- गुणनिरूपणम्
एतावता ग्रन्थेन नव द्रव्याणि निरूपितानि । सम्प्रति क्रमप्राप्ते गुणनिरूपणे आदिमं रूपं लक्षणविभागाभ्यामाह -
चक्षुर्मात्रग्राह्यो गुणो रूपम् । तच्च शुक्लनीलपीतरक्तहरितकपिशचित्र- भेदात् सप्तविधम् । पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् । अभास्वरशुक्लं जले । भास्वरशुक्लं तेजसि ।
इह सम्प्रदाये, मात्रपदस्य इतरयोगः व्यवच्छेदश्चार्थः । तस्मिन् च तत्तत्पदार्थान्वयः इत्यादिशाब्दबोधरीतिमनुसृत्य अर्थवर्णनं कुर्वन्ति । परन्तु ग्रहणक्लेश- परिजिहीर्षुणा मया नैतदुच्यते इति अन्येभ्यः तत्परग्रन्थेभ्यः अवगन्तव्यम्। एतल्लक्षण- निरूपणप्रकारश्च अस्मत्सम्मतः इत्थम् ।
चक्षुरेव चक्षुर्मात्रम् इति भवेत् विग्रहः । ग्राह्यमिति पदे च ग्रहधातुर्वर्तते ण्यत्प्रत्ययश्च । धातोः प्रत्यक्षमर्थः ’ । ण्यत्प्रत्ययस्य कर्मत्वमर्थः । प्रत्यक्षकर्मत्वं च ७२ विषयत्वरूपमिति वक्ष्यमाणत्वात् (पृ.३२२) ग्राह्यपदेन प्रत्यक्षविषयत्वं लब्धम् । तच्च रूपनिष्ठम्। चक्षुषा एव ग्राह्यमिति वर्णने तृतीया वर्तते । तया तृतीयया करणत्वं साधनत्वम् अवगम्यते । तच्च चक्षुर्निष्ठं प्रत्यक्षनिरूपितम् । तथा च एवं भवेत् स्थितिः।
।
जनकता
चक्षुः
जन्यता विषयिता
प्रत्यक्षम्
विषयता
रूपम्
चि.स.६४
एवकारार्थकमात्रपदश्रवणमपि प्रकृते वर्तते । तत्र लोके चैत्र एव आयाति
इत्युक्तौ यथा चैत्रागमनं प्रतीयते, तथैव चैत्रभिन्नः यः तस्य अनागमनमपि । तथैव
१ - प्रत्यक्षम् - इन्द्रियजन्यं ज्ञानम् ।
रूपलक्षणे दलसार्थक्यम्
प्रकृतेऽपि चक्षुषा एव ग्राह्यमित्युक्तौ यथा चक्षुषा ग्राह्यत्वं बोध्यते तथैव तदितर- अग्राह्यत्वमपि । तथा च चक्षुरितराणि यानि प्राणादीन्द्रियाणि तैः रूपस्य प्रत्यक्षं न भवति, अथवा तैः जायमानं यत् प्रत्यक्षं तस्य विषयः रूपं न भवतीति अर्थः
फलति । अतः
जनकता
जन्यता विषयिता
विषयता
अभावः
घ्राणादि
प्रत्यक्षम्
गन्धः
रूपम्
चि.स.६५
की इत्यर्थः सम्पन्नः।
एवं मूले चक्षुर्मात्रग्राह्यो गुणो रूपमिति लक्षणवाक्यम् । तत्र चरमं गुण इति पदम् । तदर्थस्यापि लक्षणान्तर्भावः आवश्यकः । अन्यथा वक्ष्यमाणा अतिव्याप्तिः ७३
भवेत् ।
रूपलक्षणे दलसार्थक्यम्
तथा च (१) चक्षुरिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयिता- निरूपितविषयतावत्त्वे सति (२) चक्षुरितर- इन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रय- प्रत्यक्षनिष्ठविषयितानिरूपितविषयत्वाभाववत्त्वे सति (३) गुणत्वं रूपस्य लक्षणम् ।
समन्वयप्रकारश्च (पृ.४०) इत्थम् । चक्षुरिन्द्रियजन्यं यत् प्रत्यक्षम्, इदं शुक्लं रूपमिति प्रत्यक्षं, तन्निष्ठविषयितानिरूपितविषयता रूपे अस्ति, एवं चक्षुर्भिन्नं यत् इन्द्रियं, घ्राणं, तज्जन्यं यत् प्रत्यक्षम् अयं सुरभिगन्ध इति प्रत्यक्षं, तन्निष्ठविषयितानिरूपितविषयता गन्धे, विषयत्वाभावः लक्ष्ये रूपे अस्ति । एवं रूपं गुण इति तत्र गुणत्वजातिरपि वर्तते इति समन्वयः ।
रूपलक्षणे दलसार्थक्यम्
- लक्षणे विद्यमानानां दलानाम् उपयोगं चिन्तयामः । दलनिर्देशे सङ्ख्याः अपि उल्लिखिताः सन्ति । ताः आदाय यदि चिन्तयामः तर्हि
केवलं (१) आद्यः प्रकारः
केवलं (२) द्वितीयः
[[७४]]
केवलं (३) तृतीयः
(१) (३) पञ्चमः
(१) (२) चतुर्थः
(२) (३) षष्ठः
एते षट् प्रकाराः सम्भाव्यन्ते । तत्र दलसार्थक्यं (पृ.४३) चिन्त्यते। (१) चक्षुरिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयितानिरूपित- विषयत्वमेव लक्षणमस्तु चेत् घटोऽपि चक्षुषा गृह्यते इति घटे अतिव्याप्तिः । (२) चक्षुर्भिन्नेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयितानिरूपित- विषयत्वाभावः एव लक्षणमस्तु। एवं सति न घटे अतिव्याप्तिः । चक्षुर्भिन्नं यत् त्वगिन्द्रियं तज्जन्यप्रत्यक्षविषयत्वमेव घटे वर्तते, विषयत्वाभावः नास्ति इति नातिव्याप्तिरिति चेत् । अतीन्द्रिये गुरुत्वरूपगुणे वक्ष्यमाणे (पृ. १०९) अतिव्याप्तिः । तथा हि - आद्यपतनासमवायिकारणरूपं गुरुत्वं न केनापि इन्द्रियेण ज्ञातुं शक्यम्म्। यथा आकाशादीनाम् अनुमानेन प्रमाणेनैव सिद्धिः, तद्वदेव गुरुत्वस्यापि । तथा च चक्षुर्भिन्नानि यानि प्राणादीनि इन्द्रियाणि, तज्जन्यप्रत्यक्षे न गुरुत्वं विषयः इत्यायातम् । एवं सति तादृशप्रत्यक्षविषयत्वाभावः गुरुत्वे अस्तीति गुरुत्वे अतिव्याप्तिः ।
(३) केवलं गुणत्वमेव लक्षणमस्तु चेत् इयं गुणत्वजातिः रसादिगुणेषु वर्तते इति
रसादौ सर्वत्रैव अतिव्याप्तिः ।
इतः दलद्वयमादाय चिन्तयामः ।
(१) (२) चक्षुरिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षविषयत्वम्-
चक्षुर्भिन्नेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षविषयत्वाभावः इति एतद्दलद्वयमेव
अस्तु लक्षणमिति चेत् रूपे विद्यमाना या रूपत्वजातिः तस्यामतिव्याप्तिः । तथा हि-
रूपलक्षणे दलसार्थक्यम्
यथा घटे विद्यमानं रूपं चक्षुरिन्द्रियेण गृह्यते, तथा तद्वृत्तिरूपत्वजातिरपि गृह्यते । न हि सा चक्षुषः इतरैः घ्राणादिभिः इन्द्रियैः ज्ञातुं शक्या । तथा च तस्यां जातौ प्रथमदलं चक्षुर्ग्राह्यत्वं वर्तते। एवं चक्षुर्भिन्नेन्द्रियाग्राह्यत्वरूपं द्वितीयं दलमपि अस्ति । अतः रूपत्वे अतिव्याप्तिः ।
(१)(३) इयम् अतिव्याप्तिः द्वितीयदलमपसार्य तृतीयं यत् गुणत्वरूपं दलं, तन्निवेशेन वार्यते । यतो हि रूपत्वे चक्षुर्ग्राह्यत्वं यद्यपि वर्तते, गुणत्वं न वर्तते । गुणत्वस्य गुणेषु एव सत्वात्। रूपत्वस्य जातित्वेन तत्र गुणत्वाभावात्। अतश्च न रूपत्वे अतिव्याप्तिः ।
एवमपि द्वीन्द्रियग्राह्याः ये सङ्ख्यादयो गुणाः तेषु अतिव्याप्तिः । तथा हि भूतले द्वौ घटौ स्तः। कश्चित् चक्षुष्मान् मनुष्यः पृष्टः, भूतले कति घटाः इति । सः चक्षुः व्यापार्य अवगच्छति, ब्रूते च द्वौ घटौ इति। एवं च द्वित्वसङ्ख्या तेन चक्षुषा ज्ञाता । अपरश्च कश्चित् अन्धः पृष्टः भूतले कति घटाः इति । सः चक्षुर्व्यापारे असमर्थोऽपि हस्तौ पादौ वा चालयित्वा तत्र विद्यमानौ घटौ च उपलभ्य तत्रत्यां द्वित्वसङ्खयां त्वगिन्द्रियेण जानाति । ब्रूते च द्वौ घटौ इति । अनेन इदम् अवगच्छामः, यत् सङ्ख्या चक्षुरिन्द्रियेण इव त्वगिन्द्रियेणापि गृह्यते । एवं च (१), (३) चक्षुर्ग्राह्यत्वम् एवं गुणत्वमिति दलद्वयस्यैव निवेशे सङ्ख्यायाम् अतिव्याप्तिः । यतः तस्याः चक्षुर्ग्राह्यत्वम् आनुभविकं, निरूपितं च । सा गुणः इति तत्र गुणत्वजातिरपि वर्तते ।
तर्हि अस्तु (२), (३) द्वितीयतृतीयदलयोरेव उपादानम् । चक्षुर्भिन्नेन्द्रिय- अग्राह्यत्वं, गुणत्वं च द्वे दले। तथा सति सङ्ख्यायाः चक्षुर्भिन्न- त्वगिन्द्रियग्राह्यत्वमेव अस्ति । भिन्नेन्द्रिय-अग्राह्यत्वं नास्तीति नातिव्याप्तिः । दर्शितं च अन्धदृष्टान्तेन सङ्ख्यायाः त्वगिन्द्रियेण प्रत्यक्षम् । एवञ्चास्तु इदं दलद्वयम् । एवमपि गुरुत्वे अतिव्याप्तिः। गुरुत्वमतीन्द्रियमिति प्रागुक्तमेव । तथा च तत्र चक्षुर्भिन्नेन्द्रियं यत् त्वगिन्द्रियं तज्जन्य-प्रत्यक्षविषयत्वाभावः (२) वर्तते । एवं गुरुत्वं गुण इति गुणत्वरूपं
[[७५]]
स्पर्शलक्षणमपि रूपलक्षणवत् आलोचनीयम्
(३) दलमपि वर्तते। अतः गुरुत्वे अतिव्याप्तिः । तद्वारणाय प्रथमदलमपि दातव्यम् । (१) गुरुत्वे द्वितीयतृतीययोः दलयोः सत्वेऽपि आद्यं चक्षुर्जन्यप्रत्यक्षविषयत्वरूपं चक्षुर्ग्राह्यत्वं नास्तीति नातिव्याप्तिः ।
अतः एकैकस्य दलस्य, (१) (२) प्रथमद्वितीयदलयोः, (१) (३) प्रथमतृतीयदलयोः, (२) (३) द्वितीयतृतीयदलयोः च लक्षणत्वे अतिव्याप्तिर्भवतीति चक्षुर्ग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रियाग्राह्यत्वे सति गुणत्वमिति रूपलक्षणं पर्यवस्यति ।
लक्षणस्य एवंविधभागेषु सत्सु यद्भागावसाने सति इति पदं भवति तद्भागस्य सत्यन्तमिति व्यवहारः न्यायग्रन्थेषु भवति । तत्रापि प्रथमभागस्य प्रथमसत्यन्तं, द्वितीयभागस्य द्वितीयसत्यन्तमिति रीत्या व्यवहारः दृश्यते। वायुनिरूपणावसरे तु एकं सत्यन्तमिति न तत्र प्रथमादिपदप्रयोगः इति विशेषः ।
- स्पर्शलक्षणमपि रूपलक्षणवत् आलोचनीयम्
इत्थमेव च स्पर्शलक्षणे त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः इत्यत्रापि ७६ त्वगिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षविषयत्वं (१) त्वग्भिन्नेन्द्रियनिष्ठ- जनकतानिरूपितजन्यताश्रयप्रत्यक्षविषयत्वाभावः (२) गुणत्वमिति (३) त्रीणि दलानि । तत्र (१) त्वगिन्द्रियग्राह्यत्वमात्रोक्तौ घटे अतिव्याप्तिः (२) त्वभिन्नेन्द्रिय- अग्राह्यत्वमात्रोक्तौ गुरुत्वे अतिव्याप्तिः (३) गुणत्वमात्रोक्तौ रसादौ सर्वत्रातिव्याप्तिः ।
एवं (१) (२), त्वगिन्द्रियग्राह्यत्वं, त्वग्भिन्नेन्द्रिय-अग्राह्यत्वं च निवेशयामश्चेत् स्पर्शत्वजातौ अतिव्याप्तिः । सापि हि त्वचा गृह्यते नेतरेण इन्द्रियेण। एवं (१) (३), त्वगिन्द्रियग्राह्यत्वं गुणत्वं च लक्षणं चेत् दर्शितरीत्या सङ्ख्यायामतिव्याप्तिः। एवं (२) (३), त्वभिन्नेन्द्रिय-अग्राह्यत्वं गुणत्वं च इति दलयोः उपादाने पूर्ववदेव गुरुत्वे अतिव्याप्तिः । तस्मात् त्रयाणामपि दलानामस्ति अपेक्षा । आहत्य रूपस्पर्शलक्षणचित्रप्रकारस्तु एवं स्यात् ।
(१) जनकता
जन्यता
विषयिता
ग्राह्यपदयुक्तानाम् इतरलक्षणानां निरूपणम्
विषयता
चक्षुः
प्रत्यक्षम्
रूपम्
अभावः
(२) जनकता
चक्षुर्भिन्नेन्द्रियम् (त्वगिन्द्रियम्)
जन्यता विषयिता विषयता
प्रत्यक्षम् रसादौ गुणत्वम्
(३)
(१) जनकता
त्वगिन्द्रियम्
(२) जनकता
त्वग्भिन्नेन्द्रियम्
(चक्षुः)
चि.स.६६
जन्यता विषयिता विषयता
प्रत्यक्षम्
जन्यता विषयिता विषयता
स्पर्शः
अभावः
प्रत्यक्षम्
रूपम् गुणत्वम्
(३)
चि.स. ६७
- ग्राह्यपदयुक्तानाम् इतरलक्षणानां निरूपणम्
एतावता रूपलक्षणप्रकारः स्पर्शलक्षणप्रकारश्च चिन्तितः । इतश्च तर्कसङ्ग्रहे यानि ग्राह्यपदयुक्तानि लक्षणानि तानि सर्वाणि व्याख्यासौकर्याय इहैव चिन्तयामः।
लक्षणे ग्राह्य इति पदमस्ति चेत् प्रत्यक्षनिष्ठविषयितानिरूपितविषयता अथवा तादृशविषयतावत्त्वमिति अर्थ : लभ्यते । तदर्थे प्रत्यक्षे ग्राह्य इति पदात्पूर्वं यदिन्द्रियं
[[७७]]
ग्राह्यपदयुक्तानाम् इतरलक्षणानां निरूपणम्
निर्दिष्टं भवति तन्निष्ठजनकतानिरूपितजन्यता प्रदर्श्यते चेत् लक्षणम् अवगतं भवति । यथा प्राणग्राह्यो गुणो गन्धः इति गन्धलक्षणे घ्राण इति इन्द्रियनिर्देशः। अतः घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यता ग्राह्यपदबोध्ये प्रत्यक्षे, तादृशप्रत्यक्षनिष्ठ- विषयितानिरूपितविषयता गन्धे इत्यर्थसिद्धिः । गुणत्वं च गन्धत्वजातौ अतिव्याप्तिवारणाय निवेश्यम् ।
(१) जनकता
जन्यता
विषयिता
विषयता
घ्राणम्
प्रत्यक्षम्
गुणत्वम्
गन्धः
(२)
चि.स.६८
रसनाग्राह्यो गुणो रसः इति रसलक्षणेऽपि
(१) जनकता
[[७८]]
जन्यता
विषयिता
विषयता
रसना
प्रत्यक्षम्
गुणत्वम्
रसः
(२)
चि.स.६९
श्रोत्रग्राह्यो गुणः शब्दः इति शब्दलक्षणे
(१) जनकता
जन्यता विषयिता
विषयता
श्रोत्रेन्द्रियम्
प्रत्यक्षम्
गुणत्वम्
शब्दः
(२)
चि.स.७०
इति लक्षणप्रकारः अनुसन्धेयः ।
व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वमिति पदार्थनिरूपणम्
प्रकृतमनुसरामः। चक्षुर्मात्रग्राह्यो गुणः रूपमिति दलत्रयं रूपलक्षणं पर्यवसितम्। मूले तद्विभागमाह तत् सप्तविधमिति । शुक्लेत्यादिप्रसिद्धानि। चित्ररूपमिति अतिरिक्तम् । यस्य अवयवानां परस्परं विभिन्नं रूपं भवति सः अवयवी चित्रः इति उच्यते । यथा सन्ति कस्मिंश्चित् पटे पीततन्तूनां पञ्च शतानि श्वेततन्तूनां पञ्च । अवयवैः जायमाने तस्मिन् पटे न पीतं रूपं, नापि रक्तं रूपं किन्तु चित्रमिति अतिरिक्तं सप्तमं किमपि रूपमुत्पद्यते इति वैशेषिकाणामाशयः ।
सूक्तिललन्तिका
- व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वमिति पदार्थनिरूपणम्
नव्यनैयायिकाः नेदं सहन्ते। तेषामयमाशयः । वृक्षे संयोगसम्बन्धेन कपिः अस्ति चेत् सः तस्मिन् वृक्षे अग्रे, मूले, कस्याश्चित् शाखायां वा भवति। न तु सर्वेषु अवयवेषु कपिः भवति । वृक्षगतरूपं तु सर्वेषु अवयवेषु वर्तते इति तत् व्याप्यवृत्ति इति उच्यते । कपिः तत्संयोगो वा न सर्वावयवेषु वर्तते इति कपिः कपिसंयोगो वा
अव्याप्यवृत्तिः इत्युच्यते।
अव्याप्यवृत्तित्वम् इत्यस्य
स्वाभावस्य अधिकरणे
[[७९]]
अग्रदशः
. कपिः (कपिसंयोगो वा)
स्वस्य विद्यमानत्व-
मित्यर्थः।
एकस्मिन् एव
वृक्षरूपे अधिकरणे कपिः
अस्ति अग्रदेशवर्ति
शाखायाम् । तस्य
अभावस्तु मूलदेशवर्ति-
मूलम् कपिसंयोगाभावः
शाखायाम्। एवं च अग्रं
कपिनिष्ठ - आधेयता-
चि.स. ७१
[[८०]]
अव्याप्यवृत्तिनीलादिसमुदायः एव चित्ररूपमिति नव्यमतम्
निरूपिता या वृक्षनिष्ठाधिकरणता तस्याः अवच्छेदकम् इत्युच्यते। मूलं च कपिसंयोगाभाव- निष्ठाधेयतानिरूपित-अधिकरणतावच्छेदकम्।
घटत्वादिनिष्ठप्रतियोगितावच्छेदकत्वात् इदमवच्छेदकत्वं मूलाग्रनिष्ठं भिन्नम् ।
इदं च अव्याप्यवृत्तित्वनिर्वाहकमिति शास्त्रे प्रसिद्धम् । तथा च अग्रावच्छेदेन वृक्षे कपिः कपिसंयोगो वा वर्तते । मूलावच्छेदेन वृक्षे कपेः अभावः कपिसंयोगाभावो वा वर्तते । एवं च कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति वाक्यस्य, वृक्षे कपिसंयोगो वर्तते, तदभावोऽपि वर्तते इत्यर्थः । तुल्ययुक्त्या कपिसंयोगाभावस्यापि अव्याप्यवृत्तित्वं समर्थनीयम् ।
अग्रे वृक्षे कपिसंयोगः इति वाक्येपि अग्रपदोत्तरसप्तम्याः अवच्छेदकत्वमर्थः । वृक्षपदोत्तरसप्तम्याः अधिकरणत्वमर्थः । तथा च अग्रावच्छिन्नवृक्षनिष्ठाधिकरणता- निरूपिताधेयताश्रयः कपिसंयोगः इति प्रतीयते। मूले वृक्षे कपिसंयोगाभावः इति वाक्यादपि मूलावच्छिन्नवृक्षनिष्ठाधिकरणतानिरूपिताधेयताश्रयः कपिसंयोगाभावः इति बोधो भवति । एवं च सर्वजनसिद्धं यत् अव्याप्यवृत्तित्वं तेनैव चित्ररूपस्थलेऽपि निर्वाहः शक्यः कर्तुम् ।
- अव्याप्यवृत्तिनीलादिसमुदायः एव चित्ररूपमिति नव्यमतम्
पीतरक्ततन्तुभिश्च यत्र पटोत्पत्तिः तत्र पटे अधिकरणे पीततन्त्ववच्छेदेन पीतं रूपमुत्पद्यते । यथा अग्रावच्छेदेन वृक्षे कपिसंयोगः भवति। तत्रैव च पटरूपे अधिकरणे रक्ततन्त्ववच्छेदेन रक्तं रूपम् उत्पद्यते । पीतरूपाभावोऽपि तत्रैव रक्ततन्त्ववच्छेदेन पटे भवति। तुल्यरीत्या रक्तरूपाभावोऽपि पीततन्त्ववच्छेदेन पटे एव शक्यः वक्तुम् । एवं च एतादृशसर्वजनसिद्धाव्याप्यवृत्तित्वेनैव तादृशपटे रूपद्वयं ताभ्यां च चित्रः पटः इति प्रत्ययः वर्णयितुं शक्यः । अतः अतिरिक्तस्य सप्तमस्य चित्ररूपस्य स्वीकारः अनुचितः इति ।
रक्तरूपाभावः
पीततन्तुः
रसादिलक्षणानि विभागश्च
रक्ततन्तुः
-पीतरूपाभावः
चि.स.७२
इह पटे पीततन्त्ववच्छेदेन पीतरूपं, रक्तरूपाभावः च, तत्रैव पटे रक्ततन्त्ववच्छेदेन रक्तरूपं, पीतरूपाभावश्च । एतादृशाव्याप्यवृत्तिरूपसमुदायः यत्र भवति, तत्रैव चित्रः पटः, चित्रं कुसुममिति व्यवहारः भवतीति दिक् ।
पृथिव्यादित्रिकवृत्ति रूपम्। तत्र शुक्लरूपमेव त्रिषु वर्तते । अन्यानि तु पृथिव्यामेव । तत्रापि तेजसि विद्यमानं शुक्लरूपम् अन्यान् प्रकाशयति इति तत् ८१ भास्वरं शुक्लमित्युच्यते । पृथिवीजलयोस्तु शुक्लरूपं न प्रकाशकम् इति तत् अभास्वरमिति ।
- रसादिलक्षणानि विभागश्च
रसनग्राह्यो गुणो रसः। स च मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधः । पृथिवीजलवृत्तिः । पृथिव्यां षड्विधः । जले मधुर एव । प्राणग्राह्यो गुणो गन्धः । स च द्विविधः सुरभिरसुरभिश्च । पृथिवीमात्रवृत्तिः । त्वगिन्द्रियमात्र- ग्राह्यो गुणः स्पर्शः ।
सः त्रिविधः । शीतोष्णानुष्णाशीतभेदात् । पृथिवीजलतेजोवायुवृत्तिः । तत्र शीतो जले । उष्णस्तेजसि । अनुष्णाशीतः पृथिवीवाय्वोः ।८२
अन्वयसहचारः इति पदार्थनिरूपणम्
रसलक्षणं प्रागुक्तम्। विभागोऽपि सुज्ञेयः । अत्र चित्ररस इति विभागो नास्ति। अतः न किञ्चित् वक्तव्यमवशिष्यते। पृथिवीजलवृत्तिः। माधुर्यमेव च जले। अन्ये रसाः शुक्लरूपातिरिक्तरूपवत् पृथिव्यामेव इति स्थितम्।
गन्धस्तु पृथिवीलक्षणमिति निरूपित एव। अतः तस्य पृथिवीमात्रवृत्तित्वम्। लक्षणमपि ग्राह्यत्वघटितं रूपनिरूपणावसरे निरूपितमेव । विभागोऽस्य सुरभिः असुरभिः इति। स्पर्शलक्षणं तु मात्रपदघटितं, रूपलक्षणवत् । अतः तत्र त्रीणि दलानि। तेषां प्रयोजनं, चित्रद्वारा प्रदर्शनप्रकार : इति सर्वं निरूपितम् । शीतस्पर्शः उष्णस्पर्शः, शीतोष्णस्पर्शः इति तस्य त्रैविध्यं प्रसिद्धम्। आदिमः जलमात्रवृत्तिः । अतः जललक्षणमिति वर्ण्यते। द्वितीयः उष्णस्पर्शः तेजोमात्रवृत्तित्वात् तेजसः लक्षणं भवति। अनुष्णाशीतस्पर्शस्तु पृथिव्यां वायौ च भवति । तमादाय च वायुलक्षणं, रूपरहितः स्पर्शवान् वायुः इति प्राक् अवेदिष्म ।
रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च । अन्यत्रापाकजं नित्यमनित्यं च । नित्यगतं नित्यं । अनित्यगतमनित्यम्।
चतुर्णां विशेषमाह - रूपादिचतुष्टयमित्यादिना । पृथिव्यां पाकजम्। पाकः तेजः संयोगः, तेन जायते । आतपे स्थापिते नारिकेलशकले पूर्वरूपादिनाशः अन्येषां चोत्पत्तिः तेजःसंयोगादेव । अन्यत्र जलादौ तत् अपाकजम् न पाकेन जायते । वक्ष्यमाणप्रकारेण कारणगुणेभ्यः जायते । तत्रैव जलादौ नित्ये परमाणौ रूपादि नित्यम् । अनित्ये द्वणुकादौ अनित्यम् । अत्र च जलादौ रूपादिचतुष्टयासम्भवेन यथासम्भवमेव ग्राह्यम् । विस्तरः अन्यत्र ।
- अन्वयसहचारः इति पदार्थनिरूपणम्
अत्रेदं वक्तव्यम् । शास्त्रेऽस्मिन् कार्यकारणभावः तत्र तत्र चिन्त्यते । अस्माभिरपि कारणत्वनिकषाः आलोचिताः । ग्रन्थकारेण समवाय्यसमवायिनिमित्तकारणताभेदात् कारणताप्रकाराः अग्रे प्रदर्शयिष्यन्ते । तस्मिन् विचारे यस्मिन् सति कार्यं भवति, यस्मिन्
व्यतिरेकसहचारः इति पदार्थनिरूपणम्
असति कार्यं नैव भवति तत् तस्य कारणमिति अवधार्यते, निश्चीयते । ततः कदाचित् कारणादर्शने, कार्यमात्रस्य च दर्शने, कारणम् अदृश्यमपि तत्र अस्तीति अवधार्यते । यथा अकस्मात् नद्यां पूरः भवति चेत् अप्रत्यक्षापि वृष्टिः ऊर्ध्वदेशे क्वचित् अभूदिति अवगच्छामः।
तथैव च पूर्वोक्तानां, वक्ष्यमाणानां च केषाञ्चित् गुणानां द्रव्यविशेषजन्यत्वं निश्चिनुमः । यथा गन्धः पृथिव्यां सत्यां भवति, पृथिवी न भवति चेत् गन्धः न भवति इति गन्धः पृथिवीमात्रजन्यः इति अवगम्यते। पृथिवीसत्वे गन्धः इति पृथिवीगन्धयोः अन्वयमादाय सत्तामादाय, विद्यमानत्वमादाय, चिन्त्यते इति अयम् अन्वयसहचारः इति व्यवह्रियते। सहचारः सामानाधिकरण्यम्। भावयोः पृथिवीगन्धयोः सामानाधिकरण्यम् ।
व्यतिरेकसहचारः इति पदार्थनिरूपणम्
यत्र पृथिवी नास्ति तत्र गन्धोऽपि नास्तीति चिन्तनम् अभावौ आदाय प्रवर्तते इति अयं व्यतिरेकसहचार इति उच्यते । व्यतिरेकौ अभावौ पृथिव्यभावगन्धाभावरूपौ तयोः विद्यमानत्वं, सामानाधिकरण्यं चादाय इह चिन्त्यते इति अयं व्यतिरेकसहचारः। एवं च पूर्वोक्तान्वयसहचारः व्यतिरेकसहचारश्च ययोः वर्तते, तयोः कार्यकारणभावः निश्चितो भवति ।
,
- अन्वयव्यतिरेकव्यभिचारौ
एतद्वैपरीत्येन कारणत्वेन अभिमते सत्यपि कार्योत्पत्तिः यत्र न भवति तत्र कारणस्य अन्वयः, विद्यमानत्वं यद्यपि वर्तते, परं कार्यस्य विद्यमानत्वं नास्तीति अयम् अन्वयव्यभिचारः इत्युच्यते । इह हि कारणत्वेन अभिमतस्य सत्वेऽपि कार्यत्वेन अभिमतस्य असत्वम् । एवं कारणत्वेन अभिमतस्य असत्वेऽपि कार्यत्वेन अभिमतस्य उत्पत्तिः व्यतिरेकव्यभिचारः इत्युच्यते । यथा तन्तुः घटं प्रति कारणं न वा इति सन्देहे तन्तौ सत्यपि घटः नोत्पद्यते इति ज्ञानवतः तत् अन्वयव्यभिचारज्ञानं भवति । एवं घटोत्पत्तिदेशे तन्तौ असति अपि घटः उत्पद्यते इति जानानस्य तत् व्यतिरेक- व्यभिचारज्ञानं भवति ।
[[८३]]
[[८४]]
अन्वयव्यतिरेकव्यभिचारौ
अन्वयव्यभिचारज्ञानं भवति चेत् अन्वयसहचारज्ञानं नोत्पद्यते। कथं हि तन्तौ सत्यपि घटः नोत्पद्यते इति अन्वयव्यभिचारज्ञानवतः पुरुषस्य तन्तौ सति पटः उत्पद्यते इति अन्वयसहचारज्ञानं सम्भवति । एवं व्यतिरेकव्यभिचारज्ञानं भवति चेत् व्यतिरेकसहचारज्ञानं नोत्पद्यते । कपाले अविद्यमानेऽपि पटोत्पत्तिः इति व्यतिरेकव्यभिचारे गृहीते कपाले अविद्यमाने न पटोत्पादः इति व्यतिरेकसहचार न गृह्यते एव ।
फलतः अन्वयव्यभिचारज्ञानात् न अन्वयसहचारज्ञानम् । व्यतिरेकव्यभिचार- ज्ञानात् न व्यतिरेकसहचारज्ञानम् । उभयविधसहचारज्ञाने अनुत्पन्ने तन्तुः घटं प्रति कारणमिति कारणताज्ञानमपि नोत्पद्यते ।
तत्रापरोऽयं विशेषः। कारणत्वेन अभिमतस्य पदार्थस्य सत्वेऽपि कदाचित् कार्योत्पत्तिर्न भवति। यथा दण्डः, चक्रं, कपाल : इमानि घटकारणानि इति सर्वसम्मतम् । परन्तु कपालद्वयसंयोगरूपकारणं न उत्पद्यते चेत् घटोत्पत्तिर्न भवति । तथापि तु दण्डादीनां कारणता नापगच्छति। सर्वकारणसत्वे हि पदार्थेभ्यः कार्यमुत्पद्यते।
किञ्च दण्डः घटकारणमिति अवधार्य ज्ञात्वा कश्चित् अत्यन्तं क्षीणं शलाकातुल्यं दण्डत्वजातिमन्तमादाय चक्रभ्रमणं चिकीर्षति चेत्, किं भवेत् चक्रभ्रमणम् ? न । तावतापि च न ब्रूमो वयं दण्डः घटं प्रति न कारणमिति किन्तु योग्यं स्थूलं दण्डमादाय यतस्वेति उपदिशामः । पूर्वत्र दण्डादिसत्वेऽपि कपालद्वयसंयोगाभावात्, प्रकृते च योग्यदण्डाभावात् घटोत्पत्तिर्नास्तीति अस्ति कारणसत्वेऽपि न कार्यमिति अन्वयव्यभिचारः।
एवं च अन्वयसहचारज्ञानं कारणताग्रहे आवश्यकम् । परन्तु क्वचित् अन्वयसहचारः न ज्ञायते, अपि तु अन्वयव्यभिचारः ज्ञायते चेदपि न कारणत्वग्रहे अत्यन्तं क्लेशः ।
यदि तु व्यतिरेकव्यभिचारज्ञानं भवति, अर्थात् कारणत्वेन अभिमतस्य असत्वेऽपि कार्यम् उत्पद्येत तदा कारणताज्ञानं नैवोत्पद्यते इति ।
असमवेतगुणानां ज्ञानं कथम् ?
- असमवेतगुणानां ज्ञानं कथम् ?
तथा च अन्वयव्यतिरेकव्यभिचारज्ञानाभावे सति अन्वयव्यतिरेकसहचार- ज्ञानमुत्पद्यते। तेन च कारणताग्रहः भवति । एतादृशकारणताग्रहे सति यत्र क्वचित् गन्धः अनुभूतः पृथिवी नोपलब्धा चेदपि तत्र सास्तीति अनुमीयते ।
एवं च उपवनात् समागते वाते तादृशे च जले यः सुरभिगन्धः अनुभूयते सः वस्तुतः पृथिव्याः एव। परं सा पृथिवी जलेन संयुक्ता । पृथिवीकणाः जले विद्यमाना अपि अतिसूक्ष्मत्वात् न चक्षुषा गृह्यन्ते । पृथिवीगन्धस्तु समवायेन पृथिव्यां स्थितोऽपि स्वसमवायिसंयुक्तत्वसम्बन्धेन जले स्थितः स्वप्रत्ययं जनयति ।
एवं पृथिव्यनिलयोः कदाचित् अनुभूयमानः शीतस्पर्शः अपि न स्वाभाविकः किन्तु कृत्रिमः। जलगतशीतस्पर्श एव स्वसमवायिसंयुक्तत्वसम्बन्धेन तयोः स्थितः प्रतीयते। तेजसः उष्णस्पर्शस्यापि इत्थमेव पृथिवीजलवायुषु भानं समर्थनीयम् ।
अतिस्वच्छे गङ्गाजले प्रतीयमानः नीलिमापि पार्थिवभागानामेव। शुक्लातिरिक्त- रूपविशेषाणां पृथिवीमात्रवृत्तित्वात्। एवं रसेऽपि ।
सर्वत्र च वस्तुतः रूपादीनाम् अनाश्रयेऽपि द्रव्ये स्वसमवायिसंयुक्तत्वरूप- परम्परासम्बन्धस्यैव भाननियामकत्वम् । एवमेव शब्दस्य आकाशगुणस्य वायौ, ज्ञानस्य आत्मगुणस्य शरीरे भानं, पूर्वोक्तेन स्वसमवायिसंयुक्तत्वरूपसम्बन्धेनैव समर्थनीयम्।
[[८५]]
शीतस्पर्शः
गन्धः
उष्णस्पर्शः
समवाय सम्बन्धः
समवायसम्बन्धः
समवाय सम्बन्धः
संयोग-
जलम्
घटः
पुष्पम्
सम्बन्धः
संयोग-
सम्बन्धः
संयोग-
जलम
वह्निः
⇒ वायुः
सम्बन्धः
चि.स.७३
१ - स्वं गन्धः, स्वसमवायिनी पृथिवी तत्संयुक्तं जलं संयुक्तत्वं जले इति अनेन परम्परासम्बन्धेन पृथिवी-
गन्धः जले प्राप्तः।
गुणेऽपि जायमानः गुणप्रत्ययः समर्थनीयः
शब्दः
ज्ञानम्
समवाय सम्बन्धः
समवाय सम्बन्धः
संयोग-
संयोग-
आकाशः
वायुः
आत्मा
शरीरम्
सम्बन्धः
सम्बन्धः
चि.स. ७४
[[८६]]
अनयैव रीत्या कदाचित् गुणादौ जायमानः एकं रूपमिति गुणप्रत्ययः
समर्थनीयः।
सूक्तिललन्तिका
- गुणेऽपि जायमानः गुणप्रत्ययः समर्थनीयः
तथा हि - अस्ति समवायिकारणम्, असमवायिकरणं निमित्तकारणमिति कश्चित् कारणविभागः वक्ष्यमाणः। उत्पद्यमानं कार्यं यत्र समवायसम्बन्धेन उत्पद्यते तत् समवायिकारणम् । यथा घटः कपाले समवायेन उत्पद्यते । अवयवावयविनोः समवायात् । रूपं घटे समवायेन उत्पद्यते, गुणगुणिनोः समवायात्। क्रिया कन्दुके
घटः
समवायः
तादात्म्यम्
कपालः
घटरूपम्
समवायः
घटः
तादात्म्यम्
कपालः
घटः
समवायेन उत्पद्यते, क्रियाक्रियावतोः
समवायात्। एवमितरेषां जन्यद्रव्य- गुणकर्मणां बोध्यम् ।
तथा च घटस्य, रूपस्य, क्रियायाश्च, समवायेन उत्पत्तिः
कपालरूपे द्रव्ये, घटरूपद्रव्ये
कन्दुकरूपद्रव्ये एव च भवतीति सर्वस्यापि कार्यस्य समवायसम्बन्धेन
उत्पत्तिः द्रव्ये एव भवति इति
चि.स.७५
आगतम् ।
गुणेऽपि जायमानः गुणप्रत्ययः समर्थनीयः
तत्र कार्यकारणभावविचारे कार्यकारणयोः सामानाधिकरण्यम् आवश्यकम् इति प्रागेव निरूपितम् । तादृशसामानाधिकरण्यवर्णनाय तादात्म्यरूपः सम्बन्धोऽपि (पृ. ३०) साधितः । तथा च कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटमुत्पादयति। घटः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन रूपमुत्पादयति । तथैव कन्दुकोऽपि यां क्रियां जनयति । इदं च कपालघटादि, यत् स्वस्मिन् तादात्म्येन सम्बन्धेन
स्थित्वा समवायेन कार्यं जनयति तत् समवायिकारणमिति उच्यते ।
अत्र येन सम्बन्धेन अधिकरणे
कार्यम् उत्पद्यते सः कार्यतावच्छेदक- सम्बन्धः भवति। येन सम्बन्धेन च
क्रिया
तादात्म्यम्
समवायः
घटः
चि.स.७६
घटः
कारणं कार्याधिकरणे भवति सः कारणतावच्छेदकसम्बन्धः । स च सम्बन्धः इतरकार्यताभ्यः प्रकृतकार्यता भिन्ना, इतरकारणताभ्यश्च प्रकृतकारणता भिन्ना इति बोधयति । तथाविधः प्रकृते समवायसम्बन्धः कार्यतावच्छेदकः, तादात्म्यसम्बन्धश्च कारणतावच्छेदकः। एवञ्च समवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्य- सम्बन्धावच्छिन्नकारणताश्रयत्वं समवायिकारणस्य लक्षणं पर्यवसितम्।
।
एतादृशकार्यकारणभावे सिद्धे, भावकार्यमात्रं प्रति द्रव्यस्य समवायिकारणत्वे च सिद्धे एको घटः इति घटे एकत्वावगाही प्रत्ययः तयोः समवायमेव प्रकाशयति । सङ्ख्यायाः घटस्य च समवायात् । परन्तु एकं रूपमिति प्रतीतिः जायमानापि एकत्वरूपयोः समवायं न प्रकाशयति। दर्शितरीत्या सङ्ख्यारूपगुणं प्रति रूपात्मकस्य गुणस्य समवायिकारणत्वासम्भवात्। अतः इयं
रूपम्
एकत्वम्
[[८७]]
प्रतीतिः तयोः समवायं नावगाहते,
किन्तु समवायघटितसामानाधि- करण्यमेव । एकस्मिन् एव हि घटे एकत्वं रूपं चोभयं समवायेन वर्तते ।
समवायः
समवायः
घटः
चि.स.७७
उत्पत्तिक्षणे द्रव्ये न गुणकर्मणोः सम्भवः
अतः तयोः सामानाधिकरण्यं समवायघटितमिति स्पष्टम्। एवं च घटे समवायेन विद्यमानम् एकत्वं सामानाधिकरण्येन रूपे प्रतीयते इति तादृशज्ञानस्यापि निर्वाहः शक्यः कर्तुमिति दिक् ।
- गुणनिरूपणे क्रमप्राप्तां सङ्खयां निरूपयति -
एकत्वादिव्यवहारहेतुः सङ्ख्या । सा नवद्रव्यवृत्तिः। एकत्वादिपरार्धपर्यन्ता इति
सङ्ख्यायाः प्रभृति विभागान्ताः गुणाः नवसु अपि द्रव्येषु वर्तन्ते। तथा हि - द्वित्वादीनां वक्ष्यमाणरीत्या (पृ. ८९) कादाचित्कत्वेऽपि एकत्वं सर्वेषु द्रव्येषु सर्वदा भवति । एको घटः एकः आकाशः इत्यादिज्ञानैः तत्सिद्धिः । परिमाणमपि तथा। तस्य अणुमहदादिविभागः ग्रन्थकारेण प्रदर्श्यते। सङ्ख्यावदेव पृथक्त्वम् एकपृथक्त्वं, द्विपृथक्त्वम् इत्येवंविधं भवति । तत्र द्विपृथक्त्वादीनां कादाचित्कत्वेऽपि एकपृथक्त्वं सर्वेषु द्रव्येषु भवति।
संयोगः प्रसिद्धः। स च प्रायः क्रियाजन्यः । आकाशादिद्रव्याणां विभुत्वात् ८८ क्रिया न भवतीति प्राक् निरूपितम् । परन्तु घटादिमूर्तेषु उत्पद्यमानया क्रियया आकाशादौ संयोगः जायते । विभागोऽपि संयोगनाशको गुणः इति लक्ष्यते । तस्यापि विभुद्रव्येषु मूर्तसमवेतक्रियया उत्पत्तिः भवति । आहत्य च नवसु द्रव्येषु एते भवन्ति इति ते साधारणगुणाः इति प्रसिद्धाः ।
उत्पत्तिक्षणे द्रव्ये न गुणकर्मणोः सम्भवः
तत्र कारणत्वविचारे इदमस्माभिः आलोचितं यत् कारणेन कार्योत्पत्तेः प्राक्क्षणे भवितव्यम् । वैशाखक्षणे घटोत्पत्तिश्चेत् चैत्रक्षणे सर्वाणि घटकारणानि साक्षात्परम्परासम्बन्धैः कपाले सन्निहितानि भवन्ति । अयं च नियमः सर्वविधे कारणत्वे आलोचनीयः। तत् वक्ष्यमाणं समवायिकारणं वा भवेत् असमवायिकारणं वा। तथा सर्वभावजन्यान् प्रति द्रव्यमेव समवायिकारणमिति सङ्ख्यादिगुणानामपि उत्पत्स्यमानानां द्रव्यमेव (पृ.८६) समवायिकारणम् ।
असमवायिकारणनिरूपणम्
एवं सति द्रव्योत्पत्तिक्षणे एव तत्र रूपादीनां विशेषगुणानाम्, एकत्वादीनां सामान्यगुणानाम् उत्पत्तिः नः शक्या वक्तुम् । तथात्वे द्रव्यस्य गुणानां च युगपदुत्पत्त्या द्रव्यं गुणोत्पत्तिक्षणपूर्वक्षणवृत्ति न स्यात्, न स्यात् तर्हि तत् गुणान् प्रति कारणमपि । अतः तस्य कारणत्वरक्षायै, उत्पन्नं द्रव्यं क्षणमेकं निर्गुणं निष्क्रियं च तिष्ठति इति नियमः अभ्युपगम्यते । तस्मात् प्रथमक्षणे कार्यं द्रव्यमेव जायते । तदात्मकसमवायिकारण- समवधानेन द्वितीयक्षणे गुणोत्पत्तिः । स्पष्टोऽपि अर्थः चित्रेण बोध्यते ।
चैत्रक्षणः
वैशाखक्षणः
ज्येष्ठक्षणः
आषाढक्षणः
दण्डादि
घटोत्पत्तिः
गुणोत्पत्तिः
रूपादयः
घट
न गुणः
गुणाः
सामग्री
नापि क्रिया
द्रव्यम्
द्रव्यम्
समवधानम्
(घटः)
(घटः)
चि.स.७८
स्थिते चैवं द्वितीयक्षणे एकत्वमेव उत्पद्यते । तच्च एकत्वं द्वित्वस्य ८९ असमवायिकारणम्। अतः एकत्वोत्पत्त्यनन्तरं द्वित्वोत्पत्तिः । तदुत्पत्तिप्रक्रिया च उद्गन्थे द्रष्टव्या ।
- असमवायिकारणनिरूपणम्
अथ किमेतत् असमवायिकारणं नाम । उच्यते - निरूपितं हि समवायिकारणम् । यद्धि स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति । यथा कपालः स्वस्मिन् तादात्म्येन स्थित्वा घटं जनयति । अतः कपालः घटसमवायिकारणम् । तादृशे समवायिकारणे यत् समवायेन स्थित्वा समवायेन कार्यमुत्पादयति तत् असमवायिकारणम्। यथा कपालद्वयसंयोगः घटं प्रति असमवायिकारणं भवति । संयोगो हि गुणः। सः पूर्वोक्तरीत्या समवायेन द्रव्ये कपाले भवति। एवं दण्डचक्रादिकारणसमवधानेऽपि न कपालद्वयसंयोगेन विना घटस्य उत्पत्तिः
[[९०]]
असमवायिकारणनिरूपणम्
भवति। अतः कपालद्वयसंयोगः घटस्य जनकोऽपि भवति । एवं सः कपालरूपघट- समवायिकारणे समवायसम्बन्धेन स्थित्वा घटात्मकं कार्यं जनयति । अतः कपालद्वयसंयोगः घटस्य असमवायिकारणम्।
एवं तन्तुद्वयसंयोगोऽपि तन्तौ समवायेन स्थित्वा तत्रैव समवायेन पटात्मकं कार्यं जनयति इति तन्तुद्वयसंयोगः पटासमवायिकारणम्। यथा समवायिकारणे कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः, तथैव इहापि समवाय एव । कारणाधिकरणे कपालद्वयसंयोगाधिकरणे कपाले घटस्य समवायेनैव उत्पद्यमानत्वात् ।
कारणतावच्छेदकसम्बन्धस्तु समवायिकारणत्वे तादात्म्यं प्रवेशितम् । इह भवति समवाय एव। तथा च समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवाय- सम्बन्धावच्छिन्नकारणताश्रयत्वम् असमवायिकारणत्वम्, असमवायिकारणस्य च तदेव तटस्थलक्षणम् । (पृ.४१)
इदमेव ग्रन्थकृता कार्येण एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायि- कारणमिति उक्तम् । कार्येण घटेन सह एकस्मिन् अर्थे समवेतं समवायसम्बन्धेन विद्यमानं सत् कारणम् असमवायिकारणम्। यद्यपि च मूले कार्येण कारणेन सह एकस्मिन् अर्थे इत्यादि लिखितं, तथापि तत्रत्यः कार्येण सह एकस्मिन् अर्थे समवेतमिति भागः प्रथमासमवायिकारणनिरूपणोपयोगी, कारणेति अंशः द्वितीयस्य असमवायिकारणस्य निरूपणाय । तत्तु यथावसरं निरूपयिष्यते ।
घटः
कपालद्वयसंयोगः
समवायः
एवं द्रव्यगतमेकत्वमपि
समवायेन घटे स्थित्वा तत्र
कपालः
तादात्म्यम्
द्वित्वरूपं गुणमुत्पादयति इति
तत् अपि द्वित्वस्य
असमवायिकारणं भवति ।
समवायः
कपालः
चि.स.७९
- एकत्वस्य द्वैविध्यम्
एकत्वस्य द्वैविध्यम
इदं च द्वित्वासमवायिकारणीभूतम् एकत्वं द्विविधं भवति । जन्ये घटादौ विद्यमानम् अनित्यं, घटोत्पत्तिद्वितीयादिक्षणे रूपादिगुणैः सह उत्पद्यते, कालान्तरभाविद्वित्वादिकं प्रति असमवायिकारणं च । अन्यत्तु एकत्वम् आकाशा- त्मादिनित्यद्रव्यगतम् । तस्य आश्रयस्य नित्यत्वात् तदेकत्वमपि आत्मत्वजातिवत् नित्यम् । भवति च तत् द्वौ आत्मानौ आकाशात्मानौ इत्यादिप्रतीतिविषयद्वित्वं प्रति असमवायिकारणम् । उत्पद्यमानत्वादेव द्वित्वादीनां सिद्धमनित्यत्वम् ।
तदेतत् सर्वम् अनुसन्धाय उक्तमन्नम्भट्टैः
एकत्वं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् । द्वित्वादिकं तु सर्वमनित्यमेव इति ।
अत्र च नित्यपदेन आकाशादयः ग्राह्याः, पृथिव्यादिचतुष्टयस्य परमाणवः अपि शक्याः ग्रहीतुम् । अनित्याश्च घटादयः । लक्षणनिरूपणं तु कालग्रन्थवत् आलोचनीयम् ।
सङ्ख्यालक्षणे परिष्कारः
(पृ.५५) कालनिरूपणे अतीतादिव्यवहारेत्यादिरूपे अतीतत्वं प्रकारः इति चिन्तितम् । अत्र एकत्वादिव्यवहारहेतुः इति लक्षणकरणात् एकत्वादिरूपा सङ्ख्या एव व्यवहारेण जायमाने ज्ञाने प्रकारविधया ग्राह्या । तथा च यावत् एकत्वद्वित्वादिरूपां सङ्खयां न विद्मः तावत् अन्यं बोधयितुम् अयमेकः, इमौ द्वौ इति शब्दप्रयोगं कर्तुं न शक्नुमः। तां च सङ्खयां ज्ञात्वा यदा अयमेकः इति प्रयोगं कुर्मः, तदापरस्य तेन ज्ञानमुत्पद्यते, अयमेकः इत्याकारकम्। तत्र पुरोवर्तिघटादिः विशेष्यविधया भासते, एकत्वं, द्वित्वं वा प्रकारविधया भासते । सा च प्रकारता, प्रकारतायाः अधिकरणे विद्यमानेन एकत्वत्वेन द्वित्वत्वेन वा अवच्छिद्यते । घटे विद्यमानप्रतियोगितायाः घटत्वेन अवच्छेदवत्। तथा च एकत्वत्वावच्छिन्नप्रकारतानिरूपितघटादिनिष्ठ-
९१सङ्ख्यालक्षणे परिष्कारः
विशेष्यतानिरूपकज्ञाननिष्ठ कार्यतानिरूपितकारणताश्रयशब्दप्रयोगनिष्ठ- कार्यतानिरूपितकारणताश्रयः सङ्ख्या। तादृशकार्यतानिरूपितकारणताश्रयत्वं
सङ्ख्यायाः लक्षणम् ।
अवच्छिन्न
। एकत्वत्वम् प्रकारता
कार्यता कारणता कार्यता
कारणता
एकत्वम्
अवच्छिन्न
आश्रयत्वम्
ज्ञानम्
शब्दप्रयोगः
सङ्ख्या
घटत्वम
विशेष्यता
घटः
[[९२]]
चि.स.८०
इत्थमेव च तत्र तत्र योग्यं प्रकारं प्रकारतावच्छेदकं च प्रवेश्य व्यवहारपदघटितानि लक्षणानि परिकर्तुं यतितव्यम्। वयमपि तान् प्रकारान् तत्र तत्र दर्शयिष्यामः।
- मानव्यवहारासाधारणं कारणं परिमाणम् । नवद्रव्यवृत्ति ।
तच्चतुर्विधम् । अणु महत् दीर्घं ह्रस्वं चेति ।
क्रमप्राप्तं परिमाणं लक्षयति । मानव्यवहार इति । इह अयं दीर्घः, अयं लघुः इत्यादिरूपः परिमाणविषयकव्यवहारः ग्राह्यः । तेन च व्यवहारेण शब्दप्रयोगात्मकेन घटादिविशेष्यकं लघुत्वप्रकारकं ज्ञानमुत्पद्यते। तत्र प्रकारता लघुत्वत्वावच्छिन्ना। तथा च लघुत्वत्वावच्छिन्नलघुत्वनिष्ठप्रकारतानिरूपितघटनिष्ठविशेष्यतानिरूपकज्ञान- निष्ठजन्यतानिरूपितजनकताश्रयशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणताश्रयत्वं
परिमाणस्य लक्षणम् ।
परिमाणस्य विभागान्तरम
अवच्छिन्न
लघुत्वत्वम्
प्रकारता
कार्यता कारणता
कार्यता
कारणता
आश्रयत्वम्
लघुत्वम्
ज्ञानम्
शब्दप्रयोगः
परिमाणम्
अवच्छिन्ना
घटत्वम्
विशेष्यता
घटः
चि. स. ८१
अस्य विभागमाह अणु महत् दीर्घं ह्रस्वं चेति । अत्रेदं वक्तव्यम् । पृथिवीनिरूपणे (पृ. ४०) गन्धवती का इति प्रश्ने पृथिवी इति समाधानम्, पृथिवी कीदृशी इति पृष्टे गन्धवती इति समाधानम्। अतः गन्धवती इति शब्दः पृथिवीमेव ब्रूते । तस्मात् पृथिवीवृत्तिधर्मबोधनाय गन्धवत्त्वं पृथिवीलक्षणमिति वाच्यमित्युक्तम्।
तद्वदेव महत् आकाशं दीर्घं क्षेत्रमिति व्यवहारात् अणुमहदादिविभागः मूलोक्तः न परिमाणस्य, किन्तु तादृशपरिमाणवतां भवेत्, अतः इहापि परिमाणबोधनाय भाववाचकप्रत्ययः योजनीयः । तथा च अणुत्वम्, महत्त्वम्, दीर्घत्वम्, ह्रस्वत्वमिति चतुर्विधं परिमाणं मूलोक्तं बोध्यम् ।
परिमाणस्य विभागान्तरम्
कार्यकारणभाववर्णनाय अन्योऽपि परिमाणस्य विभागः न्यायशास्त्रे प्रसिद्धः । स च अणुपरिमाणं, मध्यमपरिमाणं, परममहत्परिमाणम् इति। तत्र परमाणुपरिमाणं परमाणुद्बणुकयोः, मध्यमपरिमाणं जन्ये द्रव्ये घटादौ, परममहत्परिमाणम् आकाशादि- द्रव्येषु ज्ञेयम्। तत्रापि आद्यान्तिमयोः कापि परिमाणं प्रति न कारणत्वम् ।
[[९३]]
द्वितीयासमवायिकारणवर्णनम्
मध्यमपरिमाणं तु भवति स्वाश्रयजन्यद्रव्यस्य उत्कृष्टपरिमाणं प्रति असमवायिकारणम्। तथा हि - घटस्य यावत्परिमाणं कुलालः इच्छति, तज्जननयोग्य- परिमाणकौ कपालौ एव तेन स्वीकार्यौ । तुल्यपरिमाणकयोः कपालयोः तद्द्विगुणित- परिमाणवद्घटस्य जननदर्शनात् । इदमेव च अवयवपरिमाणापेक्षया अवयविनः महत्परिमाणं शास्त्रे उत्कृष्टं परिमाणम् इति व्यवह्रियते । एवं च यथा कपालद्वयसंयोगः कपाले समवायेन स्थित्वा तत्रैव घटं जनयति, यथा वा एकत्वं घटे समवायेन स्थित्वा तत्रैव समवायेन द्वित्वं जनयति, तथैव कपालपरिमाणमपि कपाले समवायेन स्थित्वा घटपरिमाणं जनयति इति कपालपरिमाणमपि असमवायिकारणम् । परन्तु अत्रास्ति कश्चित् विशेषः ।
- द्वितीयासमवायिकारणवर्णनम्
कपालघटगतयोः परिमाणयोरस्ति
कारणता
कार्यता
कार्यकारणभावः आनुभविकः परन्तु
चित्रेणेदं स्पष्टं यत् द्वयोः सामानाधिकरण्यं परिमाणम्
परिमाणम्
नास्ति। कपालस्य परिमाणं, तद्गुणः, तत्रैव
[[९४]]
समवायेन स्यात् । घटपरिमाणं च तद्गुणः
कपालः
घटः
तत्र समवेतः भवेत् । अतः तयोः सामानाधि-
चि.स.८२
करण्यनिर्वाहाय, कार्यं घटपरिमाणं कारणाधिकरणे कपाले परम्परासम्बन्धेन नेतव्यम्
स च परम्परासम्बन्धः स्वसमवायिसमवायित्वसम्बन्धः । स्वं घटपरिमाणं, तत्समवायी
घटपरिमाणम्
समवायसम्बन्धः
घटः
समवायसम्बन्धः
कपालपरिमाणम् समवायसम्बन्धः
कपालः
चि.स.८३
घटः तत्समवायी कपालः, समवायित्वं कपाले इति स्वसमवायिसमवायित्व- सम्बन्धेन घटपरिमाणं कपाले प्राप्तम् ।
तत्रैव च कपालपरिमाणमपि समवायेन वर्तते इति कार्यकारणयोः कपाले सामानाधिकरण्यं सम्पन्नम् ।
द्वितीयासमवायिकारणवर्णनम्
इदमेव च द्वितीयमसमवायिकारणत्वं यत् स्वसमवायिसमवायित्वरूप- परम्परासम्बन्धेन यत् कार्याधिकरणं तत्र समवायसम्बन्धेन स्थित्वा कार्यजनकत्वम् ।
इदमेव ग्रन्थकृता कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणमसमवायि- कारणमित्युक्तम् । इह कारणपदेन, यस्य कार्यस्य विचारः क्रियते तस्य समवायिकारणं ग्राह्यम् । प्रकृतकार्यं, घटपरिमाणम्, तत्समवायिकारणं, घटः तेन सह एकस्मिन् अर्थे, कपाले समवेतं, समवायसम्बन्धेन विद्यमानं कपालपरिमाणं, घटपरिमाणस्य कारणं भवति, इति तत् घटपरिमाणस्य असमवायिकारणम् ।
।
यद्यपि मूले अस्यां पङ्क्तौ कार्येण कारणेन सहेत्यादि लिखितं, परन्तु तत्रत्यः कार्येण इति अंशः प्रथमासमवायिकारणपरः (पृ.९०) व्याख्यातः । कारणेति प्रकृतसम्बद्धम्। तथा च कार्येण सह एकस्मिन् अर्थे समवेतं सत् कारणमिति आद्यं, कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणमिति अपरम्, असमवायि- कारणं सिद्ध्यति।
यद्यपि सर्वमिदं मूलपङ्क्तिव्याख्यानावसरे एव वक्तुमुचितम्, तथापि समवायिकारणासमवायिकारणादिविभागात् प्रागेव मूले गुरुत्वलक्षणे असमवायि- कारणोल्लेखः वर्तते इति तन्निरूपणे ग्रहणे च सौकर्याय, प्रसङ्गात् सङ्ख्यापरिमाणनिरूपणे एव तन्निरूपणं कृतम् । मूलपङ्क्तिव्याख्यानावसरे तु विशेषं कञ्चन पश्यामः ।
प्रकृमनुसरामः। क्रमप्राप्तं पृथक्त्वं लक्षयति -
- पृथक्व्यवहारासाधारणं कारणं पृथक्त्वम् । सर्वद्रव्यवृत्ति इति ।
अस्य प्रत्ययः सर्वद्रव्येषु भवति । घटः पटात् पृथक्, आत्मा आकाशात् पृथक्, मनः कालात् पृथक् इत्यादिज्ञानानां जायमानत्वात्। अतः अयमपि गुणः नवद्रव्यवृत्तिः । तमेव ज्ञात्वा घटः पटात् पृथक् इति कश्चित् प्रयुङ्क्ते । तेन च शब्दप्रयोगेण श्रोतुः घटविशेष्यकपृथक्त्वप्रकारकं ज्ञानमुत्पद्यते । तथा च
घटत्वावच्छिन्नविशेष्यतानिरूपितपृथक्त्वत्वावच्छिन्नप्रकारतानिरूपक-
[[९५]]
भेदस्य पृथक्त्वस्य च को विशेषः ?
अवच्छिन्न
पृथक्त्वत्वम्
प्रकारता कार्यता
कारणता
कार्यता कारणता
पृथक्त्वम्
आश्रयत्वम्
ज्ञानम्
शब्दप्रयोगः
पृथक्त्वम्
अवच्छिन्ना
घटत्वम विशेष्यता
घटः
चि.स. ८४
[[९६]]
ज्ञाननिष्ठकार्यतानिरूपितकारणताश्रयशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणताश्रयः
पृथक्त्वं, तादृशकारणताश्रयत्वं पृथक्त्वस्य लक्षणम् ।
- भेदस्य पृथक्त्वस्य च को विशेषः ?
अत्रेदं वक्तव्यम् । घटः पटो न, घटः पटात् भिन्नः इत्यादिप्रत्ययाः अन्योन्याभावं तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावरूपं साधयन्ति इति (पृ.४८) उक्तम्। तैः ज्ञानैः सिद्ध्यन् पदार्थः अभावरूपः। अतः सः सर्वपदार्थवृत्तिः। रूपं न घटः इति प्रत्ययेन हि घटभेदस्य रूपवृत्तित्वं सिद्ध्यति । तथैव उत्क्षेपणं न पटः, घटत्वं पटत्वात् भिन्नम्, एतद्विशेषः तद्विशेषात् भिन्नः, समवायः न संयोगः, घटाभावो न पटाभावः इत्यादिप्रत्ययैः च क्रियादिनिष्ठत्वमपि सिद्ध्यति। तथा च भेदः अन्योन्याभावः सर्वत्र वर्तते ।
परन्तु पृथक्त्वं, घटः पटात् पृथक् इति प्रत्ययविषयः, द्रव्ये एव भवति न तु गुणादौ । गुणादिसमवायिकारणता द्रव्ये एव भवतीति प्रागुक्तम् । अकारणे गुणे कथं पृथक्त्वरूपं कार्यमुत्पद्येत। कस्यचित् गुणे जायमानोऽपि रूपं घटात् पृथक् इति प्रत्ययः, न पृथक्त्वरूपं गुणमवगाहते किन्तु घटभेदमेव रूपनिष्ठम्। तस्मात् पृथक्त्वं
भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः
भेदात् विलक्षणं, अतिरिक्तः गुणः द्रव्यमात्रवृत्तिरिति मनसि निधाय उक्तं ग्रन्थकृता नवद्रव्यवृत्ति इति । द्रव्यभिन्ने नास्तीति अपि तदर्थः । तेन च सर्वपदार्थवृत्तिः यः भेदः तस्मात् अस्य वैलक्षण्यं सूचितम् ।
एतल्लक्षणे असाधारणं कारणमिति निर्देशः कृतः । किं तेन ज्ञायते ? साधारणकारणात् भिन्नं कारणम् । किं साधारणकारणम् ? यत् सर्वं कार्यं जनयितुम् आवश्यकम्। यथा पूर्वोक्तः प्रागभावः । न हि तेन विना किञ्चित् कार्यं जायते। अतः सः साधारणकारणम्। तद्भिन्नम् असाधारणम्। यत् कार्यविशेषमेव जनयति न सर्वं कार्यम्। यथा कपालः घटमेव जनयति । तन्तुः पटमेव। प्रकृतेऽपि पृथक् इति शब्दप्रयोगः पृथक्त्वपदार्थे स्वीकृते एव भवति। परन्तु सः पदार्थः अन्यानि घटादिकार्याणि न जनयति। अतः सः तादृशव्यवहारस्य असाधारणकारणं भवति। (पृ.१३७) विशेषस्तु अग्रे वक्ष्यते।
सूक्तिललन्तिका
- भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः
अत्रेदं विचार्यते। भवति भेदेन सर्वत्र निर्वाहः । ये तावत् पूर्वोक्ताः प्रत्ययाः पृथक्त्वावगाहित्वेन उपन्यस्ताः तेषां हि भेद एव विषयः । न च विनिगमनाविरहः। रूपादौ रसादिप्रतियोगिकभेदस्य उभयवादिसिद्धस्य क्लृप्तत्वात्। गुणे गुणानङ्गीकारेण पृथक्त्वेन रूपं न रसः इत्यादिप्रतीतेः अनिर्वाहात् ।
यत्तु भेदस्थले प्रतियोग्यनुयोगिवाचकपदयोः प्रथमाविभक्तिः, पृथक्त्वस्थले तु अवधिवाचकपदात् पञ्चमी आश्रयवाचकपदाच्च प्रथमा इति पदार्थयोः भेदसाधकं क्वचिदुक्तम्। तत्तु प्रक्रियामात्रम् । घटात् अन्यः पटः, भिन्नः पटः इत्यादिप्रयोगनिर्वाहाय नञ्पदसमभिव्याहारे एव तादृशविभक्तिनियमस्य उपयोगात् । पदभेदस्य अर्थभेदे अप्रयोजकत्वाच्च। कृञः द्वितीयासाकाङ्क्षत्वात् यततेस्तु तदभावात्, आद्येन कर्मसापेक्षकृतेः द्वितीयेन कर्मनिरपेक्षकृतेः अर्थान्तरस्य वा बोधः इत्यस्यापि स्वीकारापत्तेः।
[[९७]]
[[९८]]
भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः
अतः एवं वाच्यम्। मूर्तगतक्रियया तस्य मूर्तान्तरेण विभुना च संयोगो भवति। एवम् अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते इत्यपि अविवादम्। हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगो जायते इत्यस्यापि संयोगप्रकरणे निरूपणात्।
स च कर्मजः संयोगजो वा संयोगः अवयवकर्मणा अवयवसंयोगेन वा मूर्तान्तरे जायमानः अवयविनि तावत् न जायते इत्यवश्यं वाच्यम्। अन्यथा कपालक्रियया कपालः घटेन संयुक्तः, कपालसंयोगेन कपालः घटेन संयुक्तः इत्यस्य स्वीकारापातात् ।
कुतः एषः अवयविनि घटे नोत्पद्यते इति विचारे मूर्तयोः युतसिद्धयोरेव कर्मजः संयोगजः वा संयोगो भवति नान्ययोरिति निश्चितम् । कौ युतसिद्धौ ? पृथगाश्रयाश्रितौ । वृक्षः खलु स्वावयवे स्थितः पक्षी स्वावयवे च । उत्पन्नायां पक्षिणि पुनः क्रियायां जायते कर्मजः संयोगः ।
एवं शरीरं तरुश्च स्वावयवे स्थितौ। ततः हस्तक्रियया हस्ततरुसंयोगः, तेन च शरीरतरुसंयोगः इति हि स्थितम् । एवञ्च पृथगाश्रयाश्रितयोरेव युतसिद्धयोरेव मूर्तयोः जायते उभयविधसंयोगः इत्यागतम्। तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वम्।
कथम् ? उच्यते। पृथगाश्रयाश्रितावित्यस्य पृथक्त्ववन्तौ यौ आश्रयौ तदाश्रितौ इत्यर्थः। तादृशयोः वृक्षपक्षिणोः जायते संयोगः । एवं संयोगजसंयोगेऽपि ।
कपालभूतलयोः पृथगाश्रयाश्रितत्वेन तयोः संयोगसम्भवेऽपि घटकपालयोः तथाविधत्वाभावात् न तयोः कर्मजसंयोगजसंयोगोत्पत्तिः। न च गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् भूतलावधिकत्वस्येव कपालावधिकत्वस्यापि आवश्यकत्वात् तद्दोषतादवस्थमिति वाच्यम्। वक्ष्यमाणविभागस्य द्रव्योत्पत्तिद्वितीयादिक्षणेषु जायमानस्यापि न निखिलावधिकत्वं किन्तु स्वनाश्यसंयोगाश्रयावधिकत्वमेव हि नियमेन स्वीक्रियते ।
भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः
तथा इदं पृथक्त्वमपि द्वितीयादिक्षणे जायमानं स्वाश्रयसमवायिकारणपरम्परायां परमाण्वन्तं यन्मूर्तं तदतिरिक्तावधिकमेव जायते इति स्वीकारात् । न चैवं परमाणुद्वयसंयोगानुपपत्तिः। तयोः अनाश्रितत्त्वादिति वाच्यम्। तत्र स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात् ।
इत्थमेव मूर्तविभुसंयोगस्थले संयुक्तयोः पृथगाश्रयाश्रित्वस्य असम्भवेऽपि एकस्य मूर्तस्य पृथगाश्रयाश्रितत्वात् संयोगोपपत्तिः । नचैवं घटकपालयोः मध्येऽपि कपालस्य कापलिकाश्रितत्वात् घटस्य च कपालाश्रितत्वात् पृथगाश्रयाश्रितत्वस्य सम्भवेन कपालक्रियया घटकपालयोः संयोगापत्तिः सर्वादौ उक्ता अनिवार्या एव इति वाच्यम् । समानदिग्भागव्यापिनां दिगुपाधिभूतानां घटावयवपरम्परागतानां कपालकपालिकादीनां परस्परावधिकपृथक्त्वस्य अस्वीकारात् ।
किञ्च विभागे, विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे च विस्पष्टं प्रतीयमानम् अवधित्वं, भेदीयप्रतियोगिता च तादात्म्याद्यनेकपदार्थज्ञानाधीनज्ञानविषयः इत्यनयोः विषययोः चिन्तनेऽपि पृथक्त्वम् अतिरिक्तः गुणः इति प्राचीनानामाशयः न स्थूलबुद्ध्या विचारणीयः इति तावत् मम प्रतिभाति इति दिक् ।
- संयोगनिरूपणम्
संयोगं क्रमप्राप्तं लक्षयति -
संयुक्तव्यवहारहेतुः संयोगः । सर्वद्रव्यवृत्तिः इति ।
आदौ वियुक्तयोः हस्तयोः क्रियावशात् संयोगाख्यः गुणः उत्पद्यते। तं च संयोगं ज्ञात्वा इमौ संयुक्तौ इति शब्दप्रयोगरूपः व्यवहारः भवति । तेन च शब्दप्रयोगेण जिज्ञासवः प्रतिपद्यन्ते हस्तौ संयुक्तौ इति ।
तथा च हस्तत्वावच्छिन्नविशेष्यतानिरूपितसंयोगत्वावच्छिन्नप्रकारता- निरूपकज्ञाननिष्ठकार्यतानिरूपितकारणताश्रयशब्दप्रयोगनिष्ठकार्यतानिरूपित- कारणताश्रयः संयोगः। तादृशकारणताश्रयत्वं संयोगस्य लक्षणम्। इमौ संयुक्तौ इत्याकारकं ज्ञानमादाय समन्वयः प्रदर्शनीयः ।
[[९९]]
संयोगनिरूपणम् अवच्छिन्ना
संयोगत्वम्
प्रकारता कार्यता कारणता
कार्यता
कारणता
संयोगः
आश्रयत्वम्
ज्ञानम्
शब्दप्रयोगः
संयोगः
अवच्छिन्ना
हस्तत्वम् विशेष्यता
हस्तः
चि.स.८५
क्रियायाः उत्पत्तिनाशयोः निरूपणप्रसङ्गे संयोगस्यापि उत्पत्तिः निरूपितैव ।
इह च स्मार्यते ।
आद्यक्षणः
द्वितीयक्षणः
तृतीयक्षणः
चतुर्थक्षणः
चतुर्थक्षणः
पञ्चमक्षणः
घटे
[[१००]]
यस्मिन्
तेन विभागेन
अन्येन
क्रियानाशः
क्रिया
आकाशदेशे
आकाशदेश- आकाशदेशेन
घटः स्थितः
घटयोः
सह संयोगः
ततः विभागः
संयोगस्य
नाशः
संयोगस्य प्रकाराः
पुनरपि घटे क्रियोत्पत्तौ पुनरपि एवमेव इति क्षणपञ्चकव्यापिनी इयं प्रक्रिया भवति। तेन इदं ज्ञायते यत्, क्रियया तादृशसंयोगः उत्पद्यते, पुनश्चाग्रिमक्रियया विभागोत्पत्तौ तेन विभागेन पूर्वसंयोगस्य नाशश्च ।
अस्य संयोगस्य उभयकर्मजन्यत्वेन एकतरकर्मजन्यत्वेन च अवान्तरविभागः शास्त्रे प्रसिद्धः। संयुक्तपदार्थयोः यदा उभयत्रापि क्रिया, ताभ्यां च क्रियाभ्यां यः
संयोगस्य प्रकाराः
संयोगः सः उभयक्रियाजन्यः। यथा मेषयोः संयोगः उभयक्रियाजन्यः। स्थिरे वृक्षे पक्षी संयुक्तः इति प्रत्ययसिद्धः संयोगस्तु पक्षिनिष्ठक्रियाजन्यः ।
अस्य संयोगस्य अन्योऽपि विभागः अभिघातः, नोदनमिति भेदेन दर्शितः । यः संयोगः शब्दं जनयति सः अभिघातः। यदा उपाध्यायः शिष्याय चपेटिकां ददाति तदा हस्तकपोलसंयोगः उत्पद्यते। सः शब्दं जनयति इति सः अभिघातः इत्युच्यते । तदितरस्तु नोदनं यः शब्दं न जनयति । अतिमन्दस्य वायोः तृणादिभिः संयोगः इह उदाहर्तव्यः यः न शब्दं जनयेत्। कश्चन संयोगजसंयोगोपि शास्त्रे प्रसिद्धः मुक्तावल्यादौ
अवगन्तव्यः ।
संयोगः
क्रियाजन्यः संयोगजन्यः
अभिघातः
नोदनम्
एकतरक्रियाजन्यः ।उभयतरक्रियाजन्यः
विभागं लक्षयति
चि.स.८६
संयोगनाशको गुणो विभागः। सर्वद्रव्यवृत्तिः इति ।
संयोगप्रक्रियायां क्रियोत्पत्तिद्वितीयक्षणे अयं गुणः उत्पद्यते । पूर्वदेशसंयोगस्य नाशकश्च भवति । तत्प्रक्रिया च संयोगनिरूपणे अनुपदमेव निरूपिता ।
संयोगनाशात् विभागः नातिरिक्तः इत्याक्षेपः
अत्रेदं चिन्त्यते । क्रिया, क्रियातो विभागः, विभागात् पूर्वसंयोगनाशः ततः संयोगान्तरोत्पत्तिः, ततः क्रियानाशः इति प्रक्रिया तदा युज्यते यदा संयोगनाशात् अतिरिक्तः कश्चित् विभागाख्यः गुणः अभ्युपगम्येत । सः एव तु नाङ्गीक्रियते ।
१०१संयोगनाशात् विभागः नातिरिक्तः इत्याक्षेपः तत्परिहारश्च
आक्षेपममुं केचन इत्थं परिहरन्ति । यथा क्रियोत्पत्त्यनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धप्रत्ययेन संयोगनाशः सिद्ध्यति तथैव घटपटौ विभक्तौ इति भावपदार्थम् अवगाहमानेन ज्ञानेन संयोगध्वंसातिरिक्तः विभागाख्यः गुणः सिद्ध्यत्येव इति ।
- सूक्तिललन्तिका
तदपरे न सहन्ते । तेषामयमाशयः । घटपटौ विभक्तौ इति प्रत्ययोऽपि न भावपदार्थं प्रकाशयति किन्तु संयोगाभावमेव। तस्य भावपदार्थान्तरावगाहित्वेऽपि तादृशविभागोत्पत्तिक्षणे एव पूर्वसंयोगध्वंसस्यापि उत्पत्तिसम्भवेन विभागस्य संयोगनाशरूपकार्यपूर्ववृत्तित्वाभावात् मूलोक्तं संयोगनाशको गुणो विभाग इति असङ्गतमिति ।
अत्रोच्यते । नाशापरपर्यायः ध्वंसस्तावत् कस्य कस्य केन केन कारणेन उत्पद्यते इति तावत् आलोचयामः । प्रागभावं विहाय सामान्यादीनां न भवति एव नाशः । १०२ प्रागभावस्तावत् प्रतियोगिसामग्र्या नश्यति । दण्डचक्रादिसमवधाने कपालद्वय- संयोगोत्पत्तिक्षणे हि घटसामग्री । तदग्रिमक्षणे घटोत्पत्तिः । तस्मिन् क्षणे प्रागभावस्य नाशः। एवं क्रियानाशः उत्तरदेशसंयोगात् भवति । अभिघातादिसंयोगवशात् घटादौ क्रिया । ततः सम्प्रति साधयितुमिष्टः विभागः । ततः पूर्वदेशसंयोगनाशः । ततः उत्तरदेशसंयोगोत्पत्तिः । तदग्रिमक्षणे नश्यति क्रिया ।
द्रव्यनाशः तर्हि केन जायते ? समवायिकारणनाशात् । लगुडादिपातेन कपालनाशे सति अग्रिमक्षणे घटनाशः लोकसिद्ध एव । कपालद्वयसंयोगरूपासमवायि- कारणनाशादपि भवति गुणनाशः । कश्चित् परीक्षकः घटमादत्ते । किञ्चित् शस्त्रमादाय मृदादिलेपेन कुलालेन यः कपालद्वयसंयोगः उत्पादितः तमेव नाशयति । न हि तेन कपालः नष्टः। तथापि घटो नश्यति । अतः यथा कपालनाशात् घटो नश्यति तथा कपालद्वयसंयोगनाशादपि। तथा च द्रव्यनाशः समवायिकारणनाशात् असमवायि- कारणनाशाद्वा भवति इति आगतम् ।
संयोगनाशात विभागः नातिरिक्तः इत्याक्षेपः तत्परिहारश्च
गुणनाशं सम्प्रति चिन्तयामः। गुणसमवायिकारणनाशात् भवति गुणनाशः। यथा घटे नष्टे तद्रूपं नश्यति। निमित्तकारणनाशादपि भवति गुणनाशः। द्वित्वसङ्खयां प्रति द्रव्यं समवायिकारणं, दर्शितरीत्या (पृ. ८९) आश्रयगतमेकत्वं च असमवायिकारणं भवति। एवं अपेक्षाबुद्धिः इति ज्ञानविशेषः निमित्तकारणं भवति इति वैशेषिकाः वदन्ति । तस्याः नाशेन द्वित्वादिसङ्ख्यानाशं च । एतत्तत्त्वं परिशिष्टे द्रष्टव्यम् । तथा च अत्र निमित्तकारणनाशात् गुणनाशः ।
समानाधिकरणगुणेनापि भवति गुणनाशः । यथा घटे तेजःसंयोगेन श्यामादिरूपनाशः। पृथिव्यां द्रवत्वनाशोऽपि तेजः संयोगादेव। आत्मगुणः संस्कारः कालात्, रोगात्, चरमेण स्मरणेन वा नश्यति। चिरं यः पदार्थः न अस्माभिः स्मृतः तस्य कालान्तरेण स्मर्तुं प्रयासे क्रियमाणेऽपि न सः स्मर्यते । कुतः ? कालवशात् नष्टः संस्कारः। वार्धक्यादिना रोगाक्रान्ते शरीरे न स्मरति अनुभूतं विषयम् । तत् कुतः ? रोगेण नष्टः संस्कारः।
चरमस्मरणेनापि नश्यति संस्कारः । अजिज्ञासितोऽपि अर्थः इन्द्रिय- सन्निकर्षादिना अस्माभिः ज्ञातः इति मन्यताम्। तेन संस्कारः उत्पन्नः। संस्कारेण एकवारं द्विवारं वा स्मरणमपि तस्य पदार्थस्य जातम्। परन्तु अनपेक्षितत्वात् सः पदार्थः न पुनः कदापि स्मृतः । किं तथासति संस्कारः आत्मनि तथैव तिष्ठेत् ? न, प्रयोजनाभावात्। स्मरणाय खलु संस्कारः । यदि न सः विषयः पुनः स्मृतः, कः लाभः तदात्मनि सः संस्कारः तथैव तिष्ठति इति कल्पनया ? अतः द्वितीयवारं यत्स्मरणमभूत् तेन चरमेण स्मरणेन सः संस्कारः नष्टः इति चिन्तनम् उचितम् ।
सङ्ङ्क्षेपतश्च गुणनाशः समवायिकारणनाशात् निमित्तकारणनाशात् समानाधिकरणगुणान्तरेण कालेन रोगेण चरमस्मरणेन वा भवतीति आगतम् ।
विभागसाधनाय खलु अस्माभिः प्रवृत्तम् । कः लाभः अस्य विवरणस्य ? वक्ष्यमाणानुमाने विभागसाधके विवरणसौकर्यं भविष्यति। किमनुमानम् ? उच्यते।
[[१०३]]
[[१०४]]
दिक्कृतपरापरत्त्वनिरूपणम्
आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुण- नाशत्वात् पाकजरूपनाशवत्। दृष्टान्ते तादृशः समानाधिकरणः गुणः तेजःसंयोगः। तथा च क्रिया ततः विभागः ततः पूर्वदेशसंयोगनाशः ततः उत्तरदेशसंयोगः ततः क्रियानाशः इति वैशेषिकप्रक्रियायां विभागकल्पनं समर्थितं भवति। आश्रयनाशाजन्यः तत्र संयोगनाशः इति तदर्थं समानाधिकरणगुणान्तरम् आवश्यकम्। स गुण एव विभाग इति। विशेष-कोटिक्रमः परिशिष्टात् अवगन्तव्यः।
अस्यापि हि विभागस्य विभागजविभागः इति कश्चित् अस्ति विवादास्पदः प्रकारः। सः मुक्तावल्यादौ अवगन्तव्यः ।
- क्रमप्राप्ते परापरत्वे लक्षयति
परापरव्यवहारासाधारणकारणे परत्वापरत्वे । पृथिव्यादितुष्टयमनोवृत्तिनी । ते द्विविधे दिक्कृते कालकृते च । दूरस्थे दिक्कृतं परत्वम् । समीपस्थे दिक्कृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वम् । कनिष्ठे कालकृतमपरत्वम् इति ।
दिक्कृतपरापरत्त्वनिरूपणम्
आदौ दिक्कृते परत्वापरत्वे निरूप्येते। अनयोरुपपादनाय पदार्थत्रयं स्वीकुर्मः ।
प्राची
चैत्रः
मैत्रः
यज्ञदत्तः
इह यज्ञदत्तः अस्ति द्रष्टा । सः यदा प्राच्यां चैत्रं मैत्रं च पश्यति तदा मन्यते चैत्रः मैत्रापेक्षया दूरे वर्तते । एवं मैत्रः चैत्रापेक्षया समीपे वर्तते इति । तत्र यः दूरे प्रतीयते तस्मिन् दिक्कृतं परत्वम् उत्पद्यते। यः समीपे भवति, तस्मिन् दिक्कृतम् अपरत्वम् उत्पद्यते।
सत्यम्, व्यवहारः दूरे, समीपे इति प्रसिद्धः । अङ्गीकृतं च तस्य हेतुः परत्वमिति, अपरत्वमिति गुणान्तरमपि । वैपरीत्यमेव कुतो न? मैत्र एव तु परत्वमस्तु । अस्तु च चैत्रे अपरत्वमिति चेत्, उच्यते । तुल्यं स्थौल्यं येषां वर्तते तादृशकाष्ठफलकान् आदाय
कालदिक्कृतयोः परत्वापरत्वयोः विशेषः
यज्ञदत्तः यस्मिन् देशे स्थितः तं देशमारभ्य यदि तेषां स्थापनं आरभामहे तदा एकम्, द्वे, त्रीणि इत्यादिक्रमेण स्थापने मैत्रपर्यन्तं यदि त्रिंशत् काष्ठफलकाः स्थापिताः भवन्ति, तदा चैत्रपर्यन्तं केचन फलकाः अधिकाः स्थाप्याः स्युः । तच्चाधिक्यं कदाचित् एकेन फलकेन द्वाभ्यां फलकाभ्यां वा स्यात्, तयोः अन्तराधिक्ये च फलकानां शतेन वापि स्यात् ।
तथा च यज्ञदत्तं प्रतीच्यां मत्त्वा तत्प्राग्देशे फलकस्थापने यद्देशप्राप्तिपर्यन्न्तं फलकाः अधिकाः भवन्ति तत्रैव परत्वाख्यः गुणः उत्पद्यते। प्रकृते चैत्रः तथाविधः। तस्य यः देशः तत्प्राप्तिपर्यन्तं फलकाः त्रिंशतः अधिकाः । अतः चैत्रः परत्ववान् भवति इति तमेव वयं दूरे स्थितः विप्रकृष्टः इति वा व्यवहरामः ।
तथैव यज्ञदत्तं प्रतीच्यां मत्त्वा फलकस्थापने यद्देशप्राप्तिपर्यन्तं फलकाः न्यूनाः भवन्ति तत्रैव अपरत्वाख्यः गुणः उत्पद्यते । प्रकृते मैत्रः तादृशः । तस्य यः देशः तत्प्राप्तिपर्यन्तं फलकाः, चैत्रदेशप्राप्त्यनुकूलफलकापेक्षया न्यूनाः, त्रिंशदेव । अतः मैत्रः अपरत्ववान् भवति इति तमेव वयं समीपे स्थितः, सन्निकृष्टः इति वा व्यवहरामः । कालदिक्कृतयोः परत्वापरत्वयोः विशेषः
[[१०५]]
परत्वम्
अपरत्वम् तुल्यपरिमाणवन्तः फलकाः
प्राची चैत्रः
मैत्रः
यज्ञदत्तः प्रतीची
५ फलकाः
३० फलकाः
विप्रकृष्टः
सन्निकृष्टः
चि.स. ८७
अत्रायमपरो विशेषः । यज्ञदत्तमेव यदि वयं चैत्रमैत्राभ्यां प्राच्यामानयामः, तदा, पूर्वं यच्चिन्तितं, तद्विपरीतं भवति । यज्ञदत्तात् प्रतीचीं प्रति काष्ठफलकानां स्थापने चैत्रपर्यन्तं यावन्तः फलकाः भवेयुः तदपेक्षया मैत्रपर्यन्तम् अधिकाः भवेयुः ।
सोदाहरणं कालिकपरापरत्वनिरूपणम्
एवं सति चैत्रः भवेत् सन्निकृष्टः, मैत्रस्तु विप्रकृष्टः । मैत्रे तर्हि परत्वमुत्पद्यते, चैत्रे च अपरत्वमुत्पद्यते । इदं सर्वमपि प्राचीं, प्रतीचीं चादाय, काष्ठफलकरूपान् दिगुपाधीन् च आदाय भवतीति इदमेव दिक्कृतं परत्वं, दिक्कृतम् अपरत्वमिति चोच्यते। नैतादृशंवैपरीत्यं वक्ष्यमाणयोः कालकृतपरत्वापरत्वयोः भवति। ज्येष्ठे सर्वदा परत्वस्य, कनिष्ठे सर्वदा अपरत्वस्यैव उत्पद्यमानत्वात् । विभुद्रव्ये आकाशादौ समीपे दूरे इत्यादिव्यवहारः न सम्भवति। अतः अनयोः पृथिव्यादिचतुष्टये मनसि च वृत्तित्वं मूले निरूपितम्।
- एतावता दिकृते निरूपिते। सम्प्रति कालकृते परत्वापरत्वे निरूप्येते।
सोदाहरणं कालिकपरापरत्वनिरूपणम्
इह रूपादिवत् अनयोः निरूपणे अन्यव्याख्यासु नाधिकमुक्तमिति विषयममुं स्फुटं निरूपयामः।
लोकप्रसिद्धं हि इदं यत् रामः लक्ष्मणस्य ज्येष्ठभ्राता, लक्ष्मणः रामस्य कनिष्ठः इति। इयं ज्येष्ठता एव शास्त्रे परत्वमिति उच्यते कनिष्ठता च अपरत्वम् । अत्र रामः कुतः १०६ ज्येष्ठः इति प्रश्ने पूर्वमुत्पन्नः इति समाधानम्। लक्ष्मणः पश्चात् उत्पन्नः इति हेतोः
कनिष्ठः इति च समाधानम् ।
तत्र पुर्वमुत्पन्नं यत् शरीरं तत्, अहर्निशं भ्रमतः सूर्यस्य याः क्रियाः तासां यद्यपि न समवायेन आश्रयः, क्रियायाः स्वसमवायिकारणे सूर्ये एव समवायेन सत्वात्, तथापि तत् तादृशक्रियाणां परम्परया आश्रयः भवति । कपालस्य स्वसमवायि- समवायित्वसम्बन्धेन घटपरिमाणाश्रयत्ववत्। परन्तु अत्रत्यः परम्परासम्बन्धः भवति स्वाश्रयतपनसंयुक्तकालसंयुक्तत्वम्। कालस्य विभुत्वं, सर्वमूर्तैः सह संयोगः तन्निरूपणे उक्त एव। एक एव कालः तपनेन सूर्येण सह संयुक्तः रामशरीरेण च।
[[१]]
एवं च परम्परासम्बन्धे स्वं रविक्रिया, स्वाश्रयः रवि : ’ स्वाश्रयसंयुक्तः कालः स्वाश्रयतपन-संयुक्तकालसंयुक्तं रामशरीरम् । अतः संयुक्तत्वं रामशरीरेऽस्तीति अनेन परम्परासम्बन्धेन सूर्यक्रिया रामशरीरे आगता ।
[[१]]
तपनः।
सोदाहरणं कालिकपरापरत्वनिरूपणम्
इत्थमेव च ताः क्रियाः लक्ष्मणशरीरेऽपि सन्ति । स्वं क्रिया, स्वाश्रयः तपनः
तत्संयुक्तः कालः तत्संयुक्तत्वं लक्ष्मणशरीरेऽपि वर्तते इति हेतोः ।
एवं च रामशरीरे लक्ष्मणशरीरे च अस्माभिः रविक्रियाः आनीताः ।
क्रिया
समवायः
तपनः संयोगः कालः संयोगः रामशरीरम्
चि.स.८८
परन्तु लक्ष्मणशरीरे परम्परासम्बन्धेन यावत्यः क्रियाः आगताः ततः पूर्वं काश्चन क्रियाः रामशरीरे आगताः । तासाम् आश्रयः लक्ष्मणशरीरं नैव भवितुमर्हति । कथं हि तत् अनुत्पन्नमेव क्रियाणामाश्रयः भवेत् । ताश्च काश्चन क्रियाः रामशरीरेण अनुभूता इति रामशरीरं लक्ष्मणशरीरसम्बद्धक्रियापेक्षया अधिकक्रियासम्बद्धमिति रामः ज्येष्ठः इति व्यवह्रियते । रामशरीरसम्बद्धक्रियापेक्षया न्यूनक्रियासम्बद्धं लक्ष्मणशरीरमिति लक्ष्मणः कनिष्ठः भवति ।
तथा च तादृशाधिकसूर्यक्रियावति शरीरे परत्वाख्यः गुणः, तादृशन्यून- क्रियावति शरीरे च अपरत्वाख्यः गुणः उत्पद्यते इति वैशेषिकैः अङ्गीक्रियते । एतौ एव आदाय सर्वत्र ज्येष्ठः कनिष्ठ इति च व्यवहारः बोध्यः । महाकाल- निरूपणाधीनौ एतौ गुणौ, तदुपाधिभूताः याः रविक्रियाः (पृ.५६) तन्निरूपणाधीनौ च। अतः कालिकपरत्वं कालिकापरत्वमिति च तयोः सञ्ज्ञा। सर्वं चैतत् अभिसन्धाय मूले उक्तं ज्येष्ठे कालकृतं परत्वं, कनिष्ठे कालकृतमपरत्वमिति ।
एतादृशपदार्थे सिद्धे च लक्षणमपि सुगमम् । तदादौ दिक्कृतपरत्वापरत्वयोः लक्षणे चिन्तयामः। ते च परत्त्वापरत्वे ज्ञात्वा एव वक्ता चैत्रः परः मैत्रः अपरः इति ब्रूते । तादृशव्यवहारेण श्रोतुः ज्ञानमुत्पद्यते । तत्र परत्वापरत्वे प्रकारतया चैत्रमैत्रौ विशेष्यविधया च अवभासेते । प्रकारतावच्छेदकं च परत्वत्वम् अपरत्वत्वं जातिद्वयम् ।
[[१०७]]
सोदाहरणं कालिकपरापरत्वनिरूपणम्
तथा च चैत्रमैत्रत्वावच्छिन्नविशेष्यतानिरूपितपरत्वत्व-अपरत्वत्वावच्छिन्न- प्रकारतानिरूपकज्ञाननिष्ठकार्यतानिरूपितकारणताश्रयशब्दप्रयोगनिष्ठकार्यता- निरूपितकारणताश्रयत्वं परत्वस्य अपरत्वस्य च लक्षणम् । अत्र परत्वत्व-अपरत्वत्वे न एकस्यां प्रकारतायाम् अवच्छेदके । किन्तु ज्ञानभेदेन विभिन्नप्रकारतयोरेव । तथापि व्याख्यासौकर्यायोक्तम् । इत्थमेव कालकृतपरत्वापरत्वयोः लक्षणे चिन्त्ये ।
अवच्छिन्न
।
परत्वत्वम् प्रकारता कार्यता कारणता कार्यता कारणता
परत्वम्
ज्ञानम् शब्दप्रयोगः
अवच्छिन्न
चैत्रत्वम्
विशेष्यता
[[१०८]]
चैत्रः
चि.स.८९
अवच्छिन्न
अपरत्वत्वम् प्रकारता कार्यता कारणता कार्यता
अपरत्वम्
ज्ञानम् शब्दप्रयोगः
अवच्छिन्न
मैत्रत्वम्
विशेष्यता
मैत्रः
चि.स.९०
आश्रयत्वम्
परत्वम्
कारणता
आश्रयत्वम्
अपरत्वम्
गुरुत्वलक्षणे पतनपदार्थः, पतननानात्वकथनम् * गुरुत्वलक्षणे पतनपदार्थः
क्रमप्राप्तं गुरुत्वं निरूपयति -
आद्यपतनासमवायिकारणं गुरुत्वम् । पृथिवीजलवृत्ति इति ।
पतनं च क्रियाविशेषः येन यद्देशे द्रव्यं वर्तते, तदपेक्षया यः अधोदेशः तेन सह द्रव्यस्य संयोगः भवति। अत एव अधोदेशसंयोगजनकः व्यापारः पतनमिति तस्य स्वरूपमुच्यते । अस्य असमवायिकारणं गुरुत्वम् । तत्रैतत् उदाहरणम्। कन्दुकः कश्चित् स्वीकृतः उत्क्षिप्तश्च । उपरि गमने आदौ तस्य वेग : अधिकः भवति । शनैः शनैः उपरतवेगः क्वचित् अन्तराले निश्चलो भवति । ततः तस्य अधोदेशसंयोगजनिका क्रिया पतनम् आरभ्यते ।
।
केन जाता इथं क्रिया ? गुरुत्वेन । गुरुत्वं भार इति लोके प्रसिद्धम् । तेन गुरुत्वेन तादृशपतनरूपा क्रिया उत्पद्यते । गुरुत्वं पतनक्रियां प्रति असमवायिकारणं भवति । गुरुत्वं हि समवायेन फले स्थित्वा समवायेन पतनक्रियां जनयति । गुरुत्वं गुणः, पतनं च क्रिया इति गुणक्रिययोः द्रव्ये समवायेन स्थितिः प्रसिद्धैव।
पतननानात्वकथनम्
तत्रायम् अपरो विशेषः। कन्दुकस्य उत्क्षिप्तस्य अन्तराले क्वचित् निश्चलस्य पतनमारभ्यते इति प्रागुक्तम् । तत्र आरभ्यते इति उक्तं, न तु पतनं भवतीति । तत् कुतः? यथा घटोत्पत्तिविचारे कपाले एकस्यैव घटस्योत्पत्तिर्भवति तथा प्रकृते कन्दुके एकमेव पतनं नोत्पद्यते। अनेकानि हि क्रमिकाणि पतनानि कन्दुके उत्पद्यन्ते । तत्र आद्यक्षणे पतनक्रिया । (१) तया यस्मिन् आकाशदेशे कन्दुकः, ततः विभागः । (२) तद्देशाकाशकन्दुकसंयोगनाशः (३) देशान्तरावच्छिन्नाकाशकन्दुक- संयोगान्तरोत्पत्तिः (४) पतननाशः (५) पतनान्तरोत्पत्तिः (१) इत्यादिक्रमेण पतनपरम्परा कन्दुके भवति। परन्तु द्वितीयादिपतनं न गुरुत्वेन उत्पद्यते । तत्र वेगाख्यः संस्कारविशेषः कारणं भवति । (पृ.३४२)
[[१०९]]
जले गुरुत्ववशात् आद्यपतनम्
एवं च आदिमं पतनं गुरुत्वजन्यमिति ज्ञापनाय ग्रन्थकृता आद्यपतनमिति उक्तम्। इदं पतनं गुरुत्वाधिकरणे समवायेनास्ति इति कार्यतावच्छेदकसम्बन्धः समवायः। इत्थमेव कारणतावच्छेदकसम्बन्धांशेऽपि चिन्त्यम् । अतः समवायसम्बन्धावच्छिन्न आद्यपतननिष्ठकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता गुरुत्वे भवति । तादृशकारणताश्रयत्वं गुरुत्वस्य लक्षणम् ।
CI
चि.स.९१
- जले गुरुत्ववशात् आद्यपतनम्
सर्वमिदं कन्दुकरूपपृथिव्यां यथा चिन्तितं, तद्वदेव जलेऽपि शक्नुमः चिन्तयितुम्। जलमपि उत्क्षिप्तं गुरुत्ववशात् पतति। रात्रौ अन्धकारे अरण्यादौ सञ्चाराय वस्त्रादिसंवेष्टनेन तैलसंयोगेन च दीपविशेषम् उपादद्महे’। प्रज्वलिते तस्मिन्, तैलाधिक्ये सति तद्बिन्दवः ज्वलन्तः एव पतन्ति ।
तैले हि सन्ति केचन पार्थिवांशाः । जलीयाश्च भूयशः। उभयत्रापि अस्ति गुरुत्वमिति तद्वशात् बिन्दुषु पतनक्रियोत्पत्तिः ।
गुरुत्वरहिते तेजसि तर्हि कथं पतनम् ?
तर्हि ज्वलत्सु तेषु पृथिवीजलयोः यथा पतनं तथा तेजसि अपि पतनं भवति। न हि तत्र गुरुत्वमस्ति। वक्ष्यते च ग्रन्थकृता गुरुत्वं पृथिवीजलवृत्ति इति ग्रन्थेन। तथा च गुरुत्वाभावेऽपि तेजसि पतनमिति कारणत्वेन अभिमतस्य गुरुत्वस्य असत्वेऽपि कार्योत्पादात् व्यतिरेकव्यभिचारः। (पृ.८३) इति चेत् ।
सत्यम्, भवति पतनं पृथिवीजलसंयुक्ते तेजसि, यथा दर्शितस्थले । तत्र तु पृथिवीजलयोः गुरुत्त्वं परम्परासम्बन्धेन’ तेजसि स्थित्वा आद्यपतनं जनयति ।
[[११०]]
१ - मशाल इति महाराष्ट्रभाषायां प्रसिद्धः ।
२ - स्वाश्रयसंयुक्तत्वम् ।
गुरुत्वलक्षणे अपूर्वः विचारः तादृशसंयोगरहितस्य तु तेजसः पतनं न भवत्येव। तथात्वे प्रज्वलिते करदीपे’, केषाञ्चित् तेजोभागानां पतनम् अनुभूयेत। ततश्च गुरुत्वाभावात् न तेजःप्रभृतिद्रव्येषु पतनम्। कदाचित् अनुभूयमानं तु वायौ, सदागतिमत्त्वस्वभावात् तस्य क्रियाविशेष एव न तु पतनम् । तस्य गुरुत्वमात्रजन्यत्व- स्वीकारात् । इत्थञ्च आद्यपतनासमवा-
यिकारणत्वेन गुरुत्वे ज्ञाते तल्लक्षणमपि
आद्यपतनम्
गुरुत्वम्
समवायसम्बन्धः समवायसम्बन्धः
सुगमम् ।
चित्रप्रकारोऽपि सुग्राह्यः ।
फलम्
चि.स.९२
- गुरुत्वलक्षणे अपूर्वः विचारः
तत्र वाय्वादिलक्षणेषु रूपरहितत्वानुपादाने को दोषः इति दलप्रयोजनं यथा चिन्त्यते तद्वदेव समवायिकारणत्वलक्षणे, असमवायिकारणत्वलक्षणे च समवायावच्छिन्नत्व-तादात्म्यावच्छिन्नत्वयोः तत्र तत्र निवेशस्य प्रयोजनं सम्प्रदाये १११ चिन्त्यते। तद्वदेव च आद्यपतननिष्ठसमवायसम्बन्धावच्छिन्नकार्यतानिरूपित- समवायसम्बन्धावच्छिन्नकारणताश्रयत्वमिति निरूपिते गुरुत्वलक्षणेऽपि कार्यतायां कारणतायां च समवायसम्बन्धावच्छिन्नत्वनिवेशनप्रयोजनं चिन्त्यम् ।
समवायसम्बन्धस्य कार्यतायाम् अवच्छेदकत्ववत् आद्यपतनत्वरूपधर्मस्यापि तुल्ययुक्त्या अवच्छेदकत्वम् आवश्यकम्। एवं च कारणतायां समवायसम्बन्धावच्छिन्न- त्वानुपादाने आद्यपतनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपित- किश्चित्सम्बन्धावच्छिन्नकारणताश्रयत्वमिति गुरुत्वलक्षणं स्यात् । तथा सति समवायिकारणे कन्दुके अतिव्याप्तिः । तत्र तादृशकार्यतानिरूपिततादात्म्य- सम्बन्धावच्छिन्नकारणतायाः सत्वात् । कारणतायां समवायसम्बन्धावच्छिन्नत्वनिवेशे तु नायं दोषः । यतो हि तन्निष्ठकारणता तादात्म्येन अवच्छिन्ना, न तु समवायेन इति ।
१ - टॉर्च इति लोकप्रसिद्धा ।
२ - मूलग्रन्थोपपादने वयमपि चिन्तयामः ।११२
गुरुत्वलक्षणे अपूर्वः विचारः
कार्यतायाम् आद्यपतनत्वावच्छिन्नत्वानुपादाने समवायसम्बन्धावच्छिन्नकार्यता- निरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वम् एव गुरुत्वलक्षणं स्यात् । एवं सति यत्किञ्चिदसमवायिकारणे अतिव्याप्तिः । कपालद्वयसंयोगः घटासमवायिकारणम् । तस्मिन्नपि हि समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता वर्तते। कार्यस्य घटस्य, कारणस्य कपालद्वयसंयोगस्य च कपाले एकस्मिन् अधिकरणे समवायेनैव सत्वात् । कार्यतायाम् आद्यपतनत्वावच्छिन्नत्वोपादाने तु कपालद्वयसंयोगस्य कार्यता घटत्वावच्छिन्ना, न तु आद्यपतनत्वावच्छिन्ना इति नातिव्याप्तिः ।
परन्तु एवं सति आद्यपतनत्वावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्न- कारणताश्रयत्वम् इत्येवास्तु लक्षणम्, कार्यतायां समवायसम्बन्धावच्छिन्नत्वनिवेशनं मास्तु। नैतावता क्वापि अतिव्याप्तिः। यत्किञ्चिदसमवायिकारणे कपालद्वयसंयोगादौ अतिव्याप्तिवारणं तु आद्यपतनत्वस्य कार्यतावच्छेदकत्त्वादेव भवति । न हि कपालद्वयसंयोगस्य कार्यता आद्यपतनत्वावच्छिन्ना किन्तु घटत्वावच्छिन्ना । एवं च दोषाभावात् गुरुत्वलक्षणे कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न देयमेव इति भाति । इत्थमेव अग्रिमे द्रवत्वलक्षणेऽपि आद्यस्यन्दनत्वावच्छिन्नत्वस्य कार्यतायां निवेशादेव उदासीने असमवायिकारणे अतिव्याप्तिर्वार्यते इति तत्रापि कार्यतायां समवाय- सम्बन्धावच्छिन्नत्वं न देयमेव । २
इदं च गुरुत्वं न रूपादिवत् इन्द्रियेण ज्ञातुं शक्यं, किन्तु अनुमीयते । तदेव चादाय अतिव्याप्तिवारणाय रूपस्पर्शयोः लक्षणे अस्माभिः क्रमेण चक्षुर्ग्राह्यत्व- त्वगिन्द्रियग्राह्यत्वयोः सार्थक्यं चिन्तितमित्यलम्।
- आद्यस्यन्दनासमवायिकारणं द्रवत्वम् । पृथिवीजलतेजोवृत्ति । तद्विविधम्। सांसिद्धिकं नैमित्तिकं चेति ।
सांसिद्धिकं जले । नैमित्तिकं पृथिवीतेजसोः ।
पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम् । तेजसि सुवर्णादौ ।
१ - उदासीनमित्यस्य प्रकृतासम्बद्धमित्यर्थः । २ - विषयोयं आन्ध्रदेशे अन्नवरम्क्षेत्रे परीक्षार्थं मयि गतवति मौखिकपरीक्षाकाले मीमांसाकेसरिभिः डोङ्गरेवीरेश्वरशास्त्रिभिः उपदिष्ट इति विशेषः ।
पतनस्यन्दनयोः भेदः
पतनस्यन्दनयोः भेदः
आद्यस्यन्दनासमवायिकारणं द्रवत्वमिति मूलम् । तत्र स्यन्दनं निर्दिष्टम्।
स्यन्दनं विजातीया क्रिया। काचमेकमादाय जलबिन्दुं तदुपरि क्षिपामश्चेत् अस्मद्धस्तात् काचपर्यन्तं क्रिया पतनरूपा गुरुत्वेन वेगेन च भवति। ततः काचस्य बिन्दोश्च संयोगः भवति। इदानीं पतनविरोधी काचः अस्तीति अन्यत् पतनं न भवति ।
तथापि आदौ लघुदेशे व्याप्तः बिन्दुः शनैः शनैः वर्तुलाकारमधिकदेशं व्याप्नोति। इदं व्यापनं तु स्यन्दनरूपक्रियया । न हि तत्र काचे विद्यमानस्य जलबिन्दोः पतनमस्ति। आदौ एव हस्तात् पतनात् । पतितस्तु सः परितः येन प्रसृतो भवति तदेव स्यन्दनम् । इदमेव अभिप्रेत्य पूर्वं विजातीया क्रिया इत्यवोचाम । पतनात् विजातीया इति तदर्थः ।
इदं द्रवत्वं समवायेन जलादौ स्थित्वा समवायेन तादृशस्यन्दनं जनयति इति सः स्यन्दनस्यासमवायिकारणम् । अत्रापि आद्येति स्यन्दने विशेषणं दातव्यम् । द्वितीयादिस्यन्दनं प्रति, द्वितीयादिपतने इव, वेग एव कारणम् । अतः आद्य इति विशेषणात् न तत्रातिव्याप्तिः । अत्र कार्यतावच्छेदककारणतावच्छेदकसम्बन्धयोः निवेशप्रयोजने यद्वक्तव्यं तत् अनुपदं निरूपितम्। इदं च द्रवत्वं पृथिव्यादित्रिकवृत्ति । घृतादीनां पृथिवीरूपता लोकप्रसिद्धा । सुवर्णस्य तैजसत्वं तेजोग्रन्थे उक्तमेव।
तत्र घृते मन्देनापि अग्निसंयोगेन, सुवर्णे च अतितीव्राग्निसंयोगेन द्रवत्वमुत्पद्यते । इदमेव मूलकृता नैमित्तिकं पृथिवीतेजसोः इत्यनेनोक्तम्। निमित्ते सति यत् भवति तत् नैमित्तिकम्। प्रकृते तेजःसंयोगः निमित्तम्। तेन जायमानत्वात् तद्द्रवत्वं नैमित्तिकमित्युच्यते । सांसिद्धिकं, स्वाभाविकं द्रवत्वं तु जले प्रसिद्धमेव।
।
जलरूपेऽपि करकादौ तर्हि कथं न द्रवत्वम् ? उच्यते । कुतश्चित् प्रतिबन्धात् अदृष्टविशेषात् वा जलीयपरमाणवः द्रवत्ववन्तोऽपि सन्तः द्व्यणुके द्रवत्वं नारभन्ते । ततश्च द्रवत्वरहितैरेव द्व्यणुकादिभिः क्रमेण करकोत्पत्तिः। अतः न तत्र द्रवत्वमिति वैशेषिकसम्प्रदायः।
[[११३]]
सेहलक्षणनिरूपणम
सम्प्रति स्नेहं लक्षयति
- स्नेहलक्षणनिरूपणम्
चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः इति ।
गोधूमपिष्टराशिः जलेन असंयुक्तः स्थाल्यां गृहीतः । तस्य एकस्मिन् भागे हस्तेन गृहीते, किं समग्र राशि : हस्ते धृतो भवति ? एकदेशे वा कर्षिते समग्र : राशिः आकृष्टः भवति? नेति लोकसिद्धम् इदम् । ततः जलेन युतं तमेव पिष्टराशिं स्थाल्यामादाय तदेकदेशे हस्तेन गृहीते, समग्रः राशिः हस्ते धृतः भवति, एकदेशे वा कर्षिते समग्रः राशिः आकृष्टो भवतीति अपि लोकसिद्धम् ।
को हेतुः ? स्फुटः, जलसंयोगः। अस्ति कश्चित् गुणविशेषः जले, येन पिष्टादौ पूर्वोक्तं धारणम्, आकर्षणं वा भवति । तेन जलगतेन गुणेन पिष्टराशेः धारणं आकर्षणं प्रति वा कारणीभूतः पिष्टावयवानां विलक्षणसंयोगः उत्पद्यते। अयं संयोग एव शास्त्रे पिण्डीभाव इत्युच्यते यः चूर्णादौ धारणाकर्षणे उत्पादयति । तं च पिण्डीभावं प्रति ११४ कारणीभूतः एव स्नेहः अतिरिक्तः गुणः। जलमात्रवृत्तिः ।
इह लक्षणे धारणाकर्षणयोः पिण्डीभावः कारणम्, पिण्डीभावं प्रति च स्नेहः कारणमिति कार्यकारणभावद्वयं प्रविष्टम् । अतः व्यवहारगर्भलक्षणवदेव प्रकृते चित्रं सम्पाद्यम्। ज्ञानस्थाने धारणाकर्षणे स्थापये इति विशेषः । लक्षणपरिष्कारस्तु धारणाकर्षणनिष्ठकार्यतानिरूपितकारणताश्रयविलक्षणसंयोगनिष्ठकार्यता- निरूपितकारणताश्रयत्वे सति गुणत्वम्।
इह सत्यन्तमात्रोपादाने पिष्टे अतिव्याप्तिः। तादृशविलक्षणसंयोगं प्रति पिष्टस्य समवायिकारणत्वात्। अतः गुणत्वरूपविशेष्यदलं निवेश्यम्। पिष्टे गुणत्वाभावात् नातिव्याप्तिः ।
विशेष्यमात्रोपादाने रूपादौ गुणे गुणत्वसत्त्वात् अतिव्याप्तिः स्फुटैव, सत्यन्तनिवेशेन तेषां तादृशसंयोगकारणत्वाभावात् वारणं च ।
स्नेहस्य पिण्डीभावं प्रति निमित्तकारणत्वम्
- स्नेहस्य पिण्डीभावं प्रति निमित्तकारणत्वम्
इह तादृशपिण्डीभावः विलक्षणसंयोगरूपः समवायेन पिष्टे वर्तते। स्नेहस्तु समवायेन जले विद्यमानः स्वाश्रयसंयुक्तत्वसम्बन्धेनैव परम्परारूपेण पिष्टे भवति। स्वं स्नेहः, स्वाश्रयः जलम्, स्वाश्रयसंयुक्तं पिष्टं तादृशसंयुक्तत्वं पिष्टे इति स्नेहनिष्ठ- कारणतावच्छेदकसम्बन्धः स्वाश्रयसंयुक्तत्वरूपः। पिण्डीभावनिष्ठकार्यतावच्छेदक- सम्बन्धस्तु समवायः। अतः स्नेहः पिण्डीभावं प्रति निमित्तकारणं भवति ।
तथा हि - समवायिकारणे कार्यतावच्छेदकसम्बन्धः समवायः, प्रथमासमवायि- कारणेऽपि स एव। द्वितीयासमवायिकारणे (पृ. १४८) तु कार्यतावच्छेदकः स्वसमवायि- समवायित्वम्। समवायिकारणे कारणतावच्छेदकसम्बन्धः तादात्म्यम् । असमवायि- कारणतयोः तु उभयोरपि समवाय एव । वक्ष्यमाणरीत्या (पृ. १५१) चित्रगन्धस्थले व्यभिचारवारणाय स्वसमवायिसमवेतत्वं वा द्वितीयासमवायिकारणे कारणतावच्छेदकः । पक्षे चास्मिन् कार्यता न परम्परासम्बन्धेन अवच्छिद्यते किन्तु समवायेनैव ।
एवञ्च (१) समवायतादात्म्ययोः निवेशे समवायिकारणत्वम् । उभयत्र ११५ (२) समवायनिवेशे आद्यमसमवायिकारणत्वम्। (३) स्वसमवायिसमवायित्व- समवाययोः निवेशे, वक्ष्यमाणरीत्या समवायस्वाश्रयसमवेतत्वयोर्वा निवेशे द्वितीयमसमवायिकारणत्वमिति सिद्धे एतद्भिन्नः यो यः कार्यकारणभावः, तत्रत्यं कारणत्वं निमित्तकारणत्वमिति उच्यते । यथा प्रकृते स्नेहस्य पिण्डीभावं प्रति । पिण्डीभावनिष्ठकार्यतायाः समवायेन अवच्छेदेऽपि स्नेहनिष्ठकारणतायाः स्वाश्रयसंयुक्तत्वसम्बन्धेन अवच्छेदात्। न हि सः सम्बन्धः पूर्वोक्तेषु अन्तर्भवति । अतः तादृशपिण्डीभावं प्रति स्नेहः निमित्तकारणम्।
- निमित्तकारणतायाः अन्यत् उदाहरणम्
इत्थमेव च चक्रदण्डादीनां घटं प्रति कारणत्वं निरूपणीयम्। तत्र घटस्य समवायेन अधिकरणे कपाले चक्रस्य संयोगेनैव सत्वात् निमित्तकारणत्वम्। दण्डस्तु
[[११६]]
निमित्तकारणतायाः अन्यत् उदाहरणम्
कपाले परम्परासम्बन्धेन भवति । स च परम्परासम्बन्धः स्वजन्यभ्रमिजन्यभ्रमिमत्तारूपः । दण्डं यदि संयोगेन कपाले स्थापयामः कपालः नश्येत् । किन्तु चक्रे विद्यमानं यत् च्छिद्रं, तत्र दण्डं संस्थाप्य दण्डभ्रमणे सति, तत्संयोगवशात् चक्रेऽपि भ्रमिः भ्रमणम् उत्पद्यते, तेन च भ्रमणेन कपालेऽपि भ्रमणमुत्पद्यते। अतः स्वजन्यभ्रमिः चक्रनिष्ठभ्रमिः तज्जन्या भ्रमिः कपालनिष्ठा भ्रमिः तादृशभ्रमिमत्ता कपाले इति अनेन परम्परासम्बन्धेन दण्डः समवायिकारणे स्थित्वा घटं कार्यं जनयतीति इहापि अन्य एव सम्बन्धः कार्यकारणभावघटकः। अतः दण्डः घटं प्रति न समवायिकारणं नापि असमवायिकारणं किन्तु निमित्तकारणम् ।
अनन्ताः हि कार्यकारणभावाः न प्रत्येकं परीक्षितुं शक्याः। समवायादीन् बुद्ध्वा ऊहापोहकुशलैः तत्र तत्र कार्य : विवेक : इति अलं प्रसक्तानुप्रसक्तविचारेण ।
प्रकृतमनुसरामः। सिद्धा एतावता पिण्डीभावं प्रति स्नेहस्य निमित्तकारणता । स च स्नेहः जलमात्रवृत्तिः । नान्यस्य कस्यचित् द्रव्यस्य संयोगे सति ईदृशः पिण्डीभावः सम्भाव्यते । घृततैलादिसंयोगे सति तथाविध इव अनुभूयमानोऽपि घृतादौ विद्यमानेन जलांशेनैव इति अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वं तत्कारणस्य स्नेहस्य
अवधारयामः।
एवंविधोऽपि अयं स्नेहः न चक्षुरादिभिः ज्ञातुं शक्यः। घ्राणरसनश्रोत्राणां प्रतिनियतग्राह्यगुणातिरिक्ते प्रसरः नास्त्येव । चक्षुषः त्वचश्च रूपस्पर्शातिरिक्तेषु सङ्ख्यादिषु अस्ति ग्राहकता। तदेतत् रूपलक्षणे निरूपितम्। परन्तु चक्षुषा त्वचा वा अवधानविशेषेऽपि ऐकण्येऽपि न स्नेहः गृह्यते इति पिण्डीभावरूपकार्यविशेषेण सः अनुमातव्यः भवति । अत एव न्यायबोधिनीग्रन्थे नव्यमतोपन्यासे स्नेहस्य पिण्डीभावं प्रति कारणत्वं निराकृत्य स्नेहस्वीकार एव कटाक्षितः। तथा च स्नेहस्य जलमात्रवृत्तित्वस्य प्राचीनैः स्वीकारेऽपि तस्य चक्षुरादिना अग्रहणात्, तस्य सत्वे एव नवीनानां विवादात्, जललक्षणत्वेन न सः निर्दिष्टः किन्तु त्वगिन्द्रियग्राह्यः सर्वजनसाक्षिकः शीतस्पर्श
शब्दनिरूपणम
एव निर्दिष्टः इति उक्तं जललक्षणं शीतस्पर्शवत्यः आपः इति । चित्रप्रकारस्तु सुगमोऽपि
तद्रसिकेन मया प्रदर्शितः ।
कार्यता
कारणता
कार्यता
धारणम्
विलक्षणसंयोगः पिण्डीभावः
पिष्टम्
कारणता
स्नेहः
चि.स.९३
- शब्दनिरूपणम्
श्रोत्रग्राह्यो गुणः शब्दः । आकाशमात्रवृत्तिः ।
सः द्विविधः । ध्वन्यात्मको वर्णात्मकश्चेति । तत्र ध्वन्यात्मको भेर्यादौ । वर्णात्मकः संस्कृतभाषादिरूपः ।
क्रमप्राप्तं शब्दं लक्षयति श्रोत्रग्राह्यो गुणः शब्दः इति । अत्र लक्षणवाक्ये यत् वक्तव्यं तत् रूपनिरूपणे उक्तं तत्रैव (पृ.७८) द्रष्टव्यम् । आकाशमात्रवृत्तित्वमपि आकाशनिरूपणे समर्थितम् ।
अस्य शब्दस्य स्वरूपमादाय कारणमादाय च विभागः। वर्णध्वनिभेदेन विभागः स्वरूपमादाय । कण्ठताल्वादिविविधस्थानेषु जिह्वाद्यभिघातेन उत्पद्यमानः वर्णः। सः एव च वर्णान्तरैः विलक्षणक्रममापन्नः पदमिति व्यवहारयोग्यः भवति । तच्च पदमेव पदान्तरयुक्तं वाक्यमिति प्रसिद्धं शक्तिग्रहे सति शाब्दप्रमां च जनयति ।
अपरस्तु ध्वन्यात्मकः। करताडनादिना उत्पद्यमानः । स च एकः सम्भूय वा न कदाचित् पदं वाक्यं वा भवति, नापि शाब्दप्रमां जनयति । हेतुर्भूत्वा अभिप्रायज्ञापने परमुपयुज्यते। तथाविधशब्दकरणे कर्ता मां बोधयति इति अनुमितेः कदाचित्
[[११७]]
इन्द्रियाणां प्राप्यकारित्वम्
जायमानत्वात्। तथा च पदभावस्वरूपयोग्यत्वं वर्णात्मकस्य विशेषः, तदयोग्यत्वं ध्वन्यात्मकस्य विशेषः इति तमादायायं विभागः ।
अपरविभागस्तु कारणमादाय । संयोगात्, विभागात् शब्दात् च शब्दो जायते । वर्णः पूर्वोक्तः, करताडनेन जायमानः ध्वनिः वा संयोगजः । हस्तसंयोगः आकाशे शब्दसमवायिकारणे समवायेन स्थित्वा समवायेन शब्दं जनयतीति सः तादृशशब्दं प्रति प्रथमासमवायिकारणं भवति । विभागजशब्दः वंशे पाट्यमाने वंशावयवाकाश- विभागेन जायमानः। विभागोपि अयम् आकाशसमवेत : इति तादृशशब्दं प्रति भवति असमवायिकारणम् ।
- इन्द्रियाणां प्राप्यकारित्वम्
शब्दजशब्दस्थले अस्ति विस्तरेण निरूपणीयम् । वक्तुः मुखं यद्देशे वर्तते ताल्वाद्यभिघातैः तद्देशावच्छेदेनैव आकाशे शब्दोत्पत्तिः भवति । स च मुखावच्छेदेन आकाशे उत्पन्नः शब्दः कथं श्रोतुः श्रोत्रेन्द्रियं प्राप्नुयात् ? शब्दे गुणात्मके कथं ११८ श्रोत्रदेशप्राप्त्यनुकूला क्रिया भवेत् ? द्रव्यनिरूपणावसरे आवेदितमेवास्माभिः गुणक्रिययोः
द्रव्यमात्रनिष्ठत्वम् ।
तर्हि श्रोत्रेन्द्रियं वक्तृमुखदेशं यातु इति चेत्, नैतदपि सम्भवति। श्रोत्रस्यापि हि आकाशरूपत्वं, विभुत्वं, क्रियारहितत्वं च तन्निरूपणे निरूपितम्। चक्षुरिन्द्रियस्य च मूर्तस्य सम्भवति क्रिया यत् घटं स्वस्थानस्थितमपि प्राप्य युक्त्वा तत्प्रत्यक्षं जनयति ।
इन्द्रियाणां स्वभाव एषः यत् प्राप्यकारित्वम्। कोर्थः ? यस्य पदार्थस्य प्रत्यक्षम् इन्द्रियेण भवति तेन तस्य सम्बन्धः संयोगः समवायो वा भवत्येव । कुतः एतत् ? यदि स्वासम्बद्धमपि अर्थं चक्षुरादीनि ज्ञापयेयुः तदा भित्त्यादिव्यवहितानामपि ज्ञानं जनयेयुः। न च तथा दृष्टम् ।
अतः सम्बन्धः आवश्यकः। चक्षुरिन्द्रियं तेजोरूपं मूर्तमिति बहिर्निर्गत्य घटे संयुक्तं सत् घटप्रत्यक्षजनकम् ।
शब्दप्रत्यक्षस्थले तर्हि का गतिः ?
तर्हि त्वगादीनां का कथा? न तानि तेजोरूपाणि । कथं हि जिह्वारूपं स्वाधिष्ठानं
परित्यज्य जलीयं रसनेन्द्रियं बहिर्गच्छेत् ? कथं वा नासिकां स्वाधिष्ठानं परित्यज्य पार्थिवं घ्राणेन्द्रियं गच्छेत् ? इत्थमेव वायवीयं त्वगिन्द्रियं स्वाधिष्ठानं त्वचं परित्यज्य कथं निर्गच्छेत् ? श्रोत्रस्य तु उक्तमेव असामर्थ्यम् ।
।
सत्यमेतत् । नेमानि इन्द्रियाणि स्वाश्रयं त्यजन्ति । तथापि स्वाधिष्ठानसम्बद्धं गृह्णन्ति । रसनेन्द्रियं जिह्वया सम्बद्धस्य गुडस्यैव माधुर्यं प्रकाशयति न विप्रकृष्टस्य । घ्राणेन्द्रियं नासिकासम्बद्धस्य पुष्पस्यैव गन्धं प्रकाशयति न विप्रकृष्टस्य ।
असम्बद्धे सत्यपि मालतीपुष्पे अनुभूयते तद्गन्धः इति चेत्, तत्रापि वायुना आनीताः पार्थिवाः सूक्ष्माः कणाः न चक्षुषा गृह्यन्ते, प्राणेन्द्रियेण सम्बद्धेषु तेषु, तद्गन्धप्रत्यक्षं जायते। एवं त्वगिन्द्रियस्य । तदपि च त्वचा सम्बद्धस्य जलस्यैव शीतस्पर्शं गृह्णाति न तु विप्रकृष्टस्य ।
एतादृशविवरणेन इदमागतं यत् सर्वत्र यस्य द्रव्यस्य प्रत्यक्षम् इन्द्रियेण जननीयं, तद्द्रव्यं, ग्राहकेण इन्द्रियेण सम्बद्धं चेदेव द्रव्यप्रत्यक्षं जायते । गुणानामपि रसादीनां रसनादिना प्रत्यक्षं जननीयं चेत्, गुणे तस्मिन् क्रियायाः असम्भवेऽपि तदाश्रयः, क्रियावान् आगत्य इन्द्रियेण सम्बद्धो भवति, ततः रसादीनां वक्ष्यमाणेन स्वसंयुक्तसमवायसन्निकर्षेण प्रत्यक्षम् । स्वम् रसनेन्द्रियं, तत्संयुक्तः गुडः, तत्समवायः माधुर्ये। इदमेव सम्बद्धग्राहकत्वमेव इन्द्रियाणां प्राप्यकारित्वमिति शास्त्रे प्रसिद्धम् ।
- शब्दप्रत्यक्षस्थले तर्हि का गतिः ?
इदं च सर्वं श्रोत्रेण शब्दप्रत्यक्षजनने कथं स्यात् ? शब्दः स्वयं गुणरूपः न क्रियावान् इति न पुष्पकणानां घ्राणदेशे आगमनवत् तस्य श्रोत्रं प्रति आगमनं सम्भवति। नापि चक्षुरिन्द्रियवत् अत्रत्यम् इन्द्रियं प्रभवति यातुम् । तस्य विभुत्वात् क्रियारहितत्वात्। तर्हि रसादौ यथा गुडः आश्रय एव रसनां प्रति याति तथा इहापि शब्दाश्रयः श्रोत्रं प्रति आयातु इति चेत् न, उक्तं शब्दस्य आकाशगुणत्वम् ।
[[११९]]
[[१२०]]
शब्दप्रत्यक्षस्थले तर्हि का गतिः ?
शब्दस्थले हि अयं विशेषः यत् ग्राहकस्य श्रोत्रेन्द्रियस्य गुण एव शब्दः, नेतरस्य। रसनादौ तु ग्राहकं रसना, न तद्गुणः माधुर्यं, किन्तु गुडस्य गुणः । इह ग्राहकः आकाशः श्रोत्रावच्छिन्नः, आश्रयोऽपि च आकाशः । तस्य निष्क्रियत्वात् न तदागमनं श्रोत्रदेशे सम्भवति। अतः कश्चन उपायः वैशेषिकैः कल्पितः । स एव शब्दजशब्दः इत्युच्यते । एतावता निरूपितं विषयं चित्रद्वारा पश्यामः ।
घटप्रत्यक्षं संयोगेन। रूपक्रियाघटत्वानां प्रत्यक्षं स्वसंयुक्तसमवायेन।
तेजोरूपम् चक्षुरिन्द्रियम्
क्रियाः
रूपम्
स्वसंयुक्त- समवायसम्बन्धः
समवायसम्बन्धः
स्वसयुक्त-
निर्गमः
संयोगसम्बन्धः
रसनेन्द्रियं न द्रव्यग्राहकम् ।
अतः गुडः तेन न गृह्यते। रसस्य प्रत्यक्षं स्वसंयुक्तसमवायेन ।
संयोगसम्बन्धः
गन्धस्य प्रत्यक्षम् पुष्पकणाः पुष्पम्
चि.स.९४
घटः
घटत्वम्
स्वसंयुक्त-
समवायसम्बन्धः
संयोगसम्बन्धः
गुडः
माधुर्यम्
समवायसम्बन्धः
रसनेन्द्रियम् - जिह्वा
चि.स. ९५
समवायसम्बन्धः
सुरभिगन्धः
घ्राणेन्द्रियमपि
न द्रव्यग्राहकम् । अतः
पुष्पं तत्कणाः वा न
घ्राणेन्द्रियेण गृह्यन्ते ।
घ्राणेन्द्रियम् - नासिका
चि.स.९६
इत्थमेव त्वगिन्द्रियस्थलेऽपि चिन्त्यम् । परन्तु तत् चक्षुर्वत् आश्रयं द्रव्यमपि
गृह्णाति इति ।
नात्र क्रिया
चक्षुर्वत् गन्तुं न प्रभवति
स्वाधिकरणे सजातीगुणजनकत्वं क्व दृष्टम् ?
नात्र क्रिया
मुखावच्छिन्नाकाशः
क ) )
पुष्पकणवत् आगन्तुं न प्रभवति
कशब्दः
श्रोत्रम्
मुखम्
चि.स.९७
अतः शब्दजशब्दं नैयायिका : वैशेषिकाच अङ्गीकुर्वन्ति । कथं तेन शब्दप्रत्यक्षमिति चेत् उच्यते । कण्ठतालवाद्यभिघातेन यन्मुखदेशावच्छेदेन आकाशे यः शब्दः उत्पद्यते, सः स्वं परितः सर्वासु दिक्षु दश शब्दान् उत्पादयति। तेऽपि च उत्पन्नाः सन्तः अग्रिमक्षणे स्वस्य दशसु दिक्षु दश शब्दान् उत्पादयन्ति । एवं क्रमेण अनेकेषु शब्देषु उत्पन्नेषु कश्चित् शब्दः श्रोतुः कर्णदेशेऽपि उत्पद्यते । अतः तस्य समवायसन्निकर्षेण प्रत्यक्षं भवति । अस्यां च प्रक्रियायां न श्रोत्रे, नापि मुखावच्छिन्ननभसि क्रिया स्वीकार्या भवति इति न दोषः ।
- स्वाधिकरणे सजातीयगुणजनकत्वं क्व दृष्टम् ?
यद्यपि रूपादीनां स्वाश्रये कपाले न रूपोत्पादकत्वं किन्तु स्वाश्रयकपालजन्ये घटे। तत्र कपालरूपस्य द्वितीयासमवायिकारणत्वस्य वक्ष्यमाणत्वात्। परन्तु घटगत- एकत्वं स्वाश्रये एव द्वित्वं जनयति, ज्ञानं च स्वाश्रये एव इच्छादिकं जनयतीति अस्ति दृष्टान्तः।
ननु घटगत-एकत्वेन स्वविजातीयं द्वित्वम् एव स्वाश्रये उत्पादितम् । एकत्वे हि एकत्वत्वं जातिः, द्वित्वे द्वित्वत्वम्। एवं ज्ञानमपि स्वविजातीयामिच्छामेव स्वाश्रये आत्मनि जनयति न सजातीयं ज्ञानम् । ज्ञानेपि च ज्ञानत्वम्, इच्छायामिच्छात्वम्। न च गुणत्वजातिमत्त्वं सर्वेषां पूर्वोक्तानां तुल्यमिति न दोष इति वाच्यम् । गुणत्वेन एकत्वस्य द्वित्वं प्रति, ज्ञानस्य इच्छां प्रति जनकत्वे तादृशगुणत्वस्य रूपादौ अपि सत्वात् तेनापि द्वित्व-इच्छादीनामुत्पत्तिप्रसङ्गात् ।
१२१बुद्धिलक्षणे समासविचारः
अतः न गुणत्वेन साजात्यं प्रदर्श्य कार्यकारणभावः वाच्यः, किन्तु तदपेक्षया न्यूनवृत्तिधर्मान् आदायैवेति कथं शब्दस्य शब्दजनकता, इति चेत् परामर्शस्य अनुमितिजनकत्वमिव, विशेषणज्ञानस्य विशिष्टज्ञानजनकत्वमिव प्रकृते शब्दात् शब्दोत्पादसम्भवात्। यदि दृष्टान्ते विषयांशे विलक्षणानां ज्ञानादीनामेव जनकत्वं, दाष्टन्तिके तु ककारः ककारमेव जनयतीति आशङ्कयेत तदा उपायान्तरेण क्लेशोऽयं समाधेयः इति आस्तां तावत् ।