०२ लक्षणम

  • द्रव्यनिरूपणम्

उद्देशग्रन्थानुसारेण आदी पृथिवीं निरूपयति-

तत्र गन्धवती पृथिवी । सा द्विविधा नित्याऽनित्या च । नित्या परमाणुरूपा । अनित्या कार्यरूपा । पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् । शरीरमस्मदादीनाम् । इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति । विषयो मृत्याषाणादिः इति ।

गन्धः लक्ष्यभूतायाः पृथिव्याः लक्षणम् इत्युक्तम्। तत्रादौ किं लक्ष्यमिति निरूप्यते । जिज्ञासितः, ज्ञातुमिष्टः कश्चित् पदार्थ : लक्ष्यमिति शास्त्रे व्यवह्रियते । तत्र विद्यमानः कश्चित् विलक्षणः पदार्थः, लोके, वैशिष्ट्यम्, गुणः इति वा प्रसिद्धः यः लक्ष्यसमानजातीयाः यावन्तः तेषु सर्वत्र स्यात्, एवं लक्ष्यविजातीयाः ये तेषु मा भूत् सः तल्लक्षणमिति उच्यते । यथा केनचित् गौः ज्ञातव्यास्ति। सा तर्हि जाता लक्ष्यम्। तस्याम् अस्ति सास्नापदार्थ : ’ । सः गोजातीयेषु गोत्वाश्रयेषु यावत्सु अवश्यं भवति। गोविजातीयेषु, गोत्वाभावाश्रयेषु अश्वमहिष्यादिषु नैव अस्ति। तादृशं च सास्नापदार्थं दृष्ट्वा तद्वती या, सा गौः इति वेत्ति ।

गावः

गवेतरजगत्

सास्नाभावः

गोत्वम्

गोत्वम्

गौः

साना

गौः

साना

गोत्वम् गोत्वम् गौः गौः

सास्ना सास्ना

गौः गौः

साना साना

गोत्वम्

गौः

साना

गौः

साना

गोत्वम्

गोत्वम्

महिषी

अश्वः रासभः घटः

पटः

मठः

चटः

गोत्वम्

व्याघ्रः सिंहः शशः

उष्ट्रः

चि.स. ४४

१ - गोः गलाधोभागे लम्बमानः मृदुः अवयवविशेषः।

[[३७]]

अव्याप्तिदोषः अतिव्याप्तिदोषश्च

तथा च यत् सर्वेषु लक्ष्येषु भवति, अलक्ष्येषु न भवति तल्लक्षणम् । यः पदार्थः एवंविधो न भवति, सः न लक्षणं, किन्तु लक्षणाभासः ।

अव्याप्तिदोषः

कश्चित् पदार्थः न सर्वेषु लक्ष्येषु वर्तते, किन्तु केषुचिदेव, सः अव्याप्तः इत्युच्यते।

यथा गोः श्वेतरूपं लक्षणमिति

केनचित् उक्तम्। इदं च श्वेतरूपं

गोजातीयायां श्वेतगवि एव वर्तते ।

कृष्णगवि नास्तीति तत्र अव्याप्तिरिति लक्षणदोषः भवति । प्रकृतचित्रे आहत्य अष्टौ गावः सन्ति। तासु सर्वासु गोत्वमस्ति । तत्र प्रथमा, द्वितीया, चतुर्थी, षष्ठी

३८ च श्वेतरूपवती, परन्तु तृतीयायां,

पञ्चम्यां, सप्तम्याम्, अष्टम्यां च गवि

गावः

गोत्वम् गोत्वम्

गोत्वम्

गौः

कृष्णरूपम् श्वेतरूपम् गौः गौः

गौः

गोत्वम्

कृष्णरूपम् श्वेतरूपम्

श्वेतरूपम्

रक्तरूपम्

गोत्वम्

गौः

गौः गौः गौः

रक्तरूपम् श्वेतरूपम्

गोत्वम्

गोत्वम्

चि.स.४५

गोत्वम्

श्वेतरूपं नास्ति। अतः गोत्ववत्सु कासुचित् श्वेतरूपस्य अभावः वर्तते। अतः श्वेतरूपं

न गोलक्षणं किन्तु अव्याप्तिदोषग्रस्तं लक्षणाभासः ।

अतिव्याप्तिर्दोषः

द्वितीयो दोषः अतिव्याप्तिः । एषः दोषः तस्मिन् भवति यः पदार्थः लक्ष्ये भवति, अलक्ष्येऽपि भवति । यथा गोः शृङ्गं लक्षणमुक्तं चेत् तत् लक्ष्यासु गोषु वर्तते, तथैव अलक्ष्येषु अजादिषु अपि वर्तते ।

प्रकृतचित्रे शृङ्गं यद्यपि सर्वासु गोषु वर्तते, परन्तु अलक्ष्ये अजादौ अपि वर्तते इति तत्र अतिव्याप्तिः दोषः भवति । अतः नेदं लक्षणं किन्तु लक्षणाभासः ।

लक्ष्यम्

गोत्वम् गोत्वम्

गौः गौः

शृङ्गम् शृङ्गम्

गौः

गौः

Tibulle

असम्भवदोषः, नित्यत्त्वादिविभागः

शृङ्गम्

अलक्ष्यम्

अजः

महिषी

गोत्वम्

शृङ्गम्

शृङ्गम्

गौः

गौः

शृङ्गम्

शृङ्गम्

गौः गौः

गोत्वम्

शृङ्गम् शृङ्गम्

गोत्वम्

गोत्वम्

चि.स.४६

गोत्वम्

मृगः

मेषः

असम्भवदोषः

तृतीयो दोषः असम्भवः, यः धर्मः न कस्मिन् अपि लक्ष्ये भवति तस्मिन् आयाति। यथा केशराः सिंहजटाः गोः लक्षणमित्युक्तम्। तत्र गोजातीयायां कस्यामपि ३९ गवि सः धर्मः नास्ति इति तस्मिन् असम्भवो दोषः।

पूर्वोक्तसास्नारूपधर्मः गवि वर्तते, अतः नासम्भवो दोषः, सर्वासु गोषु अस्तीति नाव्याप्तिदोषः, एवम् अलक्ष्येषु अजमहिषादिषु न वर्तते इति न अतिव्याप्तिर्दोष इति निर्दुष्टं सास्नावत्त्वं गोः लक्षणमिति उच्यते।

  • नित्यत्त्वादिविभागः

प्रकृतमनुसरामः । गन्धः पृथिव्याः लक्षणम् इत्युक्तम् । लक्षणज्ञानेन सामान्यतः पृथिव्यां ज्ञातायां विशेषजिज्ञासा भवति तत्रोक्तं - नित्या अनित्या च । नित्या परमाणुरूपा अनित्या कार्यरूपा इति । यस्य उत्पत्तिः नास्ति अर्थात् प्रागभावो न भवति एवं ध्वंसोऽपि न भवति सः नित्यः । यथा आकाशः । न हि तस्य प्रागभावः ध्वंसो वा वर्तते। यस्य प्रागभावप्रतियोगित्वं ध्वंसप्रतियोगित्त्वं च सः अनित्यः ।

[[४०]]

गन्धवती पृथिवी, गन्धवत्त्वं पृथिवीलक्षणम् इत्यनयोः भेदनिरूपणम् अनित्यपृथिवीरूपस्य घटस्य प्रागभावोऽपि भवति ध्वंसोऽपि। अतः प्रागभावप्रतियोगित्वं घटे। ध्वंसप्रतियोगित्वमपि घटे । इदमेव घटे विद्यमानमनित्यत्वम्। एवमनित्यत्वे ज्ञाते तदभावः नित्यत्वं गगनादौ ज्ञातुं शक्यते । प्रागभावप्रतियोगित्वस्य अभावः, ध्वंसप्रतियोगित्वस्य च अभावः गगने अस्ति। इदमभावद्वयमेव नित्यत्वम्। तद्युक्ता नित्या पृथिवी परमाणुरूपा (पृ. १२) निरूपिता । तस्यामपि अस्ति इदमभावद्वयमिति परमाणोः नित्यत्वमागतम्। अनित्या तु घटादिरूपा उक्तैव।

+- गन्धवती पृथिवी, गन्धवत्त्वं पृथिवीलक्षणम् इत्यनयोः भेदनिरूपणम्

उभयविधपृथिव्याः गन्धरूपस्य लक्षणस्य च अस्ति आधाराधेयभावः । तथा जलस्थले शीतस्पर्शः अपां लक्षणमिति अत्रापि शीतस्पर्शः आधेयः आपो जलम् अधिकरणम्। शीतस्पर्शे आधेयता, तन्निरूपिताधिकरणता जले, अधिकरणताश्रयः जलम्, अधिकरणताश्रयत्वं जले अस्तीति समन्वयः। लक्षणस्य लक्ष्ये विद्यमानत्वं यत् वर्ण्यते सः समन्वयः इत्युच्यते।

परन्तु सङ्ग्रहे गन्धवती पृथिवी, शीतस्पर्शवत्यः आपः इत्यादिलक्षणवाक्यानि लौकिकव्यवहारः इव भवन्ति । यथा सास्नादिमती गौः इति लौकिकव्यवहारः यथा वा नीलो घटः इति व्यवहारः। परन्तु नैयायिकव्यवहारे लक्षणवाचकं यत् पदं ततः परं त्वतलादिभाववाचकप्रत्ययं कृत्वा लक्ष्यवाचकपदोत्तरं च षष्ठीं प्रयुञ्जते। यथा गन्धवत्त्वं पृथिव्याः लक्षणमिति।

तेषामयमाशयः। लक्ष्यगतं कञ्चन असाधारणं धर्मं ज्ञात्वा आश्रयस्य लक्ष्यस्य ज्ञानं लक्षणविचारे इष्टम् । प्रथमान्तपदैः सास्नादिमती, गन्धवती, शीतस्पर्शवत्यः इत्यादिभिः तु लक्ष्यमेव निर्दिश्यते न तु तद्गतधर्मः। सास्नादिमती का ? गौरेव । गन्धवती का ? पृथिवी एव । शीतस्पर्शवत्यः काः ? आपः एव । एवं च लक्ष्यवाचकपदस्य या विभक्तिः, तत्समानविभक्तिकं यदि लक्षणवाचकपदं भवेत् तदा विद्यमानोऽपि आधाराधेयभावः न बुद्ध्येत । अतः तज्ज्ञानाय लक्षणवाक्यं तथा स्यात् यथा स्पष्टः

गन्धवती पृथिवी, गन्धवत्त्वं पृथिवीलक्षणम् इत्यनयोः भेदनिरूपणम् धर्मबोधः स्यात् । अतः गन्धवती इत्यत्र यः मतुप्प्रत्ययः ततः भावप्रत्ययः कार्यः।

तथा च गन्धवती + त्व = गन्धवत्त्व इति पदं

त्व

भवति। तत्र विद्यमानेन भावप्रत्ययेन भावः धर्मः

गन्ध

बोध्यते। स च भावः गन्धसमानकक्ष्यः भवति।

वती

अतः गन्धवत्त्वम् इत्यस्य गन्धः एव अर्थः । अत एव प्रसिद्धः नियमः मत्वर्थीयात् भाव- प्रत्ययः प्रकृत्यर्थं गमयतीति।

तस्याः भावः

धर्मः

पृथिवी बुद्ध्यते

चि.स.४७

गन्ध + मतुप् + त्व =

गन्धः,

शीतस्पर्श + मतुप् + त्व =

शीतस्पर्शः,

सास्ना + मतुप् + त्व = सास्ना ।

तथा च सास्नावत्त्वम् इत्यनेन सास्ना, गन्धवत्त्वम् इत्यनेन गन्धः,

शीत-

स्पर्शवत्त्वम् इत्यनेन शीतस्पर्शः बोध्यते। अतः आधाराधेयभावः, धर्मधर्मिभावः सुस्पष्टः भवति। इदमेव शास्त्रे तटस्थलक्षणमित्युच्यते। अत एव रूपरहितस्पर्शवान् ४१ इति सङ्ग्रहवाक्यं रूपरहितत्वे सति स्पर्शवत्त्वं वायोर्लक्षणमिति ग्रन्थकारैः व्याख्यायते।

वायुः

तथा च गन्धः आधेयश्चेत् तत्र आधेयता, तन्निरूपिता अधिकरणता पृथिव्याम्, अधिकरणतावती पृथिवी, अधिकरणतावत्त्वं पृथिव्यामिति गन्धनिष्ठाधेयता- निरूपिताधिकरणतावत्त्वं पृथिवीलक्षणं फलितम् ।

अत्रैव च व्याख्यासौकर्याय आधाराधेयभावघटिते जलतेजसोः लक्षणे वर्णयामः। जललक्षणे शीतस्पर्शवत्यः आपः इत्यत्र शीतस्पर्शनिष्ठाधेयता- निरूपिताधिकरणतावत्त्वम् अपां जलस्य लक्षणं, तेजोलक्षणे च उष्णस्पर्शनिष्ठाधेयता- निरूपिताधिकरणतावत्त्वं तेजसः लक्षणम् इति वक्तव्यम् । चित्रप्रकारस्तु पूर्ववत् अनुसन्धेयः ।

१ - Same floor४२

शरीरादिविभागः

शीतस्पर्शवत्य आपः । ताः द्विविधाः । नित्या अनित्याश्च। नित्याः परमाणुरूपाः। अनित्याः कार्यरूपाः । पुनस्त्रिविधाः। शरीरेन्द्रियविषयभेदात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति । विषयः सरित्समुद्रादिः।

उष्णस्पर्शवत्तेजः । तद्विविधम् । नित्यमनित्यं च । नित्यं परमाणु- रूपम् । अनित्यं कार्यरूपम् । पुनस्त्रिविधम् । शरीरेन्द्रियविषयभेदात् । शरीरमादित्यलोके । इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति । विषयश्चतुर्विधः- भौमदिव्योदर्याकरजभेदात् । भौमं वचादिकम् । अबिन्धनं दिव्यं विद्युदादि । भुक्तस्य परिणामहेतुरुदर्यम् । आकरजं सुवर्णादि ।

रूपरहितस्पर्शवान् वायुः । स द्विविधः । नित्योऽनित्यश्च । नित्यः परमाणुरूपः। अनित्यः कार्यरूपः । पुनस्त्रिविधः । शरीरेन्द्रियविषयभेदात् । शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ति । विषयो वृक्षादिकम्पनहेतुः। शरीरान्तः सञ्चारी वायुः प्राणः । स चैकोऽप्युपाधिभेदात् प्राणापानादिसञ्ज्ञां लभते ।

शरीरेन्द्रियविषयभेदात् इति सङ्ग्रहग्रन्थः । इह ग्रहणसौकर्याय पृथिव्यादि-

चतुष्टयस्य पट्टिका प्रदर्श्यते ।

द्रव्यम्

शरीरम्

इन्द्रियम्

विषयः

पृथिवी

मनुष्यादीनाम् घ्राणम्

मृत्पाषाणादिः

जलम्

वरुणलोके

रसनम्

सरित्समुद्रादिः

तेजः

आदित्यलोके

चक्षुः

भौमादिः

वायुः

वायुलोके

त्वक्

वृक्षादिकम्पनहेतुः

जलपरमाण्वादौ अपि पूर्वोक्तं नित्यत्वम् इतरेषु अनित्यत्वं बोध्यम् ।

जलादिशरीराणां वरुणादिलोके स्थितिः पुराणप्रसिद्धा । नासिकादिकमधिष्ठानमाश्रयः ।

तत्र स्थितानि इन्द्रियाणि गन्धादिप्रत्यक्षं जनयन्ति ।

दलसार्थक्यं नाम किम ?

तेजोग्रन्थे अबिन्धनमिति । आपः जलम् निमित्तकारणम् (पृ.११५) यस्य तत् विद्युदादि । सुवर्णस्य तेजोरूपता वेदबोधिता । अग्नेरपत्यं प्रथमं हिरण्यमितिश्रुतेः ।

  • दलसार्थक्यं नाम किम् ?

अथ वायुग्रन्थे विशेषः चिन्त्यते ।

रूपरहितः स्पर्शवान् वायुः इति वायुलक्षणम् ।

पूर्वदर्शितरीत्या रूपरहितत्वे सति स्पर्शवत्त्वं वायोर्लक्षणम्। (पृ.१९) रूपरहितः इत्यस्य रूपसामान्याभाववान् इत्यर्थः । स्पर्शवत्त्वं स्पर्श एव । अत्र रूपरहितत्वं स्पर्शवत्त्वम् इति द्वे दले भागौ वर्तेते। विषयेऽस्मिन् किञ्चित् विचार्यते।

कश्चित् सखायं गृहसङ्केतं पृच्छति। उत्तररूपेण सखा यदि स्वस्य पत्रसङ्केतं वदति, सम्यगेव। ग्रहणसौकर्याय समीपस्थं किञ्चित् प्रसिद्धं स्थलम् अतिरिक्तमपि वदति चेत्, न दोषः। परन्तु अनावश्यकं यद्यत् गृहसमीपे वर्तते, तत् वक्तुमारभते चेत्, सः परिहास्यतां प्राप्नोति । अतः वक्ता बोधनीयं यत् वस्तु, तस्य सम्यक् परिज्ञानाय वस्तुसम्बन्धी आवश्यकः धर्मः निर्देष्टव्यः । परन्तु फल्गु अनावश्यकं नैव प्रयोक्तव्यम् इति लोकसिद्धोऽयं संव्यवहारः । किं वा शास्त्रीये विचक्षणव्यवहारे एकस्यैव वस्तुनः साधनाय ज्ञापनाय साधकद्वयं यदि वादी उपन्यस्येत्, पराभवयोग्यः भवेत्।

इत्थमेव वस्तुस्वरूपज्ञानाय लक्षणप्रयोगे कर्तव्ये एकेन दलेन वस्तुनः सम्यक् ज्ञानं भवति चेत् दलद्वयं न वक्तव्यम्, न प्रयोक्तव्यम् । एवमपि सङ्ग्रहकारेण दलद्वयं प्रयुक्तम्। तदुपयोगस्तु पूर्वोक्तातिव्याप्तिरूपदोषवारणाय ।

कथम् उपयोगः ? उच्यते । रूपरहितत्वमेव यदि वायुलक्षणं स्यात् तदा पृथिव्यादित्रिकं विहाय सर्वस्मिन् जगति अतिव्याप्तिः, सर्वत्र रूपाभावस्य सत्वात् । अतः स्पर्शवत्त्वम् इति दलं दातव्यम् । स्पर्शवत्त्वम् आकाशादौ क्वापि नास्तीत्यतः न दोषः। स्पर्शवत्त्वमेव यदि वायुलक्षणं स्यात् तदा पृथिव्यामतिव्याप्तिः ।

१ - Postal Address

[[४३]]

दलसार्थक्यं नाम किम् ?

अतः दलद्वयं मिलित्वा लक्षणमिति नातिव्याप्तिः । इत्थमेव सुखाद्युपलब्धि- साधनम् इन्द्रियं मनः इत्यादिषु दलद्वयघटितलक्षणेषु बोध्यं, वक्ष्यते च ।

रूपम्

रूपम्

पृथिवी

जलम्

रूपाभावः

रूपम्

एतत्त्रितयं विहाय

तेजः

सर्वेषु पदार्थेषु रूपाभावः वर्तते।

रूपाभावः रूपाभावः रूपाभावः रूपाभावः

सर्वं जगत्

रूपाभावः रूपाभावः रूपाभावः रूपाभावः रूपाभावः रूपाभावः रूपाभावः रूपाभावः

रूपाभावः रूपाभावः रूपाभावः रूपाभावः

[[४४]]

चि.स. ४८

अयं च रूपाभावः रूपसामान्याभावः, रूपं नास्तीति प्रतीतिसिद्धः । तत्र सामान्याभावीयप्रतियोगितावच्छेदकत्वं प्रागुक्तं विचिन्त्य रूपत्वनिष्ठावच्छेदकता- निरूपितावच्छेद्यताश्रयप्रतियोगितानिरूपितानुयोगिताश्रयः अभावः इत्यर्थः लभ्यते ।

अवच्छेदकता

अवच्छेद्यता

रूपत्वम्

प्रतियोगिता

अनुयोगिता

रूपम्

अभावः

चि.स. ४९

अयं प्रागुक्तार्थदार्ल्याय पुनःस्मारितः।

वायुविभागस्तु प्रागेव चिन्तितः । तत्र शरीरे सञ्चरतः वायोः स्थानभेदात् सञ्ज्ञाभेदमाह - शरीरान्तः सञ्चारीति । उपाधिः हृदयादिस्थानानि । अधिकमन्यत्र ।

सम्बन्धस्य अवच्छेदकत्वव्यवस्थापनम्

  • क्रमप्राप्तम् आकाशं निरूपयति .

शब्दगुणकमाकाशम्। तच्चैकं विभु नित्यश्च इति ।

शब्दः गुणः यस्य तत् शब्दगुणकम् । अत्र यद्यपि गन्धवती पृथिवी इति लक्षणकरणमिव शब्दवदाकाशमिति लक्षणकरणमेवोचितम् तथापि मीमांसकाः शब्दः द्रव्यमिति यत् अङ्गीकुर्वन्ति तन्निराकरणाय, तस्य गुणत्वव्यवस्थापनाय च लक्षणे गुणपदं स्थापितम्।

सम्बन्धस्य अवच्छेदकत्वव्यवस्थापनम्

केचन समवायसम्बन्धावच्छिन्न - आधेयत्वलाभाय गुणपदमित्याहुः । तेषामयमाशयः। एक एव पदार्थः अनेकेषु पदार्थेषु विभिन्नैः सम्बन्धैः भवति । निदर्शनं घटं स्वीकुर्मः। सः संयोगसम्बन्धेन भूतले वर्तते। समवायसम्बन्धेन कपाले वर्तते। तादात्म्यसम्बन्धेन स्वस्मिन् भवति । वक्ष्यमाणेन कालिकसम्बन्धेन महाकाले वर्तते। विषयिता सम्बन्धेन च ज्ञाने वर्तते । अत्र चिन्त्यते ।

चित्रे दर्शितरीत्या एकस्मिन् घटे अनेकाः आधेयताः सन्ति । तास्तु प्रत्येकं भिन्नाः। ज्ञाने अनुत्पन्ने’ तन्निरूपिता आधेयता न भवति चेत् अपि कपालनिरूपिता आधेयता भवति। तदापि कपाले घटस्य सत्वात् । एवमन्यत्र ।

आधेयता.

आधेयता यता

घटः

आधेयता

अधिकरणता

भूतलम्

आधेयता,

अधिकरणता

ज्ञानम्

अधिकरणता अधिकरणता अधिकरणता

। महाकालः

स्वयम्

कपालः

चि.स.५०

[[४५]]

१ - यदा आत्मनि ज्ञानं नास्ति तदा इत्यर्थः ।

[[४६]]

सम्बन्धस्य अवच्छेदकत्वम्

सर्वासामासां परस्परभेदसाधनाय सम्बन्धस्य उपयोगः भवति । कपालनिष्ठा- धिकरणतानिरूपिता आधेयता ज्ञाननिष्ठाधिकरणतानिरूपिताधेयत्वात् भिन्ना। कुतः ? समवायात् । समवायसम्बन्धो हि घटकपालयोः विद्यमानः, इयमाधेयता ज्ञाननिरूपिता- धेयत्वात् भिन्ना इति बोधयति । इदं बोधकत्वमेव सम्बन्धस्य आधेयतावच्छेदकत्वम्।

पूर्वभागे (पृ.२८) घटनिष्ठप्रतियोगिता पटनिष्ठप्रतियोगितातः अन्या इति बोधनाय घटत्वपटत्वयोः उपयोगः दर्शितः । परन्तु इह एक एव घटः सर्वत्र वर्तते इति आधेयतावच्छेदकघटत्वमादाय आधेयत्वानां भेदं न साधयितुं प्रभवामः । कुतः ? घटत्वमपि खलु अवच्छेदकम् एकम्। अतः सर्वा आधेयताः घटत्वावच्छिन्नाः। अतः न तेन भेदसिद्धिः।

अत्र च समवायोपयोगः। समवायः, कपालनिरूपिता आधेयता भिन्ना इति ज्ञापयति अतः सः आधेयतावच्छेदकः । तेन अवच्छिन्ना, अन्यत्वेन बोधिता, आधेयता । तथा च पूर्ववत् समवायनिष्ठावच्छेदकतानिरूपितावच्छेद्यतावती आधेयता, आधेयतानिष्ठावच्छेद्यतानिरूपितावच्छेदकतावान् समवायः इति परिष्कर्तव्यम् । इत्थमेव विषयितासम्बन्धावच्छिन्नघटनिष्ठाधेयतानिरूपिताधिकरणतावत् ज्ञानम्, कालिक- सम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणतावान् कालः, संयोगसम्बन्धावच्छिन्ना- धेयतानिरूपिताधिकरणतावत् भूतलम् इत्येवं ज्ञातव्यम्।

अयमपरो विशेषः यत् समवायादीनामवच्छेदकत्वेऽपि घटपटादिषु प्रत्येकं विद्यमानाः याः कपालतन्त्वादिनिरूपिताः आधेयताः ताः सर्वाः अपि समवाय- सम्बन्धावछिन्नाः इति तासां भेदज्ञापनाय घटत्वपटत्वादीनाम् अस्ति अपेक्षा।

एवं सति समवायेऽपि अवच्छेदकता, घटत्वेऽपि अवच्छेदकता इति वचने असौकर्यम्। अतः अनयोः अवच्छेदकत्वयोः निरूपणसौकर्याय समवायनिष्ठा- वच्छेदकतायाः सांसर्गिकावच्छेदकता इति व्यवहारो दृश्यते ।

तथा च समवायनिष्ठसांसर्गिकावच्छेदकतानिरूपितावच्छेद्यतावती एवं

प्रतियोगितायाः सम्बन्धावच्छिन्नत्वं, तुल्यन्यायात्

घटत्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यतावती या घटनिष्ठाधेयता तन्निरूपिता- धिकरणतावान् कपालः इति निष्कर्षः फलति।

तथा च लघुना उपायेन -

१) विषयतासम्बन्धावच्छिन्नघटत्वावच्छिन्नाधेयतानिरूपिताधिकरणतावत् ज्ञानम् । २) कालिकसम्बन्धावच्छिन्नघटत्वावच्छिन्नाधेयतानिरूपिताधिकरणतावान् कालः। ३) संयोगसम्बन्धावच्छिन्नघटत्वावच्छिन्नाधेयतानिरूपिताधिकरणतावत् भूतलम् इति

वक्तुं शक्नुमः ।

  • प्रतियोगितायाः सम्बन्धावच्छिन्नत्वं, तुल्यन्यायात्

अयमेव चोपायः प्रतियोगित्वस्थलेऽपि ज्ञातव्यः । तत्र भूतले समवायेन घटो नास्ति, कपाले संयोगेन घटो नास्ति, काले विषयतासम्बन्धेन घटो नास्तीति अभावान् यदि चिन्तयामः तदा तस्य तस्याभावस्य प्रतियोगिताः तिस्रः घटे एव वर्तन्ते । तासां च परस्परं भेदज्ञापनाय न घटत्वोपयोगः । सर्वत्र तस्यैकस्यैव अवच्छेदकत्वात् ।

अतः येन सम्बन्धेन नास्तीति व्यवहारः कृतः, तं सम्बन्धमादायैव ४७ प्रतियोगिताभेदः अधिगन्तव्यः। तत्प्रकारश्च समवायसम्बन्धनिष्ठसांसर्गिकावच्छेदकता- निरूपितावच्छेद्यतावती घटत्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यतावती या घटनिष्ठ- प्रतियोगिता तादृशप्रतियोगिता निरूपितानुयोगिताश्रयः अभावः भूतले समवायेन घटो नास्तीति प्रतीतिसिद्धः ।

इहापि अभावस्य वृत्तित्वं स्वरूपेणेति प्राक् निर्णीतम् । अतः पूर्वोक्त- तादृशाभावनिष्ठस्वरूपसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणतावत् भूतलमिति समवायेन भूतले घटो नास्तीत्यस्य अर्थः ।

संयोगसम्बन्धनिष्ठसांसर्गिकावच्छेदकतानिरूपितावच्छेद्यतावती अथ च घटत्व- निष्ठावच्छेदकतानिरूपितावच्छेद्यतावती या घटनिष्ठप्रतियोगिता तादृशप्रतियोगिता- निरूपितानुयोगिताश्रयाभावनिष्ठस्वरूपसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणतावत्

[[४८]]

प्रतियोगितायाः सम्बन्धावच्छिन्नत्वं,

तुल्यन्यायात्

कपालम् इति संयोगेन कपाले घटो नास्तीत्यस्य अर्थः ।

काले विषयतासम्बन्धेन घटो नास्तीति ज्ञाने भासमानमभावमादाय

सांसर्गिकावच्छेदकता

अवच्छेदकता

समवायः

घटत्वम्

अवच्छेद्यता अवच्छेद्यता

प्रतियोगिता

अनुयोगिता

अधिकरणता

अभावः

भूतलम्

स्वरूपसम्बन्धावच्छिन्नाधेयता

चि.स.५१

विषयतासम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रतियोगितानिरूपकाभावनिष्ठस्वरूप-

सम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणतावान् कालः इति सङ्क्षेपतः वक्तुं शक्नुमः ।

एवमेव वायौ समवायेन रूपं नास्ति, तन्तौ संयोगेन पटो नास्ति, गगने कालिकेन घटत्वं नास्तीत्यादिप्रत्ययाः तत्र तत्र प्रतियोगितायां सम्बन्धविशेषावच्छिन्नत्वं धर्मविशेषावच्छिन्नत्त्वं च निवेश्य अभ्यस्याः ।

एवं घटः पटो न इत्यत्रापि (पृ.३२) तादात्म्यसम्बन्धः भवति प्रतियोगिता- वच्छेदकः। तथा च घटत्वावच्छिन्नतादात्म्यावच्छिन्नप्रतियोगिताकाभावः य भेदः तद्वान् पटः इति प्रतियोगितायाः तादात्म्यावच्छिन्नत्वसिद्धिः ।

प्रकृते आधेयत्वस्थले समवायादिसम्बन्धैः घटः कपालादिषु इव शब्दोऽपि

प्रतिनियतग्राह्याः गुणाः

समवायेन आकाशे, कालिकेन काले, विषयतासम्बन्धेन स्वविषयकप्रत्यये वर्तते इति बहुविधाधेयताः शब्दे वर्तन्ते। तासु या समवायसम्बन्धावच्छिन्नाधेयता तन्निरूपिता- धिकरणतावत्त्वमेव प्रकृते लक्षणमिति बोधनाय गुणपदमुपात्तम्। गुणगुणिनोः समवायस्य प्राक् व्यवस्थापनेन, गुणपदेन तयोः यः समवायसम्बन्धः तस्यैव उपस्थित्या तत्सम्बन्धा- वच्छिन्नाधेयत्वलाभः इति । इत्थमेव च ज्ञानाधिकरणमात्मा इत्यत्रापि अधिकरणपद- निवेशप्रयोजनं वक्ष्यते। (पृ.६२)

लक्षणवाक्येन आकाशे ज्ञाते तत् किं पृथिव्यादिवत् नाना उत एकमिति जिज्ञासायामाह तच्चैकमिति । अयमाशयः ।

  • प्रतिनियतग्राह्याः गुणाः

रूपं रसः गन्धः स्पर्शः शब्दश्चेति गुणाः प्रतिनियतग्राह्याः इति शास्त्रे व्यवह्रियन्ते। तेषाम् एकैकस्य एकैकमेव इन्द्रियं ग्राहकम्, वक्ष्यमाणप्रत्यक्षात्मक- ज्ञानजनकम्। अन्येऽपि सुखदुःखादयः ये आत्मविशेषगुणाः (पृ.५२, ७०) तेषां प्रत्यक्षजनकत्वेन मनः इति अतिरिक्तमिन्द्रियमनुमीयते ।

प्रतिनियतग्राह्याः गुणाः - तद्ग्राहकाणि इन्द्रियाणि

[[४९]]

रूपम्

चक्षुः

रसः

रसनम्

गन्धः

घ्राणम्

स्पर्शः

त्वक्

शब्दः

श्रोत्रम्

मनः

चि.स.५२

षट् ज्ञानाद्यात्मगुणाः

तथा च पूर्वोक्तगुणानां ग्राहकाणि क्रमेण चक्षूरसनघ्राणत्वक्श्रोत्राणि, मनश्च षष्ठमिति आहत्य षडिन्द्रियाणि । आदिमानि पञ्च बहिरिन्द्रियाणि बहिर्भूतान् घटादीन्

१ - सर्वत्र प्राण्यङ्गत्वात् एकवद्भावः प्राप्तः । परन्तु प्राणभिन्नानां संयुक्तद्रव्यत्वात् अवयवत्वाभावः, ‘‘घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः” इति न्यायसूत्रादुन्नीतः सौकर्याय आवृतः।

द्रव्यप्रत्यक्षं केन भवति ?

प्रकाशयन्ति । आभ्यन्तरं भवति मनः आत्मानं तद्गतगुणान् च प्रकाशयति ।

[[1]]

तेषु चक्षुस्त्वमनांसि गुणस्येव तदाश्रयद्रव्यस्यापि प्रत्यक्षं जनयन्ति। चक्षुषा रूपस्य इव तदाश्रयस्य घटादेरपि प्रत्यक्षोत्पादनात् । भवति हि उन्मीलिनयनस्य पुंसः नीलो घटः इति प्रत्यक्षात्मकं ज्ञानम् । एवमेव त्वगिन्द्रियमनसोः अपि आश्रयग्राहकत्वं बोध्यम्। अन्येषु त्रिषु इन्द्रियेषु रसनेन्द्रियघ्राणेन्द्रिययोः गुणमात्रग्राहकता, न तु द्रव्यमपि ताभ्यां गृह्यते। यद्यपि गुडः चक्षुषा गृह्यते, इति न सः अतीन्द्रियः तथापि घ्राणरसनयोः गुणाश्रयग्राहकत्वं नास्ति । घ्राणं गन्धस्य रसना रसस्य च जनयति प्रत्यक्षम् ।

द्रव्यगुणोभयग्राहकाणि

चक्षुः

त्वक्

मनः

गुणमात्रग्राहकाणि

घ्राणम्

रसनम्

श्रोत्रम्

शिष्टं श्रोत्रेन्द्रियं, कर्णपुटेन पृथक्कृतः आकाशदेश एव । तत्तु शब्दस्यैव प्रत्यक्षं जनयति। न तु आश्रयस्य। कुतः ? आश्रयस्य आकाशस्य अतीन्द्रियत्वात्। यस्मिन् हि परमाणुपरिमाणातिरिक्तपरिमाणं उद्भूतरूपं (पृ.५३) च भवति तस्यैव द्रव्यस्य बहिरिन्द्रियेण प्रत्यक्षं भवति नान्यस्य इति च निर्णीतम् ।

उद्भूतरूपम्

प्रत्यक्षयोग्याः

घटः (पृथिव्यादित्रिकम्)

परमाणुपरिमाणातिरिक्तपरिमाणम्

घटादयः

चि.स.५३

द्रव्यप्रत्यक्षं केन भवति ?

न प्रत्यक्षयोग्याः

रूपं न परमाणुपरिमाण-

उद्भूत-

वर्तते

भिन्नपरिमाणमस्ति

रूपमस्ति

परमाणुपरिमाण- भिन्नपरिमाणं नास्ति

वायुप्रभृतिद्रव्याणि विशेषतश्च

पृथिव्यादित्रिकस्य

त्वगिन्द्रियं वायवीयम्

परमाणुः द्व्यणुकम्

श्रोत्रेन्द्रियमाकाशस्वरूपञ्च

रूपं वर्तते परमाणुपरिमाण-

रूपं

उद्भूतरूपं

भिन्नपरिमाणं

नास्ति

परमाणुपरिमाण- भिन्नपरिमाणं न वर्तते

नास्ति

वर्तते

पृथिव्यादिरूपाण्यपि घ्राणरसनचक्षुरिन्द्रियाणि

[[५१]]

मनः

चि.स.५४

  • द्रव्यप्रत्यक्षं केन भवति ?

घण्टे उद्भूतरूपमस्ति परमाणुपरिमाणातिरिक्तं मध्यमपरिमाणं च वर्तते इति तस्य चक्षुषा त्वचा च प्रत्यक्षं भवति ।

परमाणुद्व्यणुकयोः उद्भूतरूपमस्ति परन्तु परमाणुपरिमाणातिरिक्तपरिमाणं न वर्तते इति तयोः प्रत्यक्षं, साक्षात्कारः न भवति। एवमेव घ्राणेन्द्रियादीनि पृथिव्यादि- द्रव्यरूपाणि अपि न प्रत्यक्षाणि । तत्र पृथिवीत्वस्य सत्वेन रूपवत्त्वानुमानेऽपि अतीन्द्रियत्वमालोच्य न तत् रूपं वक्ष्यमाणम् (पृ.५३) उद्भूतरूपमिति निर्धारितम् । अतः उद्भूतरूपाभावात् तानि अपि अतीन्द्रियाणि । मनसस्तु न उद्भूतरूपं नापि १ - द्वाभ्यां परमाणुभ्यां जायमानः आद्यः अवयवी ।

२- पृथिवीत्वं भवति यत्र तत्र रूपमवश्यं भवतीति नियमः ।५२

आकाशादीनाम् एकत्वम्

उक्तपरिमाणमिति सुदूरं तस्य प्रत्यक्षम् । शब्दाश्रयस्य गगनस्य वायोश्च परमाणुपरिमाणातिरिक्तपरिमाणं वर्तते परन्तु न तत्र रूपमस्ति इति तयोरपि प्रत्यक्षं न भवति ।

  • किं तर्हि तयोः सत्वे प्रमाणम् ? अनुमानम्। पृथिव्यादित्रिके यादृशस्पर्शः वर्तते तद्विजातीयस्पर्शः अनुभूयमानः यः स आश्रयभूतद्रव्यमपेक्षते इति तदाश्रयतया वायुः सिद्ध्यति । एवमेव शब्दरूपगुणस्य आश्रयभूतं द्रव्यम् आवश्यकमिति तदाश्रयतया आकाशः सिद्ध्यति ।

तत्र च अनुमानेन’ सिद्ध्यतः पदार्थस्य बहुत्वज्ञानाय काचन साधकयुक्तिरस्ति चेत् तस्य बहुत्वं स्वीक्रियते एव । अनुभूयते च अनुमितस्यापि वायोः नानात्वम्। अन्यो हि समीरणः वृक्षादिकम्पनहेतुः । अन्यश्च शरीरान्तःसञ्चारी प्राणः। यथा वा आत्मसुखादिप्रत्यक्षाय चक्षुरादिभिन्नमिन्द्रियं मनोरूपम् अनुमितम्। तस्य अनेकत्वमपि आवश्यकम् । एकेनैव परमाणुरूपेण मनसा सर्वेषामात्मनां युगपत् सुखदुःखाद्यसम्भवात्। अतः मनसः अनुमानसिद्धत्वेऽपि तस्य बहुत्वं स्वीक्रियते । न तथा आकाशस्य एकत्वेन काचन हानिरस्ति । इदमेव मनसि निधायोक्तं तच्चैकमिति । (पृ.४९)

अनुमितिविषयता अनेकेषु स्वीक्रियते चेत् बुद्धेः यः क्लेशः तत् गौरवमित्युच्यते। अनुमितिविषयतायाः एकस्मिन् स्वीकारे बुद्धेः सौकर्यं लाघवमित्युच्यते। तादृशलाघवमालोच्य आकाशादीनामेकत्वमादृतम् । तद्वदेव च तेषामनित्यत्वे अवयवादिकल्पना, प्रागभावः ध्वंसः च स्वीकर्तव्यो भवतीति गौरवम् । नित्यत्वे बाधकमपि नास्तीति लाघवात् तेषां नित्यत्वमेव स्वीक्रियते ।

  • आकाशस्य परिमाणमाह - विभ्विति । विभुत्वं परममहत्परिमाणवत्त्वम्। यत्परिमाणापेक्षया उत्कृष्टं महत्परिमाणं न भवति तत् ।

सङ्ग्रहे यद्यपि चतुर्विधानि परिमाणानि वक्ष्यन्ते (पृ.९३) तथापि आश्रयानुरोधेन अन्योऽपि विभागः कर्तव्यो भवति । स च अणुपरिमाणं, परममहत्परिमाणं, मध्यमपरिमाणम् ।

१ - धूमज्ञानेन यत् वह्नेः ज्ञानं जायते सा अनुमितिः । तस्य कारणं धूमज्ञानम् अनुमानम्। एवं सर्वत्र । २ - आदिपदेन कालः दिक् च ग्राह्या ।

परमाणुपरिमाणम् पृथिव्यादिचतुष्टयस्य

परममहत्परिमाणम्

आकाशः

परमाणवः

कालः

द्व्यणुकानि च ।

दिक्

इन्द्रियाणाम् अतीन्द्रियत्वम्

मध्यमपरिमाणम्

घटपटादयः ।

पृथिव्यादिचतुष्टयस्य

विभागग्रन्थे

मनांसि

जीवाः

शरीरेन्द्रियविषयभेदात्

ईश्वरः

इत्यनेन ये दर्शिताः ते

सर्वेऽपि ।

पूर्वोक्ता लाघवयुक्तिः कालदिशोः एकत्वसाधनाय नित्यत्वसाधनाय च ज्ञातव्या । तयोरपि अनुमानेन साधनात्, अनुमानेन सिद्ध्यतः पदार्थस्य नित्यत्वे एकत्वे च लाघवात् । मनस्तु अनुमितमपि नैकं, बाधकसत्वादिति प्रागावेदितमेव । लक्षितस्यापि चाकाशस्य एकत्वात् विषयविभागः न कृतः ।

I

अस्ति तथापि श्रोत्रेन्द्रियमाकाशरूपम् । कुतः तन्नोक्तम् ? उच्यते । घ्राणेन्द्रियात् प्रभृति चतुर्णामिन्द्रियाणामुत्पत्तिः अवयवैः जायते । तत्र प्रक्रिया घटादिद्रव्ये यादृशी तादृशी एव । तथा हि - द्वाभ्यां पृथिवीपरमाणुभ्यां पृथिवीद्व्यणुकमुत्पद्यते । त्रिभिः द्व्यणुकैः त्र्यणुकमुत्पद्यते। चतुर्भिः त्र्यणुकैः चतुरणुकम् इत्येवमवयविनां घटादीनामुत्पत्तिः भवति। तत्र पृथिवीपरमाणुद्व्यणुकयोः उद्भूतरूपसत्वेऽपि परमाणुपरिमाणातिरिक्त- परिमाणाभावात् प्रत्यक्षं न भवति इति प्रागुक्तम्। (पृ.५१) त्र्यणुकात् प्रभृति चरमावयविपर्यन्तं सर्वेषु महत्त्वोद्भूतरूपयोः सत्त्वात् भवति तेषां प्रत्यक्षम् । एवं जलादौ ।

परन्तु घ्राणादीन्द्रियाणां चतुर्णामपि इन्द्रियान्तरेण स्वेन वा प्रत्यक्षं न भवतीति आनुभविकम् । तन्निर्वाहाय, तेषामवयवपरम्परायां द्व्यणुकादिषु कुतश्चित् विरोधवशात् उद्भूतरूपं न उत्पद्यते इति स्वीक्रियते।

किमिदम् उद्भूतरूपम् ? उच्यते। द्विविधं हि रूपं उद्भूतम्, अनुद्भूतं च । येन द्रव्यप्रत्यक्षं भवति तदुद्भूतम्। यस्मिन् सत्यपि द्रव्यप्रत्यक्षं न भवति तत् अनुद्भूतम्। घटादौ उद्भूतरूपम्। घ्राणादौ च अनुद्भूतम्।

[[५३]]

इन्द्रियाणाम् अतीन्द्रियत्वम्

एवं च घटावयवपरम्परागतपञ्चाणुकादिवत् इमानि इन्द्रियाणि अपि महत्त्ववन्ति

मध्यमपरिमाणवन्ति । परन्तु उद्भूतरूपाभावात् अतीन्द्रियत्वं सिद्ध्यति।

पृथिवीपरमाणुद्व्यणुकादिपरम्परया

जलपरमाणुद्व्यणुकादिपरम्परया

तेजःपरमाणुद्व्यणुकादिपरम्परया

घ्राणेन्द्रियम्

रसनेन्द्रियम्

चक्षुरिन्द्रियम्

त्वगिन्द्रियम्

वायुपरमाणुद्व्यणुकादिपरम्परया

एतादृशोत्पत्तिपरम्परा न श्रोत्रेन्द्रिये घटते । तस्य आकाशरूपत्वस्वीकारात् । आकाशस्य एकत्वेन परमाणुद्व्यणुकादिपरम्परया श्रोत्रस्य उत्पत्तिः न सम्भवति । अतः श्रोत्रस्य नित्यत्वात् इतरजन्येन्द्रियवत् अस्य पृथगुल्लेखः न कृतः ।

परन्तु कस्यचित् पुंसः एव शब्दप्रत्यक्षम्, अन्यस्य न इति व्यवस्थानिर्वाहाय तत्तच्छरीरभेदेन श्रोत्रेन्द्रियाणि अपि अनन्तानि साधनीयानि । अतः कर्णशष्कुली कर्णपुटं सर्वत्र विद्यमानस्य आकाशस्य अवच्छेदकं भेदकं भवतीति कल्प्यते ५४ इत्यलम्।

पृथिव्यादिभूतद्रव्याणि (पृ.३४६ ) निरूप्य सम्प्रति कालं लक्षयति अतीतादीति । + अतीतादिव्यवहारहेतुः कालः । स चैको विभुर्नित्यश्च ।

घटः अतीतः न सम्प्रति अस्ति, घटः वर्तते, घटः भविष्यति इत्यादिप्रयोगाः अस्माभिः क्रियन्ते । ते च न पूर्वोक्तैः द्रव्यैः वर्णयितुं शक्याः । अतः तादृशव्यवहार- सम्पादकम् अतिरिक्तं द्रव्यमनुमीयते कालसञ्ज्ञकम् । इदमेव च लक्षणवाक्ये उक्तम् अतीतादिव्यवहारहेतुः कालः इति ।

सङ्ग्रहे व्यवहार इति पदघटितानि अष्टौ लक्षणानि सन्ति । एकत्र सम्यक् अवगमने सर्वत्र तयैव रीत्या चिन्तनं सुकरम्। तत्र व्यवहारपदस्य ज्ञानजनकशब्दप्रयोगः इत्यर्थः । यथा केनचिदुक्तं घटः अतीत इति। तादृशभाषणं श्रुत्वा श्रोतुः अतीतघटविषयकं ज्ञानमुत्पद्यते। अर्थात् घटनिष्ठविशेष्यतानिरूपकम् अतीतत्वनिष्ठप्रकारतानिरूपकं

काललक्षणे अवच्छेद्यावच्छेदकभावः

ज्ञानमुत्पद्यते । अतः तथाविधज्ञानं प्रति शब्दप्रयोगः कारणम्। तादृशश्च शब्दप्रयोगः कालाख्यं द्रव्यम् अस्वीकृत्य न कर्तुं शक्यः इति तं प्रति कारणत्वमेव कालस्य लक्षणम् ।

इत्थञ्च तत्र चित्रं भवेत्।

प्रकारता

अतीतत्वम्

निरूपक

कार्यता

कारणता कार्यता कारणता

ज्ञानम्

विशेष्यता

निरूपक'

शब्दप्रयोगः

कालः

घटः

चि.स.५५

काललक्षणे अवच्छेद्यावच्छेदकभावः

प्रकारत्वविशेष्यत्वस्थलेऽपि सर्वत्र अवच्छेद्यावच्छेदकभावः ज्ञातव्यः । तथा ५५ च अतीतत्वं प्रकारश्चेत् अतीतत्वे प्रकारता, प्रकारतावच्छेदकं तद्वृत्तिधर्मः अतीतत्वत्वम् । घटे विशेष्यता, विशेष्यतावच्छेदकं घटत्वम् । तादृशप्रकारताविशेष्यतयोः निरूपकं ज्ञानम् अतितो घटः इति, तादृशज्ञानजनकः यदि शब्दप्रयोगः तर्हि, ज्ञानं जन्यं, जन्यता ज्ञाने, जन्यतावच्छेदकं ज्ञानत्वं तादृशज्ञानत्वावच्छिन्नजन्यतानिरूपित- जनकता शब्दप्रयोगे जनकतावच्छेदकं शब्दप्रयोगत्वं, तदवच्छिन्नजनकताश्रयः यः शब्दप्रयोगः सः कालं विना न सम्भवति इति कालः तस्य जनकः, तन्निरूपितजन्यतापि शब्दप्रयोगे इति एकत्रैव शब्दप्रयोगे ज्ञाननिष्ठकार्यतानिरूपितकारणता वर्तते, एवं कालनिष्ठकारणतानिरूपितकार्यताऽपि वर्तते । सा कार्यताऽपि शब्दप्रयोगत्वावच्छिन्ना। तादृशकार्यतानिरूपितकारणताश्रयः कालः, कारणताश्रयत्वं कालस्य लक्षणम् ।

‘तथा च आहत्य अतीतत्वत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्न-

विशेष्यतानिरूपकज्ञाननिष्ठज्ञानत्वावच्छिन्नकार्यतानिरूपितशब्दप्रयोगत्वावच्छिन्न-

१ - भावप्रत्ययात् भावप्रत्ययः नैयायिकव्यवहारात् ।

कालोपाधिनिरूपणम्

कारणताश्रयशब्दप्रयोगनिष्ठशब्दप्रयोगत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वं

कालस्य लक्षणमिति वाच्यम् ।

एवं घटो वर्तमानः, घटो भविष्यति इति शब्दप्रयोगौ आदाय ताभ्यां जायमानौ बोधौ, तत्र प्रकारौ वर्तमानत्वभविष्यत्त्वे, प्रकारतावच्छेदके वर्तमानत्वत्वभविष्यत्त्वत्त्वे ज्ञात्वा अभ्यसनीयम् ।

सूक्तिललन्तिका

  • कालोपाधिनिरूपणम्

कालनिरूपणप्रसङ्गात् तस्य सर्वाधारत्वं, कालसङ्कोचकरूपोपाधयः कालिक- सम्बन्धश्च निरूप्यन्ते। अनादिः अनन्तः खलु कालः । तस्यं यथावस्थितस्य न व्यवहारयोग्यतास्ति। न हि वयं कुतश्चित् प्रभृति आरब्धां शकादिगणनाम्, आधुनिकीं वा ख्रिस्ताब्दगणनां विहाय अयं पूर्वमासीत्, अयं तदा आसीत् इति व्यवहरामः, उन्मत्तस्य वा तथा भाषणेन किञ्चित् अवगच्छामः । अतः परिच्छिन्नः, केनचित् ५६ पदार्थेन पृथक्कृतः कालः अस्माकं व्यवहारयोग्यः भवति । निदर्शनाय स्वातन्त्र्योत्तरकालः इति व्यवहारमादाय चिन्तयामः । अनेन परमव्यापकस्यापि कालस्य १९४७ प्रभृति २०११ पर्यन्तं किञ्चित् शकलं बुद्धौ आरोहति। विषयमेनं सुविशदं निरूपयामः।

कालस्य गणनायै अनेके उपायाः अस्मद्पूर्वजैः आदृताः ।

पृथिवीं परितः सूर्यस्य भ्रमणं प्रकल्प्य तत्र

अंशानां षष्ट्यधिकानि त्रीणि शतानि आदाय एकैकांशतुल्यपरिधिभागं क्रमितुं यः कालः, तत्

कालमानं भवेत् इति विचारः प्रक्रान्तः । ततः सूर्यादिनैरपेक्ष्येण कालज्ञानाय घटिकायन्त्रं सलम्बकं

चि.स.५६

घटिकायन्त्रं चाविष्कृतम् । परन्तु सर्वत्र जलसिकतादिसाधनानां न्यूनाधिकभावे मानं स्थिरं न भवति। लम्बकेऽपि घर्मकाले वेगन्यूनतया शीतकाले वेगाधिक्याच्च तावदंशानां

१ - Time unit, २ - watch with pendulam

गृहादिः कथं कालोपाधिर्भवति ?

प्रक्रमाय कदाचित् अधिककालः, कदाचित् न्यूनः कालः इति वैषम्यम् । अतः आधुनिकैः क्वाट्झ ं इति रीतिः आविष्कृता । तत्र क्रियाणां सन्ततौ सूक्ष्मोऽपि न्यूनाधिकभावः न

भवति ।

इह अवलोक्यताम्। पञ्चभिः क्रियाभिः निमिषशरः द्वादशात् बिन्दोः प्रथमं बिन्दुं प्राप्नोति । ताभिः पञ्चभिः क्रियाभिः व्यापकस्य कालस्य सङ्कोचः जातः । ततः प्रथमबिन्दोः द्वितीयबिन्दुं यातुं पञ्चभिः क्रियाभिः तावानेव कालः सङ्कुचितो भवति । एवमेव अग्रेऽपि । एतादृशक्रियासमुदायः तुल्यकालपृथक्कर्ता, पलानि, घटिका, होरा, प्रहरः, दिनम्, सप्ताहः पक्षः मासः वत्सरः इत्येवं व्यवहारयोग्यो भवति ।

गृहादिः कथं कालोपाधिर्भवति ?

[[१२]]

चि.स.५७

or

तावान् क्रियासमुदायश्च येन अनुभूतः तदा यः आसीत् सः गृहादिः ५७ तावत्क्रियासमुदायेन पृथक्कृतः एकस्य वत्सरस्य सम्बन्धी भूत्वा स्वयमपि कालस्य सङ्कोचको भवति। तथा हि - एकं गृहं पद्मालयसञ्ज्ञकं १९७५ वत्सरे उत्पन्नम् । ततः प्रभृति २०११ पर्यन्तं षट्त्रिंशत् वत्सरात्मकक्रियासमुदायाः तद्गृहं च एकस्मिन् काले आसीदिति पद्मालयस्य षट्त्रिंशत् वत्सराः इति व्यवहारयोग्यता तद्गृहस्य आगता। पद्मालयस्य निर्माणानन्तरं दशभ्यः वत्सरेभ्यः अनन्तरं शिवालयः इति गृहमुत्पन्नमिति उच्यमाने शिवालय : १९८५ मध्ये उत्पन्नः इति विद्मः। एवं पद्मालयात् पञ्चभ्यः वत्सरेभ्यः प्राक् शारदालयः उत्पन्नः इत्युक्तौ तस्य कालः १९७० इति अपि विद्मः।

एवं च क्रियाभिः सङ्गतं वस्तु पद्मालयम् आदाय तत्पूर्वम्, ततः पश्चात् इत्यादयः व्यवहारः प्रवर्तन्ते । अतः एते पदार्थाः कालस्य सङ्कोचकाः कालोपाधयः इति शास्त्रे व्यवह्नियन्ते ।

? - watch operated by vibrations of an electrically driven quartz crystal. २ - second hand, ३ - क्रियासमुदायः वत्सरः, ते च षट्त्रिंशत् ।

[[५८]]

सर्वजन्यानां समानकालिकानां परस्परमधिकरणत्वम्

तत्रापि अयं विशेषः। यः कदाचित् उत्पत्स्यमानः, काश्चन क्रियाः अनुभवेत् सः एव भवति कालस्य सङ्कोचकः । न तु कालतुल्य एव उत्पत्तिविनाशरहितः परमाण्वाकाशादिः। अतः जन्यस्यैव कालसङ्कोचकत्वात् सिद्धः नियमः जन्यानामेव कालोपाधित्वम् इति ।

एवं भूतले घटः, चत्वरे गौः इत्यादिवत् इहापि अधिकरणत्वावगाही प्रत्ययः भवति । तदाकारस्तु इदानीं घटः, तदानीं पटः इति । अत्र च अधिकरणत्वेन ज्ञायमानः पदार्थः, इतरपदार्थानां बाधात् काल एव इति स्वीक्रियते। तत्र च आधाराधेयभावनिर्वाहाय गुणगुण्यादीनां समवाय इव अतिरिक्तः सम्बन्धः कल्प्यते । स एव कालिकसम्बन्धः इत्युच्यते । इदानीं पृथिवी, तदानीं वायुः, इदानीमाकाशः, इदानीं रूपादयः, क्रियाः, घटत्वम्, विशेषः, समवायः अभावो वा इत्यादिप्रतीतिभिः सर्वेषामेव पदार्थानां कालवृत्तित्वं निश्चीयते इति सर्वाधारः कालः इति अपरोऽपि नियमः सिद्ध्यति।

  • सर्वजन्यानां समानकालिकानां परस्परमधिकरणत्वम् अत्र च वस्तुगत्या महाकालस्यैव सर्वाधारत्वेऽपि यमुपाधिमाश्रित्य विस्तृतस्य कालस्य कालिकसम्बन्धः सिद्धः, तस्य उपाधेरपि तेन सम्बन्धेन अधिकरणत्वं स्वीक्रियते। यथा पूर्वोक्ते उदाहरणे।

शारदालयः

[[१९७०]]

पद्मालयः

शिवालयः

[[१९७५]]

[[१९८५]]

चि.स.५८

परन्तु तत्र यथा अन्तरा जातं पद्मालयमादाय तदनन्तरं शिवालयः, तत्पूर्वं शारदालयः इति व्यवहारः दृश्यते तथैव अत्यन्तपूर्ववर्तिशारदालयमादायापि ततः पञ्चभ्यः वत्सरेभ्यः अनन्तरं पद्मालयः, पञ्चदशभ्यः वत्सरेभ्यः अनन्तरं शिवालयः

समानकालिकजन्याधारत्वमेव कथम् ?

इति व्यवहारः प्रसिद्ध एव । एवम् अन्तिमं शिवालयमादाय ततः दशभ्यः वत्सरेभ्यः पूर्वं पद्मालयः उत्पन्नः, पञ्चदशभ्यः वत्सरेभ्यः पूर्वं शारदालयः उत्पन्नः इत्यादयोऽपि व्यवहाराः सार्वजनीना इति पद्मालये इव इतरयोः गृहयोः कालोपाधित्वमागतम् । तुल्यन्यायात् सर्वेषामेव जन्यानां कालोपाधित्वं, उपाधित्वात् कालिकेन अधिकरणत्वमपि सिद्ध्यति ।

तथा च शारदालये कालिकेन पद्मालयशिवालयौ, पद्मालये कालिकेन शारदालयशिवालयौ एवं शिवालये कालिकेन शारदालयपद्मालयौ वर्तेते इत्यपि सिद्ध्यति ।

इत्थमेव च जगति वर्तमानानां सर्वेषामेव जन्यानां कालिकेन तत्समानकालिक- जन्याधारत्वं परमाण्वादिनित्याधारत्वं च सिद्धं भवति ।

समानकालिकजन्याधारत्वमेव कथम् ?

तत्समानकालिकजन्याधारत्वमित्यस्य अयमाशयः । ययोः कालिकेन

आधाराधेयभावः : वक्तव्यः ताभ्याम् अभिन्ना एका काचन क्रिया सहानुभोक्तव्या ।

पद्मालयः

उत्पत्तिः १९००-

शिवालयः

[[१९२५]]

१९२५ कृष्णाष्टमी → नाशक्षणः उत्पत्तिदिनम् - → श्रावणकृष्णनवमी

चि.स.५९

अस्मिन् उदाहरणे पद्मालयनाशः १९२५ शकाब्दे कृष्णाष्टम्यां जातः । शिवालयस्तु परेद्यवि उत्पन्नः। अतः घटिकायन्त्रस्य न कापि क्रिया ताभ्यां सह अनुभूता इति तयोः कालिकसम्बन्धः न भवति ।

[[५९]]

समानकालिकजन्याधारत्वमेव कथम् ?

शारदालयः

शिवालयः

[[६०]]

उत्पत्तिः १९००-

[[१९२५]]

१९२५ कृष्णाष्टमी→ नाशक्षणः श्रावणकृष्णसप्तमी → उत्पत्तिदिनम्

१९३६ मध्ये अपि वर्तते

चि.स.६०

अस्मिन् उदाहरणे १९२५ शकाब्दे श्रावणकृष्णसप्तम्यां याः घटिकायन्त्रस्य क्रियाः ताः सर्वाः अपि उभाभ्यामनुभूताः। अतः तयोः मध्ये परस्परमाधाराधेयभावः भवत्येव। परमार्थस्तु

(१) उपाधिना परिच्छिन्नः महाकालः जन्यानां नित्यानां च कालिकेन आधारः । (२) जन्याः अपि तुल्यक्रियापरिच्छेदकानां निखिलानामेव जन्यानां कालिकेन अधिकरणानि ।

(३) नित्यानां तु सुतराम् । परन्तु

(४) तथाविधपरिच्छेदयोग्यत्वाभावात् महाकालातिरिक्तनित्याः कालिकेन अधिकरणानि न भवन्तीति दिक् ।

  • दिशः निरूपणम्

इदानीं दिशं निरूपयति -

प्राच्यादिव्यवहारहेतुर्दिक् । सा चैका विभ्वी नित्या च इति । इह इयं प्राची, इयं प्रतीची इत्यादिशब्दप्रयोगान् आदाय तज्जन्यं ज्ञानं चादाय चिन्त्यम् । तादृशप्रयोगः व्यवहारः न दिशं विना सम्भवतीति तत्कारणत्वं दिशि स्थिरम् ।

दिशः निरूपणम्

प्रकारता

जन्यता जनकता

जन्यता

जनकता

प्राचीत्वम् विशेष्यता

ज्ञानम्

उदयगिरिः

शब्दप्रयोगः

दिक्

चि.स. ६१

इति चित्रं भवेत् ।

इहापि एकैव दिक् अनादिः अनन्ता न इह, तत्र, प्राची प्रतीची इत्यादिव्यवहारयोग्या भवति इति कञ्चन परिच्छेदकमुपाधिमादायैव ते व्यवहाराः सम्पाद्याः । अतः उदयगिरिं स्थिरीकृत्य तत्र प्राची, अस्ताचलमादाय प्रतीची इत्येवं व्यवहाराः प्रसिद्धाः ।

इह उदाहरणं पश्यामः । शिवालयमादाय चिन्त्यते चेत्

उत्तरा दिक

शारदालयः

[[६१]]

पद्मालयः तस्य उदीच्यां वर्तते इति सा तस्य उदीची भवति । परन्तु शारदालयमादाय चिन्तने तु पद्मालयः दक्षिणदिशि वर्तते इति

पद्मालयः

शिवालयः

सा तस्य दक्षिणा भवेत् । अतः एक

चि.स.६२

एव पद्मालयः दक्षिणापि भवति उत्तरा अपि ।

इहापि काललक्षणदर्शितरीत्या उदयगिरित्वावच्छिन्नविशेष्यतानिरूपित

प्राचीत्वत्वावच्छिन्नप्रकारतानिरूपकज्ञाननिष्ठज्ञानत्वावच्छिन्नकार्यतानिरूपित

शब्दप्रयोगत्वावच्छिन्नकारणताश्रयशब्दप्रयोगनिष्ठ शब्दप्रयोगत्वावच्छिन्न- कार्यतानिरूपितकारणताश्रयत्वं दिशः लक्षणमिति ।ज्ञानवान् इत्यनुक्त्वा ज्ञानाधिकरणमिति कुतः उक्तम् ?

  • ज्ञानवान् इत्यनुक्त्वा ज्ञानाधिकरणमिति कुतः उक्तम् ? उद्देशक्रमानुसारमात्मानं निरूपयति-

ज्ञानाधिकरणमात्मा । सः द्विविधः । जीवात्मा परमात्मा चेति । तत्रेश्वरः सर्वज्ञः परमात्मा एक एव । जीवस्तु प्रतिशरीरं भिन्नो विभुर्नित्यश्च इति ।

इह ज्ञानवान् आत्मा इत्येव वक्तव्ये ज्ञानाधिकरणमात्मा इति कथनं पूर्वोक्तरीत्या सम्बन्धविशेषसूचनाय । ग्रहणदाय पुनरपि सः अर्थः प्रतिपाद्यते । कालनिरूपणे दर्शितरीत्या सर्वेऽपि पदार्थाः कालिकसम्बन्धेन महाकाले, तदुपाधौ च वर्तन्ते । ज्ञानमपि कालिकसम्बन्धेन महाकाले वर्तते ।

(१) बुद्धिः (२) सुखम् (३) दुःखम् (४) इच्छा (५) द्वेषः (६) प्रयत्नः (७)धर्मः पुण्यम् (८) अधर्मः पापं (९) भावनाख्यसंस्कारः इत्येवं नव पदार्थाः आत्मनः विशेषगुणाः। विशेषगुणः तद्द्रव्यमात्रवृत्तिः भवति। यथा उष्णस्पर्शः तेजसः विशेषगुणः, गन्धः पृथिव्याः विशेषगुणः । तथा बुद्ध्यादयः नव आत्मनः गुणाः । ६२ तेषु अन्तिमाः त्रयः न मनसा गृह्यन्ते। अतः ते अतीन्द्रियाः । तथापि वक्ष्यमाणप्रकारेण (पृ.१२३) व्यापाररूपत्वेन कल्पिताः । अतः सर्वे आत्मनः विशेषगुणाः भवन्ति । तेषामाश्रयः गुणी आत्मा । गुणगुणिनोः समवायः प्रागुक्तः । अतः ज्ञानमात्मनि समवायसम्बन्धेन वर्तते। एवम् घटो द्रव्यमिति एकं ज्ञानं स्वीकृतम् । अस्य ज्ञानस्य विषयः घटः। घटे ज्ञानस्य विषयता वर्तते । अतः तज्ज्ञानं विषयतासम्बन्धेन घटे वर्तते ।

एवञ्च एकस्यैव ज्ञानस्य त्रयः सम्बन्धाः आगताः । कालिकः आद्यः, समवायः, विषयता च । तत्तत्सम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणताः तिस्रः क्रमेण काले, आत्मनि, घटे च वर्तन्ते । तासु अधिकरणतासु या द्वितीया अधिकरणता, ज्ञानत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नज्ञाननिष्ठाधेयता- निरूपिताधिकरणता, सा आत्मलक्षणे प्रविष्टा इति सूचनाय ज्ञानवानात्मा इत्यनुक्त्वा ज्ञानाधिकरणमात्मा इत्युक्तम्।

सम्बन्धानां वृत्तिनियामकत्वं वृत्तिनियामकत्वाभावः च

सूक्तिललन्तिका

  • सम्बन्धानां वृत्तिनियामकत्वं वृत्तिनियामकत्वाभावः च अत्र तृतीयाधिकरणतावर्णनाय विषयतासम्बन्धेन ज्ञानं घटे वर्तते इत्युक्तम् । विषयेऽस्मिन् किञ्चित् विचार्यते । घटः भूतले संयोगेन वर्तते इति अस्ति प्रत्ययः । एतादृशप्रत्ययबलात् आधाराधेयभावः सिद्ध्यतीति ग्रन्थादौ उपपादितम् । तत्र घटः भारं निदधाति, भूतलं भारं वहति इति अपि उक्तम् । भारवहनालोचना अधिकरणता, तादृशभारनिधानालोचना आधेयता इत्यपि (पृ. ३) प्रागुक्तम् ।

परन्तु एतादृशोपपादनं बालबोधायैव उपयुज्यते । यतो हि घटे रूपं समवायसम्बन्धेन वर्तते इत्यपि अस्ति प्रत्ययः । तेनापि आधाराधेयभावः सिद्ध्यति । परन्तु रूपं गुणः इति न तत् भारनिधानक्षमम् । भारः गुरुत्वमिति उच्यते । तच्च गुरुत्वं गुण इति न रूपे गुणभूते भवति । कथं तर्हि रूपादि भारनिधानक्षमं भवेत् ? कथं वा घटः रूपभारं वहेत् ? अतः भारनिधानम्, भारवहनमित्येतत् सर्वं बालबोधनायैव ग्रन्थादौ लिखितम् ।

वस्तुतः इदम् अत्र वर्तते इति अस्मदीया प्रामाणिकप्रतीतिः एव आधाराधेयभावं साधयति । न तु तत्र भारादिविचारः अपेक्षितः । एवञ्च भूतले घटः वर्तते इति प्रत्ययेन यथा घटभूतलयोः आधेयाधारभावः सिद्ध्यति, तद्वत् घटे रूपं वर्तते, वायौ स्पर्शः वर्तते, आत्मनि ज्ञानादयः वर्तन्ते, पटे द्रव्यत्वं वर्तते, द्रव्यगुणकर्मसु सत्ताजातिः (पृ.११) वर्तते, कपालयोः घटः वर्तते, तन्तुषु पटः वर्तते, सर्पे क्रिया वर्तते, कन्दुके उत्पतनं वर्तते, परमाण्वाकाशादौ विशेषः वर्तते (पृ.१४) इत्यादिभिः प्रतीतिभिः, समवायसम्बन्धस्य यानि पञ्च युगलानि गुणगुणिनौ, अवयव्यवयवौ, जातिव्यक्ती, क्रियाक्रियावन्तौ, विशेषनित्यद्रव्ये इत्येतेषु, प्रथमस्य आधेयत्वं, द्वितीयस्य अधिकरणत्वं च सिद्ध्यति ।

एवं भूतले घटो नास्ति, वायौ रूपं नास्ति, परमाणौ महत्वं नास्ति, रूपे गुरुत्वं नास्ति इत्यादिप्रत्ययैः तत्तदभावस्य दैशिकविशेषणतासम्बन्धेन आधेयत्वं

[[६३]]

[[६४]]

विषयत्वसम्बन्धस्य वृत्तिनियामकत्वे विवादः

भूतलवाय्वादीनामधिकरणत्वं च सिद्धं भवति । एवमेव विषयत्वं, कार्यत्वं, कारणत्वं इत्यादयः ये विषयाः एतच्छास्त्रचर्चिताः, तेषामपि घटे विषयत्वं वर्तते इत्यादिज्ञानैः दैशिकविशेषणतासम्बन्धेन स्वरूपापरपर्यायेण आधाराधेयभावसिद्धिः । अतः विषयत्वादीनाम् आधेयत्वं, घटादीनामधिकरणत्वं ज्ञातव्यम् ।

एवं (पृ.५७) दर्शितरीत्या कालोपाधीनां गृहादिरूपजन्यानामपि इदानीं घटः वर्तते, तदानीं घटः आसीत् इत्यादिप्रत्ययैः कालिकसम्बन्धेन अधिकरणत्वम् इतरेषां च तेन सम्बन्धेन आधेयत्वं बोध्यम् । परमार्थस्तु संयोगेन, समवायेन, स्वरूपापरपर्यायदैशिकविशेषणतया, कालिकेन यौ पदार्थों परस्परसम्बद्धौ प्रतीयेते तत्र, इह इति प्रत्ययविषयः भूतलादि अधिकरणं भवति अयमिति प्रत्ययविषयः घटादिः आधेयत्ववान् भवति इति सिद्धम् । एते च सम्बन्धाः आधाराधेयभावं साधयन्ति इति वृत्तिनियामकाः इत्युच्यन्ते । वृत्तिः आधेयता । तन्नियामकाः तदवच्छेदकाः इत्यर्थः ।

  • विषयत्वसम्बन्धस्य वृत्तिनियामकत्वे विवादः

सर्वमपि इदं विवरणं विषयतासम्बन्धमुपक्रम्य कृतम् । यथा च संयोगादिसम्बन्धैः अयमत्र वर्तते इति आधाराधेयभावसाधकः प्रत्ययः भवति तथा विषयतास्थलेऽपि प्रत्ययः भवतीति नैयायिकमूर्धन्यानां गदाधरभट्टाचार्याणामाशयः। विषयतासम्बन्धेन घटे घटविषयकं ज्ञानं वर्तते, विषयतासम्बन्धेन आत्मविषयकं ज्ञानमात्मनि वर्तते इति प्रत्ययाः समीचीना एव। तथा च वर्तते इत्येवमाकारः अस्तीति विषयतासम्बन्धस्थलेऽपि आधाराधेयभावः भवति । अतः सोपि वृत्तिनियामकः इति भट्टाचार्याणां ग्रन्थदर्शनेन

अवगच्छामः।

श्रीमज्जगदीशतर्कालङ्काराणां मते तु संयोगेन यथा वर्तते इति प्रत्ययः जायते तद्वत् ज्ञानस्थले वर्तते इति प्रत्ययः नैव जायते। यदि कस्यचित् भवति, न सः समीचीनः। अतः आधेयाधारभावः विषयतास्थले नैव सिद्ध्यति । किन्तर्हि ?

सूचीकटाहन्यायः इमौ सम्बद्धौ इत्येतावदेव। घटविषयकज्ञानम् उत्पन्नं चेत्, घटः ज्ञानं च विषयतासम्बन्धेन सम्बद्धे इत्येतावन्मात्रम् । आत्मा नित्यः इति चेत् ज्ञानम्, तदा ज्ञानात्मानौ विषयता- सम्बन्धेन सम्बद्धौ इत्येतावन्मात्रम् ।

एवं पदार्थोऽपि ज्ञाने विषयितासम्बन्धेन सम्बद्धः इत्येव, न तु वर्तते इत्यपि आयाति। इत्थमेव च सर्वत्र तत्तत्पदार्थविषयकज्ञानमादाय चिन्त्यम् । तथा च विषयतासम्बन्धः विषयितासम्बन्धः वा न आधाराधेयभावसाधकः । अतः न वृत्तिनियामकः । कीदृशस्तर्हि ? वृत्त्यनियामकः वृत्तिनियामकत्वाभाववान् आधेयतानवच्छेदकः इति तर्कालङ्काराणाम् आशयः तद्ग्रन्थदर्शनेन प्रतीयते ।

तस्मात् विषयतासम्बन्धावच्छिन्नज्ञाननिष्ठाधेयतानिरूपिताधिकरणता आत्मनि इति आत्मलक्षणनिरूपणे यदुक्तम्, यच्च आकाशनिरूपणे (पृ.४८) शब्दनिष्ठविषयितासम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणतावत् शब्दविषयकं ज्ञानमिति उक्तं, तदुभयमपि भट्टाचार्यमतमादाय इति दिक् ।

प्रकृतमात्मलक्षणमनुसरामः । ज्ञाननिष्ठसमवायसम्बन्धावच्छिन्नाधेयता- निरूपिताधिकरणता एव प्रकृतलक्षणे प्रविष्टा न तु कालिकादिसम्बन्धावच्छिन्नाधेयता- निरूपिताधिकरणता अपि इत्येतद्बोधनाय अन्नम्भट्टैः ज्ञानाधिकरणमित्युक्तम् । अन्यथा कालिकसम्बन्धावच्छिन्नज्ञाननिष्ठाधेयतानिरूपिताधिकरणताश्रयकालमादाय, लक्षणे अतिव्याप्तिदोषः प्रसज्येत। अतः उक्तविवक्षा आवश्यकीति ध्येयम्।

  • सूचीकटाहन्यायः

आत्मनः विभागमाह जीवात्मेति । विभागग्रन्थे जीवात्मनः पूर्वनिर्देशेऽपि स्वरूपवर्णने ईश्वरनिरूपणं सूचीकटाहन्यायेन पूर्वं कृतम्। कोऽयं सूचीकटाहन्यायः? कस्यचित् लोहकारस्य समीपं कटाहमपेक्षमाणः आदौ गतः । कटाहं साधय इति चोक्तवान्। तदनन्तरं गत्वा कश्चित् सूची अपेक्ष्यते इत्याह । अनयोर्मध्ये कस्य निर्माणं लोहकारः पूर्वं कुर्यात् ? सूच्याः । कुतः ? अल्पायाससाध्या हि सूचिः। बहुश्रमसाध्यः

[[६५]]

ईश्वरसाधकमनुमानम्

कटाहः। उभयविधकार्यसन्निपाते यत् अल्पायाससाध्यं तदेव हि पूर्वं क्रियते लोके 1 अयं सूचीकटाहन्यायः इह ग्रन्थकारेण उपयुक्तः । ईश्वरः यद्यपि पश्चात् निर्दिष्टः तथापि तत्र न बहु वक्तव्यमस्ति। जीवनिरूपणे हि तस्य प्रतिशरीरं भेदः निरूप्यः इति आयासबाहुल्यम् आलोच्य ईश्वरः आदौ निरूपितः ।

ईश्वरसाधकमनुमानम्

यथा आकाशनिरूपणावसरे, श्रूयमाणः शब्दात्मकगुणः आश्रयेण विना न भवति इति तस्य आश्रयत्वेन आकाशः कल्पितः, यथा वा वायुनिरूपणावसरे अनुभूयमानः विजातीयः स्पर्शः आश्रयेण विना न भवति इति तदाश्रयत्वेन वायुः अतिरिक्तं द्रव्यं साधितं तद्वत् ईश्वरानुमानाय प्रसिद्धः ज्ञायमानः न कोपि गुणः वर्तते, यमादाय तदाश्रयत्वेन ईश्वरः सिद्ध्येत् । अतः अत्रत्या रीतिः अस्ति अन्यादृशी ।

दण्डचक्रादिकारणसमवधानेपि यदि कुलालः न भवति, न घटः उत्पद्यते । तन्तुतुरीवेमादिरूपकारणसत्वेऽपि यदि तन्तुवायः न भवति, न पटः उत्पद्यते । तेन ६६ इदमवगच्छामः यत्, किमपि कार्यं उत्पादनीयं चेत् अचेतनाः कपालचक्रादयः यथा अपेक्षिताः, तथैव चेतनोऽपि कश्चित् आवश्यकः । तेन ईदृशनियमः आगतः किञ्चित् कार्यमुत्पद्यते चेत् चेतनापेक्षा वर्तते । एवं सति यत्र अस्मादृशाः अल्पज्ञाः कुलालादयः न वर्तन्ते तथापि कार्योत्पत्तिः दृश्यते; यथा द्व्यणुकादिसंयोगपरम्परया महापृथिवीगोलः, महत् जलम्, सूर्यादितेजांसि उत्पद्यन्ते, तत्र यः चेतनः अस्मदादिभिन्नः स्वीकर्तव्यः भवति, स एव ईश्वरः।

तस्य अल्पज्ञत्वे कुलालादिभ्यः वैलक्षण्यं न स्यादिति सः सर्वज्ञः। आकाश- निरूपणे उक्तरीत्या अनुमानेन यः पदार्थः सिद्ध्यति, तस्य बहुत्वसाधकयुक्तिः यदि नास्ति तदा तस्य एकत्वे लाघवमिति तस्य एकत्वमपि सिद्ध्यति । अस्मदादिभ्यः तस्य ईदृशं विलक्षणत्वं वक्तुं परमात्मा इत्युक्तम्। परः उत्कृष्टः। उत्कर्षश्च ज्ञानेच्छा- कृतीनां नित्यत्वात् सुखदुःखादीनां परमात्मनि असत्वात् बोध्यः।

ज्ञानम्, इच्छा, कृतिः इति त्रयाणां परस्परं भेदः

  • ज्ञानम्, इच्छा, कृतिः इति त्रयाणां परस्परं भेदः

अत्र प्रसङ्गात् ज्ञानादीनामानुभविकं वैलक्षण्यम् उदाहरणेन साधयिष्यामः ।

कश्चित् यानेन ग्रामान्तरं गन्तुं प्रवृत्तः गवाक्षात् उद्यानानि पश्यति । तत्र अनेकविधान् वृक्षान् पश्यति । केचन पुष्पिताः, केचन फलिताः, केचन पत्रमयाः दृश्यन्ते। इदं यत् पश्यति, दृश्यते इत्यादिभिः व्यवह्रियते (पृ. ३२) तत् निरूपितं प्रकाशात्मकं ज्ञानम् । अयमेकः आत्मगुणः। अत्र ग्रामान्तरं गन्तुं प्रवृत्तस्य ज्ञानान्येव अनेकेषां वृक्षाणां भवन्ति न तु वक्ष्यमाणा, इच्छा, प्रयत्नो वा ।

परन्तु सः यदा विहाराय उद्यानं याति तदा यात्रायाम् इव आदौ तस्य सर्वेषां वृक्षाणां, लतानां ज्ञानानि भवन्ति एव । परन्तु इतोऽपि अन्यः आत्मनि गुणः उत्पद्यते । सैव इच्छा । इदं मम भवतु इति शास्त्रे तस्य आकारवर्णनं कुर्वन्ति । इयं च इच्छा ग्रामगमनावसरे न आत्मनि उत्पन्ना । इदानीम् उद्याने उत्पन्ना । अतः अयं ज्ञानात् भिन्नः गुणः ।

परन्तु अत्र उद्याने पुष्पगुल्मलतादीनां विक्रयो न भवति इति जानानः केवलमिच्छति । वृक्षवाटिकां गत्वा इमां लताम् अमुं वृक्षं वा सम्पादयामीति आलोच्य वृक्षवाटिकांः गच्छति ।

तत्र प्राथमिकं, ज्ञानं तस्य भवति, द्वितीया इच्छापि, इतोऽपि तृतीयः गुणः आत्मनि उत्पद्यते, येन हस्तः चलित्वा धनार्थं सञ्चिकां याति । सः गुणः न यात्रायां उत्पन्नः, नापि उद्याने । तदा सः यदि उदपत्स्यत हस्तः सञ्चिकां अगमिष्यत् । न गतः। तेन विद्मः, आदिमयोः स्थलयोः अविद्यमानः गुणः इदानीमात्मनि उत्पन्नः। स एव प्रयत्नः कृतिः, प्रवृत्तिः, यत्नः, भावना, इत्यादिशब्दैः व्यवह्रियमाणः आत्मविशेषगुणः । तस्मिन् सति हि हस्तपादादौ क्रिया भवति, असति क्रिया न भवति । जाग्रदवस्थायां प्रतिक्षणं शरीरे अनेकाः क्रियाः भवन्ति । सर्वत्र च इयं कृतिः अपेक्षिता । उत्क्षेपणादौ एतेषां त्रयाणावश्यकत्वं वक्ष्यामः । (पृ. ३४३)

[[६७]]

१ - Nursery

[[६८]]

चेष्टास्पन्दयोः भेदकथनम्, सविषयकपदार्थगणनम्

चेष्टास्पन्दयोः भेदकथनम्

अत्रापरोऽयं विशेषः। निराश्रितः हस्तः गगने उन्नीतश्चेत् तत्र ईषत् कम्पं वयमनुभवामः। तत्र न किञ्चित् ज्ञातम्, न किञ्चित् अभिलषितम्, नापि प्रयत्तम् । तथापि हस्ते कम्पः दृश्यते । एतादृशी क्रिया हस्ते शरीरे वा जायमाना, पुष्पवाटिकायां सञ्चिकायां निधानाय हस्ते या क्रिया उत्पन्ना, ततः भिन्ना विलक्षणा । तत्र मालती लता, ज्ञाता, अभिलषिता, तां क्रेतुं प्रयत्तं, ततः हस्ते क्रिया उत्पन्ना।

अतः आत्मनि ज्ञानम्, इच्छा, यत्नः, एतेषां त्रयाणाम् असत्वे या हस्ते, शरीरे वा क्रिया उत्पद्यते सः स्पन्दः कम्प इति वा उच्यते । ज्ञानादीनां त्रयाणां सत्वे या क्रिया उत्पद्यते सैव चेष्टा इति शास्त्रे प्रसिद्धा । यत् इष्टं पुष्पादि तदवाप्तुं, यच्चानिष्टं कण्टकादि तन्निवारयितुं शरीरे जायमाना क्रिया एव चेष्टा इति शरीरक्रिययोः भेदः दर्शितः ।

  • सविषयकपदार्थगणनम्

ज्ञानादीनामस्ति अपरो विशेषः । एते सर्वेपि सविषयकाः, विषयतारूपां (पृ.३३) दर्शिताम् अर्चिं पदार्थे प्रक्षिपन्ति । घटनिष्ठविषयतानिरूपकं ज्ञानम्, पटनिष्ठ- विषयतानिरूपिका इच्छा, मठनिष्ठविषयतानिरूपिका कृतिः इति शक्नुमो वक्तुम्। एवमेव आत्मनिष्ठः द्वेषः अपि सविषयकः । दुर्योधनः भीमम् अद्विषत् इति विद्मः। तत्र दुर्योधनस्य द्वेषः, सविषयकः, भीमविषयकः । तथा च भीमनिष्ठविषयतानिरूपकः दुर्योधनस्य द्वेषः इति भवेदेव तन्निरूपणम्। तथा च ज्ञानेच्छाकृतिद्वेषाः सविषयकाः। इतोऽपि एकः सविषयकपदार्थः अस्ति भावनाख्यसंस्कारः । तं तु उपरिष्टात् सङ्ग्रहकारः वर्णयिष्यति। वयमपि तस्य विशेषान् निरूपयिष्यामः। (पृ.१२३)

प्रकृतमनुसरामः। पूर्वोक्तानुमानेन यः ईश्वरः सिद्ध्यति सः जन्यपृथिव्यादि- समस्तकार्यनिर्माता इति तस्य ज्ञानम्, इच्छा, कृतिः इति एतत्त्रितयम् आवश्यकम् । अतः ईश्वरेऽपि तत् स्वीक्रियते। परन्तु न तत् अस्मदीयज्ञानादिवत् अनित्यम्। किन्तु नित्यम्। अनित्यत्वे अनन्तानि ज्ञानानि स्वीकर्तव्यानि भवेयुः । तथा च सिद्धः ईश्वरः

जीवात्मनिरूपणम्, जीवस्य अनित्यत्वे का क्षतिः ?

तस्य नित्यज्ञानेच्छाकृतयश्च। विषयेऽस्मिन् नैयायिकैः बहु पराक्रान्तम् उद्ग्रन्थे विशेष-

जिज्ञासुभिः द्रष्टव्यम्।

जीवात्मनिरूपणम्

ईश्वरं निरूप्य जीवमाह जीवस्त्विति । तु इति ईश्वरात् वैलक्षण्यज्ञापनाय। इदं च बहुविधं प्रसिद्धम्। यथा ईश्वरः एक एव । जीवास्तु शरीरभेदेन भिन्नाः। शरीराणि अनन्तानि इति जीवा अपि अनन्ताः। ईश्वरः सर्वविषयकज्ञानवान् सर्वविषयकेच्छावान् सर्वकार्यविषयककृतिमान् । जीवस्तु किञ्चित् जानाति, किञ्चिदेव इच्छति । कृतिरपि तस्य तत्तत्कार्यविशेषविषयिणी एव भवति ।

तत्र शरीरभेदेन जीवस्य भेदः अङ्गीकार्य : । पूर्वपूर्वजन्मसु यत् पापं पुण्यं वा आत्मना आप्तं, तस्य भोगाय किल शरीरम् । तच्च एकैकस्य विभिन्नसुखदुःखाद्यनुरोधात् भिन्नम्। यदा खलु चैत्रः सुखी तदा मैत्रः अनुभवति दुःखम् । एक एव यदि आत्मा स्यात् कथं तस्य एकदा एव सुखं दुःखं वा स्यात् । अतः जीवात्मानः अनन्ताः । तन्नानात्वमुक्त्वा परिमाणमाह विभुरिति ।

  • जीवस्य अनित्यत्वे का क्षतिः ?

स जीवः विभुः सकलमूर्तसंयोगवान्। किमिदं मूर्तम् ? यस्मिन् क्रिया सम्भवति । कस्मिन् क्रिया सम्भवति ? यत् क्वचित् नास्ति । पृथिवी, जलं, तेजः वायुः मनश्च भवति तथाविधम्। न हि तत् सर्वत्रास्ति। अतः यत्रास्ति ततः अन्यत्र संयोगजनिका जायते तस्मिन् क्रिया। तच्च क्रियावत् पृथिव्यादिपञ्चकं मूर्तम्। तैः सर्वैः संयुक्तत्वात् आत्मा विभुः इत्युच्यते। अर्थात् परममहत्परिमाणवान्।

तस्य मध्यमपरिमाणवत्त्वे सः अनित्यः स्यात्। यस्य यस्य मध्यमपरिमाणं सः अनित्यः विनाशी इति खलु घटादौ दृष्टम्। अतः जीवस्य मध्यमपरिमाणे सोऽपि विनाशी स्यात् । अस्तु तथा, किन्तेन ? तथासति पूर्वजन्मनि यत् पापं पुण्यं वा तेन आसादितं तस्य, जीवरूपाश्रयनाशे नाशः स्यात् इत्येको दोषः । अपरश्च इदानीं यत्

[[६९]]

[[७०]]

मनोनिरूपणम्

सुखं दुःखं वा अनुभवति तयोः कारणं नोपलभ्येत। इमौ दोषौ एव कृतहानाकृताभ्यागमौ इति शास्त्रे व्यवह्रियेते। कृतयोः, पूर्वजन्मनि कृतयोः पापपुण्ययोः हानं नाशः। आश्रयरूपस्य जीवस्य नाशे तद्वर्तिनां सर्वेषां गुणानां नाशात् । अकृतस्य अभ्यागमः इदानीं यत् सुखं दुःखं वा अनुभूयते तस्य कारणं न वक्तुं शक्येत । तत्त्वमिदं सुविशदं मुक्तावल्यादिग्रन्थे चिन्तितं तत एवानुसन्धेयम् ।

एवमेव अणुपरिमाणस्वीकारे जीवः शरीरस्य एकदेशे यत्र स्यात् तत्र जायमाना वेदना अनुभूयेत। सर्वशरीरावच्छेदेन युगपत् अनुभूयमानाः वेदनाः न गृह्येरन्। अतः तस्य विभुपरिमाणं स्वीकार्यम्। पूर्वोक्तकृतहानाकृताभ्यागमवारणायैव जीवस्य नित्यत्वमपि स्वीकार्यम् इत्याह - नित्यश्चेति ।

  • मनोनिरूपणम्

इत्थम् आत्मरूपं द्रव्यं निरूप्य मनोरूपं द्रव्यं निरूपयति

सुखायुपलब्धिसाधनमिन्द्रियं मनः । तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च इति ।

उपलब्धिः प्रत्यक्षम्, सुखादीनां यत् प्रत्यक्षं भवति, अहं सुखी, अहं दुःखी इत्येवमाकारकं तस्य साधनं करणं यदिन्द्रियं तत् मनः । चक्षुः श्रोत्रादीन्द्रियाणि यथा रूपशब्दादि गुणग्राहकाणि, तथा सुखदुःखादिगुणग्राहकं यत् इन्द्रियं, तत् मनः इत्युच्यते ।

अनेन इन्द्रियेण न केवलं सुखादीनां प्रत्यक्षं जायते किन्तु तदाश्रयस्य आत्मनः अपि । यद्यपि आत्मनि रूपं नास्ति तथापि (पृ.५०) दर्शितरीत्या बहिरिन्द्रियेण प्रत्यक्षजनने एव रूपापेक्षा । मनस्तु आभ्यन्तरम्, आत्मानं तद्गुणान् च गृह्णाति ।

काललक्षणे व्यवहारः ज्ञानजनकशब्दप्रयोगरूपः प्रविष्टः, तत्र च ज्ञानं सविषयकं प्रविष्टमिति तस्य विषयता अतीतत्वे घटादौ च निरूपिता । तद्वदेव इहापि उपलब्धिः प्रत्यक्षरूपं ज्ञानं सविषयकमिति अत्रापि तद्विषयता वक्तव्या । तदाश्रयश्च सुखं भवति ।

मनोनिरूपणम्

तादृशप्रत्यक्षं प्रति साधनं कारणं मनः चेत् कार्यं प्रत्यक्षं, कार्यता प्रत्यक्षे, तन्निरूपिता कारणता मनसि इत्येवंरीत्या विवेचनं भवति । तथा च चित्रम्

विषयता

सुखम्

विषयिता

प्रत्यक्षम्

जन्यता

जनकता

मनः

चि.स.६३

अत्र च वायुलक्षणे इव द्वे दले वर्तेते । सुखादिप्रत्यक्षसाधनत्वमात्रोक्तौ आत्मनि अतिव्याप्तिः । प्रत्यक्षं प्रति आत्मनः अपि कारणत्वात् । (पृ.१२८) अतः इन्द्रियत्वं देयम्। आत्मनि न इन्द्रियत्वमिति नातिव्याप्तिः । इन्द्रियत्वमात्रोक्तौ चक्षुरादौ अतिव्याप्तिः। अतः सुखादिप्रत्यक्षजनकत्वमपि दातव्यम् । चक्षुः रूपप्रत्यक्षजनकं, न तु सुखग्राहकमिति नातिव्याप्तिः ।

तच्चेति । एकैकस्य आत्मनः एकैकं मनः अपेक्षितमिति असकृत् आवेदितमेव । अतश्च आत्मनाम् अनन्तत्वात् तावन्ति मनांसि अपेक्षितानि । अतः अनन्तमिति युक्तम् ।

तस्य परिमाणमाह परमाणुरूपमिति । मध्यमपरिमाणवत्त्वे (पृ.६९) दर्शितरीत्या अनित्यत्वमापद्येत । अन्योऽपि मध्यमपरिमाणवतः विशेषः दृष्टः। सः अवयवैः उत्पद्यते । यथा घटः । तस्य च प्रागभावः भवति । ध्वंसोऽपि भवति । मनसोऽपि मध्यमपरिमाणवत्त्वे अनन्तानि मनांसि इति अनेके अवयवाः, तस्य तस्यः प्रागभावः, प्रध्वंसाभावः इति इमे स्वीकार्याः भवेयुरिति परमाणुरूपता तस्य स्वीकृता । परमाणुरूपत्वेन एव तस्य नाशासम्भवात् नित्यत्वमपि आह नित्यमिति ।

इति श्रीगोडाकुलाब्धिपूर्णचन्द्रमहामहोपाध्यायश्रीसुब्रह्मण्यगुरुचरणान्तेवासिनः देवदत्तस्य कृतौ तर्कसङ्ग्रहव्याख्यायां विद्याधरीसञ्ज्ञकायां द्रव्यनिरूपणम् ।


[[७१]]