धाभावाभावस्य च अभेदसाधनम्

यथा वा तेजस्त्वजातिः, उष्णस्पर्शश्च । अस्ति हि तयोः परस्परं व्याप्य- व्यापकभावः। यत्र यत्र तेजस्त्वं तत्र उष्णस्पर्शः इतिवत् यत्र यत्र उष्णस्पर्शः तत्र तेजस्त्वमिति अनुभवसाक्षिका खलु अनयोः व्याप्तिः । अतः एतौ अपि समनियतौ।

परन्तु न अभिन्नौ। तेजस्त्वं, तेजः तेजः इति अनुगतप्रतीतिसिद्धा जातिः । उष्णस्पर्शो हि तदाश्रये तेजसि विद्यमानः गुणः इति अनयोः भेदोऽपि आनुभविकः । प्रकृते तु गन्धः गन्धाभावाभावः इत्यनयोः समनियतत्वं तु सिद्धमेव। परन्तु तयोः भेदसाधनाय न युक्तिमुत्पश्यामः। यः गन्धाभावाभावः सः गन्ध एव इति तस्मादेव लाघवात् च अभ्युपगच्छामः ।

  • किमत्र लाघवम् ? गन्धः गुणरूपः स्वीकार्यः । गन्धाभावाभावश्च अतिरिक्तः। इत्थमेव गन्धाभावाभावः नास्ति इति प्रत्ययेन गन्धाभावाभावाभावः अतिरिक्तः कल्प्यः इति अनन्तानां पदार्थानाम् अनावश्यकानां कल्पनमापतेत् । अतः पदार्थद्वयकल्पनमेव लघु । एकः गन्धः गन्धाभावश्चापरः । सर्वस्याम् अग्रिमपरम्परायां विषमः गन्धरूपः । समः गन्धाभावरूपः इति अनयोरेव सर्वे अन्तर्भवन्तीति भवति लाघवम्।

अस्तु गन्धाभावाभावः गन्धरूपः । किं तेन निरूपणेन प्रयोजनम् ? उच्यते। उपनयवाक्यं हि व्याप्तिविशिष्टस्य हेतोः पक्षवृत्तित्वं बोधयति इति (पृ.२०१) उक्तम्। न चेयं तथा इति हि प्रकृतोपनयः । इयमिति पक्षः । तथा इत्यनेन गन्धाभाववत्ता बोधिता । नञा च दर्शितरीत्या तदभावः । यदि हि इत्थमेव वाक्यार्थं वर्णयामः तदा पृथिवीरूपपक्षे गन्धाभावाभावबोधनं स्यात्। न हि गन्धाभावाभावः प्रकृतहेतुः। गन्धस्य हेतोस्तु न पक्षवृत्तित्वबोध इति उपनयवाक्योपयोगो न स्यात् ।

गन्धस्य गन्धाभावाभावस्य च ऐक्ये साधिते तु तथा न इत्येताभ्यां पदाभ्यां गन्धाभावाभावबोधेऽपि सः गन्धरूप एव सिद्ध्यति । ततः इयमिति पदेन प्रकृतपक्षभूतायाः पृथिव्याः बोधनात् इयम् इतरभेदाभावव्यापकगन्धाभावप्रतियोगि-

[[२१९२२०]]

निगमनजन्यबोधः

गन्धाभावाभाववती इत्यस्मात्, इयम् इतरभेदाभावव्यापकगन्धाभावप्रतियोगिगन्धवती इति बोधः निर्वहति इति सुष्ठु सम्पद्यते उपनयजन्यबोधस्य हेतौ व्याप्तिविशिष्टपक्ष- धर्मताविषयकत्वम्। विस्तरस्तु अवयवग्रन्थात् अनुसन्धेयः ।

  • निगमनजन्यबोधः

तस्मान्न तथा इति निगमनं सम्प्रति परिशीलयामः । इयमिति उपनयगतं पक्षवचनमत्र अनुषजति । इयं पृथिवी तस्मात् गन्धाभावाभावात् न तथा इतरभेदाभावाभाववती। अत्र तथापदघटकतत्पदेन साध्याभावः इतरभेदाभावः बोध्यते। नञा तदभावबोधनात् इतरभेदाभावाभावोपस्थितिः। स च इतरभेदाभावा- भावः दर्शितरीत्या इतरभेदरूपः इति पृथिवीरूपे पक्षे इतरभेदरूपसाध्यं बोध्यते । पञ्चावयववाक्यजन्यशाब्दबोधोत्तरं व्यतिरेकपरामर्शः ततश्चानुमितिः उत्पद्यते इति प्रागुक्तमेव ।

पक्षादिलक्षणम्

एतावता ग्रन्थेन व्याप्तेः द्वैविध्यं तदुभयवत्तया एकैकवत्तया वा हेतोः त्रैविध्यं च निरूपितम्। तत्र पृथिवी इतरेभ्यः भिद्यते इत्यस्मिन् स्थले अन्वयदृष्टान्तः कुतो नास्तीति चिन्तायाम् अन्वयव्याप्तेः ज्ञानार्थं पक्षभिन्नं स्थलम् आवश्यकम्। प्रकृते सर्वस्यां पृथिव्यां साध्यस्य संशयात् न तादृशं स्थलमुपलभ्यते इति व्यतिरेकव्याप्तिरेव जलादौ ग्राह्या इत्युक्तम्। तत्र अन्वयव्याप्तिः कुतो नास्तीति शङ्कावारणाय अन्ततः उक्तं पृथिवीमात्रस्य पक्षत्वात्। यस्मात् सर्वा पृथिवी पक्षः अतः न अन्वयव्याप्तिग्रहः इति तदर्थः। तत्र पृथिवीमात्रस्य पक्षत्वात् इत्यस्यां पङ्कौ पक्षपदं प्रयुक्तम् । तदर्थस्तु नैतावता उक्तः। आवश्यकं च तन्निरूपणम् । वक्ष्यमाणे हेत्वाभासप्रकरणे पक्षादीन् आदाय अनेकेषां हेत्वाभासानां वक्ष्यमाणत्वात्। अतः पक्षमादौ आह -

सन्दिग्धसाध्यवान् पक्षः। यथा धूमवत्त्वे हेतौ पर्वतः। निश्चितसाध्यवान् सपक्षः, यथा तत्रैव महानसम् । निश्चितसाध्याभाववान् विपक्षः। यथा तत्रैव महाह्रदः।

पक्षादिलक्षणम

सन्दिग्धमित्यस्य संशयविषयः इत्यर्थः। तादृशं च साध्यं, सन्दिग्धसाध्यम् । तद्वान् यः सः पक्षः। पर्वतो वह्निमान् इत्यनुमितिस्थले पर्वतः तथाविधः। तत्र चास्ति साध्यसन्देहः, पर्वतः वह्निमान् न वा इत्याकारकः। यद्यपि सन्दिग्धसाध्यवान् इत्यत्र साध्यवान् इति आधाराधेयभावबोधकः मतुप्-प्रत्ययः अस्ति तथापि ज्ञानविषयत्व- बोधकसन्दिग्धपदलेखनात् अत्र विषयत्वमेव ग्राह्यम् । तथा च साध्यप्रकारकसन्देहविशेष्यत्वं पक्षलक्षणं लभ्यते।

एवमेव निश्चितसाध्यवान् इत्यत्र निश्चयविषयः यत् साध्यं तद्वान् वाक्यात् प्रतीयते। तथापि ज्ञानार्थकनिश्चितपदेन साध्यप्रकारकनिश्चयविशेष्यत्वमेव इह निकृष्टं सपक्षस्य लक्षणं वाच्यम्।

विपक्षलक्षणेऽपि इत्थमेव। तत्रापि साध्याभावप्रकारकनिश्चयविशेष्यत्वं विपक्षस्य

लक्षणं पर्यवस्यति ।

वह्निः

वह्नयभावः

संशयः

विशेष्यत्वम्

[[२२१]]

पर्वतः

पक्षः

वह्निः

विशेष्यत्वम्

निश्चयः

महानसम्

सपक्षः

वह्नयभावः

विशेष्यत्वम्

निश्चयः

महाह्रदः

विपक्षः

चि.स.१५३