सर्वव्यवहारहेतुर्गुणः ज्ञानं बुद्धिः । सा द्विविधा । स्मृतिरनुभवश्च । *
बुद्धिलक्षणे समासविचारः
बुद्धिं लक्षयति सर्वव्यवहारहेतुर् इति ।
अतीतादिव्यवहार-हेतुर् इत्य्-आदौ काल-लक्षणे
अतीतादेः व्यवहारः इति विग्रहः अभिप्रेतः,
तत्र षष्ठ्य्-अर्थः विषयत्वम्।
तस्य च ज्ञान-जनक-शब्द-प्रयोग-रूपः यः व्यवहारः
तद्घटकं यत् ज्ञानं, तेन सह अन्वयः ।
तथा च अतीत-विषयक-ज्ञान-जनक-शब्द-प्रयोगः इति अर्थः सिद्ध्यति ।
प्रकृते तु न “सर्वस्य” [[१२२]] व्यवहारः इति अर्थः
किन्तु सर्वे ये व्यवहाराः सर्वव्यवहाराः इति कर्मधारयः।
तेन ज्ञान-जनक-शब्द-प्रयोग-मात्रं प्रति
ज्ञानस्य कारणत्वं लभ्यते।
न तु पूर्ववत् षष्ठीतत्पुरुषः ।
तथा सति सर्वविषयकं यत् ज्ञानं,
“सर्वं प्रमेयम्”-इत्याद्य्-आकारं,
तादृश-ज्ञानानुकूल-व्यवहारं प्रत्य् एव
ज्ञानस्य कारणता लभ्येत,
न तु व्यवहारमात्रं प्रति ।
इष्टं च “अयं घटः” इति व्यवहारं प्रत्य् अपि
ज्ञानस्य कारणत्वम् ।
तज्-जन्यं च ज्ञानं
न सर्वविषयकम् इति षष्ठीतत्पुरुषाङ्गीकारे
तादृश-व्यवहार-जनके घट-ज्ञाने अव्याप्तिर् इति
कर्मधारय एव साधुः ।
साङ्ख्यमते ज्ञानं बुद्धिः उपलब्धिः इत्यादि-पदानि विभिन्नार्थकानि।
तन्मत-निराकरणायाह ज्ञानं बुद्धिर् इति।
तयोः पदयोः पर्यायता अनेन सूचिता ।
तस्य ज्ञानस्य विभागम् आह स्मृतिर् अनुभवश् चेति।
यद्यपि अनुभवः संस्कारद्वारा स्मृतिं जनयति इति जनकम् अनुभवं निरूप्यैव स्मृतेः निरूपणमुचितं तथापि अनुभवस्य द्वैविध्यं, तत्रापि यथार्थानुभवस्य चातुर्विध्यं, तत्तत्करणं च निरूपणीयम् । एवं तत्तत्सह- कारिणः सन्निकर्षव्याप्तिज्ञानशक्तिज्ञानादयः अनेके निरूपणीयाः भवन्ति ।
- अतः सूचीकटाहन्यायेन आदौ स्मृतेरेव लक्षणमाह -
संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति । व्यापारपदार्थः कः ?
व्यापारपदार्थः कः ?
अनुभवजन्या स्मृतिहेतुर्भावना इति लक्षणेन मूलकृता उपरिष्टात् भावनाख्यः संस्कारः निरूप्यते। परन्तु स्मृतिलक्षणं भावनाख्यसंस्कारस्य अज्ञाने दुर्ज्ञेयमिति भावनाख्यः संस्कारः आदौ निरूप्यते । नियतेन कारणेन कार्यस्य उत्पत्तिं वयं सर्वत्र निरूपयामः। तन्तुकुविन्दानां समवधाने पटः, चक्रकुलालकपालादीनां समवधाने घटः इत्येवंरीत्या तत्तकार्यस्य नियता सामग्री भवति । एतान् च पटघटादीन् प्रति कारणत्वं (पृ.२९) पूर्वम् उक्ताः ये निकषाः तैः निर्धार्यते । ते निकषाः एव अन्येन प्रकारेण अन्वयसहचारः व्यतिरेकसहचारः इति पदाभ्यां (पृ.८२) निरूपिताः ।
तादृशान्वयसहचारव्यतिरेकसहचाराभ्याम् इदं कार्यं, इदं चास्य कारणमिति निर्धारणे कदाचित् कारणस्य कार्याधिकरणे अदर्शनेऽपि तत्र कारणानुमितिः भवति । नदीपूरे सति तद्देशे वृष्ट्यभावेऽपि ऊर्ध्वदेशे वृष्टिः जाता इति अत एव अनुमीयते । १२३ इदमेव कार्येण कारणानुमानमित्युच्यते। परन्तु कदाचित् अन्वयव्यतिरेकाभ्यां कारणत्वे अवधारितेऽपि केनचित् प्रमाणेन कारणस्य अभावः कार्याधिकरणे निश्चीयते । तदा, इदं कारणम्, इदं कार्यमिति व्यवहारः कथं निर्वाह्यः इति चिन्तायां शास्त्रे व्यापारकल्पना
आगता।
अत्रेदं निदर्शनं भवति। कश्चित् कुलालः घटनिर्माणे प्रवृत्तः । चक्रदण्डादि- सामग्रीमादाय उपविष्टः। दण्डेन रभसा चक्रभ्रमणं कृतवान्। चक्रभ्रमणं तु अभूत् । परन्तु दण्डे बलविशेषस्थापनात् तस्य अवयवानां विभागः अभूत्। तेन च दण्डनाशः जातः। चक्रभ्रमणं तु दण्डनाशोत्पत्तिकाले प्रावर्तिष्ट । तेन च चक्रभ्रमणेन कपालेऽपि भ्रमिः उत्पन्ना। तेन च घटोत्पत्तिः ।
अत्र घटोत्पत्तिप्राक्क्षणे अस्माभिः चक्षुषा नष्टो दण्डः, तत्र दण्डो नास्तीति
[[१२४]]
भावनाख्यः संस्कारः आवश्यकः
अवलोकितम्। एवं च कार्योत्पत्तिप्राक्क्षणे प्रबलेन प्रमाणेन कारणस्य अभावः निश्चितः। तर्हि कारणाभावेऽपि कार्योत्पत्तिः इति व्यतिरेकव्यभिचारः आपतति । तद्वारणाय पूर्वोक्तः व्यापारः कल्पनीयः । व्यापारो नाम यः कारणात् जायते कार्यं च जनयति । यथा चक्षुषः घटेन संयोगः घटप्रत्यक्षे व्यापारः। चक्षुस्संयोगः गुणः चक्षुषा जन्यः । एवं चक्षुषा जायमानं यत् घटप्रत्यक्षं, तज्जनकोऽपि । न हि केवलेन चक्षुषा, संयोगे असति घटप्रत्यक्षमुत्पद्यते। तथा सति निमीलितचक्षुषः पुरुषस्य अपि घटप्रत्यक्षत्वापत्तिः । अतः चक्षुरिव तत्संयोगोऽपि अपेक्षितः। एवं च चक्षुस्संयोगः कारणजन्यः, कार्यजनकः इति स एव व्यापारः इत्युच्यते। इत्थमेव कपालेन घटे जननीये कपालसंयोगस्य व्यापारत्वं वर्णनीयम् ।
प्रकृते च दण्डे नष्टेsपि चक्रे उत्पन्ना, परम्परया कपाले च उत्पन्ना भ्रमिः दण्डेनैव उत्पन्ना। एवं घटं प्रति सा जनिका च भवति । अतः तादृशभ्रमणं भवति नष्टस्यापि दण्डस्य व्यापारः । तथा च यद्यपि दण्डः नष्टः तथापि तज्जन्यव्यापारः वर्तते इति दण्डोऽपि स्वजन्यव्यापारवत्तासम्बन्धेन कपाले सम्बद्धो भवति । अतः तेन सम्बन्धेन कारणं कार्याधिकरणेऽस्तीति न कारणाभावेऽपि कार्योत्पत्तिरूपः व्यतिरेकव्यभिचारः। चक्षुःसंयोगस्य, कपालद्वयसंयोगस्य च व्यापारत्वकथनेन इदमपि स्पष्टं यत् सर्वदा कारणनाशे एव व्यापारः कल्प्यः इत्यपि न निर्बन्धः। लक्षणानुसारेण तस्य कारणजन्यत्वं तथा कार्यजनकत्वमेव आवश्यकमिति ।
- भावनाख्यः संस्कारः आवश्यकः
एतादृशव्यापारकल्पनायामापतितायामेव अनुभवजन्यः स्मृतिजनकः भावनाख्यः व्यापारः शास्त्रकारैः कल्पितः । तथा हि - जानामि, गृह्णामि, अवगच्छामि इत्यादि- व्यवहारविषयः यः ज्ञानपदार्थः तत्र तत्र विषयत्वादिनिरूपणावसरे अस्माभिः प्रदर्शितः, सः द्विविधो भवति। अनुभवः आद्यः, प्रकृतलक्ष्यभूता स्मृतिरपरा। आद्यः अनुभवः प्रत्यक्षानुमिति-उपमितिशाब्दभेदात् इत्यनेन उपरिष्टात् विभज्यते। प्रत्यक्षं च इन्द्रियेण जायमानम्। अनुमितिः परामर्शात् उत्पद्यते। उपमितिः सादृश्यज्ञानात् जायते ।
भावनाख्यः संस्कारः आवश्यकः
शाब्दबोधश्च शब्दात् । एते एव इन्द्रियपरामर्शसादृश्यज्ञानशब्दाः प्रमाणानि इति व्यवह्रियन्ते। प्रमाणमित्यस्य प्रमायाः जनकमित्यर्थः । प्रमा, सत्यं ज्ञानम् । यत् यथा वर्तते तत् तथैव विषयीकरोति सा प्रमा ।
घटवन्तं पटं, पटो घटवान् इति ज्ञानं विषयीकरोति इति सा प्रमा इति उच्यते। तस्याः प्रमायाः यत् साधनं जनकं तत् प्रमाणमित्युच्यते । तादृशं च चक्षुरिन्द्रियम् । पूर्वोक्ता या प्रमा, पटः घटवान् इत्याकारिका, तां प्रति तस्य सन्निकर्षद्वारा जनकत्वात्। इदमेव चक्षुरादि, प्रत्यक्षमित्युच्यते। तज्जन्यप्रमाया अपि सैव सञ्ज्ञा।
अनुमित्यादौ बोध्येन अवगन्तव्येन पदार्थेन सह इन्द्रियस्य सन्निकर्षः न भवति । तथापि तत्र पदार्थः उपायान्तरेण बुद्ध्यते । यथा शब्दस्थले, कश्चित् प्रामाणिकः ब्रवीति, नद्याः तीरे वृक्षे बहूनि फलानि सन्ति । श्रोतॄणामस्माकं न नदी, न तीरम् नापि वृक्षः, फलानि वा चक्षुषा सम्बद्धानि । तथापि तद्वाक्यं श्रुत्वा तत्तत्पदस्य अर्थं बुद्ध्वा अस्माकं भवति यथार्थबोधः प्रमा, नद्यास्तीरे वृक्षे बहूनि फलानि सन्ति इति। अयं शब्दात् जायमानः इति शाब्दबोधः इत्युच्यते। तं प्रति च जनकत्वात् शब्दोऽपि प्रमाणम् ।
अनुमितिस्थले ज्ञातव्यः पर्वते वह्निः । पर्वते कदाचित् चक्षुःसन्निकर्षः स्यात् परन्तु न वह्निः चक्षुःसन्निकृष्टः । पर्वते धूमस्तु अस्माभिः दृश्यते। धूमस्य वह्नेश्च अस्ति कश्चित् विलक्षणः सम्बन्धः येन धूमे सति भवेदेव वह्निः। तादृशसम्बन्धज्ञानं यस्यास्ति तस्य असन्निकृष्टस्यापि वह्नेः ज्ञानं भवति । इदं ज्ञानमेव अनुमितिः इति उच्यते । सापि अपरा प्रमा । सा च वह्निधूमसम्बन्धज्ञानाधीना इति तत्सम्बन्धज्ञानम् अनुमानसञ्ज्ञकं भवति अपरं प्रमाणम् । उपमितिरिति अस्ति चतुर्थी प्रमा, तज्जनकं च उपमानं मूलनिरूपणे एव विस्तरेण निरूपयिष्यते ।
।
तथा च एताः चतस्रः प्रमाः एव शास्त्रे अनुभवपदेन विवक्षिताः। द्वितीयः यः ज्ञानप्रकारः एतन्निरूपणादौ दर्शितः स्मृतिरूपः सः अनेन अनुभवेनैव जन्यते। यं
[[१२५]]
[[१२६]]
स्मृत्युत्पत्तिक्षणे अनुभवः नास्ति ।
पदार्थं वयम् इन्द्रियेण अवगच्छामः तमेव स्मरामः । देशविशेषात् प्रत्यागताः जनाः चक्षुरादीन्द्रियैः सम्यक् गृहीतान् अर्थान् स्मृत्वा एव अस्मान् वर्णयन्ति एवंविधानि उद्यानानि, पर्वतान्, नदीः च तत्र वयमद्राक्ष्मेति । चक्षुषा अदृष्टमपि अर्थम् अनुमानेन शब्देन वा सम्यक् ज्ञात्वा, स्मृत्वा च वदन्ति, पर्वतः आसीत् धूमाकीर्णः कश्चित् अतः आसीत् वह्निमान् इति । एवं वृक्षे सन्ति बहुफलानि इति ।
किमनेन कथनेन? आदौ प्रमाणैः अनुभवविषयीभूता एव पदार्थाः स्मृतिविषयाः भवन्ति। आदौ भूतले घटमेव दृष्ट्वा न हि कश्चित् भूतले घटं पटं च स्मर्तुं प्रभवति । वह्निं वा पर्वते अनुमाय न हि पर्वते वह्निं घटं च स्मरति । न वा शब्दात् फलवन्तं वृक्षं ज्ञात्वा तमेव पक्षिफलोभयविशिष्टं वा स्मरति । तेन यः अनुभवस्य विषयः स एव स्मृतेरपि विषयः नान्यः इति सिद्ध्यति। न्यायभाषया इदमेव अनुभवविषयविषयिणी स्मृतिः इति व्यवहरामः। अनुभवः स्मृतिविषयं विषयीकुर्वन् स्मृतिं प्रति कारणम् इति अनेनैव निश्चिनुमः।
- स्मृत्युत्पत्तिक्षणे अनुभवः नास्ति ।
परन्तु स्मृतिं प्रति जनकत्वमनुभवस्य कथं घटताम् ? नहि कश्चित् घटमनुभूय सपदि तं स्मरति येन कार्यस्य स्मृतेः पूर्वं अनुभव : नियमेन भवेत् । अद्य घटम् अनुभूय अपरेद्युः दशभ्यः दिनेभ्यः वा कश्चित् स्मरेत् । न हि तस्य पुरुषस्य तदा घटानुभवः अस्ति। अनुभवस्य पूर्वेद्यवि एव नष्टत्वात् ।
घटमनुभूय पुरुषः तमादाय जलाहरणे प्रवृत्तः । तत्र ह्रदे जलमद्राक्षीत्। ततः जलमादाय स्वगृहं दूरतः अनुभूय तत्र प्राप्तः। तण्डुलशाकादीन् अनुभूय पाके प्रवृत्तः । एतादृशी खलु ज्ञानधारा घटजलगृहतण्डुलादि-विभिन्नविषयिणी तस्य पुरुषस्य उत्पन्ना। घटानुभवे घटः विषयः। न सः जलानुभवे विषयः। न तौ जलघटौ गृहानुभवे विषयौ। एवंविधा विभिन्नविषयिणी या अनुभवधारा, तस्यां उत्तरोत्तरानुभवे पूर्वपूर्वपदार्थस्य अभानम् अविषयत्वमपि अनुभूयते एव अस्माभिः।
सर्वत्र मात्रपदेन निवार्यं चिन्त्यम
विवरणेनानेन इदमायातं, नष्टो घटानुभवः । स्मरामः अपरेद्युः, व्यवहिते वा दिने तदा नास्ति अनुभवः। स्मरणानुभवयोः कार्यकारणभावस्तु निश्चित एव। परन्तु इदमपि अवधारितं यत् कार्यं वर्तते कारणं तु नास्ति ।
अतः एतादृशस्थले अनुभवस्य स्वयमसतोऽपि स्वजन्यव्यापारवत्तासम्बन्धेन स्मरणाधिकरणे आत्मनि स्थितिः कल्पनीया। दण्डे नष्टेऽपि दण्डजन्यभ्रमिमत्तासम्बन्धेन घटाधिकरणे कपाले तस्य स्थितिकल्पनावत् । स एव च व्यापारः प्रकृतस्मृतिलक्षणे प्रविष्टः भावनाख्यः संस्कारः । सः आत्मनि उत्पद्यते । अनुभवे नष्टेऽपि अन्यदा स्मरणं च जनयति इति न क्लेशः ।
इयांस्तु विशेषः। नष्टे दण्डे, भ्रमिरूपव्यापारः चक्षुषा गृह्यते इति तस्य व्यापारत्वमेव कल्प्यम्। प्रकृते तु आत्मनि भावनाख्यः संस्कारः अनुभवस्य स्मृतिकारणत्वं सङ्गमयितुं, कल्प्यते न तु दृश्यते । यथा तथा वा अस्तु संस्कारजन्यत्वं स्मृतेरागतमिति एतत्सर्वं हृदि निधायोक्तं संस्कारमात्रजन्येति ।
- सर्वत्र मात्रपदेन निवार्यं चिन्त्यम्
मात्रपदश्रवणे सति वक्ष्यमाणप्रकारेण संस्कार एव कारणं न तु तद्भिन्नं किमपि इति प्रतिभाति। यथा चक्षुर्मात्रग्राह्यमित्यत्र रूपप्रत्यक्षे चक्षुरेव कारणं न तु तद्भिन्नं किमपि इति भाति। तथापि इत्थं सर्वत्र मात्रपदस्थले चिन्त्यम् । न हि एकेन कारणेन कार्यं किञ्चित् भवितुमर्हति । सर्वविधकार्यं प्रति दिक्कालादीनां षण्णां साधारणकारणत्वस्य कारणत्वविभागे वक्ष्यमाणत्वात् ।
घटादिकार्यव्यक्तिं प्रति चापि कुलालकपाल - चक्रादीनामनेकेषां कारणानां लोकसिद्धत्वात्। विशेषतश्च आत्मगुणः प्रकृता स्मृतिर्वा रूपादिप्रत्यक्षं वा अस्तु तस्य समवायिकारणम्, असमवायिकारणं, निमित्तकारणमिति पूर्वोक्तः विभागः अनिवार्य एव। आत्मा भवेत् ज्ञानस्य समवायिकारणम्, स्वस्मिन् तादात्म्येन स्थित्वा खलु सः समवायेन स्मृतिं, रूपप्रत्यक्षं वा जनयति । आत्ममनःसंयोगः भवेत् असमवायिकारणम् । स खलु समवायेन आत्मनि स्थित्वा समवायेन स्मृतिं, रूपप्रत्यक्षं वा जनयति । मनश्च
[[१२७]]
[[१२८]]
सर्वत्र मात्रपदेन निवार्यं चिन्त्यम्
संयोगेन आत्मनि स्थित्वा तदुभयं प्रति जनकमिति न तन्निष्ठकारणतावच्छेदकसम्बन्धः तादात्म्यं, नापि समवायः, न वा वक्ष्यमाणः, स्वाश्रयसमवेतत्वमिति तत् स्मृतिं प्रति, रूपप्रत्यक्षं प्रति च निमित्तकारणं भवति ।
किमनेन आयातम्? महता प्रबन्धेन संस्कारस्य स्मृतिहेतुत्वे साधितेऽपि संस्कारमात्रजन्यत्वं तस्याः न घटते । रूपप्रत्यक्षस्यापि हि चक्षुर्मात्रजन्यत्वं न घटते । आत्म-आत्ममनःसंयोग-मनोरूपाणां समवायि-असमवायि-निमित्तकारणानां सर्वत्र अनिवार्यत्वात्। कथं तर्हि संस्कारमात्रजन्यं ज्ञानं स्मृतिः, चक्षुर्मात्रग्राह्यो गुणो रूपं, त्वगिन्द्रियमात्रग्राह्यः गुणः स्पर्शः इत्यादिलक्षणेषु विद्यमानं मात्रपदं योजनीयम् ? तत्तु संस्कारभिन्नं स्मृतिं प्रति न कारणमिति बोधयति । चक्षुर्भिन्नं रूपप्रत्यक्षं प्रति न कारणमिति, त्वगिन्द्रियभिन्नं स्पर्शप्रत्यक्षं प्रति च न कारणमिति बोधयति ।
अतः एवं समाधानं वाच्यम् । त्वगिन्द्रियमेव चक्षुर्भिन्नं ग्रन्थकर्तुः बुद्धौ वर्तते । चक्षुरिन्द्रिय-जन्यप्रत्यक्षविषयत्वम् अलक्ष्ये सङ्ख्यायामस्ति इति भवति अतिव्याप्तिः। अतः तद्वारणाय त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वाभाव एव लक्षणे निवेश्यः । सङ्ख्या च तादृशविषयत्वाभाववती न भवति इति न लक्षणे अतिव्याप्तिः । स्पर्शलक्षणे च त्वगिन्द्रियभिन्नं चक्षुः, तज्जन्यप्रत्यक्षविषयत्वाभावः पूर्ववदेव सङ्ख्यायामतिव्या- प्तिवारणाय निवेश्यः। अतः रूपलक्षणे त्वगिन्द्रियाग्राह्यत्वम्, स्पर्शलक्षणे च चक्षुरिन्द्रियाग्राह्यत्वं प्रवेश्यमिति फलितार्थः। स्मृतिलक्षणेऽपि संस्कारभिन्नमिन्द्रियं विवक्षितम् । तज्जन्यत्वाभावं निवेश्य वक्ष्यमाणरीत्या (पृ.१३०) प्रत्यभिज्ञाया- मतिव्याप्तिर्निवार्यते इति सर्वं समञ्जसम् ।
चक्षुर्मात्रग्राह्यमित्यत्र मात्रपदोत्तरवर्ति ग्राह्य इति पदम् अस्ति। तदर्थः जन्यप्रत्यक्ष- विषयत्वम्। मात्रपदपूर्ववर्तिपदं चक्षुरिति पदम् । तदर्थभिन्नस्य जन्यप्रत्यक्षविषयत्वेन सम्बन्धः भवति। तथा च चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वमिति अर्थ : लब्धः । तस्य च अभावः रूपपदार्थे, तत्र बोध्यते । चक्षुर्भिन्नं च, चक्षुषः इन्द्रियरूपत्वात् इन्द्रियमेव ग्राह्यमिति चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षविषयत्वस्य अभावः रूपनिष्ठः बोध्यते । एवं
सर्वत्र मात्रपदेन निवार्यं चिन्त्यम्
चक्षुर्ग्राह्यत्वमपि बोध्यते। तथा च चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षविषयत्वाभावः चक्षुर्जन्यप्रत्यक्ष- विषयत्वमिति च चक्षुर्मात्रग्राह्यमित्यनेन लब्धम्।
तद्वदेव प्रकृतेऽपि मात्रपदोत्तरं जन्यपदं श्रुतम्। तदर्थः प्रसिद्धं जन्यत्वम्, कार्यत्वं वा। तेन सह मात्रपदपूर्ववर्ति यत् संस्कारपदं तदर्थभिन्नस्य सम्बन्धो भवति । तथा च संस्कारभिन्नजन्यत्वं प्रतीतं, तस्य चाभावः स्मृतौ प्रकृतलक्ष्ये मात्रपदात् बोध्यते । संस्कारजन्यत्वं तु संस्कारजन्येति अंशेन लब्धमिति संस्कारभिन्नजन्यत्वाभावः संस्कारजन्यत्वं च संस्कारमात्रजन्यमिति वाक्येन बोध्यते । इत्थमेव च गन्धमात्रग्राहकं घ्राणेन्द्रियम् इत्यत्र ग्राहक इत्यस्य प्रत्यक्षजनकत्वमर्थमादाय अर्थः वर्णनीयः। घटमात्रविषयकमित्यत्रापि अर्थ स्फुट एव ।
प्रकृते स्मृतिलक्षणे मात्रपदश्रवणात् संस्कारभिन्नजन्यत्वाभाववत्त्वे सति संस्कारजन्यत्वे सति ज्ञानत्वमिति लक्षणं पर्यवस्यति । इहापि रूपलक्षणवत् प्रथमसत्यन्तं, द्वितीयसत्यन्तं ज्ञानत्वमिति विशेष्यमिति त्रिधा विभागं कृत्वा दलानां सार्थक्यं चिन्त्यम्।
- संस्कारजन्यत्वमात्रोक्तौ संस्कारध्वंसे अतिव्याप्तिः । ध्वंसं प्रति प्रतियोगिनः कारणत्वात्। घटध्वंसं प्रति मुद्गरपात इव घटोऽपि आवश्यकः। असति घटे केवलेन मुद्गरपातेन कस्य ध्वंसो भवेत् ? अतः मुद्गरपातादिवत् घटध्वंसं प्रति घटोऽपि भवति कारणम् । तथा च प्रकृते संस्कारजन्यत्वमेव यदि लक्षणं, तदा संस्कारध्वंसे अतिव्याप्तिः । संस्कारध्वंसस्य संस्कारजन्यत्वात् । संस्कारभिन्नाजन्यत्वस्य लक्षणत्वे तु अजन्ये आकाशादौ अतिव्याप्तिः । ज्ञानत्वरूपविशेष्यदले एव निविष्टे अनुभवे अतिव्याप्तिः ।
इह सर्वत्र आकाशे अतिव्याप्तिः, अनुभवे अतिव्याप्तिरित्यादिलेखनस्य आकाशमादाय लक्षणे अतिव्याप्तिः, अनुभवमादाय लक्षणे अतिव्याप्तिरित्यादिः अर्थः वर्णनीयः। अव्याप्त्यतिव्याप्त्यादयो दोषाः हि लक्षणस्य, न तु पदार्थानाम् । अतः ते लक्षणे एव आपतन्ति। इत्थमेव सर्वत्र ग्रन्थयोजनासु द्रष्टव्यम् ।
१ - अमुमेव कार्यकारणभावमादाय ध्वंसं प्रति प्रतियोगिनः कारणत्वमिति तत्र तत्र ग्रन्थे उल्लिख्यते । मूलकृतापि ध्वंसलक्षणे अभिहितं प्रतियोगिजन्यः ध्वस्त इति व्यवहारहेतुरिति ग्रन्थेन । अभावविवरणावसरे निरूपितमेव अस्माभिः प्रागभावाद्यभावनिरूपितं प्रतियोगित्वं घटे ।
[[१२९]]
[[१३०]]
प्रत्यभिज्ञास्वरूपवर्णनम्
- प्रत्यभिज्ञास्वरूपवर्णनम्
संस्कारजन्यत्वे सति ज्ञानत्वं सोऽयं चैत्रः इत्याकारकप्रत्यभिज्ञायाम- तिव्याप्तम्। प्रत्यभिज्ञा प्रत्यक्षविशेषः संस्कारसहकृतेन इन्द्रियेण जायमानः । तथा हि - एतावता वर्णितेषु प्रत्यक्षेषु इन्द्रियाणामेव व्यापारः सन्निकर्षः, संयोगः संयुक्तसमवायादिः। घटसंयुक्तस्य चक्षुरिन्द्रियस्य रूपादिभिः संयुक्तसमवायः वक्ष्यमाणः सन्निकर्षः। न हि तत्र संस्कारस्योपयोगः । तत्र घटप्रत्यक्षे केवलमिन्द्रियं व्याप्रियते, प्रवर्तते। प्रत्यभिज्ञायां तु संस्कारसहकृतमिन्द्रियम् । तज्ज्ञानस्य आकारः भवति सोऽयं चैत्रः इति । तत्र द्वौ भागौ स्तः । सः इत्येकः, अयमिति अपरः ।
तद्देशकालविशिष्टः
सः
एतद्देशकालविशिष्टः
अयम्
चैत्रः
चि.स. ९८
विष्णुगुप्तेन पाटलीपुत्रे कार्तिकमासि चैत्रः अवलोकितः। तदानीं प्रत्यक्षं कीदृशं भवेत् ? चैत्रः सम्प्रति कार्तिकमासि इह पाटलीपुत्रे अस्ति । प्रत्यक्षेऽस्मिन् चैत्रः विशेष्यविधया भासते। तस्मिन् कार्तिकमासनिष्ठत्वं पाटलीपुत्रनिष्ठत्वं च प्रकारविधया
भासते ।
पाटलीपुत्रनिष्ठत्वम्
कार्तिकमासनिष्ठत्वम्
चैत्रः
प्रकारता
चि.स.९९
विशेष्यता
प्रकारता
ज्ञानम्
आधाराधेयभावः ज्ञानं विनापि भवति
।
तेन च प्रत्यक्षात्मकेन ज्ञानेन पूर्वोक्तरीत्या संस्कारः उत्पद्यते। ततः अनुभवः नश्यति। कालान्तरेण प्रयागक्षेत्रे माघमासि पुनरपि विष्णुगुप्तस्य चैत्रेण सह चक्षुःसन्निकर्षः जातः। तर्हि केवलेन सन्निकर्षेण कीदृशं प्रत्यक्षं भवेत् ? चैत्रः माघवृत्तित्ववान् प्रयागवृत्तित्ववाँश्च। परन्तु इह न केवलमिन्द्रियमस्ति । तेन सह आत्मनि संस्कारोऽप्यस्ति। संस्कारे चैत्रे पाटलीपुत्रवृत्तित्वं कार्तिकमासवृत्तित्वं च विषयः। सम्प्रति सन्निकर्षः चैत्रे प्रयागमाघमासयोः च वर्तते इति उभाभ्यां मिलिताभ्यां सः अयं चैत्रः इति प्रत्यक्षं भवति । सः इत्यंशः पाटलीपुत्रकार्तिकमास- वृत्तिचैत्रं बोधयति। अयमिति अंशः प्रयागमाघमासवृत्ति - चैत्रं बोधयति । इदम् अंशद्वयं चैत्रे अवगाहमानं ज्ञानं प्रत्यभिज्ञा इति शास्त्रे प्रसिद्धम् ।
अस्य च इन्द्रियजन्यत्वात् प्रत्यक्षत्वं शास्त्रे सम्मतम् । परन्तु तस्य संस्कारोऽपि जनकः इति केवलेन्द्रियजन्यप्रत्यक्षात् भूतलं घटवत् इत्याकारकात् भेदः। प्रकृतलक्ष्यभूता स्मृतिस्तु केवलेन संस्कारेण जायते इति ततोऽपि प्रत्यभिज्ञा विलक्षणा । ततश्च संस्कारजन्यत्वमात्रोक्तौ प्रत्यभिज्ञायामतिव्याप्तिः। अतः तद्वारणाय मात्रपदनिवेशः । प्रत्यभिज्ञायाम् इन्द्रियजन्यत्वस्यापि सत्वात् नातिव्याप्तिः ।
इहापि पूर्वदर्शितरीत्या मात्रपदेन इन्द्रियमेव निवार्यम्। संस्कारभिन्नानाम् आत्म- आत्ममनःसंयोगादिकारणानां ज्ञानमात्रं प्रति आवश्यकत्वेन निवारयितुमशक्यत्वात् । तथा च संस्कारजन्यत्वम् (१) संस्कारेतराजन्यत्वम् (२) ज्ञानत्वमिति त्रीणि दलानि लभ्यन्ते । अतः अत्रापि रूपलक्षणवदेव एकस्य दलस्य, द्वयोः दलयोः वा लक्षणत्वे दोषान् ज्ञात्वा त्रयाणामपि दलानाम् आवश्यकत्वं विदाङ्कुर्वन्तु ।
- आधाराधेयभावः ज्ञानं विनापि भवति
तद्भिन्नं ज्ञानमनुभवः । स द्विविधः । यथार्थोऽयथार्थश्चेति। तद्वति तत्प्रकारकोऽनुभवो यथार्थः । यथा रजते इदं रजतम् इति ज्ञानम् । सैव प्रमेत्युच्यते ।
[[१३११३२]]
आधाराधेयभावः ज्ञानं विनापि भवति
स्मृतिरूपं कार्यं लक्षयित्वा कारणं लक्षयति तद्भिन्नमिति । स्मृतिभिन्नं ज्ञानमित्यर्थः। अनुभवश्च इन्द्रियादिप्रमाणजन्यः संस्कारनिरूपणे दर्शितः। तद्वैविध्यमाह स इति । यः पदार्थः यत्र वर्तते तं तत्र अवगाहते विषयीकरोति यः अनुभवः स यथार्थः।
अयमाशयः। दीपिकादृष्टान्तेन ज्ञानस्य प्रकाशत्वं (पृ. ३४) वर्णितमेव। तेन च ज्ञानेन विषयता निरूप्यते । यस्मिन् पदार्थे सा विषयता, सः ज्ञानस्य विषयः नान्यः इति च ब्रूमः । सा च विषयता त्रिविधा । प्रकारता, संसर्गता, विशेष्यता चेति। प्रकारतादयः पदार्थाः ज्ञाने सत्येव भवन्ति । ज्ञानानुत्पत्तौ तु न पदार्थे प्रकारता, न संसर्गता, नापि विशेष्यता। यथा इदं रजतमिति प्रकृतोदाहरणे । एतद्यथार्थज्ञाननिरूपिता प्रकारता रजतत्वे, संसर्गता समवाये, इदम्पदार्थे विशेष्यता च भवति । यदा तु ज्ञानं नास्ति तदा न रजतत्वे प्रकारता, न समवाये संसर्गता, नापि इदमि विशेष्यता ।
परन्तु एतादृशज्ञानाभावदशायां किम् इदम्पदार्थे रजते रजतत्वं न भवति? तयोश्च समवायः सम्बन्धः न भवति ? भवत्येव । न हि रजतत्वरजतयोः समवायसम्बन्धेन आधाराधेयभावः रजते रजतत्वज्ञानमपेक्षते । रात्रौ, अस्मासु सर्वेषु सुप्तेषु, भूतले घटज्ञानाभावदशायामपि भूतले घटो भवत्येव । तथैव रजते रजतत्वज्ञानाभावेऽपि तत्र रजतत्वं भवत्येव। अतः आधाराधेयभावः अस्मदीयं ज्ञानं नापेक्षते । स तु वस्तुनोः स्वभावः। पृथिव्यादिद्रव्येषु रूपादयो गुणाः, उत्क्षेपणादिकर्माणि, द्रव्यगुणकर्मसु सत्तादयः जातयः, परमाण्वादिनित्यद्रव्येषु विशेषाः, तत्र तत्र समवायः, अनेकविधाश्च अभावाः ज्ञाने सति, असति वा स्वाधिकरणे तिष्ठन्त्येव इति न तत्र क्वापि ज्ञानापेक्षा ।
परन्तु पदार्थस्वभावभूतमाधाराधेयभावम् अनुसृत्य यदा अनुभवः उत्पद्यते तदा सा प्रमा भवति। यत्र हि स्वभावसिद्धा अधिकरणता तत्र ज्ञाननिरूपिता विशेष्यता भवेत्, यत्र च स्वभावसिद्धा आधेयता तत्र ज्ञाननिरूपिता प्रकारता भवेत्, यश्च आधाराधेययोः सम्बन्धः तत्र ज्ञानीया संसर्गता भवेत् सा प्रमा । विषयमेनं चित्रात्
सम्यगवगच्छामः।
आधेयत्वप्रकारत्वयोः सामानाधिकरण्यात् प्रमा
आधेयता
प्रकारता
रजतत्वम्
स्वभावतः
सम्बन्धत
संसर्गता
ज्ञानतः
समवायः
आधारता
विशेष्यता
रजतम्
चि.स.१००
- आधेयत्वप्रकारत्वयोः सामानाधिकरण्यात् प्रमा
इहोदाहरणे स्वभावसिद्धा रजते अधिकरणता । तत्रैव ज्ञाननिरूपित- विशेष्यतास्ति। यश्च तयोः सम्बन्धः समवायः तत्रैव ज्ञाननिरूपितसंसर्गतास्ति । यत्र च रजतत्वे स्वभावसिद्धा आधेयता तत्रैव ज्ञानीया प्रकारता इति रजते रजतत्वावगाहि, रजतत्वप्रकारकं ज्ञानं प्रमा भवति ।
आधेयता
घटः
निष्ठ
प्रकारता
स्वभावतः सम्बन्धता ←
संयोगः निष्ठ
संसर्गता
ज्ञानतः
आधारता ←
भूतलम्
निष्ठ
विशेष्यता
चि.स.१०१
द्वितीयोदाहरणेऽपि आधेयताप्रकारतयोः सम्बन्धतासंसर्गतयोः आधारता- विशेष्यतयोः सामानाधिकरण्यात् भूतलं घटवत् इति ज्ञानं भवति प्रमा।
यथाश्रुततर्कसङ्ग्रहपतचापि अयमेव अर्थो लभ्यते। तद्वति तत्प्रकारकोऽनुभवः यथार्थः इति हि मूलम् । तद्वत् इति एकः अंशः (१) ततः परं विद्यमाना सप्तमी तत्प्रकारकः इति पदद्वयं च अपरः अंशः (२) अनुभवः यथार्थः इति च लक्ष्यनिर्देशः ।
[[१३३]]
[[१३४]]
आधेयत्वप्रकारत्वयोः सामानाधिकरण्यात् प्रमा
तद्वत् इत्यत्र अस्ति मतुप्प्रत्ययः । स च तदस्यास्ति अस्मिन् इति मतुप् इति सूत्रेण विहितः। तत्र सूत्रे तत्पदेन रूपवत् इत्याद्युदाहरणे रूपं ग्राह्यम्। तत् रूपं अस्य अस्ति इति एकः वाक्यार्थः, तद्रूपं अस्मिन् अस्ति इति अपरः । षष्ठी सम्बन्धबोधनाय सप्तमी च अधिकरणत्वबोधनाय गृहीता इति रूपसम्बन्धबोधनाय रूपाधिकरणत्व- बोधनाय वा मतुप् भवति इति पर्यवसितसूत्रार्थः।
तथा च प्रकृते तत्पदेन रजतत्वग्रहणे तद्वत् इत्यनेन रजतत्वाधिकरणत्ववत् बोध्यते। अधिकरणत्वे लब्धे च आधेयतापि अर्थादेव रजतत्वनिष्ठा लभ्यते । तेन रजतत्वनिष्ठाधेयतानिरूपिताधिकरणतावत् इति तद्वत् इत्यंशेन अर्थः लब्धः । अतः स्वभावसिद्धः आधाराधेयभावः पूर्वोक्तः तद्वत् (१) इति आदिमांशेन लभ्यते । ततः अस्ति अपरभागः सप्तमी, तत्प्रकारकः इति पदद्वयं प्रागुक्तम् । तत्र सप्तम्याः विशेष्यता इति अर्थः । वैषयिकी सप्तमीयं मोक्षे इच्छा इत्याद्युदाहरणे व्याकरणशास्त्रे प्रसिद्धा । तादृशाधिकरणतावत् यत्, तत्र इयं विशेष्यता भवति । तद्वत् च प्रकृते रजतमिति विशेष्यतायाः रजतनिष्ठत्वलाभः ।
तत्प्रकारकमित्यत्र तत् रजतत्वं प्रकारः यस्य इति विग्रहः । तेन च रजतत्वे प्रकारतालाभः। तत्रैव च स्वभावतः आधेयताप्यस्तीति आधेयताप्रकारतयोः सामानाधि- करण्यलाभः। आधाराधेयभावः प्रकारविशेष्यभावश्च सम्बन्धाधीनः इति समवाये सम्बन्धत्वसंसर्गत्वयोः लाभः । तदेवम् एतादृशाधेयताप्रकारत्वयोः सम्बन्धत्वसंसर्गतयोः आधारत्वविशेष्यत्वयोः सामानाधिकरण्यं यज्ज्ञाने भवति सैव प्रमेत्युच्यते । मा इत्यस्य ज्ञानमर्थः। प्रकृष्टा मा, प्रमा। प्रकर्षश्च ज्ञाननिष्ठः तद्वति तत्प्रकारकत्वरूपः इति । तदभाववति तत्प्रकारकोऽनुभवः अयथार्थः । यथा शुक्ताविदं रजतम् ।
- आधेयत्वमभावे प्रकारत्वं प्रतियोगिनि चेत् अप्रमा
इत्थं सुविशदं प्रमायां निरूपितायां तदभाववति तत्प्रकारकोनुभवः अयथार्थः इति भ्रमलक्षणमपि तथैव ज्ञातुं शक्यम् । इहापि कश्चित् पदार्थस्वभावः कश्चित्
आधेयत्वमभावे प्रकारत्वं प्रतियोगिनि चेत अप्रमा
ज्ञानस्वभावः। तदभाववत् इति अंशेन पदार्थस्वभावः उच्यते। (१) सप्तमी तत्प्रकारकः इत्येताभ्यां ज्ञानस्वभावः उच्यते। तत्पदेन भ्रमे प्रकारीभूतः पदार्थः ग्राह्यः । शुक्तिकायाम् इदं रजतमिति रजतत्वप्रकारकभ्रमे तादृशं च रजतत्वमेव। तदभावः, रजतत्वाभावः रजतत्वाभाववती शक्तिः । रजतत्वाभावे च आधेयता, स्वरूपसम्बन्धे सम्बन्धता, शुक्तौ च अधिकरणता भवति। अयं चांशः तदभाववत् इत्यनेन लब्धः ।
पूर्ववदेव सप्तम्याः विशेष्यत्वमर्थः। तस्य च रजतत्वाभावनिष्ठाधेयता- निरूपिताधिकरणतावत्यां शुक्तौ सत्वात् पूर्ववदेव अधिकरणत्वविशेष्यत्वयोः सामानाधिकरण्यलाभः। तत्प्रकारकमित्यत्रापि पूर्ववदेव विग्रहः । तेन प्रकारतायाः रजतत्वनिष्ठत्वलाभः।
इयांस्तु विशेषः । प्रमायाम् आधेयता यत्र तत्रैव प्रकारतापि । इह भ्रमे, आधेयता रजतत्वाभावे प्रकारता परं रजतत्वे । एवं सम्बन्धता स्वरूपे संसर्गता समवाये इति ।
आधेयता
प्रकारता
रजतत्वम्
[[१३५]]
स्वभावतः-
सम्बन्धता
अभावः
संसर्गता
ज्ञानतः
अधिकरणता
स्वरूपम् समवायः
विशेष्यता
शुक्तिः चि.स.१०२
इत्थमेव पृथिवी गन्धवती, परमाणुः विशेषवान्, भूतलं घटाभाववत् इत्यादिप्रमा- स्थले अधिकरणत्वविशेष्यतयोः आधेयत्वप्रकारत्वयोः च सामानाधिकरण्यमादाय प्रमात्वं वर्णनीयम् ।
जलं समवायेन गन्धवत्, घटः विशेषवान्, तेजः उष्णस्पर्शाभाववत् इत्याद्ययथार्थज्ञानस्थले तु गन्धाभावविशेषाभाव- उष्णस्पर्शाभावाभावनिष्ठाः आधेयताः,
[[१३६]]
प्रत्यक्षादिविभागः
प्रकारता तु गन्धे, विशेषे, उष्णस्पर्शाभावे इति आधेयत्वप्रकारत्वयोः असामानाधिकरण्यात् भ्रमत्वमपि स्फुटम् ।
एतयोः अनुभवयोः उदाहरणे मूले दर्शिते रजते रजतमिति प्रमा, शुक्तौ रजतमिति अप्रमा इत्यादिना ।
- प्रत्यक्षादिविभागः
यथार्थानुभवश्चतुर्विधः । प्रत्यक्षानुमित्युपमितिशाब्दभेदात् ।
तत्करणमपि चतुर्विधम् । प्रत्यक्षानुमानोपमानशब्दभेदात् । यथार्थानुभवस्य चातुर्विध्यमाह यथार्थानुभवेति ।
प्रत्यक्षम् इत्यत्र प्रतिगतमक्षम् इन्द्रियं यस्य इति व्युत्पत्त्या प्रमितिपरमिदं पदम् । विषयं प्रति गतं सन्निकृष्टम् इन्द्रियं यस्य इति निरूपणे सति विषयस्य इन्द्रियस्य च सन्निकर्षलाभः। तादृशसन्निकर्षजन्यता च प्रमायाः प्रत्यक्ष इति पदेन लभ्यते ।
इदं निर्वचनं प्रत्यक्षपदस्य प्रमापरत्वे ग्राह्यम् । इन्द्रियेऽपि करणे प्रत्यक्षव्यवहारस्तु प्रतिगतमक्षम् इन्द्रियं प्रत्यक्षम् इत्येव निर्वचनेन सिद्ध्यति ।
अनुमितिपदं तर्हि कमर्थं बोधयति ? उच्यते । चैत्रः अनुवदति इत्यादौ आदौ कश्चित् वदति पश्चात् चैत्रः वदति इति प्रत्ययात् अनु इति उपसर्गयोगे धातुबोध्यक्रियायाः उत्तरभावित्वं ज्ञायते। तादृशधात्वर्थः प्रकृते मितिः ज्ञानम् । तस्मात् पश्चात् जायमानं ज्ञानमिति अनुमितिशब्दार्थः । इदं चेत् पश्चात् जायमानं ज्ञानं, तत्पूर्वमपि ज्ञानमेव आकाङ्क्षितमिति (पृ.१७९) सम्बन्धज्ञानमेव तत्पूर्ववृत्ति भवति ।
शाब्दबोधश्च’ शब्दपूर्वकत्वात् तथा व्यवह्रियते । एतेषां च प्रमाकरणानां बोधकता संस्कारनिरूपणे सङ्क्षेपतः निरूपिता एव । तत्तन्मूलपङ्किव्याख्यानावसरे च निरूपयिष्यते ।
प्रमायां विभक्तायां तत्करणमपि विभजते । तत्करणमिति । प्रत्यक्षानुमान- उपमानशब्दाः प्रमाणानि ।
१ - उपमितिशब्दार्थः क्लिष्टत्वात् नोक्तः ।
साधारणकारणनिरूपणम्
साधारणकारणनिरूपणम्
इह च करणपदप्रयोगात् तदर्थस्य चैतावता अनुक्तत्वात् तमाह -
असाधारणं कारणं करणम् इति ।
असाधारणकारणत्वपरिज्ञानाय आदौ किं नाम साधारणकारणत्वं, कानि च साधारणकारणानि इति विस्तरेण चिन्तयामः । कार्यस्य कारणाधीनत्वं लोकसिद्धमेव । तत्रापि हि दण्डादयः पदार्थाः कारणत्वेन अभिमताः, घटादीनि कतिचिदेव कार्याणि कुर्वते। दण्डेन हि घटनिर्माणं, गृहादिनिर्माणं, ताडनम्, ईदृशानि अस्माभिः ज्ञायमानानि कतिचित् कार्याणि क्रियन्ते । इतोऽपि कः कः खलु अस्य उपयोगः इति जिज्ञास्य देशान्तरे स्थितान्, कार्यान्तरे व्यापृतान् वा जनात् पृच्छामश्चेत् तेऽपि शतं दण्डकार्याणि वदेयुः नाम।
परन्तु दण्डेन अजन्याः अपि परः सहस्राः पदार्थाः सर्वसाक्षिकाः सन्ति। न हि तेजःसंयोगेन पृथिव्यां गन्धाद्युत्पत्तौ, जन्यजलादौ वा शीतस्पर्शाद्युत्पत्तौ दण्डकारणतां कश्चित् अभ्युपैति । नारिकेलतरोः अपि खलु कल्पतरुरिति अस्मदीये १३७ कोङ्कणप्रान्ते प्रसिद्धस्य सन्ति सहस्रशः लोकसिद्धानि कार्याणि । अनपेक्षित एव तथापि तु पूर्वोक्तगन्धाद्युत्पत्तौ सः । इत्थञ्च बहूपकारकस्यापि पदार्थस्य अनन्तकार्यात्मकेऽस्मिन् जगति कांश्चन पदार्थान् प्रत्येव कारणत्वं न तु सर्वं कार्यं
प्रति ।
एतद्वैपरीत्येन सन्ति वैशेषिकशास्त्रसम्मताः षट् पदार्थाः ये कार्यमात्रं प्रति निखिलकार्यं प्रति कारणानि भवन्ति । कार्यमात्रं प्रति च कारणत्वात् एतेषां साधारणकारणमिति चाभिधा भवति । साधारणं कारणं, कार्याणि प्रति विभिन्न- विशेषकारणेषु सत्सु विभिन्नकार्याणि प्रति तत्तद्विशेषकारणेषु सत्सु यत् अनुगतं भवति, साधारणं भवति, तदेव शास्त्रे साधारणकारणमिति व्यवह्रियते । तानि च साधारण- कारणानि दिक्कालौ ईश्वरीयज्ञानेच्छाकृतयः प्रागभावश्च इमानि षट् ।
[[१३८]]
दिक्कालादीनां साधारणकारणत्वव्यवस्थापनम्
- सूक्तिललन्तिका
दिक्कालादीनां साधारणकारणत्वव्यवस्थापनम्
कथं हि एतेषां कार्यमात्रं प्रति कारणताम् अवगच्छामः ? उच्यते । तदादौ दिक्कालयोः कारणत्वं साधयामः । यद्धि यदुत्पत्यधिकरणत्वेन प्रतीयते तत् तस्य जनकमिति नियमः। कपाले घटोत्पत्तिं प्रतीमः । घटः कपाले उत्पद्यते इति हि तादृशोत्पत्तेः कपाले प्रतीतिः। तादृशप्रतीतौ उत्पत्त्यधिकरणत्वेन प्रतीतं कपालं घटस्य जनकमिति अपि सिद्ध्यति । तद्वदेव च घटोत्पत्तिः देशे काले च प्रतीयमाना तयोरपि घटजनकतां साधयति ।
प्रतीयते खलु कपाले इदानीम् इह घटोत्पत्तिरिति । तस्यां प्रतीतौ च इदानीमिति उल्लिख्यमानः महाकालः, इह इति प्रतीयमाना दिक् इति तत्तन्निरूपणावसरे प्रपञ्चितमेव । तथा च पूर्वोक्तनियमेन कपालस्य घटं प्रति कारणत्वमिव उत्पत्त्यधिकरणत्वेन प्रतीतत्वात् दिक्कालयोः अपि घटजनकत्वं सिद्ध्यति। इत्थमेव निखिलकार्याणाम् उत्पत्तिप्रतीतौ तयोः विषयत्वावश्यकत्वात् कार्यमात्रं प्रति तयोः कारणत्वमपि तेनैव नियमेन सिद्ध्यति । तस्मात् दिक् कालश्च जन्यजगतः साधारणकारणे ।
ज्ञानेच्छाकृतीनाम् ईश्वरसमवेतानां साधारणकारणत्वम्
इतश्च ईश्वरीयज्ञानेच्छाकृतीनां साधारणकारणत्वं साधयामः। आत्मनिरूपणे (पृ.६६) निखिलस्य कार्यस्य चेतनसापेक्षत्वं प्रदर्शितम्। ततः कुलालादिभ्यः चेतनेभ्यः घटादिकार्योपत्तिः यथा भवति तथा परमाणुसंयोगादिपरम्परया द्व्यणुकात् प्रभृति महापृथिव्यादीनाम् उत्पत्तिः सर्वज्ञेन चेतनेन सम्भाव्यते इति तादृशश्चेतनः ईश्वरः इति साधितम् । तत्र चिन्त्यं यत्, कपालम् अजानानस्य पुरुषस्य घटकारणत्वं न सम्भवति । घटसमवायिकारणं साक्षात्कृत्य खलु कुलालः घटं निर्मिमीते । तेन कुलालस्य यथा घटकारणत्वं, तथैव कुलाले विद्यमानं यत् कपालप्रत्यक्षं तस्यापि घटं प्रति जनकता
।
ज्ञानेच्छाकृतीनाम् ईश्वरसमवेतानां साधारणकारणत्वम्
अन्वयव्यतिरेकाभ्यां सिद्ध्यति । तुल्ययुक्त्या जगत्कारणीभूते ईश्वरे विद्यमानं यत् तत्तत्कार्यसमवायिकारणस्य ज्ञानं, तदपि जन्यमात्रं प्रति कारणमिति अवगच्छामः।
इत्थं कुलालस्य घटं कर्तुमिच्छापि घटोत्पत्तौ आवश्यिका । कपालं साक्षात्कृत्यापि ‘चिकीर्षाशून्येन कुलालेन घटोत्पत्तिः नैव भवति। तादृशचिकीर्षायाः लोके कार्यहेतुत्वे सिद्धे ईश्वरसमवेततादृशचिकीर्षाया अपि जगत्कारणत्वं तथैव निश्चिनुमः ।
समवायिकारणज्ञानमस्तु नाम कुलालात्मनि । चिकीर्षति च सः घटम् । तथापि तु कुतश्चित् प्रतिबन्धात् कुलालात्मनि कृतिरूपः गुणः २ यदि नोत्पद्यते, नोत्पद्यते एव तर्हि तत्र घटः । तेन ज्ञानचिकीर्षयोरिव कुलालकृतेरपि घटहेतुत्वमवधारयामः । इत्थं च लोके कृतेरपि कार्यजनकत्वे निश्चिते ईश्वरीयकृतेरपि जगत्कारणत्वं स्वीक्रियते ।
इयांस्तु विशेषः। यत् कुलालसमवेतज्ञानेच्छाकृतयः घटव्यक्तिभेदेन भिन्नाः क्षणिकाः च । ईश्वरीयज्ञानेच्छाकृतयस्तु सकलसमवायिकारणविषयिकाः नित्याः सर्वाणि कार्याणि अबीभवन् भावयन्ति भावयिष्यन्ति च। अतः ईश्वरसमवेत- ज्ञानेच्छाकृतयः भवन्ति जन्यजग॑तः साधारणकारणानि ।
[[१३९]]
घटोत्पत्तिः
अधिकरणम्
घटकारणता
कपालः
चि.स.१०३
घटोत्पत्तिः
घटकारणता
अधिकरणम्
इह
इदानीम्
(दिक्)
(कालः)
चि.स.१०४
१ - कर्तुमिच्छा। २ - पृ.६७ एतेषां त्रयाणां भेदः निरूपितः।
घटकारणता
[[१४०]]
प्रागभावस्य साधारणकारणत्वम्
ईश्वरज्ञानेच्छाकृतीनां कारणता चेत्थम्
ज्ञानम्
समवायसम्बन्धः
घटः
विषयता
समवायसम्बन्धः
कपालः
(ईश्वरः, कुलालः ) चेतनः
चि.स.१०५
इच्छा
विषयता
घटः
समवायसम्बन्धः
समवायसम्बन्धः
(ईश्वरः, कुलालः ) चेतनः
कपालः
संयोगसम्बन्धः
चि.स.१०६
एवमेव इच्छास्थाने कृतिं निधाय तत्कारणत्वं प्रदर्शनीयम् ।
- प्रागभावस्य साधारणकारणत्वम्
षष्ठः प्रागभावः परिगणितः । कथं हि तस्य कारणताम् अवगच्छामः ? प्रागभावः अभावरूपः। न हि सः संयोगेन कार्याधिकरणे कपाले तिष्ठेत् । द्रव्ययोरेव संयोगाभ्युपगमात्। गुणगुणिनोः क्रियाक्रियावतोः अवयवावयविनोः जातिव्यक्त्योः विशेषनित्यद्रव्ययोरेव खलु समवायोऽपि स्वीक्रियते । नैतेषु युगलेषु क्वचित् प्रागभावः प्रविष्टः। पदार्थस्य हि स्वस्मिन्नेव तादात्म्यं समवायिकारणतानिर्वाहाय अभ्युपगतम् । अतः प्रागभावस्य कपाले तादात्म्यमिति अपि न शक्यते वक्तुम्।
आस्तां तावत् सत्त्वचिन्तया । कारणतायां सिद्धायां कल्पयामः, तादात्म्यमिव सम्बन्धमपि । कारणतैव तु न सिद्धा । घटं निर्मित्सुः कुलालः तत्कारणानि दण्डः,
।
प्रागभावस्य साधारणकारणत्वम
चक्रं, कपालः, जलं, रज्जुः इमानि उपादत्ते । न हि सः प्रागभावमुपाददानो दृष्टः । चेतनेन कार्याय खलु यत् आदीयते तत्कारणं, नान्यत् । दण्डचक्रादि कर्त्या यत् आनीतं, तत् कथञ्चित् सम्बन्धं प्रकल्प्य स्थितिमावहत् भवति कारणम् ।
कुतः एतत् उपादानमावश्यकम् ? उच्यते । अन्यथा दण्डत्वं दण्डरूपं वा दण्डे समवायेन विद्यमानं कपालेऽपि स्वसमवायिसंयुक्तत्वसम्बन्धेन स्थितमिति तदपि च भवेत् घटकारणम् । आकाशं च विभुत्वात् सर्वमूर्तसंयुक्तमिति निरूपितम्। मूर्तं च क्रियाशालित्वात् कपालमिति तस्मिन् संयोगः आकाशस्य अव्याहत एव । अतः संयोगेन आकाशस्यापि कपाले सत्वात् भवेत् आकाशमपि घटकारणम् ।
अनिष्टं च प्रामाणिकानां घटं प्रति दण्डत्वस्य, दण्डरूपस्य, आकाशस्य वा कारणत्वमिति न इष्टापत्त्या सम्भवति परिहारः । अतः न कार्याधिकरणे सत्तामात्रं, विद्यमानत्वमेव कारणतां ज्ञापयति, किन्तर्हि चेतनकर्तृकमुपादानमेव। सिद्धे च तथाविधोपादाने सम्बन्धमपि कार्यकारणयोः सामानाधिकरण्यनिर्वाहाय कल्पयामः । निरूपितं चादानं चेतनेन कुलालेन चक्रादीनामिति लोकसिद्धा तेषां कारणता। नेदृशम् आदानं प्रागभावस्य सम्भवति इति दुरुपपादा तस्य घटकारणतापि ।
सत्यम् । न सम्भवति प्रागभावस्य आदानम् । मूर्तानां हि एतदावश्यकं यत् जनकत्वनिर्वाहाय आनीयन्ते । तावता आनयनायोग्यानां कारणता न व्याहन्यते । दर्शितरीत्या सिद्धकारणभावयोः दिक्कालयोः विभुत्वमपि सिद्धमेव । न हि तयोः क्रिया सम्भवति। ज्ञानसमवायिकारणस्य आत्मनः विभुत्वात् क्रियोत्पादासम्भवः स्फुट एव। गुरुत्वादिगुणानां पतनादिकारणता (पृ.१०९) निरूपितैव। क्रियायाः अपि विभागं प्रति, उत्तरदेशसंयोगं प्रति च कारणता निरूपिता । न हि गुणक्रिययोः अमूर्तयोः आदानं सम्भवति। अतः मूर्तानामेव कार्याधिकरणे आदानं कारणतां ग्राहयेत् अनादानं वा प्रतिषिध्येत् । न च प्रकृतः प्रागभावः मूर्तरूपः इति तत्कारणत्वनिरूपणाय अदानानादानयोः चिन्ता निष्फला एव ।
१४१प्रागभावस्य साधारणकारणत्वम
- भवतु अनादानेऽपि केषाञ्चित् कारणता । प्रागभावस्य परं कथं सा वेदितव्या इति चेत्, उच्यते। भवदुक्त्या अनीतानि चेतनेन कुलालेन घटकारणानि। मृदि जलसंयवनेन पिण्डं निर्माय, दण्डेन चक्रं भ्रमयित्वा कपालनिर्माणमपि कृतम् । तादृशौ द्वौ कपालौ ज्येष्ठक्षणे सिद्धौ। तौ च घटसमवायिकारणे । न च तावताऽपि घटोत्पत्तिः। असमवायि- कारणं कपालद्वयसंयोगः आवश्यकः । स च आषाढक्षणे कुलालेन उत्पादितः। ततः किम् ? श्रावणक्षणे घटोत्पत्तिः ।
चैत्रक्षणः
वैशाखक्षणः ज्येष्ठक्षणः
आषाढक्षणः श्रावणक्षणः
पिण्ड चक्रभ्रमणम् कपालोत्पत्तिः कपालद्वय घटोत्पत्तिः
संयोगोत्पत्तिः
निर्माणम्
चैत्रक्षणः वैशाखक्षणः ज्येष्ठक्षणः
आषाढक्षणः श्रावणक्षणः भाद्रपदक्षणः
पिण्ड चक्रभ्रमणम् कपालोत्पत्तिः
कपालद्वय घटोत्पत्तिः
सहानव-
निर्माणम
संयोगोत्पत्तिः कुलालः
स्थानात्
[[१४२]]
कुलालः चक्रम्
प्रागभावः
चक्रम्, दण्डः
दण्डः
नास्ति अतः
प्रागभावः
न घटोत्पत्तिः
इतः अवधानेन चिन्तयामः। उत्पन्नः श्रावणक्षणे घटः । तत्पूर्वक्षणे आषाढे दण्डचक्रकपालकपालसंयोगादिसर्वकारणानि, स्वस्य यः योग्यः सम्बन्धः तेन सम्बन्धेन कपाले आसन्। तदग्रिमक्षणे श्रावणक्षणे घटः उत्पन्नः । किं तस्मिन् श्रावणक्षणे कपाले दण्डादयः न सन्ति ? सन्ति एव । श्रावणक्षणेऽपि हि कपालः स्वस्मिन् तादात्म्येन अस्ति। संयोगेन चक्रं कपालेऽस्ति । स्वजन्यभ्रमिजन्यभ्रमिमत्तासम्बन्धेन दण्डोsपि अस्ति। कुलालः संयोगेन । कपालद्वयसंयोगोऽपि हि तस्मिन् श्रावणेक्षणे वर्तते ।
एवं च यानि यानि कारणानि घटोत्पत्तिप्राक्क्षणे आषाढक्षणे आसनू, घटं च श्रावणक्षणे उत्पादितवन्ति, तानि सर्वाणि अपि घटोत्पत्तिक्षणे श्रावणक्षणेऽपि तथैव कपाले सन्ति। एवं सति अग्रिमे भाद्रपदक्षणे पुनरपि घटोत्पादः कुतो न भवति ?
प्रागभावस्य साधारणकारणत्वम
सार्वजनीनमेतत् यत् भाद्रपदे क्षणे चक्रादिसत्त्वेऽपि न पुनः घटोत्पादः। अयं च भाद्रपदक्षणे घटस्य अनुत्पादः तत्पूर्वस्मिन् क्षणे उत्पादः प्रागभावस्य घटकारणतायां सुष्ठ निर्वहति ।
कथम्? उच्यते। अभावानां हि प्रतियोगिना सह सहानवस्थानरूपविरोधः उद्देशग्रन्थे निरूपित एव । (पृ. २८) सहानवस्थानं च विरोधिनोः द्वयोः एकस्मिन् क्षणे अभवनम्। यस्मिन् क्षणे घटः न तस्मिन् क्षणे तत्प्रागभावः। यस्मिन् क्षणे घटप्रागभावः न तस्मिन् क्षणे घटः । प्रकृते चेदृशे सहानवस्थाने अवधारिते, आषाढक्षणे, घटोत्पत्तिप्राक्क्षणे चक्रदण्डादिसमवधानक्षणे घटः नैतावता उत्पन्न इति तत्प्रागभावः प्रतियोगिनः असत्त्वात् वर्तते । अग्रिमे च घटोत्पत्तिक्षणे घटेन सहानवस्थानात् नास्ति ।
।
तथा च चक्रादिघटकारणेषु आषाढक्षणे तत्र विद्यमानः घटप्रागभावोपि अन्तर्भावनीयः। चक्रादीनि कारणानि, प्रागभावश्च एतत्समुदाय एव घटसामग्री । सा च सामग्री आषाढक्षणे वर्तते इति श्रावणक्षणे घटोत्पादः। तदग्रिमे श्रावणक्षणे चक्रादीनां सत्त्वेऽपि घटोत्पादेन नष्टः प्रागभावः इति यावत्कारणान्तर्गतः प्रागभावो न वर्तते । अतः न अग्रिमे भाद्रपदक्षणे पुनरपि घटोत्पादप्रसङ्गः । सङ्क्षेपतश्च उत्पन्नस्य पुनरुत्पत्तिवारणाय प्रागभावकारणतास्वीकारः आवश्यकः ।
निर्णीते च प्रागभावस्य कारणत्वे कपाले सम्बन्धोऽपि दैशिकविशेषणतारूपः अस्त्येव इति कार्यकारणयोः सामानाधिकरण्यमपि उपपन्नम्। तथा च प्रागभावस्यापि कार्यमात्रं प्रति कारणत्वमायातम् । एतावता दिक्कालयोः ईश्वरसमवेतज्ञानेच्छाकृतीनां प्रागभावस्य च कार्यमात्रं प्रति कारणत्वं सिद्धम् ।
नन्वेवं कुलालस्यापि चेतनस्य घटकारणत्वं दृष्टान्तीकृत्य आत्मनिरूपणे ईश्वरः चेतनः जगत्कारणमिति साधितः । सः इदानीं साधारणकारणगणनायां कुतो न परिगणित इति चेत्, अस्त्वीश्वरः सप्तमः कार्यमात्रं प्रति साधारणकारणम्। केचन धर्माधर्मयोरपि साधारणकारणत्वमिच्छन्ति । प्रागभावस्यापि च साधारणकारणत्वं केचन नेच्छन्तीति एषा दिक् । तत्तत्त्वं तु मुक्तावल्यादिग्रन्थेभ्यः अवगन्तव्यम्।
[[१४३]]
[[१४४]]
कारणत्वनिरूपणम्
तथाचेमानि साधारणकारणानि । तद्भिन्नानि सर्वाणि असाधारणकारणानि । तानि तां तां व्यक्तिं जनयन्ति । यथा दण्डः घटं जनयति । गृहं जनयति । एवंविधानि कतिचिदेव अनुपदोक्तरीत्या कार्याणि उत्पादयति। अतः दण्डः तेषामसाधारणं कारणं भवति। तथा च घटस्य कपालादयः, पटस्य तन्तुप्रभृतयः अवयविरूपस्य अवयवरूपं, क्रियायाः संयोगः प्रत्यक्षस्येन्द्रियं च असाधारणकारणं भवति। तदेतत् हृदि निधायोक्तम् असाधारणं कारणं करणमिति ।
- तत्र कारणपदार्थमाह - कार्यनियतपूर्ववर्ति कारणम् इति । तघटकं कार्यमाह - कार्यं प्रागभावप्रतियोगि इति ।
इदमुभयं विस्तरेण निरूपितम् । (पृ.२९) तत्र कारणस्य विभागमाह -
कारणं त्रिविधम् । समवाय्यसमवायिनिमित्तभेदात् । यत्समवेतं कार्यमुत्पद्यते तत् समवायिकारणम् ।
यथा तन्तवः पटस्य। पटश्च स्वगतरूपादेः।
कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत् कारणम् असमवायिकारणम् । यथा तन्तुसंयोगः पटस्य तन्तुरूपं पटरूपस्य । तदुभयभिन्नं कारणं निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य इति ।
विभागोयं सुष्ठु निरूपितः। (पृ. ८६,८९) तत्राद्ये, समवायिकारणे तादात्म्यं घटकमिति तदपि (पृ.३०) साधितम्।
यद्धि कारणं स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति तत्समवायिकारणम् । इह कार्यतावच्छेदकसम्बन्धः समवायः । कारणतावच्छेदकः तादात्म्यम् । तथा च समवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्न- कारणताश्रयत्वं समवायिकारणत्वं पूर्वोक्तमेव सम्बन्धनिवेशसार्थक्यचिन्तनाय पुनः स्मारितम्। इह कार्यतायां समवायसम्बन्धावच्छिन्नत्वानुपादाने किञ्चित्सम्बन्धा- वच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणता इति लक्षणं स्यात् ।
प्रत्यक्षं प्रति विषयस्य कारणत्वम्
तथा सति घटप्रत्यक्षनिमित्तकारणे घटे अतिव्याप्तिः । कथम् ? उच्यते।
प्रत्यक्षं प्रति विषयस्य कारणत्वम्
अनुमित्यादिस्थले वह्नेः अवर्तमानतादशायामपि अत्र धूमः आसीत् इति ज्ञाने सति, वह्निधूमयोः वक्ष्यमाणसम्बन्धस्य ज्ञानेन, अविद्यमानस्यापि वह्नेः अनुमितिः भवति । एवं शाब्दबोधस्थलेपि । तेन इदमवगच्छामः यत् प्रत्यक्षातिरिक्ते स्थले प्रमायां जननीयायां विषयः तत्र भवेदेव आवश्यक एव इति न नियमः। तथा सति अनियतस्य तस्य प्रत्यक्षातिरिक्ते कारणत्वं नास्तीति निश्चिनुमः ।
परन्तु प्रत्यक्षस्थले ये सन्निकर्षाः इन्द्रियसंयोगादयः अस्माभिः तत्र तत्र प्रसङ्गात् निरूपिताः ये च मूले समवायादयः वक्ष्यमाणाः ते सर्वे षड्विधसन्निकर्षाः पदार्थस्य वर्तमानतादशायामेव सम्भवन्ति । एवं च विद्यमानेन पदार्थेन इन्द्रियस्य संयोगादिसन्निकर्षे सति घटादिप्रत्यक्षं, नान्यथा । इदमेव मीमांसाकार्तिककारैः कुमारिलभट्टपादैः चोदनासूत्रे अभिहितम् -
सम्बद्धं वर्तमानं हि गृह्यते चक्षुरादिना इत्यनेन ।
तथा च सन्निकर्षः इव घटादिविषयोऽपि स्वप्रत्यक्षस्य नियतपूर्ववर्ती भवतीति सोऽपि स्वप्रत्यक्षं प्रति भवति कारणम्। अस्य च प्रत्यक्षस्य ज्ञानरूपत्वेन तस्य समवायिकारणं भवति आत्मा। असमवायिकारणम् आत्ममनःसंयोगः। निखिलज्ञानं प्रति च अयम् आत्ममनःसंयोग एव असमवायिकारणम् । निमित्तकारणं भवति घटः ।
यद्यपि केनचित् परम्परासम्बन्धेन घटमात्मनि नीत्वा, घटस्य तत्प्रत्यक्षस्य च सामानाधिकरण्यं सम्पादयितुं शक्यं, तथापि तु लाघवानुरोधेन घटान्तर्भावेणैव कार्यकारणयोः सामानाधिकरण्यमुच्यते । घटः तादात्म्येन स्वस्मिन् स्थित्वा विषयतासम्बन्धेन स्वप्रत्यक्षं जनयतीति । अत्र कार्यं घटप्रत्यक्षं, कारणं घटः । कार्यतावच्छेदकसम्बन्धः विषयता। कारणतावच्छेदकसम्बन्धः तादात्म्यम्।
[[१४५]]
[[१४६]]
द्रव्यप्रत्यक्षे रूपस्य समवायेन कारणत्वम्
तथा च प्रकृतसमवायिकारणलक्षणे कार्यतायां समवायसम्बन्धावच्छिन्नत्वानुपा- दाने किञ्चित्सम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणता इत्येव लक्षणे सति घटप्रत्यक्षनिमित्तकारणे घटे अतिव्याप्तिः। कार्यतावच्छेदकः यःकश्चित् सम्बन्धः, विषयतासम्बन्धः गृह्यते। तदवच्छिन्नघटप्रत्यक्षनिष्ठकार्यतानिरूपिततादात्म्य- सम्बन्धावच्छिन्नकारणता निमित्तकारणे घटे अस्तीति लक्षणे अतिव्याप्तिः । समवायसम्बन्धावच्छिन्नत्वनिवेशे तु तत्रत्यकार्यतायाः विषयतासम्बन्धेन अवच्छिन्नत्वात् न सा धर्तुं शक्या इति नातिव्याप्तिः ।
कारणतायां तादात्म्यसम्बन्धावच्छिन्नत्वानुपादाने प्रथमासमवायिकारणे अतिव्याप्तिः । कपालद्वयसंयोगः घटं प्रति असमवायिकारणम् । सः समवायेन कपाले स्थित्वा समवायेन घटं जनयतीति आवेदितमेव सङ्ख्यानिरूपणे । (पृ.८९) तत्र हि कार्यतावच्छेदकसम्बन्धः समवायः। कारणतावच्छेदकसम्बन्धोऽपि स एव । एवं च समवायसम्बन्धावच्छिन्नकारणतामादायातिव्याप्तिः । तादात्म्यसम्बन्धावच्छिन्नत्वनिवेशे तु न कपालद्वयसंयोगनिष्ठकारणता तादात्म्यावच्छिन्ना किन्तु समवायावच्छिन्ना इति नातिव्याप्तिः ।
- द्रव्यप्रत्यक्षे रूपस्य समवायेन कारणत्वम्
आद्यमसमवायिकारणं समवायेन समवायिकारणे स्थित्वा समवायेन कार्यमुत्पादयति। इह कार्यतायां कारणतायां च अवच्छेदकसम्बन्धः समवायः। तथा च समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वं प्रथमासमवायिकारणत्वम्। अत्र कार्यतायां समवायसम्बन्धावच्छिन्नत्वानुपादाने किञ्चित्सम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता इति लक्षणं स्यात्, तथा सति घटप्रत्यक्षनिमित्तकारणे घटरूपे अतिव्याप्तिः ।
समवायिकारणलक्षणे कार्यतायां समवायसम्बन्धावच्छिन्नत्वानुपादाने घटप्रत्यक्ष- निमित्तकारणे घटे अतिव्याप्तिः दर्शिता एव। तत्र स्वप्रत्यक्षं प्रति यथा घटः निमित्तकारणं भवति, तद्वदेव घटरूपमपि भवति निमित्तकारणम् । नीरूपाणां द्रव्याणां वाय्वादीनां
द्रव्यप्रत्यक्षे रूपस्य समवायेन कारणत्वम्
प्रत्यक्षम् अतः एव न भवति । यस्य हि द्रव्यस्य प्रत्यक्षं चक्षुरादिना जननीयं, तत्र समवायेन रूपापेक्षा। एवं च यथा घटः तादात्म्येन स्वस्मिन् स्थित्वा विषयतासम्बन्धेन
घट-घटप्रत्यक्षयोः कार्यकारणभावः ।
स्वप्रत्यक्षं जनयति, तथा घट-
रूपमपि समवायेन घटे स्थित्वा विषयतासम्बन्धेन घटप्रत्यक्षं जनयति । इह कार्यता विषयता-
कार्यम्
(घटप्रत्यक्षम् )
सम्बन्धावच्छिन्ना, कारणता च
समवायावच्छिन्ना । तथा च
प्रकृतासमवायिकारणलक्षणे
कार्यतायां समवायसम्बन्धा-
विषयतासम्बन्धः
कारणम्
(घटः)
तादात्म्यसम्बन्धः
घटः
चि.स. १०७
वच्छिन्नत्वानुपादाने किञ्चित्सम्बन्धपदेन पूर्ववत् विषयतासम्बन्धं ग्रहीतुं शक्नुमः ।
तदवच्छिन्नघटप्रत्यक्षनिष्ठकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता
प्रत्यक्षनिमित्तकारणे घट-
रूपेऽस्तीति रूपे अतिव्याप्तिः ।
कार्यतायां समवायसम्बन्धावच्छिन्न- त्वोपादाने तु तत्रत्यकार्यता समवायेन
घटरूप-घटप्रत्यक्षयोः कार्यकारणभावः ।
[[१४७]]
कार्यम् (घटप्रत्यक्षम्)
कारणम्
(घटरूपम्)
नावच्छिन्ना किन्तु विषयतासम्बन्धेन
विषयतासम्बन्धः
समवायसम्बन्धः’
इति नातिव्याप्तिः ।
घटः
चि.स.१०८
कारणतायां समवाय- सम्बन्धावच्छिन्नत्वानुपादाने समवाय- सम्बन्धावच्छिन्नकार्यतानिरूपितकिञ्चित्सम्बन्धावच्छिन्नकारणता इति लक्षणं भवेत्। तथा सति समवायिकारणे एवातिव्याप्तिः । तत्रापि हि कार्यता समवायसम्बन्धावच्छिन्ना। कारणता परं तादात्म्येन अवच्छिद्यते । तथा च किञ्चित्सम्बन्धपदेन तादात्म्यस्य ग्रहणे समवायिकारणे अतिव्याप्तिः । कारणतायां समवायसम्बन्धावच्छिन्नत्वोपादानेन
चित्रपटे व्यभिचारात् द्वितीयासमवायिकारणे सम्बन्धपरिवर्तनम्
वारणं चापि भवति । एतादृशासमवायिकारणत्वमेव (पृ.११०) गुरुत्वस्य पतनं प्रति, स्यन्दनं प्रति च द्रवत्वस्य निरूपितमस्माभिः मूलग्रन्थनिरूपणे, तदिहापि अनुसन्धेयम् ।
एतादृशप्रथमासमवायिकारणत्वं बुद्धौ निधायैव मूलकारेण कार्येण सह एकस्मिन् अर्थे समवेतमसमवायिकारणमिति लक्षणं कृतम् । एतन्मूलार्थः सम्यक् निरूपितः तत एव अवगन्तव्यः। (पृ.९०)
- चित्रपटे व्यभिचारात् द्वितीयासमवायिकारणे सम्बन्धपरिवर्तनम्
द्वितीयासमवायिकारणे अस्ति किञ्चित् निरूपणीयम् ।
कार्यम् पटरूपम्
कारणम्
तन्तुरूपम्
[[१४८]]
समवायसम्बन्धः
पटः
स्वसमवायिसमवायित्वसम्बन्धः
कार्यतावच्छेदकसम्बन्धः
समवायसम्बन्ध
कारणतावच्छेदकसम्बन्धः समवायसम्बन्धः
तन्तुः
चि.स.१०९
तदादौ प्रत्याकलयामस्तावत् पूर्वोक्तम् । (पृ.९४) पटस्य यादृशं रूपं तन्तुवायः अपेक्षते तादृशरूपवतः एव तन्तून् उपादत्ते । अतः तन्तुरूपं पटरूपं प्रति भवति कारणमिति लोकसिद्धमेतत् । कार्यकारणयोः सामानाधिकरण्यं परं न घटते । पटरूपोत्पत्तिः पटे भवति। तन्तुरूपं तु तन्तावस्ति। अतः तयोः सामानाधिकरण्यनिर्वाहाय पटरूपं तन्तौ आनेतव्यम्। तत्र परम्परासम्बन्धः भवति स्वसमवायिसमवायित्वम्। स्वं
१ - तत्र परिमाणमादाय इदं निरूपितम् ।
चित्रपटे व्यभिचारात् द्वितीयासमवायिकारणे सम्बन्धपरिवर्तनम् पटरूपं, तत्समवायी पटः, तत्समवायी तन्तुः समवायित्वं तन्तौ इति अनेन परम्परासम्बन्धेन पटरूपं तन्तौ आयातम्। अतः पटरूपस्य कार्यस्य, तन्तुरूपेण कारणेन सह सामानाधिकरण्यं तन्तौ सम्पन्नमिति न दोषः । इदमेव च बुद्धौ निधाय कारणेन सह एकस्मिन् अर्थे समवेतमिति मूलपङ्किः प्रवृत्ता । इह कारणपदेन यस्य कार्यस्य प्रकृते विचारः तत्समवायिकारणं ग्राह्यम् । पटरूपं च प्रकृतकार्यम्। तत्समवायिकारणं पटः। तेन सह एकस्मिन् अर्थे तन्तौ समवेतं समवायेन स्थितं तन्तुरूपं पटरूपस्य असवायिकारणं भवति ।
अत्र सामानाधिकरण्याय परम्परासम्बन्धः आदृतः । तथापि तु क्वचित् व्यतिरेकव्यभिचारो भवति । नानारूपवद्भिः तन्तुभिः जायमाने पटे चित्ररूपमिति सप्तमं रूपमुत्पद्यते इति दर्शितं रूपविभागग्रन्थे। (पृ.७९) तस्मिन् चित्ररूपे उत्पाद्ये व्यतिरेकव्यभिचारः भवति । अयं च व्यतिरेकव्यभिचारः कारणाभावेऽपि कार्योत्पत्तिरूपः ।
तदत्र एवमुदाहरामः। पीततन्तूनां पञ्चभिः शतैः रक्ततन्तुनां पञ्चभिः शतैः च पटः एकः उत्पन्नः। तैः च पटे उत्पन्ने अग्रिमक्षणे तत्र चित्ररूपमपि उत्पन्नम् । परन्तु तस्य चित्ररूपस्य, तत्कारणाभ्यां पीतनीलरूपाभ्यां यदा सामानाधिकरण्यं चिन्तयामः तदा आपतति क्लेशः । यत्र यत्र हि कार्यत्वेन अभिमतं कार्यतावच्छेदकसम्बन्धेन भवति, तत्र कारणत्वेन अभिमतेन कारणतावच्छेदकसम्बन्धेन भवितव्यम् । न तु केषुचिदेव कार्याधिकरणेषु विद्यमानं कारणमिति व्यवह्नियते। कारणत्वनिकषेषु दर्शित एषः द्वितीयः निकषः । कार्याधिकरणे सर्वत्र सर्वदा भाव्यमिति ।
- प्रकृते च चित्ररूपाधिकरणं स्वसमवायिसमवायित्वरूपकार्यतावच्छेदक- सम्बन्धेन पीततन्तुः। स्वं चित्ररूपम्, स्वसमवायी चित्रपटः, तत्समवायी पीततन्तुः, तादृशेषु सर्वेषु पीततन्तुषु चित्ररूपं वर्तते परन्तु तत्र कारणं, नीलरूपं नास्ति। पीततन्तौ पीतमेव रूपं भवेत् न नीलमिति परम्परासम्बन्धेन कार्यमस्ति, कारणं नास्तीति व्यतिरेकव्यभिचारः।
[[१४९]]
चित्रपटे व्यभिचारात् द्वितीयासमवायिकारणे सम्बन्धपरिवर्तनम्
एवं स्वं तदेव रूपं, स्वसमवायी चित्रपटः, तत्समवायी यथा पीततन्तुर्भवति तथा नीलतन्तुरपि भवति । पीतैस्तन्तुभिरिव नीलैस्तन्तुभिरपि तत्रत्यपटस्य उत्पत्तेः । परन्तु तादृशनीलतन्तौ पीतं रूपं न वर्तते । अतः परस्परं तन्तुषु नीलपीतयोः असत्वात् परम्परासम्बन्धेन चित्ररूपस्योभयत्र सत्वात् कारणाभावेऽपि कार्योत्पत्तिरूपः व्यतिरेकव्यभिचारः भवति ।
कार्यम् चित्ररूपम्
पीतरूपम्
[[१५०]]
समवाय
सम्बन्धः
चित्रपटः
‘समवाय
सम्बन्धः
समवाय
सम्बन्धः
नीलरूपं नास्ति ।
पीततन्तुः
कार्याधिकरणे कारणं नास्ति ।
सम्बन्धः
समवाय
चित्रपटः
चि.स.११०
समवाय
सम्बन्धः
नीलरूपम्
पीतरूपं नास्ति ।
कार्यम् चित्ररूपम्
सम्बन्धः
‘समवाय
नीलतन्तुः
कार्याधिकरणे कारणं नास्ति ।
चि.स.१११
चित्रपटे व्यभिचारात् द्वितीयासमवायिकारणे सम्बन्धपरिवर्तनम् तद्वारणाय कार्यतावच्छेदकसम्बन्धस्य कारणतावच्छेदकसम्बन्धस्य च परिवर्तनं कार्यम्। प्रागस्माभिः कार्यं कारणाधिकरणे नीतम् । सम्प्रति कारणं तन्तुरूपं कार्याधिकरणे पटे परम्परासम्बन्धेन आनेयम्। न तु कार्यं पूर्ववत् परम्परया कारणाधिकरणे नेतव्यम्। कारणस्य च परम्परासम्बन्धः स्वसमवायिसमवेतत्वम् । स्वं तन्तुरूपम्, तत्समवायी तन्तुः, तत्समवेतः पटः, समवेतत्वं पटे इति पटान्तर्भावेण सामानाधिकरण्यम् ।
तत्र चित्रपटे समवायेनैव चित्ररूपोत्पत्तिरिति कार्यकारणयोः सामानाधिकरण्यं भवति। सम्प्रति कार्यतावच्छेदकसम्बन्धेन कार्यं चित्ररूपं समवायेन सर्वदा पटे एव, तत्र च स्वसमवायिसमवेतत्वसम्बन्धेन नीलरूपमस्ति, पीतरूपमपि अस्ति। स्वं नीलं, स्वसमवायी तन्तुः, तत्समवेतः पटः, समवेतत्वं पटे । एवं पीतरूपे अपि । अतः न व्यतिरेकव्यभिचारः।
कार्यम् । पटरूपम्
सम्बन्धः
कार्यतावच्छेदक-
समवायसम्बन्धः
पटः
समवेतत्वसम्बन्धः
पीतरूपम् कारणम्
[[१५१]]
कारणतावच्छन्द
न्धः
स्वसमवायिसमवेतत्वसम्बन्धः
तन्तुः
चि.स.११२वाय्वादिनिष्ठगुणानां कुतः नेन्द्रियग्राह्यता ?
कार्यम्
पटरूपम्
समवायसम्बन्धः
सम्बन्धः
‘कार्यतावच्छेदक-
पटः
समवेतत्वसम्बन्धः
कारणम्
नीलरूपम्
कारणतावच्छेदकसम्बन्धः स्वसमवायिसमवेतत्वसम्बन्धः
तन्तुः
चि.स. ११३
एवं च चित्ररूपस्थले व्यतिरेकव्यभिचारवारणाय समवायसम्बन्धः कार्यतावच्छेदकः, स्वाश्रयसमवेतत्वं, स्वसमवायिसमवेतत्वं वा कारणतावच्छेदकः १५२ च अङ्गीकृतः । तथा च समवायसम्बन्धावच्छिन्नकार्यतानिरूपितस्वाश्रयसमवेतत्व- सम्बन्धावच्छिन्नकारणताश्रयत्वं द्वितीयासमवायिकारणत्वलक्षणम् । इह कारणतायां स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नत्वानुपादाने समवायसम्बन्धावच्छिन्नकार्यता- निरूपितकिञ्चित्सम्बन्धावच्छिन्नकारणता इत्युक्तौ पूर्ववदेव समवायिकारणे अतिव्याप्तिः। किञ्चित्सम्बन्धावच्छिन्नकारणता इत्यनेन तादात्म्यसम्बन्धावच्छिन्नकारणतायाः धर्तुं शक्यत्वात् । परम्परासम्बन्धावच्छिन्नत्वोपादाने तु नैषा कारणता तादृशी इति न समवायिकारणे अतिव्याप्तिः ।
- वाय्वादिनिष्ठगुणानां कुतः नेन्द्रियग्राह्यता ?
कार्यतायां समवायसम्बन्धावच्छिन्नत्वानुपादाने तु पुनरपि निमित्तकारणे अतिव्याप्तिः । तथा हि - गुणक्रियाजातीनां घटादौ प्रत्यक्षं भवति न तु वायौ । तत्र विद्यमानस्यापि एकत्वपरिमाणादेः अनुमितिरेव भवति । नापि सदागतिमतोऽपि तस्य
फलोपधानपदार्थः क्रिया चक्षुरादिना गृह्यते । नापि वायुत्वं, तद्गतत्वेन द्रव्यत्वं वा चक्षुरादिना गृह्यते । तत्कुतः इति चिन्तायां रूपसत्वासत्वे एव तत्र प्रयोजके इति अवधारितम् ।
I
यद्द्रव्ये अस्ति रूपं, तद्गता एव गुणाः, क्रियाः, जातयः, प्रत्यक्षाः भवन्ति । यत्र च रूपं न वर्तते, न तस्य गुणाः साक्षात्क्रियन्ते, न क्रियाः, नापि सामान्यम् । एवञ्च द्रव्यसमवेतं यत् इदं त्रितयं, तत्प्रत्यक्षं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन रूपं कारणमिति पूर्ववदेव आगतम् । द्रव्यप्रत्यक्षं प्रति समवायेन रूपस्य कारणतावत् ।
तथा च कार्यतायां समवायसम्बन्धावच्छिन्नत्वानुपादाने गुणादिप्रत्यक्ष- निमित्तकारणे रूपे अतिव्याप्तिः। तदपि स्वसमवायिसमवेतत्वसम्बन्धेन एकत्वादिगुणे, क्रियासु, घटत्वादिजातौ च स्थित्वा विषयतासम्बन्धेन तत्प्रत्यक्षं जनयतीति किञ्चित्सम्बन्धावच्छिन्नकार्यतापदेन अत्रत्यविषयतासम्बन्धावच्छिन्नकार्यतामादाय रूपे अतिव्याप्तिः। समवायसम्बन्धावच्छिन्नत्वनिवेशे तु नेयं तादृशी इति नातिव्याप्तिः । तदेवं विस्तरेण समवायिकारणता-असमवायिकारणताद्वयघटकसम्बन्धनिवेशसार्थक्यानि चिन्तितानि। एतत्त्रितयकारणताविलक्षणकारणता भवति निमित्तकारणता, सापि (पृ.११५) निरूपिता । एतादृशकारणत्वविचारे अन्यविधौ विभागौ अपि १५३ शास्त्रालोचनारीतिपरिज्ञानाय निरूप्येते ।
- फलोपधानपदार्थः
तदादौ स्वरूपयोग्यत्वं, फलोपधायकत्वमिति विभागं परिशीलयामः । एतादृशविभागज्ञानाय आदौ फलोपधानपदार्थ : ज्ञातव्यः । कार्यस्य कस्यचित् उत्पत्तौ सत्यां तत्र सर्वाणि कारणानि सन्त्येव इति वयमवगच्छामः । एतादृशसर्वकारण- समुदायस्यैव शास्त्रे सामग्री इति सञ्ज्ञा भवति । दण्डचक्रकपालकुलालकपालद्वय- संयोगादीनि असाधारणकारणानि, दिक्कालादयः सप्त साधारणकारणानि, एतेषां समुदायस्य भवति सामग्री इति सञ्ज्ञा ।
एतादृशसामग्र्याः भवति विपरीतोऽपि नियमः । पूर्वत्र उक्तः नियमः यत्र कार्यं तत्र कारणम् । इदानीम् उच्यमानः विपरीतः, यत्र सामग्री तत्र कार्यमिति
[[१५४]]
स्वरूपयोग्यतानिरूपणम
नियमः । इयं च सामग्री यस्मिन् क्षणे एकत्र आयाति तदग्रिमक्षणे अवश्यं कार्योत्पत्तिः । एतादृशकार्योत्पाद एव फलोपधानपदेन शास्त्रे व्यवह्रियते । इदं च फलोपधानं सामग्रीसाध्यमिति एतावता विवरणेन आयातम् । एवं सति यत्र सामग्रीसमवधानं न वर्तते, कतिचिदेव तु दण्डचक्रादिघटकारणानि सन्निहितानि, तत्र कार्यफलोपधाना- भावेऽपि दण्डादीनां कारणता न व्याहन्यते । तथा च फलोपधानाभावेऽपि या कारणता सैव शास्त्रे स्वरूपयोग्यत्वमिति व्यवह्रियते ।
- स्वरूपयोग्यतानिरूपणम्
कश्चित् अतिथिः गृहमागतः, सायङ्काले सन्ध्यावन्दने प्रवर्तते। गृहस्थानि पात्राणि घटादीनि आदातुं यदा प्रवर्तते तदा सः पात्रेषु किं ज्ञात्वा प्रवर्तते इति चिन्तनीयम् । न सः केवलं पात्रत्वं दृष्ट्वा प्रवृत्तः। तथा सति यत्किञ्चित्पात्रेऽपि दर्व्यादौ प्रवर्तेत। अतः सः घटादौ सन्ध्यावन्दनसाधनतां ज्ञात्वा एव प्रवर्तते इति अवश्यं स्वीकार्यम् । परन्तु तेन पुरुषेण तानि अस्मद्गृहस्थानि पात्राणि आदाय प्राक्कदापि न सन्ध्या अनुष्ठिता खलु । तर्हि कथं सः पात्रेषु सन्ध्यावन्दनसाधनतां जानीयात् ?
अतः इत्थं वक्तव्यम् । इतः पूर्वं तैः पात्रैः सन्ध्या नानुष्ठिता इति फलोपधानं न जानीयात् नाम । अन्यां काञ्चन कारणतां सः जानाति । सा कारणता एव स्वरूपयोग्यत्वरूपा इति । घटत्वादिजातीः यत्र सः पश्यति तत्र तादृशस्वरूपयोग्यत्वं पश्यति । अयोग्ये पाकादिसाधने पात्रे न सः घटत्वं पश्यति इति न तत्र स्वरूपयोग्यत्वमपि पश्यति। अतः न पाकसाधनपात्रं सन्ध्यार्थमुपादत्ते ।
सर्वाः अपि अस्मदीयाः प्रवृत्तयः प्रायः ईदृशस्वरूपयोग्यत्वज्ञानाधीना एव इति मन्तव्यम् । पाकार्थं गृहीतास्तण्डुलाः न कदाचित् पूर्वं ओदनभावं प्राप्ताः अपि उपादीयन्ते, अपीतमेव जलं पिपासाशमनाय पिबामः इत्येवं सर्वत्र
इमां स्वरूपयोग्यत्वरूपां कारणतां विज्ञाय कारणानि कर्ता सम्पादयति । चैत्रादिक्षणपरम्परया आषाढक्षणे च सामग्रीसम्पत्तिः भवति । ततः श्रावणक्षणे घटोत्पत्तिः
विद्यमानस्य सतः कारणता
तत्र आषाढक्षणपर्यन्तं स्वरूपयोग्यत्वं, श्रावणक्षणे फलोत्पत्त्या, तत्क्षणे सर्वाणि
कारणानि फलोपहितानि इति उच्यन्ते ।
स्वरूप-
स्वरूप-
स्वरूप-
सामग्रीक्षणः फलोपहितत्वम्
योग्यत्वम् योग्यत्वम्
योग्यत्वम्
मृद्
कपालः
कपालः
कपालः
दण्डः
दण्डः
दण्डः
कपालद्वयसंयोगः
चक्रम्
चक्रम्
चक्रम्
चक्रम्
घटोत्पत्तिः
कुलालः कुलालः
कुलालः
दण्डः
कपालद्वय-
कुलालः
संयोगानुकूला
क्रिया
चैत्रक्षणः ।वैशाखक्षणः
ज्येष्ठक्षणः
आषाढक्षणः
श्रावणक्षणः
तदा या कारणता गृह्यते सैव फलोपहितत्वरूपा शास्त्रे प्रसिद्धा ।
- विद्यमानस्य सतः कारणता
एतावता स्वरूपयोग्यत्वं फलोपहितत्वमिति भेदः निरूपितः । सम्प्रति विद्यमानस्य सतः कारणता, ज्ञायमानस्य सतः कारणता इति कारणतायाः विभागः निरूप्यते । कार्यस्य कारणाधीनत्वं निरूपितमेव । तत्र प्रमानिरूपणप्रसङ्गे आधाराधेयभावनिरूपणमपि पुनः कृतम् । तत्र भूतलादौ घटादीनां स्थितिः आधाराधेयभावः। न सः सम्बन्धः अस्मदीयज्ञानसापेक्षः। अज्ञायमानोऽपि घटः भूतले भवत्येव । परन्तु विषयता ज्ञाने सत्येव भवति इति विषयः उक्तः ।
एवञ्च कस्यापि ज्ञानमनपेक्ष्यैव, यथा भूतले घटः तिष्ठति, तयोः आधाराधेय- भावश्च भवति तद्वदेव जगति अस्मदीयज्ञानासत्वेऽपि अनेकानि कार्याणि उत्पद्यन्ते। अरण्यस्थदण्डबीजात् दण्डोत्पत्तिः न हि अस्मदीयं ज्ञानमपेक्षते । न हि आतप-
[[१५५]]
[[१५६]]
ज्ञायमानस्य सतः कारणता
संयोगादिना नदीजलस्य मेघभावः, वृष्टिकाले च तैः मेघैः आकाशाच्छादनं, ततः वृष्टिः इति इयं परम्परा अस्मदादिज्ञानमपेक्षते। ईश्वरीयज्ञानादीनां साधारणकारणतां न वारयितुं प्रभवामः । तथापि तु ईश्वरज्ञानभिन्नं ज्ञानं पूर्वोक्तकार्योत्पादाय नैवावश्यकम् । एवं च तत्रत्यं कारणं विद्यमानं सत् कारणम् । तस्य कारणता विद्यमानस्य सतः कारणता इत्युच्यते ।
- ज्ञायमानस्य सतः कारणता
तदन्या च कारणता सा ज्ञाने सति एव सम्भवति। संस्कारनिरूपणावसरे (पृ.१२५) अनुमित्युत्पादः शाब्दबोधोत्पादश्च दर्शितः। पर्वते वह्निरस्ति, परन्तु न ज्ञायते। धूमस्तु दृश्यते। तयोः अस्ति कश्चित् सम्बन्धः व्याप्त्याख्यः । येन पुरुषेण तादृशसम्बन्धः धूमे ज्ञायते तेन एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकमिति नियमेन व्याप्तिः स्मर्यते ।
तथा हि - कश्चित् पुरुषः हस्तिनं हस्तिपकं च उद्याने पश्यति। ततः अन्यदा उद्याने गतः सन् हस्तिपकमेव पश्यति । द्वौ सम्बन्धिनौ हस्तिहस्तिपकौ । तयोः एकं हस्तिपकं सः अद्राक्षीत् । तेन एकसम्बन्धिनः दर्शनेन अपरसम्बन्धिनः हस्तिनः स्मरणं तस्य उत्पद्यते। एवमेव अनुमानस्थलेऽपि धूमः एकः सम्बन्धी, अपरस्तु वह्निसम्बन्धः व्याप्तिरूपः। तत्र दृष्टान्ते गजस्य स्मरणवत् इह धूमदर्शनेन वह्निव्याप्तिरूपसम्बन्धस्य स्मरणं भवति। ततः परं परामर्शाख्यं ज्ञानमुत्पद्यते यस्य तत्त्वमनुमानप्रकरणे निरूपयिष्यामः। परामर्शोत्तरं च वह्नेः अनुमितिरुत्पद्यते ।
वह्निधूमयोः सम्बन्धः वह्निव्याप्तिः
हस्तिस्थाने
धूमः
हस्तिपकस्थाने
चि.स.११४
CEER
हदे जले, तत्स्यन्दनाय च छिद्रे सत्यपि जलं कुतो न वहति ?
शाब्दबोधस्थलेपि एवम्। यथा अनुमानस्थले धूमे वह्निव्याप्तिः भवति तद्वदेव शाब्दबोधस्थले पदे अर्थशक्तिः भवति। शक्तिः ईश्वरेच्छा । इच्छा सविषयकपदार्थः इति तत्र तत्र निरूपितमेव । तस्यां च ईश्वरेच्छायां पदं तदर्थश्च विषयो भवति । न तावन्मात्रं, किन्तु पुत्रे उत्पन्ने यथा पितरौ एवमिच्छतः सुतोऽयं चैत्रनाम्ना जगति बोध्यः भवतु इति तद्वदेव ईश्वरेच्छा एवम् अवगाहते, अनेन पदेन अस्य अर्थस्य बोधो भवतु इति । एतादृशी इच्छा एव शक्तिः इत्युच्यते ।
।
पदञ्च एतादृशशक्तियुक्तं भवति। अर्थात् तादृशेच्छायां विषयो भवति। परन्तु तादृशशक्तियुक्तं पदमस्माभिः ज्ञातव्यम् । यथा धूमः व्याप्तियुक्तः ज्ञातव्यः तद्वदेव । आदौ उद्याने वा हस्तिसंयुक्तः हस्तिपकः ज्ञातव्यः तद्वत् । ततश्च पदे ज्ञाते तेन अपरसम्बन्धिन्यः तादृशेच्छायाः उपस्थितिः भवति । तस्यां विषयीभवन् अर्थोऽपि ततः उपस्थितो भवति। तेन च शाब्दबोधः वक्ष्यमाणप्रकारेण भवति ।
अत्र हि न पर्वते विद्यमानः धूमः बोधकः किन्तु ज्ञायमान एव । आकाशे विद्यमानमेव घटपदं न बोधकम् । किन्तु ज्ञायमानमेव । नापि हस्तिपकः उद्याने विद्यमानः हस्तिस्मारकः । कीदृशस्तर्हि ? ज्ञायमानः । इयं या कारणता सैव ज्ञायमानस्य सतः कारणता इत्युच्यते। वैज्ञानिककारणता इत्यपि शक्नुमः वक्तुम्।
एवं च सर्वेषु कार्यकारणभावेषु समवायिकारणम्, असमवायिकारणं, निमित्त- कारणम् इति प्रथमः विभागः, साधारणकारणम्, असाधारणकारणमिति द्वितीयः फलोपहितत्वम्, स्वरूपयोग्यत्वमिति तृतीयः, विद्यमानस्य सतः कारणता, वैज्ञानिक- कारणता इति चतुर्थः इत्येवं चतुरः विभागान् सम्यक् आलोच्य तत्र तत्र व्यवस्था ज्ञेया ।
हदे जले, तत्स्यन्दनाय च छिद्रे सत्यपि जलं कुतो न वहति ?
कारणत्वप्रसङ्गात् प्रतिबन्धकत्वपदार्थः निरूप्यते । निखिलकारणसमुदायः सामग्री इति निरूपितमेव। तादृशसामग्रीसत्वेऽपि यस्मिन् पदार्थे सति कार्यं नोत्पद्यते सः पदार्थः प्रतिबन्धकः इत्युच्यते। गृहादौ जलव्यवस्थायै कृत्रिमस्य ह्रदस्य निर्माणं क्रियते ।
[[१५७]]
[[१५८]]
प्रतिबन्धकत्वस्य निदर्शनान्तरम्, प्रतिबन्धकत्वं द्विविधम् इष्टकादिप्रयोगेण तन्निर्माणे कृते तच्छोधनाय अधोभागे एकं छिद्रं स्थापयन्ति ।
स च हृदः जलपूर्णः अस्ति। तदधोभागे पूर्वोक्तं छिद्रमपि वर्तते । छिद्रबहिर्भागे निम्नदेशोऽपि अस्ति येन जलस्य बहिरागमनं सुकरम् । एवं च ऊर्ध्वदेशस्थितः ह्रदः, तत्र जलं, तस्य बहिर्निर्गमाय छिद्रम् इयं जलस्यन्दनसामग्री समवहिता चेदपि न जलं वहति ।
कुतः? छिद्रे वस्त्रादिवेष्टितकाष्ठविशेषः स्थापितोस्ति । अयमेव च शास्त्रे विरोधी, प्रतिबन्धकः वा इत्युच्यते यस्मिन् सति कार्यं नोत्पद्यते। तदभावे सति भवेदेव कार्यमिति अस्य प्रतिबन्धकस्य अभावमपि नैयायिकाः साम्ग्र्याम् अन्तर्भावयन्ति । एवञ्च जलं, छिद्रम्, ऊर्ध्वस्थितिः इमानि यथा कारणानि तथैव वस्त्रवेष्टितकाष्ठाभावोऽपि जलस्रावं प्रति कारणम् । अयमेव प्रतिबन्धकाभावः इत्युच्यते । सति च काष्ठे काष्ठाभावः नास्तीति साम्ग्र्यभावात् न जलस्रावः । काष्ठाभावस्य जलस्रावं प्रति कारणत्वे सिद्धे काष्ठस्य प्रतिबन्धकत्वमपि सुवचम् । तदेव च कारणीभूताभावप्रतियोगित्वमिति उच्यते । प्रकृते जलस्रावं प्रति कारणीभूताभावः काष्ठविशेषाभावः तत्प्रतियोगि काष्ठम्, प्रतियोगित्वं काष्ठे वर्तते इति तस्य प्रतिबन्धकत्वमुपपन्नम् ।
प्रतिबन्धकत्वस्य निदर्शनान्तरम्
निदर्शनान्तरं तु इदं भवति । आषाढे मासि मेघैः आकुलं गगने, अनुक्षणं प्रतीक्ष्यमाणा वृष्टिः। तृणानि, इन्धनानि, प्राङ्गणदेशे खेलने व्यापृतान् बालान् च सुरक्षिते स्थले नेतुं व्यापृताः जनाः । तथापि तु महति समीरणे प्रवहति न भवति वृष्टिः । तत्र वायुः भवति प्रतिबन्धकः । कारणीभूताभावः वाय्वभावः । तत्प्रतियोगित्वं वायौ इति रीत्या सर्वत्र अभावस्य कारणत्वं ज्ञात्वा तत्प्रतियोगित्वं प्रतिबन्धकत्वं ज्ञातव्यम् ।
- प्रतिबन्धकत्वस्य कारणत्ववत् द्वैविध्यम्
कारणं यथा विद्यमानं सत् कारणम्, वैज्ञानिककारणमिति विभक्तं वर्तते तद्वदेव प्रतिबन्धकमपि द्विविधं भवति । पूर्वोक्तं विद्यमानं सत् प्रतिबन्धकम्।
प्रयोज्यप्रयोजकभावः
न हि वस्त्रवेष्टितकाष्ठविशेषः सर्वदा केनचित् ज्ञायते। अस्मासु सत्सु असत्सु वा तेन जल- प्रतिरोधः भवत्येव। अतः तस्य प्रतिबन्धकता विरोधिता विद्यमानस्य प्रतिबन्धकता ।
द्वितीया प्रतिबन्धकता वैज्ञानिकी। तत्रेदं उदाहरामः। चैत्रपुत्र्याः मैत्रपुत्रेण सह विवाहार्थम् उभयोः परिजनाः यतन्ते। जातकमेलनादिकमभूत्। परस्परदर्शनादि निर्वृत्तम्। अनुमतं च वृद्धैः । परन्तु केनचित् आप्तेन चैत्रगृहे आगत्य मैत्रपुत्रस्य दुर्व्यवहारविषये ज्ञापितम्। तेन च दौर्मनस्यात् चैत्रेण निरस्तो विवाहः ।
इह विवाहार्थं विचारणात् प्रागेव मैत्रपुत्रस्य दुर्व्यवहारः प्राचलत् । तथापि अज्ञानात् जातकमेलनादि, परस्परदर्शनं च निर्वृत्तम् । यदा तु दोषः ज्ञातः, विघटितः विवाहः। अतः मैत्रपुत्रस्य दोषोयं न विद्यमानः सन् विवाहविरोधी । किन्तु ज्ञायमानः सन् । अनुमितिप्रकरणे चास्य वैज्ञानिकविरोधित्वस्य महान् उपयोगः । तस्य तत्त्वं तु हेत्वाभासनिरूपणावसरे वक्ष्यते ।
- प्रयोज्यप्रयोजकभावः
कारणत्वप्रसङ्गात् प्रतिबन्धकत्वं निरूपितम् । तद्वदेव च प्रयोज्यप्रयोजक- १५९ भावोऽपि ज्ञातव्यः । यस्य पदार्थस्य प्रागभावो भवति यस्य उत्पत्तिः भवति तस्य इदं कारणम् इयं चास्य सामग्री इत्यादयः व्यवहाराः भवन्ति। परन्तु यः पदार्थः नित्यः,
यस्य प्रागभावध्वंसौ न स्तः तथापि तु सः कदाचिदेव प्रतीयते कदाचित् न, तादृश- पदार्थविषयकः अयमुत्पन्नः, नष्टः इति व्यवहारः नोचितो भवति । घटादिपदार्थानां चक्रदण्डादिजन्यत्वमिव, प्रकारताविशेष्यतादिपदार्थानां न जन्यत्वं केनचित् प्रतीमः । परं ज्ञाने सत्येव विषयताः प्रतीयन्ते इच्छादिसविषयकपदार्थेषु सत्सु वा । तेषामसत्त्वे हि प्रकारत्वादिविषयताः न प्रतीयन्ते ।
अतः ते अजन्याः अपि ज्ञानादिप्रयुक्ताः इत्युच्यन्ते । यद्धि अजन्यमपि किञ्चिदधीनप्रतीतिकं तत् प्रयोज्यमिति प्रयुक्तमिति वा उच्यते । विषयत्वं पूर्वोक्तं तादृशम् । अजन्यमपि तत् ज्ञानेच्छादिषु सत्सु एव भवति ज्ञायते वा नान्यदा । अतः
प्रयोज्यप्रयोजकभावः
प्रयोजकता
प्रयोज्यता
विषयता न ज्ञानादिजन्या किन्तु ज्ञानप्रयोज्या ज्ञानप्रयुक्ता इति वा उच्यते। ज्ञानं तादृशविषयतायाः
ज्ञानम्
विषयता
चि.स. ११५
प्रयोजकमित्युच्यते ।
प्रतिबन्धकत्वमपि इमां
प्रयोजकतां ज्ञात्वा सम्यक् ज्ञायते ।
प्रतिबन्धकः सः, यः सामग्र्यां सत्यामपि कार्यानुत्पत्तौ प्रयोजकः । कार्यानुत्पत्तिः कार्योत्पत्तेः अभावः। अभावश्च नित्य इति न प्रतिबन्धकेन सः उत्पन्नः इति व्यवहर्तुं शक्यम् । तथापि प्रतिबन्धकसमवधाने सति कार्यानुत्पादः भवति ज्ञायते वा इति न सः प्रतिबन्धकेन जन्यः किन्तु सः प्रतिबन्धकप्रयुक्तः प्रतिबन्धकप्रयोज्यः इति वा
उच्यते । प्रतिबन्धकोऽपि तादृशकार्यानुत्पादं प्रति न
प्रयोजकता
प्रयोज्यता
जनकः किन्तु प्रयोजकः
[[१६०]]
प्रतिबन्धकम्
कार्योत्पत्तेः अभावः
इत्युच्यते ।
चि.स.११६
व्यतिरेकसहचारः
अस्माभिः (पृ.८३) निरूपितः । तत्रापि यदभावे यदभावः इति अस्ति स्थितिः।
प्रथमयत्पदेन कारणं ग्राह्यम्, द्वितीयेन
प्रयोजकता
प्रयोज्यता
कार्यम् । तथा च कारणाभावे कार्याभावः इति फलति। दण्डादीनाम् अभावे घटाभावः आनुभविक एव ।
दण्डाभावः
घटाभावः
चि.स.११७
परन्तु न सः दण्डाभावजन्यः, नित्यत्वादिति सः दण्डाभावप्रयुक्तः इति उच्यते। दण्डाभावश्च प्रयोजकः ।
कारणस्यापि यत् कारणं, का तस्य सञ्ज्ञा ?
- कारणस्यापि यत् कारणं, का तस्य सञ्ज्ञा ?
अस्ति अपरः प्रयोजकपदार्थः शास्त्रे । तमपि प्रसङ्गात् निरूपयामः । अयं च प्रयोजकः जनकजनकः । यथा घटजनकः कुलालः । तज्जनकः कुलालपिता । सः घटजनकजनकः इति सः घटप्रयोजकः । तत्र कुलालपितरि घटकारणमिति व्यवहारः लोके नास्ति। एवमेव दण्डावयवानां कपालावयवानां च घटं प्रति प्रयोजकत्वम- वगन्तव्यम् । अयमेव च मुक्तावल्यादिग्रन्थेषु चतुर्थान्यथासिद्ध इति परिगणितः विशेषेण तत एव अवगन्तव्यः इत्यलं कारणत्वानुप्रसक्तेन ।
प्रकृतमनुसरामः। त्रिविधकारणत्वे निरूपिते यत् एतेषु असाधारणकारणं तदेव करणमिति मूलम् । प्रत्यक्षादिप्रमाणाम् असाधारणं कारणं किमिति जिज्ञासायां प्रत्यक्षादयः क्रमेण निरूपिताः । परन्तु असाधारणकारणपदार्थ : यदि न ज्ञायते कथं प्रत्यक्षासाधारणकारणज्ञानं सम्भाव्यते? अतः असाधारणकारणनिरूपणमा- वश्यकमापतितम्। तत्रापि कारणत्वज्ञानापेक्षा इति कार्यनियतपूर्ववर्ति कारणमिति कारणत्वपदार्थः निरूपितः । तत्रापि कार्यं घटकमिति कार्यं प्रागभावप्रतियोगि इत्यनेन कार्यं निरूपितम्। तथा च कार्यत्वनिरूपणे कृते, कार्यत्वघटितं कारणत्वं ज्ञायते। कारणत्वे ज्ञाते तद्घटितं करणत्वम् असाधारणकारणत्वरूपं सुज्ञेयमिति अयं सर्वोपि ग्रन्थः प्रवृत्तः ।
प्रत्यक्षप्रमालक्षणम्
तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् । प्रत्यक्षज्ञानकरणं प्रत्यक्षम् । इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । तद्विविधम् । निर्विकल्पकं सविकल्पकं चेति । तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम् । यथेदं किञ्चित् । सप्रकारकं ज्ञानं सविकल्पम् ।
यथा डित्थोऽयं ब्राह्मणोऽयं श्यामोऽयं पाचकोऽयमिति ।
[[१६११६२]]
प्रत्यक्षलक्षणघटकदलानां सार्थक्यम्
प्रकृतं च प्रत्यक्षप्रमायाः करणं प्रत्यक्षम् । तथा च प्रत्यक्षप्रमाकरणत्वं प्रत्यक्षप्रमाणलक्षणमिति फलति । तत्र लक्षणे प्रत्यक्षप्रमा अन्तर्भूता इति तस्याः ज्ञाने एव प्रत्यक्षप्रमाणं ज्ञातुं शक्यमिति प्रत्यक्षप्रमायाः लक्षणं निरूपयति । इन्द्रियार्थसन्निकर्षेति ।
[[1]]
कथं समासः? इन्द्रियं च अर्थश्च इन्द्रियार्थौ । इन्द्रियार्थयोः सन्निकर्षः । इन्द्रियार्थसन्निकर्षः । तेन उत्पन्नं ज्ञानं प्रत्यक्षम् । तत्र ज्ञानमिति लक्ष्यनिर्देशः । इन्द्रियं चक्षुः, अर्थः, घटः, घटरूपं, घटक्रियादि तयोः सन्निकर्षः सम्बन्धः वक्ष्यमाणः संयोगः संयुक्तसमवायादिः तेन उत्पन्नं ज्ञानं प्रत्यक्षम्, अयं घटः, इदं रूपमित्याकारकम्, इदमेव प्रत्यक्षमित्युच्यते । यद्यपि सम्प्रदाये इह लक्षणनिरूपणमेव क्रियते न तु दलप्रयोजनं चिन्त्यते तथापि जिज्ञासूनां परितोषाय सर्वतन्त्रस्वतन्त्रैः श्रीमद्वाचस्पतिमिश्रैः रचितायां न्यायवर्तिकटीकायाम् उल्लिखितानि प्रयोजनानि निरूप्यन्ते।
- सूक्तिललन्तिका
प्रत्यक्षलक्षणघटकदलानां सार्थक्यम्
अर्थपदानुपादाने इन्द्रियसन्निकर्षोत्पन्नं ज्ञानमिति लक्षणं भवेत्। तथा सति अप्रसिद्धिः। यः पदार्थः कस्यापि प्रमाणस्य विषयः न भवति, प्रमाणजन्यप्रमितिविषयो वा न भवति सः अप्रसिद्धः इत्युच्यते। यथा शशविषाणम्। न हि केनचित् ज्ञात्रा, तत् कदाचित् कुत्रचित् प्रत्यक्षेण अनुमानेन उपमानेन शब्देन वा ज्ञातुं शक्यम् । अतः शशविषाणमप्रसिद्धमिति उच्यते । तथैव इन्द्रियसन्निकर्षोत्पन्नं ज्ञानं क्वचित् अप्रसिद्धं भवति ।
तथा हि - इन्द्रियस्य परमाणुना संयोगे न किञ्चित् बाधकम्। एवम् आकाशस्य विभुत्वात् सर्वमूर्तसंयुक्तत्वमुक्तमेव। तर्हि इन्द्रियसन्निकर्षपदेन चक्षुषः परमाणुना, आकाशेन वा सह सन्निकर्षः गृह्यते। तादृशसन्निकर्षजन्यं ज्ञानमप्रसिद्धम्। उक्तं चैतत्, द्रव्यप्रत्यक्षे महत्वम् उद्भूतरूपवत्ता च कारणमिति । परमाणौ उद्भूतरूपसत्त्वेऽपि
इन्द्रियपदं तर्हि अनर्थकम
महत्त्वं नास्ति। गगने महत्त्वसत्त्वेऽपि उद्भूतरूपं नास्तीति तयोः प्रत्यक्षं नैव भवति। अतः तादृशासिद्धिवारणाय अर्थपदं निवेशनीयम्। अर्थपदेन पदार्थस्य योग्यता उच्यते। ज्ञातुं योग्यः इति अर्थः। अतः इन्द्रियस्य ज्ञातुं योग्येन सह यः सन्निकर्षः स एव लक्षणघटकः। गगनपरमाण्वादीनां तु योग्यत्वाभावेन अर्थत्वमेव नास्ति । किन्तु घटादिपदार्थैः सह सन्निकर्षः एव ग्राह्यः । तज्जन्यं प्रत्यक्षमपि सिद्ध्यतीति न दोषः ।
द्रव्यप्रत्यक्षे संयोगः, रूपादिप्रत्यक्षे संयुक्तसमवायः, शब्दप्रत्यक्षे समवायः इत्यादिसन्निकर्षाः अग्रे वक्ष्यन्ते । तत्र इन्द्रियार्थसंयोगोत्पन्नमिति लक्षणकरणे संयुक्त- समवायादिजन्यप्रत्यक्षं संयोगोत्पन्नं न भवतीति तस्मिन् अव्याप्तिः । एवमेव इन्द्रियार्थसमवायजन्यं ज्ञानमिति लक्षणे शब्दप्रत्यक्षस्यैव सङ्ग्रहो भवेत् नान्येषामिति सर्वसन्निकर्षसङ्ग्रहाय तदेव पदमुपात्तम् । सन्निकर्षपदं सम्बन्धार्थकम् । संयोगः, संयुक्तसमवायः, समवायः एवमादयः भवन्ति एव सम्बन्धा इति सर्वेषां ग्रहणं भवति ।
।
अर्थपदेन यथा विषयस्य योग्यता लब्धा तद्वदेव उत्पन्नपदेन सन्निकर्षस्यापि योग्यता लभ्यते । कीदृशसन्निकर्षः लक्षणघटकः ? योग्यः । यः ज्ञानोत्पादनयोग्यः । अन्यथा भित्त्या व्यवहिते, तया संयुक्ते पदार्थे, चक्षुषः स्वसंयुक्तसंयोगः अस्तीति सोऽपि सन्निकर्षः स्यात् । परन्तु भित्त्या व्यवधानात् न सः पदार्थः गृह्यते इति प्रसिद्धमेव । चक्षुःसंयुक्तसंयोगः सन्निकर्षस्तु तेन अस्त्येव इति पुनः पूर्ववदेव तज्जन्य- ज्ञानाभावात् असिद्धिः। उत्पन्नपदोपादाने उत्पादकसन्निकर्ष एव ग्राह्यः भवतीति न दोषः । + इन्द्रियपदं तर्हि अनर्थकम
।
यद्यपि मिश्रैः तात्पर्यटीकायाम् इन्द्रियार्थसन्निकर्षजन्यमित्यत्र इन्द्रियपदप्रयोजनं नोक्तम्। तथापि तैः दर्शितदिशा वयं चिन्तयितुं प्रभवामः। यथा अर्थपदस्य असत्वे परमाण्वाकाशादिग्रहणेन असिद्धिर्दर्शिता तथा इन्द्रियपदानुपादाने अर्थस्य, ज्ञातुं योग्यस्य, घटादेः सन्निकर्षः संयोगादिः घटान्तरेण, भूतलेन वा जायमानः स्वीकार्यः । तादृशसन्निकर्षेण न प्रत्यक्षोत्पत्तिर्भवतीति पूर्ववदेव असिद्धिः। अतः इन्द्रियपदोपादानम्।
[[१६३]]
[[१६४]]
सप्रकारकज्ञानस्वभावः
तदुपादाने सति, न घटान्तरेण भूतलेन वा सह अर्थस्य सन्निकर्षः, इन्द्रियार्थसन्निकर्षः इति नासिद्धिः ।
परन्तु उत्पन्नपदेन ज्ञानोत्पादनयोग्यः सन्निकर्षः एव संयोगादिः ग्राह्यः इति प्रागुक्तम्। घटस्य, घटान्तरेण, भूतलेन सह वा संयोगः न ज्ञानोत्पादकः। तथा च उत्पन्नपददानेन यथा कुड्यादिव्यवहितपदार्थसन्निकर्षवारणं तथा अस्य संयोगस्यापि वारणात् पुनरपि इन्द्रियपदं भवेदेव अनर्थकम्।
किञ्च अर्थपदेन योग्यस्य वस्तुनः ग्रहणं कर्तव्यमिति प्रागुक्तम्। तादृशाश्च घटः घटान्तरम्, भूतलं वा । तयोः संयोगोऽपि तर्हि योग्यः। चक्षुरादिना वक्ष्यमाणेन स्वसंयुक्तसमवायसन्निकर्षेण ज्ञातुं शक्यः । (पृ. १४५ ) विषयस्य स्वप्रत्यक्षं प्रति कारणत्वमपि उक्तम्। अतः एषः संयोगः ज्ञानोत्पादनसमर्थोपि भवति। तज्जन्यं च प्रत्यक्षं स्वप्रत्यक्षमेव प्रसिद्ध्यति इति कथं इन्द्रियपदानुपादाने अर्थसन्निकर्षजन्यं ज्ञानमसिद्धमित्युच्यते इति चेत्, सत्यम्, अत एव मिश्रैः तत्पदप्रयोजनं नाभिहितम् । अस्माभिस्तु बुद्धिवैशद्याय चिन्तितम्। उक्तं च नैयायिकमूर्धन्यैः न्यायमञ्जरीकृद्भिः जयन्तभट्टैः
कुतो वा नूतनं वस्तु वयमुत्प्रेक्षितुं क्षमाः । वचोविन्यासवैचित्र्यमात्रमत्र विचिन्त्यताम् ।
- सप्रकारकज्ञानस्वभावः
इत्थं प्रत्यक्षप्रमायाः लक्षणे उक्ते तां विभजते तद्द्विविधमिति । निर्विकल्पकं सविकल्पकं चेति । अयमाशयः । एतावता यत्र यत्र ज्ञानस्य निरूपणमस्माभिः प्रमेयस्फुटतायै मूलोपपादनाय च कृतं तत्र सर्वत्र ज्ञानस्य प्रकाशरूपाः विषयताः अवश्यमेव उक्ताः। अग्रे च संशयादिनिरूपणे ताः अनादाय निरूपणं दुश्शकम् । संस्कारनिरूपणे अनुमित्यादिप्रमाः निरूपिताः । तत्रापि विषयताः आदायैव निरूपणं कर्तव्यम् ।
सप्रकारकज्ञानस्वभावः
ताश्च विषयताः तिस्रः इत्यपि उक्तम् । प्रकारता, संसर्गता, विशेष्यता चेति तत्र प्रकाशकरूपस्य ज्ञानस्य प्रभारूपाः विषयताः यदा विषये पतन्ति, तदा न कदाचित् एका एव प्रभा, प्रकारता संसर्गता विशेष्यता वा विषये पतति । किन्तु तिस्रः युगपदेव विशेषणं विशेष्यं तत्सम्बन्धं च प्राप्नुवन्ति । यत् स्वाश्रयं भेदेन बोधयति तत् विशेषणम्। यथा घटे नीलिमा। स हि तं घटम्, इतरेभ्यः पीतादिघटेभ्यः अन्यत्वेन बोधयति । अतः नीलिमा विशेषणम् । तेन भिन्नत्वेन बोधितः घटः विशेष्यम् । तयोः सम्बन्धः समवायः, संसर्गः । तथा च इन्द्रियेण घटः नीलरूपवान् इति प्रत्यक्षं वा भवेत्, घटः नीलरूपवान् इति अनुमितिः वा भवेत् शब्देन वा तथाविधबोधो भवेत् सर्वत्र कश्चित् प्रकारः, कश्चित् विशेष्यः, कश्चित् संसर्गः भवत्येव।
।
प्रकृते नीलिम्ना घटस्य रञ्जनं भवति इति नीलिमा विशेषणम् । स एव च ज्ञाने प्रकारः। प्रकारस्यैव शास्त्रे विकल्प इत्यपि सञ्ज्ञा भवति । तथा च प्रकारेण विकल्पेन सहितं यज्ज्ञानं तत्सविकल्पकम् । प्रकारः विकल्पो वा सापेक्षपदार्थः । प्रकारः रञ्जकः इत्यवोचाम । यदि रञ्ज्यं, विशेष्यं न भवेत् सः प्रकारः इत्यपि व्यवहारो न स्यात्। अतः प्रकारः अस्ति चेत् कश्चित् विशेष्योऽपि ज्ञाने अस्तीति आयाति । एवमेव तेषां सम्बन्धोऽपि अनिवार्यः ।
।
एवं च सप्रकारकं ज्ञानं, संसर्गतानिरूपकं, विशेष्यतानिरूपकं चापि भवति । तासु तिसृषु एका विशिष्य अन्नभट्टैः उक्ता, प्रकारता । तामादाय तज्ज्ञानं निरूपितम् । सप्रकारकं ज्ञानं सविकल्पकमिति। प्रकारतानिरूपकं, संसर्गतानिरूपकं विशेष्यता- निरूपकं च तत् इति तदर्थः । इदमेव प्रत्यक्षविभागे सप्रकारकमिति गणितम् ।
परन्तु इदं प्रत्यक्षरूपमेव इति न भ्रमितव्यम् । यद्धि ज्ञानं प्रकारतादिनिरूपकं तत्सर्वमपि अनेन उक्तं भवति । तथाविधं च दर्शितम् इन्द्रियजन्यं वास्तु, पर्वतो वह्निमान् इति अनुमितिर्वा अस्तु, वक्ष्यमाणा उपमितिः शाब्दबोधो वा, तस्य तस्य च जनकं परामर्शादि, सर्वमिदं सप्रकारकमेव। वक्ष्यमाणमेव च निर्विकल्पकम् इन्द्रियमात्रजन्यमिति अवधेयम्।
[[१६५]]
निर्विकल्पकप्रत्यक्षम्
[[१६६]]
- निर्विकल्पकप्रत्यक्षम्
एतादृश-सप्रकारक-सविशेष्यक-ससंसर्गकज्ञानात् पूर्वं किञ्चित् ज्ञानं नैयायिकैः अङ्गीक्रियते । तज्ज्ञानस्य प्रकाशरूपाः विषयताः घटे समवाये नीलरूपे वा पतन्त्येव । अर्थात् ज्ञानं विषयतानां निरूपकं भवति । परन्तु तासां विषयतानां परस्परं निरूप्य- निरूपकभावो न भवति ।
कुतः ? तस्मिन् ज्ञाने रूपं, घटं न रञ्जयति । यः न रञ्जयति सः प्रकारो न भवति नापि आश्रयः विशेष्यः भवति। अतश्च समवायोऽपि तयोः संसर्गतया न भासते। तस्मात् प्रकारविशेष्यभावः तत्र नास्तीति तयोः विषयतयोः निरूप्यनिरूपकभावः न भवति ।
एवं सति सा विषयताऽपि प्रकारता, संसर्गता विशेष्यता इति न व्यवह्रियते । परन्तु एतेषां पदार्थानां प्रकाशनं तु जातम् । अतः तत्र विषयताः भवन्ति। परन्तु अत्र प्रकारत्वादीनामसत्वात् इदं निष्प्रकारकं, निस्संसर्गकं, निर्विशेष्यकं ज्ञानं भवति । इदमेव सङ्ग्रहकारेण निष्प्रकारकं ज्ञानं निर्विकल्पकमिति निरूपितम् ।
यद्यपि मूले निर्विकल्पकमादौ लिखित्वा ततः सविकल्पकं निरूपितम् । तथापि प्रकारतादि निरूप्य सविकल्पकं निरूप्य निर्विकल्पककथनं सुकरमिति मया सविकल्पकमेव आदौ निरूपितम् । तत्र निर्विकल्पके प्रकारतादीनामसत्वात् न वक्ष्यमाणं जात्यादिकं प्रकारविधया भासते । अतः तस्य शब्देन निरूपणं दुःशकमिति मूले उक्तं किञ्चिदिदमिति ।
सप्रकारकज्ञाने भूतलं घटवत् इत्याद्याकारके घटः प्रकारः इत्यविवादम् । परन्तु घटभूतलादिपदार्थद्वयमनादायापि, लौकिकदृष्ट्या एकपदार्थभानेऽपि ये प्रकारविधया भासन्ते तान् पदार्थान् जात्यादीन् दर्शयति । यथा डित्थोऽयमिति । आद्यं सञ्ज्ञाप्रकारकं भवति। द्वितीयं ब्राह्मणत्वप्रकारकं व्यक्तिविशेष्यकं भवति । तृतीयं श्यामरूपगुणप्रकारकं गुणिविशेष्यकं, चतुर्थं च पाकक्रियाप्रकारकं क्रियावद्विशेष्यकं च इति भेदेन ज्ञानाय चत्वारि ज्ञानानि उदाहृतानि ।
विशिष्टज्ञानादिजनकनिरूपणम्
- विशिष्टज्ञानादिजनकनिरूपणम्
सप्रकारकज्ञाननिरूपणप्रसङ्गात् विशिष्टज्ञानादीनां कार्यकारणभावं पर्यालोचयामः।
सन्ति प्रसिद्धाः त्रयः कार्यकारणभावाः ।
(१) विशिष्टबुद्धिं प्रति विशेषणज्ञानं कारणमिति तेषु आदिमः । ज्ञानमात्मगुणः इति प्राक् निरूपितमेव। तत्र शास्त्रप्रसिद्धं पुरुषः दण्डवान् इति ज्ञानं स्वीकुर्मः । अत्र हि पुरुषः दण्डेन विशिष्टः विषयः । विशिष्टः इत्यस्य दण्डसंयोगेन युक्तः इत्यर्थः । तादृशविशिष्टपुरुषज्ञानार्थं विशेषणज्ञानं दण्डज्ञानं तस्य आत्मनः अपेक्षितम् । यः तादृशदण्डरूपं विशेषणं न जानाति तस्य पुरुषः दण्डवान्’ इत्याकारकं ज्ञानं न भवतीति सिद्धः कार्यकारणभावः विशिष्टबुद्धिं प्रति विशेषणज्ञानं कारणम् ।
(२) विशिष्टवैशिष्ट्यावगाहिबुद्धिं प्रति विशेषणतावच्छेदकप्रकारकज्ञानं कारणम् इति द्वितीयः कार्यकारणभावः। प्रथमकार्यकारणभावे विशिष्टः दण्डी पुरुषः अस्माभिः गृहीतः । स एव अस्मिन् कार्यकारणभावे कार्यभूतं यज्ज्ञानं, विशिष्टवैशिष्ट्यावगाहिज्ञानं, तत्र विशिष्टपदेन ग्राह्यः । तस्यापि वैशिष्ट्यं, अन्यस्मिन् विशेष्ये इदं ज्ञानमवगाहते। तच्च भूतलं दण्डिपुरुषवत् अथवा भूतलं दण्डविशिष्टपुरुषवत् इत्याकारकम् ।
सम्बन्धम्, १६७
एतादृशविशिष्टवैशिष्ट्यावगाहिज्ञानं प्रति विशेषणतावच्छेदकप्रकारकज्ञानं कारणमिति उक्तम्। कार्यज्ञाने यत् विशिष्टपदेन गृहीतं तदेव कारणीभूतज्ञाने विशेषणपदेन धर्तव्यम्। प्रकृते च दण्डी पुरुषः तथाविधः। सः कार्यज्ञाने विशिष्टपदेन गृहीतः। अतः कारणज्ञाने स एव विशेषणम्। विशेषणता पुरुषे, विशेषणतावच्छेदकं पुरुषत्वम्, एवं पुरुषे विशेषणीभूतः दण्डोपि । तादृशविशेषणतावच्छेदकं प्रकारः यादृशज्ञाने, तादृश- ज्ञानं, पुरुषः दण्डवान् इत्याकारकं, कारणम्।
पर्यवसितं तु प्रथमकार्यकारणभावे यत् कार्यम् आसीत् विशिष्टबुद्धिपदेन च व्यवहृतम्, तदेव प्रकृते कारणमिति ग्राह्यमिति ।
१ - दण्डी ।
[[१६८]]
विशिष्टज्ञानादिजनकनिरूपणम्
दण्डः
विशेषणम्
कार्यम्
पुरुषः विशिष्टः
विशिष्टवैशिष्ट्यावगाहि
संयोगः (वैशिष्टम्)
भूतलम्
ज्ञानम्
चि.स.११८
विशेषणता-
दण्डः
पुरुषत्वम् वच्छेदकम्
कारणम्
विशेषणतावच्छेदक-
विशेषणता
प्रकारकज्ञानम्
पुरुषः
पुरुषः दण्डवान्
विशेषणम्
इत्याकारकम्
चि.स.११९
(३) तृतीयस्तु कार्यकारणभावः विशिष्टविशेष्यक बुद्धिं प्रति विशेष्यतावच्छेदक- प्रकारकज्ञानं कारणमिति ।
पूर्वत्र कार्यज्ञाने यः विशिष्टः गृहीतः स एव अत्र विशिष्टपदेन ग्राह्यः । परन्तु तत्र सः कार्यज्ञाने पदार्थान्तरे विशेषणम् । यथा दण्डविशिष्टपुरुषः कार्यभूतज्ञाने, पदार्थान्तरे भूतले विशेषणम्। इह कार्यज्ञाने सः पदार्थान्तरस्य विशेष्यमिति विशेषः । दण्डविशिष्टः पुरुषः मक्षिकावान् इति ज्ञानं स्वीकुर्मः । अत्र तादृशविशिष्टपुरुषः मक्षिकारूपे पदार्थान्तरे विशेष्यम् । अतः इदं ज्ञानं विशिष्टविशेष्यकमित्युच्यते । एतादृशज्ञानं प्रति विशेष्यतावच्छेदकप्रकारकज्ञानं कारणम् । अत्र कार्यज्ञाने यः विशिष्टपदेन स्वीकृतः, स पुरुषः एव विशेष्यपदेन ग्राह्यः । तादृशश्च दण्डविशिष्टः
सप्रकारकज्ञानप्रभेदाः, संशयस्वभावः
पुरुषः। विशेष्यता दण्डविशिष्टपुरुषे । विशेष्यतावच्छेदकं दण्डः, सः प्रकारः यस्मिन् ज्ञाने तादृशं ज्ञानं, पूर्ववदेव पुरुषः दण्डवान् इत्याकारकम् ।
द्वितीयतृतीयकार्यकारणभावयोः जनकज्ञानयोः विषयभेदाभावेऽपि जन्यज्ञानभेदात् एकस्यैव पुरुषो दण्डवान् इति ज्ञानस्य विशेषणतावच्छेदक- प्रकारकज्ञानं विशेष्यतावच्छेदकप्रकारकज्ञानम् इति व्यपदेशौ स्तः ।
एतान् कार्यकारणभावान् आदायैव सर्वत्र ज्ञानोत्पादनिर्वाहः भवति। विशेषतः च वक्ष्यमाणं व्याप्तिज्ञानस्य परामर्शं प्रति कारणत्वं द्वितीयकार्यकारणभावेन निर्वहति। आद्यस्य निर्विकल्पकज्ञानसाधकता, तृतीयस्य तृतीयान्यथासिद्धि- निरूपणोपयोगित्वं, मुक्तावल्यादिग्रन्थेषु द्रष्टव्यम् । सर्वत्र च उपयोगात् अस्माभिः ते इह विशदतया निरूपिताः ।
- सप्रकारकज्ञानप्रभेदाः
अत्रैव सप्रकारकज्ञानप्रभेदाः निरूप्यन्ते ।
(१) तत्रादौ विशिष्टज्ञानं
घटनिष्ठप्रकारतानिरूपित-
भूतलनिष्ठविशेष्यतानिरूपकं ज्ञानं भूतलं घटवत् इति ।
प्रकारता
घटः
विशेष्यता
भूतलम्
चि.स.१२०
[[१६९]]
ज्ञानम्
संशयस्वभावः
(२) संशयः द्वितीयः, इदमपि विशिष्टज्ञानम् । वक्ष्यमाणानि समुच्चयादीनि अपि तथैव। परन्तु प्रकारतादिभेदात् सञ्ज्ञाविशेषकरणम् । तदत्र संशयः पर्वतः वह्निमान् न वा इत्याकारकः। अत्र वाक्ये नञः अभावः अर्थः । स च अभावः वह्निपदप्रयोगात् वह्नेरेव । तथा च ज्ञानेऽस्मिन् पर्वतः विशेष्यः, वह्निः, वह्न्यभावः, एतौ प्रकारौ । तत्र
१ - अत्र हि एकं विशेष्यं एकः प्रकारः ।
[[१७०]]
समुच्चयः संशयात् अन्यः
वाक्ये वा इति पदप्रयोगोऽपि भवति। तस्य प्रयोगः तत्रैव भवति यत्र वाक्ये विद्यमानयोः पदयोः यौ अर्थौ तयोर्मध्ये एक एव कश्चित् भवेत् नोभौ । एक एव भवति इति श्रुत्वा झटिति प्रतियोगितानिरूपणाय निरूपितः विरोधः परिस्फुरति । सः विरोधः कयोः इत्याकाङ्क्षायां तद्बोधकपदसत्त्वेन वह्निवह्न्यभावयोः विरोधः इति ज्ञायते ।
निरूपणसौकर्याय संशयबोधकवाक्यमादाय ज्ञानस्य स्वभावः वर्णितः। परन्तु शब्दात् परामर्शात् वा नैवंविधं ज्ञानं जायते किन्तु इन्द्रियेणैव इति नव्यनैयायिकानां मतम्। तत्तु उद्ग्रन्थेभ्यः अवगन्तव्यम्।
एवं च संशये पर्वतः
प्रकारता
संसर्गता
प्रकारता
विशेष्यविधया भासते । वह्निः
वह्निः
विरोधः
वह्न्यभावः
वह्न्यभावः च प्रकारविधया
भासते । तयोः विरोधः
(विशेष्यता
संसर्गविधया सम्बन्धविधया
पर्वतः
भासते ।
चि.स.१२१
यद्यपि भूतलं घटवत्
इत्यादिज्ञानेषु संसर्गता,
प्रकारताविशेष्यताभ्यां निरूपिता भवति, न क्वापि संसर्गता प्रकारताभ्यामेव निरूप्यते, तथापि अयमेव संशयस्य विशेषः यत् तस्य प्रकारयोः वह्निवह्न्यभावयोः विरोधरूपः सम्बन्धः संसर्गः भवति । अतः तन्निष्ठसंसर्गता प्रकारताद्वयनिरूपिता भवतीति न दोषः।
- समुच्चयः संशयात् अन्यः
३) एवमेव भावाभावप्रकारद्वयसत्त्वेऽपि प्रकारयोः यदा विरोधः न भवति तदा तज्ज्ञानं समुच्चयः।
तद्बोधकवाक्येऽपि समुच्चयार्थचकारप्रयोगः भवति। महानसं वह्निमत्
एकत्र द्वयमिति रीत्या ज्ञानम्, समूहालम्बनस्वभावः
वह्न्यभाववच्च इति तदाकारः । कस्मिंश्चित् कोणे महानसे वह्निरस्ति, अन्यस्मिन् कोणे तत्रैव च वह्न्यभावोऽपि अस्ति इति तयोः विरोधम् इदं ज्ञानं नावगाहते । प्रकारताद्वयम् एका विशेष्यता इति
संशयवदेव मन्तव्यम्।
तथा च वह्नितदभावनिष्ठ-
प्रकारतानिरूपितविशेष्यतानिरूपक-
ज्ञानमिदं प्रतियोग्यनुयोग्यवगाहि अपि
प्रकारता
प्रकारता
वह्निः
वह्नयभावः
(विशेष्यता)
महानसम्
चि.स.१२२
तयोः विरोधं नावगाहते इति स एव समुच्चयः इत्युच्यते ।
(४) इमौ प्रकारौ यदा भावाभावरूपौ न भवतः, किन्तु परस्परमुदासीनौ, तदा तज्ज्ञानम् एकत्र द्वयमिति रीत्या ज्ञानम् इति व्यवह्रियते । यथा घटः रूपरसवान् । ज्ञानेऽस्मिन् एकः घटः विशेष्यः, द्वौ च रूपरसौ प्रकारौ । परन्तु तयोः भावाभावरूपता नास्तीति नायं संशयः, नापि समुच्चयः, किन्तु एकत्र घटे
द्वयम्, रूपं रसश्च एतदुभयावगाहि
ज्ञानमिति प्रसिद्धम् ।
प्रकारता
रूपम्
समूहालम्बनस्वभावः
(विशेष्यता)
घटः
चि.स.१२३
प्रकारता
रसः
[[१७१]]
(५) यदा तु प्रकारतायामिव विशेष्यतायामपि भेदः भवति तदा तत् ज्ञानं समूहालम्बनमित्युच्यते । वायुः स्पर्शवान् घटश्च रूपवान् इति तदुदाहरणम् । इह हि१७०
समुच्चयः संशयात् अन्यः
वाक्ये वा इति पदप्रयोगोऽपि भवति । तस्य प्रयोगः तत्रैव भवति यत्र वाक्ये विद्यमानयोः पदयोः यौ अर्थौ तयोर्मध्ये एक एव कश्चित् भवेत् नोभौ । एक एव भवति इति श्रुत्वा झटिति प्रतियोगितानिरूपणायं निरूपितः विरोधः परिस्फुरति । सः विरोधः कयोः इत्याकाङ्क्षायां तद्बोधकपदसत्त्वेन वह्निवह्न्यभावयोः विरोधः इति ज्ञायते।
निरूपणसौकर्याय संशयबोधकवाक्यमादाय ज्ञानस्य स्वभावः वर्णितः। परन्तु शब्दात् परामर्शात् वा नैवंविधं ज्ञानं जायते किन्तु इन्द्रियेणैव इति नव्यनैयायिकानां मतम्। तत्तु उद्ग्रन्थेभ्यः अवगन्तव्यम्।
प्रकारता
संसर्गता
प्रकारता
एवं च संशये पर्वतः विशेष्यविधया भासते। वह्निः
वह्निः
विरोधः
वह्न्यभावः वह्न्यभावः च प्रकारविधया
भासते । तयोः विरोधः
विशेष्यता
संसर्गविधया सम्बन्धविधया
पर्वतः
भासते ।
चि.स.१२१
यद्यपि भूतलं घटवत्
इत्यादिज्ञानेषु संसर्गता,
प्रकारताविशेष्यताभ्यां निरूपिता भवति, न क्वापि संसर्गता प्रकारताभ्यामेव निरूप्यते, तथापि अयमेव संशयस्य विशेषः यत् तस्य प्रकारयोः वह्निवह्न्यभावयोः विरोधरूपः सम्बन्धः संसर्गः भवति । अतः तन्निष्ठसंसर्गता प्रकारताद्वयनिरूपिता भवतीति न दोषः ।
- समुच्चयः संशयात् अन्यः
(३) एवमेव भावाभावप्रकारद्वयसत्त्वेऽपि प्रकारयोः यदा विरोधः न भवति तदा तज्ज्ञानं समुच्चयः।
तद्बोधकवाक्येऽपि समुच्चयार्थचकारप्रयोगः भवति । महानसं वह्निमत्
एकत्र द्वयमिति रीत्या ज्ञानम्, समूहालम्बनस्वभावः
तयोः विरोधम् इदं ज्ञानं नावगाहते प्रकारताद्वयम् एका विशेष्यता इति
वह्न्यभाववच्च इति तदाकारः । कस्मिंश्चित्
कोणे महानसे वह्निरस्ति, अन्यस्मिन्
प्रकारता
प्रकारता
कोणे तत्रैव च वह्न्यभावोऽपि अस्ति इति
वह्निः
वह्नयभावः
(विशेष्यता)
महानसम्
प्रकारतानिरूपितविशेष्यतानिरूपक-
चि.स.१२२
संशयवदेव मन्तव्यम्।
तथा च वह्नितदभावनिष्ठ-
ज्ञानमिदं प्रतियोग्यनुयोग्यवगाहि अपि
तयोः विरोधं नावगाहते इति स एव समुच्चयः इत्युच्यते ।
(४) इमौ प्रकारौ यदा भावाभावरूपौ न भवतः, किन्तु परस्परमुदासीनौ, तदा तज्ज्ञानम् एकत्र द्वयमिति रीत्या ज्ञानम् इति व्यवह्रियते । यथा घटः रूपरसवान् । ज्ञानेऽस्मिन् एकः घटः विशेष्यः, द्वौ च रूपरसौ प्रकारौ । परन्तु तयोः भावाभावरूपता नास्तीति नायं
प्रकारता
रूपम्
(विशेष्यता)
घटः
प्रकारता
रसः
[[१७१]]
संशयः, नापि समुच्चयः, किन्तु एकत्र घटे
चि.स.१२३
द्वयम्, रूपं रसश्च एतदुभयावगाहि
ज्ञानमिति प्रसिद्धम्।
समूहालम्बनस्वभावः
(५) यदा तु प्रकारतायामिव विशेष्यतायामपि भेदः भवति तदा तत् ज्ञानं समूहालम्बनमित्युच्यते । वायुः स्पर्शवान् घटश्च रूपवान् इति तदुदाहरणम् । इह हि
द्वयोरेकम् इति ज्ञानम्
स्पर्शे एका प्रकारता, रूपे अपरा । स्पर्शनिष्ठप्रकारतानिरूपितविशेष्यता वायौ रूपनिष्ठप्रकारतानिरूपितविशेष्यता घटे । तयोश्च विशेष्यतयोः प्रकारतयोः वा पुनः परस्परं न कोऽपि सम्बन्धः । इदमेव नानामुख्यविशेष्यतानिरूपकं ज्ञानं समूहालम्बनमिति शास्त्रे व्यवह्रियते । अस्य च ज्ञानस्य अयमपरो विशेष : यत् प्रकारतानां विशेष्यतानां वा इयत्ता नास्ति। कदाचित् द्वे विशेष्यते, ततोऽपि अधिकाः वा विशेष्यताः प्रकारताश्च भवन्ति ।
समूहालम्बनम्
द्वयोरेकमिति ज्ञानम्
प्रकारता
प्रकारता
स्पर्शः
प्रकारता
रूपम्
रसः
विशेष्यता
विशेष्यता
विशेष्यता विशेष्यता
वायुः
घटः
[[१७२]]
क्षितिः
पाथः
पृथिवी
जलम्
चि.स.१२४
(६) चतुर्थात् ज्ञानप्रकारात् विपरीतः कश्चित् प्रकारः इदानीमुच्यते। तत्र हि एकस्मिन् घटे उभयभानम् । इह तु विशेष्यो द्वौ तयोः एकस्य पदार्थस्य भानम्। ज्ञानेऽस्मिन्, प्रकारे, प्रकारतायां वा भेदो नास्तीति विशेष्यताद्वयसत्वेऽपि समूहालम्बनात् भेदः अवगन्तव्यः। शास्त्रे प्रसिद्धः अस्य आकारः उदाह्रियते क्षितिपाथसी रसवतीति । क्षितिः पृथिवी पाथः जलम् । ज्ञानेऽस्मिन् रसनिष्ठा या एका प्रकारता तन्निरूपितविशेष्यताद्वयं पृथिव्यां, जले च भवतीति इदं ज्ञानं द्वयोरेकमिति व्यवह्रियते ।
EFF
- सन्निकर्षनिरूपणम्
सन्निकर्षनिरूपणम
एतावता सप्रकारकज्ञानानां भेदाः निरूपिताः । एतेषु संशयं त्यक्त्वा अन्ये प्रकाराः प्रत्यक्षे, अनुमितौ, शाब्दबोधे च सर्वत्रैव सम्भवन्ति । अतः प्रत्यक्षनिरूपणप्रसङ्गे निरूपिताः। प्रकृतमनुसरामः । प्रत्यक्षलक्षणं इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षमिति कृतम् । तत्र दलसार्थक्यमपि चिन्तितम् ।
प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः । संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति ।
चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः । घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः । चक्षुस्संयुक्ते घटे रूपस्य समवायात् । रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः । चक्षुः संयुक्ते घटे रूपं समवेतं, तत्र रूपत्वस्य समवायात् ।
श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः । कर्णविवरवृत्याकाशस्य श्रोत्रत्वाच्छब्दस्याकाशगुणत्वात् गुणगुणिनोश्च समवायात् । शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः। श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् । अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः। घटाभाववद्भूतलमित्यत्र चक्षुः संयुक्ते भूतले घटाभावस्य विशेषणत्वात् । एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षं, तत्करणमिन्द्रियम्, तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् ।
सम्प्रति मूले प्रत्यक्षज्ञानहेतुरिन्द्रियार्थ सन्निकर्षः षड्विधः इत्यनेन सन्निकर्षस्य वर्णनं क्रियते । शब्दजशब्दवर्णने निरूपितः अस्माभिः इन्द्रियाणां स्वभावः प्राप्यकारित्वम्। तत्र प्राप्य इत्यनेन सम्बन्धः उक्तः भवति । इन्द्रियाणां द्रव्यरूपाणां सम्बन्धः यदि संयोगरूपः तर्हि सः द्रव्येण सह एव भवेत् । साधितश्च द्रव्ययोरेव संयोगः ।
[[१७३]]
[[१७४]]
सन्निकर्षनिरूपणम्
परन्तु संयोगमात्रेण न द्रव्यप्रत्यक्षं जनयितुम् इन्द्रियं समर्थं भवति। विशेषतश्च बहिरिन्द्रियेषु घ्राणरसनश्रोत्रेन्द्रियाणां द्रव्यप्रत्यक्षजनने असामर्थ्यं निरूपितमेवास्माभिः। अवशिष्टे द्वे इन्द्रिये, चक्षुः त्वक् च । एताभ्यां, संयोगमात्रेण न द्रव्यप्रत्यक्षं जायते। किन्तु द्रव्ये महत्त्वम्, उद्भूतरूपं चावश्यकम् । उद्भूत- रूपवतोऽपि महत्त्वशून्यस्य परमाणोः चक्षुषा प्रत्यक्षं नैव भवति। महत्त्ववन्ति अपि घ्राणादीन्द्रियाणि उद्भूतरूपशून्यत्वादेव इन्द्रियैः न गृह्यन्ते। आभ्यन्तरं तु मनः आत्मप्रत्यक्षजननाय न रूपमपेक्षते इति तत्सन्निकर्षः संयोगरूपः आत्मप्रत्यक्षं जनयत्येव।
उद्भूतरूपवतः महत्त्ववतः द्रव्यस्य बहिरन्द्रियैः यथा प्रत्यक्षं जायते तथा रूपरसादीनां प्रत्यक्षात्मकं ज्ञानमपि आनुभविकम् । तेषु तु इन्द्रियाणां, संयोगः सन्निकर्षः न शक्यते वक्तुमिति इतरेषां पञ्चविधानां सन्निकर्षाणां चिन्ता आरब्धा । द्वितीयः सन्निकर्षः संयुक्तसमवायः। योग्यानि यानि द्रव्याणि तत्र समवेताः ये ये योग्याः पदार्थाः, ते सर्वेऽपि अनेन सन्निकर्षेण गृह्यन्ते । के ते ? रूपरसगन्धस्पर्शाः प्रतिनियतग्राह्याः गुणाः, द्वीन्द्रियग्राह्याश्च सङ्ख्याः, परिमाणानि, पृथक्त्वं, द्रवत्वं, संयोगविभागौ परत्वापरत्वे, कर्माणि, द्रव्यवृत्तिजातयः अपि घटत्वात् प्रभृति सत्तापर्यन्ताः च ।
गुणग्रहणे तु प्राणरसने समर्थे एव इति ताभ्यामपि स्वविषयस्य प्रत्यक्षं जायते
गुणाः (प्रतिनियतग्राह्याः) (द्वीन्द्रियग्राह्याः)
कर्माणि
समवायसम्बन्धः घटत्वादिसत्तान्तजातयः
समवायसम्बन्धः
समवायसम्बन्धः
द्रव्यम्
चि.स.१२५
संयोगसम्बन्धः
चक्षुरादीन्द्रियम्
सन्निकर्षनिरूपणम्
एते पदार्थाः प्रथमसौधे ं विद्यमानाः इति भावयामः । तर्हि तेषु पदार्थेषु विद्यमानाः गुणत्वरूपत्वकर्मत्वोत्क्षेपणत्वादिजातयः द्वितीयसौधे विद्यमानाः स्युः । तेषां संयुक्तसमवायसन्निकर्षः न वक्तुं शक्यः । तस्य प्रथमसौधस्थितेषु उपक्षीणत्वात् । अतः द्वितीयसौधस्थानां प्रत्यक्षाय संयुक्तसमवेतसमवायः सन्निकर्षः कल्पितः।
कर्मत्वम्
गुणत्वम्
सत्ता उत्क्षेपणत्वम्
सत्ता
रूपत्वम्
शुक्लत्वम्
समवायसम्बन्धः
कर्म
समवायसम्बन्धः-
गुणः
समवायसम्बन्धः,
द्रव्यम्
समवायसम्बन्धः
संयोगसम्बन्धः
चि.स.१२६
चक्षुरादीन्द्रियम्
एतैः सन्निकर्षैः, इन्न्द्रियस्य एवं विषयाश्रयस्य यत्र भेदः, तेषां पदार्थानां प्रत्यक्षमुपपादितम्। इतः यत्र ग्राहकं श्रोत्रेन्द्रियम् आकाशरूपम्, ग्राह्यः शब्दोऽपि
आकाशाश्रितः तत्र सन्निकर्ष-
माह श्रोत्रेणेत्यादिना ।
अत्र च रूपाभावात्
महत्परिमाणवतोऽपि गगनस्य न
प्रत्यक्षमिति । शब्दस्तु
शब्दत्वम्
गुणत्वम्
समवायसम्बन्धः
शब्दः
शब्दः
समवायसम्बन्धः
समवायसम्बन्धः
श्रोत्रम्
चि.स.१२७
श्रोत्रसमवेत इति तत्र समवाय
एव सन्निकर्षः। वक्ता उच्चरितः श्रोत्र
शब्दः न श्रोत्रेण गृह्यते, किन्तु
१ - First floor, २ - Second floor.
[[१७५]]
[[१७६]]
सन्निकर्षनिरूपणम्
पूर्वोक्तरीत्या (पृ.१२१) शब्दजशब्दः परम्परया श्रोत्रदेशे उत्पन्नः इति स एव गृह्यते। समवेतसमवायसम्बन्धेन च शब्दत्वं, कवर्णे विद्यमानं कत्वं, गवर्णे विद्यमानं गत्वम् इत्यादि गृह्यते।
- भावानां ग्राहकान् सन्निकर्षान् उक्त्वा अभावग्राहकं सन्निकर्षमाह विशेष्य- विशेषणभाव इति । अभावः इह (१) द्रव्यनिष्ठः (२) गुणादिप्रथमसौधस्थितेषु स्थितः (३) गुणत्वादिद्वितीयसौधस्थितेषु स्थितः (४) शब्दगतः ( ५ ) शब्दगतजातिगतो वा ग्राह्यः। सर्वत्र आश्रयः संयोगादिसन्निकर्षैः गृहीत एव। यदि भूतले विद्यमानः घटाभावः ग्राह्यः तदा भूतलं चक्षुःसंयुक्तमस्ति एव । अभावः यदि भूतले विशेषणविधया भासते, अर्थात् ज्ञानस्य आकारः यदि भूतलं घटाभाववत् इत्याकारकः तदा चक्षुःसंयुक्तविशेषणता सन्निकर्षो ग्राहकः । चक्षुःसंयुक्तं भूतलं, तद्विशेषणता अभावे इति एषः सन्निकर्षः ग्राहकः । यदि अभावे भूतलं विशेषणविधया प्रकाशते अर्थात् ज्ञानस्य आकारः भूतले घटाभावः इत्याकारकः, तदा अभावः विशेष्यः इत्यागतम् । तर्हि सन्निकर्षोऽपि स्वसंयुक्तविशेष्यतारूपः कल्प्यः।
घटाभावः
चक्षुरिन्द्रियम्
संयोगसम्बन्धः
विशेषणता
भूतले
संयोगसम्बन्ध
विशेष्यता
भूतलम्
चक्षुरिन्द्रियम्
घटाभावः
चि.स.१२८
इदानीं प्रथमसौधस्थितेषु अभावग्रहोपायं चिन्तयामः । तत्र घटत्वादयः जातयः गुणाः, कर्माणि च सन्ति । घटत्वे पटत्वं नास्तीति, तदभावः चक्षुषा गृह्यते । इत्थमेव रूपे रसाभावः, कर्मणि च गुणत्वाभावः गृह्यते । तत्र विशेष्यं त्रयमपि स्वसंयुक्तसमवाय- सन्निकर्षेण इन्द्रियेण सम्बद्धम् । तत्र विशेषणता अभावस्य सन्निकर्षः योज्यः । तथा
सन्निकर्षनिरूपणम्
च एतेषु अभावस्य विशेषणविधया ग्रहणे स्वसंयुक्तसमवेतविशेषणता सन्निकर्षः।
रसाभावः
पटत्वाभावः विशेषणतां ।गुणत्वाभावः
विशेषणता
रूपम्
घटत्वम्
विशेषणता
समवायसम्बन्धः
समवायसम्बन्धः
कर्म
समवायसम्बन्धः
संयोगसम्बन्धः
चक्षुरिन्द्रियम्
घटः
चि.स.१२९
घटत्वम् पटत्वाभाववत् (१) रूपं रसाभाववत् (२) कर्म गुणत्वाभाववत् (३) इति ज्ञानानां भवति आकारः ।
पूर्ववदेव अभावस्य विशेष्यविधया भाने अर्थात् घटत्वे पटत्वाभावः (१) रूपे रसाभावः (२) कर्मणि गुणत्वाभावः ( ३ ) इत्येवमाकारता ज्ञानस्य भवति चेत् स्वसंयुक्तसमवेतविशेष्यतासन्निकर्षः अवगन्तव्यः।
इत्थमेव द्वितीयसौधे स्थिताः याः गुणत्वकर्मत्वादिजातयः, तासु कस्यचित् अभावः गृह्यते चेत्, स्वसंयुक्तसमवेतसमवेतविशेषणता सन्निकर्षः बोध्यः। स चाभावस्य विशेषणविधया भाने। विशेष्यत्वे तु विशेषणतायाः स्थाने विशेष्यतां घटयित्वा पूर्वोक्त एव ।
श्रोत्रसमवेतशब्दे घटत्वाभावादिग्रहो श्रोत्रेण भवत्येव । शब्दस्य समवायः ग्राहकेण सह सिद्ध एव। तत्र विशेषणतां विशेष्यतां वा सन्निकर्षं संयोज्य शब्दवृत्ति- घटत्वाभावादेः विशेषणविधया विशेष्यविधया वा प्रत्यक्षत्वं वर्णनीयम् । एवं शब्दत्वनिष्ठाभावप्रत्यक्षस्थले ।
[[१७७]]
सन्निकर्षनिरूपणम्
घटत्वाभावः
विशेषणता
पटत्वाभावः
गुणत्वम्
विशेषणता
समवायसम्बन्धः
कर्मत्वम्
समवायसम्बन्ध
रूपम्
घटत्वम्
कर्म
समवायसम्बन्धः
समवायसम्बन्धः
समवायसम्बन्धः
[[१७८]]
घटः
चि.स.१३०
एतावता षोढा सन्निकर्षाः निरूपिताः । तेषु निरूपितेषु प्रत्यक्षलक्षणघटकाः सन्निकर्षाः निरूपिताः भवन्ति । तेषु ज्ञातेषु तज्जन्या प्रत्यक्षप्रमा ज्ञायते । परन्तु सन्निकर्षः अत्र व्यापारो भवति । करणं तु, प्रत्यक्षप्रमां प्रति इन्द्रियमेव इति इन्द्रियस्यैव प्रत्यक्षप्रमाणत्वमुक्त्वा प्रकरणमुपसंहरति तस्मादिति ।
।
इति श्रीगोडाकुलाब्धिपूर्णचन्द्रमहामहोपाध्यायश्रीसुब्रह्मण्यगुरुचरणान्तेवासिनः
देवदत्तस्य कृतौ तर्कसङ्ग्रहव्याख्यायां विद्याधरीसञ्ज्ञकायां प्रत्यक्षखण्डः।