०१ मङ्गलाचरणादि

श्रीगणेशाय नमः । श्रीभगवतीपरमेश्वर्यै नमः ।

श्रीकामाक्षीपरमेश्वर्यै नमः ।

श्रुत्वा च प्रतियोगितां जनकतावच्छेद्यतावृत्तिताः । बालाः पङ्कजपत्रकोमलधियो भीत्या निवृत्ता बत । तद्भीतिक्षपणे सुचित्रसचिवो भाषासुधालम्बनः । सुब्रह्मण्यगुरुप्रसादजनितप्रज्ञः प्रवृत्तोस्म्यहम् ॥

मात्सर्यमुत्सृज्य वचो निशम्य

त्रुटिं समुद्भाव्य च रीतिमेताम् । शिष्यप्रबोधप्रवणां सुधीराः ’ स्वाध्यापनेऽप्यध्वनि योजयध्वम् ॥

स्वान्तरञ्जकदृष्टान्तकर्णया नौकयानया ।

[[२]]

बालाः सन्तीर्यतां कामं नवन्यायसुधानिधिः॥

[[1]]

जगति अनेकानि वस्तूनि सन्ति । पर्वताः, नद्यः, गृहाणि, मनुष्याः इतरे प्राणिनः वनानि नगराणि इत्यादीनि । तेषां ज्ञानेन बुद्धिः विशदा, विचारसमर्था भवति । परन्तु ते अनन्ताः अनेकविधाश्च । अतः सर्वेषां सर्वविधानां ज्ञानं दुःशकम् । अतः किञ्चन वस्तु यत् बहुषु वर्तते, तदादाय तेषां ज्ञापनाय पूर्वाचार्यैः यत्नः कृतः। यथा

गुणः गन्धः शैत्यम् औष्ट्यम् स्पर्शः शब्दः सङ्ख्या सङ्ख्या ज्ञानम् सङ्ख्या

द्रव्यम् पृथिवी जलम् तेजः वायुः आकाशः कालः दिक् आत्मा मनः चि.स.१

१, २ - सम्बोधनम्

[[१]]

मङ्गलाचरणम्

एतानि नव वस्तूनि गृह्णीमः । तेषु सर्वत्र कश्चित् गुणः (पृ.७२) अवश्यं वर्तते। गुणः इति वस्तु पृथिव्यां जले तेजसि… इत्येवं सर्वेषु वस्तुषु वर्तते इति गुणः अनुगतं वस्तु अथवा पदार्थः। अतः तमादाय एते नव पदार्थाः द्रव्यमिति सञ्ज्ञां लभन्ते। तथा च कञ्चन विशेषमादाय सः विशेषः येषु वर्तते तेषां, एकां सञ्ज्ञां कृत्वा आचार्यैः पदार्थबोधनाय यत्नः कृतः ।

तत्र यः विशेषः गृहीतः सः बहुषु भवेत् एकस्मिन् वा भवेत्। बहुषु भवति चेत् बहूनां सा सञ्ज्ञा । यथा पृथिवी द्रव्यमिति उच्यते । जलमपि द्रव्यम्। समवायत्वमिति पदार्थः एकस्मिन्नेव वर्तते अतः एकस्यैव समवाय इति सञ्ज्ञा भवति । अतश्च अनन्तानामपि पदार्थानाम् अनेन उपायेन निरूपणं सुशकं भवति।

सङ्ग्रहादिग्रन्थेषु सप्त पदार्थाः इति यः विभागः दर्शितः सः इमां रीतिं बुद्धौ निधायैव कृतः।

‘वात्स्यायनभाष्यादिग्रन्थेषु एवं वर्णयन्ति। प्रथमतः उद्देशः, ततः लक्षणम्, ततः परीक्षा इति। उद्देशो नाम नामनिर्देशः । द्रव्यम् इति कथनम्, गुणः इति कथनम् । अत्र द्रव्यं कथं ज्ञातव्यमिति न निरूप्यते । केवलं सञ्ज्ञा उच्यते। अतः अयम् उद्देशः। केन वस्तुना द्रव्यं ज्ञातव्यम् ? गुणेन । यत्र गुणः तद्रव्यमिति कथनं द्वितीयम्। तदेव लक्षणमिति उच्यते ।

गुणः इति पदार्थः द्रव्ये वर्तते न वा, अस्ति चेत् सर्वत्र वर्तते न वा इत्यादिविचारः परीक्षा। तया च परीक्षया विचारः परिपूर्णः भवति। तर्कसङ्ग्रहे उद्देशभागः लक्षणभागः इति द्वयमेव वर्तते, न तु परीक्षाभागः । बालबोधनाय प्रवृत्तत्वात्।

निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् ।

बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः ॥

तदादौ अन्नम्भट्टः ग्रन्थस्य निर्विघ्नपरिसमाप्तये मङ्गलाचरणं कृत्वा सप्त पदार्थान् नाम्ना निर्दिशति द्रव्येति ।

१ - वात्स्यायनमहर्षिः गोतमप्रणीतन्यायसूत्राणां भाष्यकारः ।

आधाराधेयभावः

द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्थाः ।

द्रव्यं गुणः

इमे सप्त पदार्थाः ।

कर्म सामान्यं विशेषः समवायः अभावः

तत्र पदार्थोद्देशे नामनिर्देशे आदौ द्रव्यं निर्दिष्टम् । कुतः ? यतः इतरे सर्वेऽपि द्रव्यमाश्रित्य तिष्ठन्ति।

तत्र अस्ति विशेषः । द्रव्ये गुणः तिष्ठति इति यदि उच्यते तर्हि द्रव्यं अधः वर्तते गुणः द्रव्यस्य उपरि वर्तते इति ज्ञायते । यथा यज्ञदत्तः आसने वर्तते इत्युक्तौ यज्ञदत्तः उपरि, आसनम् अधः भवति इति ज्ञायते । तत्र आसनं यज्ञदत्तस्य भारं वहति ।

  • आधार-आधेयभावव्यवस्थापनम्

अत्रेदं कल्पयामः, आसनं प्राणि इति । तर्हि तत् आसनम् इदं चिन्तयेत्, अहं यज्ञदत्तस्य भारं वहामि । इयं भारवहनस्य चिन्ता एव अधिकरणता, आधारता इति वा उच्यते।

यज्ञदत्तः चिन्तयति अहं

,

भारं स्थापयामि इति । इयं चिन्ता

एव यज्ञदत्ते विद्यमाना आधेयता

यज्ञदत्तः

इत्युच्यते। यज्ञदत्तं विहाय कश्चित्

अचेतनः वक्ष्यमाणः सङ्ख्यारूप- गुणः उपरि भवति चेत् अपि सः गुणोहं भारं स्थापयामि इति चिन्तयतीति आलोचयामः। अतः तादृशे पदार्थे आधेयता भवति ।

आसनम्

भारं वहामीति चिन्तनम्

अधिकरणता

तथा आसने अधिकरणता वर्तते ।

चि.स.२

[[३]]

[[४]]

आधाराधेयभावः

प्रकृतेऽपि द्रव्यम् अधः अस्ति गुणश्च उपरि अस्तीति उक्तौ द्रव्ये अधिकरणता, गुणे च आधेयता अस्तीति आयातम् ।

भारं स्थापयामीति

चिन्तनम्

आधेयता

आसने अधिकरणता वर्तते इत्यमुं विषयं लघुना उपायेन कथं निरूपयामः ? तत्र निष्ठ इति, वर्ति इति, पदद्वयमुपकरोति। अतः आसननिष्ठा अधिकरणता आसनवर्तिनी अधिकरणता इति वाक्यद्वयं जातम्। तद्वदेव यज्ञदत्तनिष्ठ- आधेयता यज्ञदत्तवर्ति-आधेयता, इति च

वाक्यद्वयम्।

तत्र आधेयता, अधिकरणता,

चि.स. ३

प्रतियोगित्वादयः वक्ष्यमाणाः वा साकाङ्क्षाः ससम्बन्धिकाः पदार्थाः। साकाङ्क्षः इत्यस्य कः अर्थः? यं श्रुत्वा एतत्सम्बन्धी अन्यः कः इति जिज्ञासा सर्वदैव भवति । यथा रामः पुत्रः इत्युक्तौ, कस्य इति जिज्ञासा जायते ।

रामः

पुत्रत्वम्-

कस्य, केन निरूपितमिति जिज्ञासा भवति ।

पुत्रः

चि.स.४

अतः पुत्रत्वं, पितृत्वं, भार्यात्वम् इत्यादयः ससम्बन्धिकाः पदार्थाः। तथा एव आधेयता अधिकरणता इत्यादयः अपि ससम्बन्धिकाः। यज्ञदत्तः आधेयः इत्युक्तौ, कस्य इति जिज्ञासा भवति । आसनमधिकरणम् इत्युक्तौ, कस्य इति जिज्ञासा भवति । अतः एते अपि आधेयता, अधिकरणता इत्यादयः ससम्बन्धिकाः, अन्यं पदार्थं सर्वदा अपेक्षन्ते।

१ - एतद्विपरीतं यज्ञदत्तः अस्ति इत्युक्तौ कस्य? इति आकाङ्क्षा न सर्वदा भवति अतः यज्ञदत्तः निराकाङ्क्षः।

निरूप्यनिरूपकभावः

आधेयता (त्वम्

अधिकरणता (त्वम्)

आधेयः

यज्ञदत्तः

आसनम

अधिकरणम्

चि.स.५

तत्र साकाङ्क्षः पदार्थः यम् अपेक्षते सः निरूपक इत्युच्यते ।

निरूपकः

आधेयता

→ अधिकरणता

निरूपकः

अधिकरणता

आधेयता

चि.स.६

  • निरूप्यनिरूपकभावव्यवस्थापनम्

तत्र लोके निरूपकः इत्यनेन यः वदति सः बोध्यते । यस्य विषये उच्यते सः निरूप्यः। तत्र साम्प्रदायिकमुदाहरणं यथा व्यासः कृष्णकथां निरूपयति ।

निरूपकता ↑

निरूप्यता

निरूपकः व्यासः

कृष्णकथा निरूप्या

चि.स.७

अत्रापि पूर्ववत् निष्ठपदप्रयोगेण व्यासनिष्ठनिरूपकता निरूप्यता तु कृष्णकथानिष्ठा इति निरूपणं भवति।

अस्मिन् उदाहरणे व्यास एव निरूपकः, कृष्णकथा च निरूप्या एव । परन्तु आधारता’ आधेयता च इत्यनयोः परस्परं निरूपकता निरूप्यता च भवति। आधेयता केन निरूपिता इति प्रश्न इव अधिकरणता केन निरूपिता इति प्रश्नोऽपि खलु तुल्यः । अतः उभयोः परस्परं निरूप्यनिरूपकभावः भवति ।

१ - अधिकरणता

निरूप्यनिरूपकभावः

अधिकरणता निष्ठ

आधेयता

निरूपिता/निरूपिका

वान्/आश्रयः

आसनम्

यज्ञदत्तः

निरूपिता/निरूपिका

आधेयता

→ अधिकरणता

१ निष्ठ

। वत्/आश्रयः

यज्ञदत्तः

आसनम्

चि.स.८

इह यज्ञदत्तः आधेयतावान् इति वक्तुं आश्रय इति पदमुपकरोति । तथा च आसननिष्ठ-अधिकरणतानिरूपित-आधेयताश्रयः यज्ञदत्तः इति, यज्ञदत्तनिष्ठ- आधेयतानिरूपित-अधिकरणताश्रयः आसनम् इति उभयं साधु । एवं च निरूप्यनिरूपकसम्बन्धः’ ज्ञातश्चेत् आधाराधेयसम्बन्धः’ अपि ज्ञायते। तथा च प्रकृतेऽपि द्रव्ये गुणः तिष्ठति इत्यत्र आधाराधेयभावः सुज्ञेयः ।

w

निरूपित

अधिकरणता

आधेयता

↑ निष्ठ

वान्/आश्रयः

द्रव्यम्

गुणः

निरूपित

आधेयता

अधिकरणता

निष्ठ

वत् /आश्रयः

गुणः

द्रव्यम्

चि.स.९

एवं सति द्रव्यं प्रथमतः कुतः निर्दिष्टम् इत्यस्य समाधानम् इतरे सर्वेऽपि

द्रव्यमाश्रित्य तिष्ठन्ति इति यदुक्तं, तदपि स्पष्टम्।

निरूप्यनिरूपकभावः, २ - आधाराधेयभावः

तदर्थस्तु इदानीं इत्थं फलितः ।

द्रव्याद्युद्देशः

गुणः

कर्म सामान्यम

विशेषः

समवायः

अभावः

द्रव्यम् द्रव्यम्

द्रव्यम्

द्रव्यम्

द्रव्यम्

द्रव्यम्

चि.स.१०

तानि नव द्रव्याणि सङ्ग्रहकारेण निर्दिष्टानि पृथिव्यादीनि । तथा च सङ्ग्रहः तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव इति ।

ततः गुणान् विभजते -

रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्व- द्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराः चतुर्विंशतिर्गुणाः इति ।

केचन दार्शनिकाः कर्म इति पदार्थं नाङ्गीकुर्वन्ति। अतः कर्मणि अस्ति विवादः। न तथा गुणेषु । गुणानाम् इयत्ताविषये विवादसत्वेऽपि गुणः अतिरिक्तपदार्थः वर्तते न वा इति नास्ति विवादः । अतः गुणकर्मणोः मध्ये गुणा एव द्रव्यनिर्देशोत्तरं निर्दिष्टाः ।

ते च रूपरसगन्धस्पर्शेत्यादिसङ्ग्रहपङ्ख्या निरूपिताः ।

ततः कर्म क्रिया निर्दिष्टा उत्क्षेपणादिग्रन्थेन ।

  • उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि । पूर्वोक्तानां गुणानां कर्मणां च विस्तृतं विवरणं अग्रिमे लक्षणप्रकरणे भविष्यति । सम्प्रति नाम्ना सङ्कीर्तनम् एव भवति ।

तत्र सर्वे गुणादयः द्रव्ये वर्तन्ते इत्यस्य पूर्वोक्तस्य (पृ.३) अयमर्थः विवक्षितः।

[[७]]

एकत्र अनेकजातीनां वृत्तित्वनिरूपणम्

सामान्यमवश्यं स्वीकार्यम् । तदेव शास्त्रे जातिः इति व्यवह्रियते । तल्लक्षणविचारः सङ्ग्रहानुसारेणैव भविष्यति।

एकत्र अनेकजातीनां वृत्तित्वनिरूपणम्

तद्विभागं सम्प्रति आह - परमपरं चेति द्विविधं सामान्यमिति। दर्शितरीत्या सामान्यं सिद्धम्। तत्र इदमुक्तं भवति । पुस्तके पुस्तकत्वं सामान्यमस्ति । तथैव पुस्तकं वक्ष्यमाणरीत्या पृथिवी, अतः तत्र पृथिवीत्वं जातिर्वर्तते । पुस्तके पूर्वोक्तरीत्या गुणोऽस्तीति तद्द्रव्यमपि। अतः तत्र द्रव्यत्वं जातिरपि अस्ति।

इदानीं नीलवर्णम् उदाहरणं स्वीकुर्मः । तत्र नीलत्वजातिरस्ति। सः वर्णः, अतः तत्र वर्णत्वमपि वर्तते । परन्तु शब्देऽपि वर्णः इति व्यवहारः वर्तते । अतः वर्णः इत्युक्तौ संशयः भवति । अतः इतः वर्णे रूपम् इति व्यवहरामः । तथा च नीलरूपे रूपत्वमपि वर्तते । स च गुण इति कृत्वा तत्र गुणत्वजातिरपि वर्तते । कर्मस्थले उत्क्षेपणम् उदाह्रियते। उत्क्षेपणे उत्क्षेपणत्वं वर्तते । तच्च कर्म इति तत्र कर्मत्वमपि

[[१०]]

वर्तते। तथा चेत्थं चित्रं भवेत्।

पृथिवीत्वम्

रूपत्वम्

उत्क्षेपणत्वम् कर्मत्वम्

पुस्तकत्वम्

द्रव्यत्वम् नीलत्वम्

गुणत्वम्

पुस्तकम्

नीलरूपम्

उत्क्षेपणकर्म

चि.स.१२

इत्थं दर्शितरीत्या पुस्तके द्रव्ये तिस्रः, नीलादौ च तिस्रः जातयः सन्ति । कर्मणि द्वे जाती भवेताम्। सर्वा अपि इमाः जातयः एकविधदर्शनेन सिद्ध्यन्ति। इदं पुस्तकम् इदमपरं पुस्तकम् इदमपि अपरमिति अनेकानि पुस्तकानि दृष्ट्वा पुस्तकत्वं सिद्ध्यति । एवं गुणत्वादौ ज्ञातव्यम् । तत्रापि रूपं गुणः, रसः गुणः इत्येवमेकाकारप्रतीत्या सर्वेषु गुणत्वसिद्धिः । एवं कर्मणि ।

सत्ता अतिरिक्ता जातिः

  • सत्ता अतिरिक्ता जातिः इति निरूपणम्

परन्तु एकाकारज्ञानं यथा गवादौ भवति तथा द्रव्यं सत्, गुणः सन्, कर्म सत् इति द्रव्यगुणकर्मणामपि एकविधं ज्ञानं वर्तते । एवं च शाबलेयः गौः, बाहुलेयः गौः े इति एकविधज्ञानेन यथा सर्वेषु गोषु गोत्वं सिद्ध्यति तथा द्रव्यं सत्, गुणः सन्, कर्म सत् इति एकविधज्ञानेन द्रव्यगुणकर्मसु अतिरिक्तं सामान्यं, जातिः सिद्ध्यति । सतः भावः, धर्मः, सत्ता अतिरिक्ता जातिः ।

सत्ता

सत्ता

सत्ता

द्रव्ये

गुणे

कर्मणि

चि.स.१३

सत्तायाः परत्ववर्णनम्

तथा च पूर्वस्मिन् चित्रे द्रव्ये गुणे कर्मणि च एका जातिः वर्धनीया। सैव परा जातिः, परं सामान्यम्। परमित्यस्य यस्य अधिकरणानि सर्वेभ्यः सामान्येभ्यः अधिकानि सः अर्थः। द्रव्यत्वं सर्वेषु द्रव्येषु वर्तते परन्तु गुणे नास्ति, तत्र सत्ता वर्तते । गुणत्वं सर्वेषु गुणेषु वर्तते परन्तु द्रव्ये नास्ति, तत्रापि सत्ता वर्तते । एवं कर्मत्वस्यापि । तथा च जगति १०० द्रव्याणि, १००० गुणाः, ५०० कर्माणि चेत्

द्रव्यत्वम्

[[१००]]

[[१०००]]

→ द्रव्यत्वम्

[[५००]]

→ गुणत्वम् → कर्मत्वम्

[[१६००]]

→ सत्ता

गुणत्वम्

कर्मत्वम्

सत्ता

[[१६००]]

[[११]]

१०० द्रव्याणि + १००० गुणाः + ५०० कर्माणि

चि.स.१४

तथा च सत्तायाः अधिकरणानि सर्वसामान्येभ्यः अधिकानि इति सा परा ।

१ - विद्यते, कालेन सम्बद्धम् ।

२ - वृषभादिनिर्देशाय शास्त्रदीपिकादिप्राचीनग्रन्थेषु शाबलेयः बाहुलेयः इत्यादिपदानि दृश्यन्ते ।

-विशेषपदार्थवर्णनम्

[[१२]]

द्रव्यत्त्वादीनां परापरत्वसाधनम्

एवमेव व्यस्तक्रमेण न्यूनाधिकरणचिन्तायां द्रव्यत्वस्य सत्तापेक्षया न्यूनाधिकरणानि, पृथिवीत्वापेक्षया अधिकानि । पृथिवीत्वं पृथिव्यामेव, द्रव्यत्वं तु जलादावपि अस्ति। अतः द्रव्यत्वं सत्तापेक्षया अपरं, न्यूनेषु वर्तते, पृथिवीत्वापेक्षया परम्, अधिकेषु वर्तते । एवं पृथिवीत्वं द्रव्यत्वापेक्षया न्यूनवर्ति । घटत्वापेक्षया अधिकवृत्ति । घटत्वं पटे नास्ति तत्र पटत्वं वर्तते, पटत्वं घटे नास्ति तत्र घटत्वं वर्तते । परन्तु घटे पटे च पृथिवीत्वं वर्तते अतः पृथिवीत्वं सत्ताद्रव्यत्वाभ्यां न्यूनवृत्ति, अपरम्, घटत्वपटत्वादिभ्यः अधिकवृत्ति परम् ।

घटत्वादिजात्यपेक्षया न्यूनवृत्तिः जातिर्नास्ति इति घटत्वम् अपरजातिः इति उच्यते। सर्वमेतत् बुद्धौ निधाय मूले उक्तं परमपरं चेति द्विविधं सामान्यम्। परं सत्ता अपरं पटत्वादि, पृथिवीत्वादि परापरम् इति तदर्थः। ततः

नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव

इति विशेषः निरूपितः। गुणकर्मणोः निरूपणावसरे पौर्वापर्यविचारे कर्म केचन आचार्याः नाङ्गीकुर्वन्ति इत्युक्तम्। विशेषविषये इत्थं वक्तव्यम् । अयं वैशेषिकैरेव अङ्गीक्रियते। नैयायिकैः च अनुमन्यते । अन्येषु शास्त्रेषु तस्य खण्डनमेव अस्ति। एवंविधोऽयं विशेषपदार्थ : इति सर्वजनसिद्धजातिपदार्थानन्तरं निरूपितः।

  • उदाहरणेन विशेषपदार्थवर्णनम्

एतत्साधनाय साम्प्रदायिका : एवमाहुः ।

एकः पाषाणः द्विधा खण्डितः । तयोः शकलयोः क एवं ख इति सञ्ज्ञा कृता। ततः कशकलस्य द्वे शकले साधिते । तयोः क्रमेण ग एवं घ इति सञ्ज्ञे कृते । तयोरपि गशकलं गृहीत्वा तस्य द्वे शकले, तयोरपि शकलमेकमादाय द्वे शकले इति एवंविधशकलपरम्परा कुत्रचित् स्थगनीया । कोऽर्थः ? एकं तादृशं शकलं स्वीकर्तव्यं यस्य पुनः शकलं न भवति । तच्चरमं शकलमेव परमाणुः इत्युच्यते ।

१ - कणादः वैशेषिकशास्त्रप्रणेता आचार्यः । तत्प्रणीतं वैशेषिकशास्त्रं गोतमप्रणीतं न्यायशास्त्रं च सम्मील्य न्यायशास्त्रपाठनं प्रवर्तते।

विशेषपदार्थवर्णनम्

तत्र कसञ्ज्ञकः पाषाणखण्डः अन्येभ्यः पाषाणखण्डेभ्यः भिन्नः इति वयं ज्ञातुं प्रभवामः।’ कुतः ? तस्य यौ अवयवौ ग / घ ताभ्यां क एव उत्पन्नः। अन्यस्य पाषाणखण्डस्य अन्ये अवयवाः न तु गद्यौ ।

क पाषाणः

ग पाषाणः

च पाषाणः

चि.स.१५

एते परस्परं भिन्ना इति वयं ज्ञातुं शक्नुमः । कथम्? प्रत्येकमवयवभेदेन। तथा च यस्य यस्य अवयवाः वर्तन्ते, तस्य तस्य भेदज्ञानम् अवयवभेदेन भवति । परन्तु चरमशकलस्य परमाणोः, यस्य अवयवः न वर्तते तस्य, तादृशमेव यत् अन्यत् शकलं परमाणुः, तस्य च परस्परं भेदज्ञानं कथं भवेत् ? अतः तादृशज्ञानसम्पादनाय कणादमहर्षिणा विशेष इति पदार्थः स्वीकृतः । एते च विशेषाः यावन्तः परमाणवः, तावत्सङ्ख्याकाः सन्ति इत्यपि स्वीक्रियते । यथा प्रत्येकम् आत्मनः एकैकं मनः इति मनोनिरूपणे वक्ष्यते (पृ. ७१) तथा अत्रापि प्रत्येकं परमाणोः विभिन्नः विशेषः ।

[[१३]]

तथा च

त-विशेषः

थ-विशेषः

च-परमाणुः

छ-परमाणुः

चि.स.१६

च-परमाणुः छ-परमाणुतः भिन्नः । कुतः ? त - विशेषस्य स एव आश्रयः न तु छ-परमाणुः। एवं विपरीतमपि ज्ञातव्यम् ।

तथा च विशेषस्वीकारेण परमाणूनां परस्परभेदज्ञानं वयं सम्पादयितुं प्रभवामः ।

१ - अयं च भेदः लोकसिद्धोऽपि निष्कृष्टतया अनुपदमेव अभावनिरूपणे वक्ष्यते ।

सदृष्टान्तं समवायनिरूपणम्

यथा परमाणोः अवयवो नास्ति तथैव आकाशादिद्रव्याणामपि अवयवाः न सन्ति । अतः परस्परभेदज्ञानाय आकाशादावपि विशेषापेक्षा वर्तते । परमाणुः नित्यः आकाशादयश्च नित्याः इति सर्वेषु नित्येषु द्रव्येषु विशेषः सिद्ध्यति इति एतत्सर्वमभिसन्धायोक्तं नित्यद्रव्यवृत्तयो विशेषाः। अनन्ताः परमाणवः, नित्यद्रव्याणि च। तावन्तः विशेषाः इति तेषामानन्त्यमपि सिद्ध्यति।

  • समवायसाधनप्रकारः

द्रव्यादित्रिकं निरूप्य सामान्यविशेषौ निरूपितौ । ततः समवायं निरूपयति

समवायस्त्वेक एव इति

इत्थं हि समवायसाधनमाहुः । कस्यचित् पुरुषस्य हस्तौ स्वस्थानस्थितौ स्तः। ततः पुरुषस्य नमस्कारेच्छा भवति । ततः हस्तयोः क्रियया तयोः संयोगः उत्पद्यते। एवं च पूर्वं विविक्तौ, भिन्नस्थानस्थितौ हस्तौ संयुक्तौ भवतः ।

(१) परन्तु घटोत्पत्तिर्यत्र भवति तत्र ‘कपालद्वयसंयोगानन्तरम् एवं कदाचित् १४ भवेत् वा यत् घटः अन्यत्र स्थितः, कपालः अन्यत्र, ततः कपालद्वयसंयोगानन्तरम्

उभयोरपि सम्बन्धः?

(२) घटस्य तद्रूपस्यापि च एवमेव चिन्तनीयम् । किं घटं विहाय अन्यत्र आश्रयं विना स्थितं रूपं घटेन सह सम्बद्धम् इति सम्भाव्यते ? (३) बिलस्य मुखे सर्पः वर्तते । तस्य प्रसर्पणरूपा क्रिया तु किञ्चित् अग्रे चलिता इति सम्भाव्यते ? (४) एकस्मिन् ह्रदे घटः पतितः। घटः ह्रदतलं गतः । घटत्वं तु जलोपरि तरति इति दृष्टं वा केनचित् ?

(१) सर्वेषां प्रश्नानां न इत्येव समाधानम्। अतः घटस्य कपालं विहाय (२) रूपस्य घटं विहाय

(३) प्रसर्पणस्य सर्पं विहाय

(४) घटत्वस्य घटं विहाय

१ - यस्य नाशो न भवति तन्नित्यम्।

२ - कपालः घटस्य अवयवः । तस्य अन्येन कपालेन संयोगे सति घटः उत्पद्यते ।

लाघवगौरवस्वरूपम्

कदाचिदपि अदर्शनात् नूनं तेषां सम्बन्धः न संयोगः । कुतः ? पूर्वमप्राप्तयोः

विविक्तयोः या प्राप्तिः सा संयोग इत्युच्यते ।

अतः संयोगं विहाय अन्यः कश्चित् सम्बन्धः एतेषां स्वीकार्यः ।

द्रव्यम

गुणः

क्रिया

सामान्यम्

विशेष :

द्रव्यम् द्रव्यम्

द्रव्यम

द्रव्यम् गुणः कम

नित्यद्रव्यम्

घटाद्यवयविनः

रूपादिगुणाः

उत्क्षेपणादिक्रियाः

कपालाद्यवयवाः

द्रव्यं गुणवत्

द्रव्यं क्रियावत्

घटत्वादिजातिः

विशेषाः

घटादिव्यक्तिः जातिमती

नित्यद्रव्याणि

[[१५]]

चि.स.१७

सः सम्बन्धः एव समवायः। अवयवावयविनोः गुणगुणिनोः क्रियाक्रियावतोः जातिव्यक्त्योः विशेषनित्यद्रव्ययोः च अयमेव समवायसम्बन्धः । तत्र आश्रयाणाम् आधेयानां च नानात्वेऽपि लाघवात् अयं समवाय एक एव इति स्वीक्रियते ।

लाघवगौरवस्वरूपम्

लाघवं नाम विचारसौकर्यम् । एवं चिन्तयामः । कश्चित् आपणं गन्तुं प्रवृत्तः । तस्य माता तं प्रति अवदत् गुडं, तण्डुलान् चाहर। सः ओम् इत्युक्त्वा निर्गतः। तदैव तस्य भार्या समागत्याह - शर्करां, शाकं, सर्षपान्, विद्युद्दीपं, पुस्तिकां, पेटिकां,…

अलम्, अलम्, अलम्, न प्रभवामि इमानि सर्वाणि बुद्धौ स्थापयितुम् । अतः सर्वं विलिख्य देहि इति सः भार्यां प्रति अब्रवीत् ।

अभाववर्णनम्

अत्र पश्यतु। पूर्वं मात्रा द्वयमेवोक्तं तदा अङ्गीकृत्य प्रवृत्तः तदाहरणाय । ततः भार्यया पञ्चषाः पदार्थाः उक्ताः तदा निवार्य भाषणात् विलिख्य देहीति वक्ति । को हेतुः? विचारे धारणे वा सौकर्यम् । द्वित्राणां बुद्धौ स्थापने क्लेशः न भवति । अनेकेषां स्थापने भवति। इदमेव विचारसौकर्यं लाघवमित्युच्यते। तद्विपरीतम् असौकर्यं गौरवमित्युच्यते ।

तथा च आश्रयाणाम् आधेयानां च अनेकत्वेन समवायस्यापि अनेकत्वस्वीकारे गौरवमिति लाघवाय विचारसौकर्याय एक एव समवायः इत्यङ्गीक्रियते ।

  • अभाववर्णनम्

एतावता उद्देशक्रमानुसारेण षट् भावाः निरूपिताः। भावो नाम यः अस्ति इति प्रतीयते। यथा द्रव्यमस्ति, गुणः अस्ति…. समवायः अस्ति । ते भावाः इति कथ्यन्ते। इदानीं यः, नास्तीति ज्ञायते तमभावं परिशीलयामः। किञ्चित् भूतलमस्ति। तत्र घटो यदि अस्ति, तदा एवं व्यवहरामः अत्र भूतले घटः अस्तीति । यदि घटः १६ अपसारितः तदा वदामः अत्र घटः नास्ति । घटः अस्ति इति व्यवहाराय भाषणाय

घटः ज्ञातव्यः भवति तथा घटो नास्तीति वक्तुं कः ज्ञातव्यो भवति ? स एव अभावः

इत्युच्यते।

चि.स.१८

अत्र व्यवहारेऽपि अस्ति विशेषः। पात्रेऽस्मिन् कियत् जलमस्ति इति पृष्टे अर्धमस्तीति कश्चित् वक्ति। कश्चित्तु अर्धं पात्रस्य रिक्तमस्तीति वक्ति । पात्रं तु तदेव। जलमपि तावदेव । तथापि कश्चित्

तु अस्ति इति वदति । कश्चित् नास्तीति वदति । तद्वदेव सर्वैः अभावमधिकृत्य भूतले घटो नास्तीति उच्यते । न्यायशास्त्रे, नास्तीति अनुक्त्वा भूतले घटाभावः अस्तीति उच्यते ।

विरोधनिरूपणम्

विरोधनिरूपणम्

अयं घटाभावः घटस्य अभावः । अयं च घटे सति न ज्ञायते। घटे असति ज्ञायते। लोके हि एवंविधा स्थितिः विरोधः इति व्यवह्रियते । यथा नकुल अस्ति चेत् सर्पः न भवति। सर्पः अस्ति चेत् एवं विद्मः, अत्रः नकुलः नास्तीति ।

वध्यघातकभावरूपः विरोध :

अयं विरोधः द्विविधः भवति । वध्यघातकभावः, सहानवस्थानम् । अहेः

नकुलस्य च विरोधः वध्यघातकभावरूपः । तथा हि-कुत्रचित् सर्पः अस्ति।

प्रथमक्षणः

द्वितीयक्षणः

तृतीयक्षणः

चतुर्थक्षणः

सर्पः

सर्पः

सर्पः अस्ति

सर्पः नष्टः

एव अस्ति।

एव अस्ति।

नकुलोऽप्यस्ति।

नकुलः अस्ति।

चि.स.१९

तथा च वध्यघातकभावरूपे विरोधे ययोः विरोधः वर्ण्यते, तयोः उभयोरपि १७ कस्मिंश्चित् क्षणे काले एकत्र स्थितिः भवति। यथा प्रकृतोदाहरणे सर्पस्य नकुलस्य च तृतीयक्षणे एकत्र स्थितिः। एवं एकेन अग्रिमक्षणे ततोऽपि अधिककालेन वा अपरस्य नाशः क्रियते । अयं विरोधः शास्त्रे वध्यघातकभाव इति प्रसिद्धः ।

सहानवस्थानरूपः विरोधः अभावस्थले

सहानवस्थानं नाम सः विरोधः यत्र उभयोः विरोधिनोः कस्मिन् अपि काले

सह अवस्थानं स्थितिः न भवति ।

प्रथमक्षणः

द्वितीयक्षणः

तृतीयक्षणः

चतुर्थक्षणः

घटाभावः

घटाभावः

घटः

घटः

चि.स.२०

[[१८]]

प्रतियोगितानिरूपणम्

विरोधः

विरोधः

घटाभावः

घटः

चि.स.२१

प्रतियोगिता

अनुयोगिता

यथा प्रकृते विविधेषु क्षणेषु घटो वा भवेत् घटाभावो वा भवेत् न कदाचिदुभौ । अयमेव

सहानवस्थानरूपः विरोधः इत्युच्यते ।

  • प्रतियोग्यनुयोगिभावनिरूपणम्

घटः

अभावः

चि.स.२२

अत्र निरूपणसौकर्याय घण्टे विद्यमानस्य विरोधस्य प्रतियोगिता इति सञ्ज्ञा कृता । अभावे विद्यमानस्य विरोधस्य अनुयोगिता इति सञ्ज्ञा ।

इयं प्रतियोगिता अनुयोगिता च साकाङ्क्षा भवति। विरोधः, प्रतियोगिता इत्युक्तौ कस्य इति

नियमेन खलु प्रश्नः भवति । एवं अनुयोगितायाः अपि ससम्बन्धिकत्त्वम्। अतः आधेयताधिकरणतयोः यथा निरूप्यनिरूपकभावः उच्यते तथा अत्रापि वक्तव्यः।

निरूपित

प्रतियोगिता

अनुयोगिता

1 निष्ठ

घटः

वान् /आश्रयः

अभावः

निरूपित

अनुयोगिता

प्रतियोगिता

निष्ठ

आश्रयः

अभावः

घटः

चि.स.२३

घटनिष्ठ-प्रतियोगिता-निरूपित - अनुयोगिताश्रयः अभावः । अभावनिष्ठ- अनुयोगिता-निरूपित-प्रतियोगिताश्रयः घटः इति वक्तव्यम्। अयमेव सङ्ग्रहे वक्ष्यमाणेषु अभावेषु अत्यन्ताभावः इति निर्दिष्टः ।

सामान्याभाववर्णनम्

सामान्याभाववर्णनम्

इदानीं तस्य सामान्याभावः इति प्रकारः निरूप्यते । प्रतियोगिता भावपदार्थे घटादौ विद्यमानः विरोधः इति निरूपितम् । सा प्रतियोगिता यदा एकजातियुक्तेषु सजातीयेषु यावत्सु भवति तदा सः सामान्याभावः इत्युच्यते। सामान्यस्य अभावः इति यथाश्रुते तु अयं जातेरभावः स्यात् । कुतः ? सामान्यं, नाम प्रागुक्तरीत्या जातिः । तस्याः अभावः इति यदि अर्थः स्यात् तदा घटसामान्याभावः इत्यस्य घटस्य यत् सामान्यं, घटत्वं तस्य अभावः इत्यर्थः स्यात्। नायं विवक्षितः। किन्तु सर्वस्य घटस्य अभावः। घटसामान्यं यत् घटत्वं, तद्वान् सर्वोऽपि घटः। तस्याभावोऽयम्। कोऽर्थः ? सर्वोऽपि घटः अस्य विरोधी । येन केनापि घटेन घटसामान्याभावस्य अपसारणं कर्तुं शक्यम् । अत्रेदं समीचीनमुदाहरणं पश्यामः।

कुतश्चित् कारणात् मत्स्यस्य जलस्य च वियोगः जातः। सः मत्स्यः त्रस्यति लुठति च। कुतः ? सः जलमपेक्षते। अर्थात् सः जलाभावं पश्यति, अनुभवति । कीदृशजलाभावम् ? जलसामान्याभावम् । कुतः ? किमपि जलं मत्स्येनानुभूयमानं जलाभावं वारयितुं प्रभवति । कश्चित् तस्मै नदीजलं दद्यात् । कश्चित् तडागजलं दद्यात्। कश्चित् कूपजलमपि दद्यात् । यत्किञ्चिज्जलं तदभावस्य विरोधि । विरोधरूपा प्रतियोगिता नदीजले, तडागजले, कूपजले अन्यस्मिन् सर्वस्मिन्नपि जले वर्तते। अतः अयं जलसामान्याभावः । वक्ष्यमाणाभावयोः एवंविधप्रतियोगिता न भवति इति विशेषः ।

  • विशेषाभावः

तत्र द्वितीयाभावः विशेषाभावः । तत्र चातकपक्षिणं सम्प्रदाये उदाहरन्ति । स तु पक्षी वृष्टिकाले वृक्षस्य उच्चतमशाखायामुपविश्य शिरः उन्नमय्य मेघं पश्यन् वृष्टिमभिवाञ्छति । कुतः ? सोऽपि जलाभावं पश्यति । किं तेन दृश्यमानः अभावः नदीजलेन कूपजलेन वा वारयितुं शक्यः ? नैव । कश्चित् कूपजलमादाय तस्मै यच्छति चेत् न सः तुष्यति । अतः अयं जलविशेषाभावः । जलविशेषस्य अभावः । अस्य

[[१९]]

विशेषाभावनिरूपणम्

प्रतियोगिता सर्वस्मिन् जले न वर्तते किन्तु जलविशेषे । किं तत् ? वृष्टिजलम् । अतः

तदेव तमभावं नाशयितुं प्रभवति । तस्मात् वृष्टिजलं नास्ति इति अयं जलविशेषाभावः।

निरूपित

प्रतियोगिता निष्ठ

अनुयोगिता

आश्रयः

वृष्टिजलम्

अभावः

चि.स.२४

[[२०]]

विशेषविशेषाभाववर्णनम्

इतोऽपि अन्यं विशेषविशेषाभावं सम्प्रदाये निरूपयन्ति। स च स्वातीनक्षत्रीय- वृष्टिजलाभावः। तथा हि - सूर्यः प्रायः चतुर्दश वा पञ्चदश वा दिनानि एकैकस्मिन् नक्षत्रे तिष्ठति। तत्र मृगनक्षत्रमारभ्य हस्तनक्षत्रपर्यन्तं नवसु नक्षत्रेषु सूर्ये सति सार्धमासचतुष्टयं प्रचुरा वृष्टिः भवति । ततः चित्रास्वातीनक्षत्रयोः किञ्चिदूना वृष्टिः भवति। अयं नक्षत्रकालः प्रायः कार्तिकमासि भवति । यदा स्वातीनक्षत्रीया वृष्टिः आसन्ना भवति, तदा सागरे गभीरे जले स्थिता शुक्तिका जलोपरि समेत्य स्वातीनक्षत्रस्य वृष्टिजलं कामयते।

[[1]]

अर्थात् स्वातीनक्षत्रीयवृष्टिजलाभावं पश्यति । नायमभावः कूपजलेन, नदीजलेन वा शक्यः निवारयितुम् । नापि येन केनचित् वृष्टिजलेन । चित्रानक्षत्रीयवृष्टिजलसत्वेऽपि न हि शुक्तिः तत् गृह्णाति । केवलं स्वातीनक्षत्रीयवृष्टिजलं वाञ्छति। अतः अस्य अभावस्य प्रतियोगि न जलसामान्यम् । नापि वृष्टिजलसामान्यम् । अपि तु स्वातीनक्षत्रीयवृष्टिजलमेव । जलविशेषरूपवृष्टिजलस्यापि अयं विशेषः यत् स्वातीनक्षत्रीयवृष्टिजलं तस्य अयम् अभावः अतः विशेषविशेषाभावः इति उच्यते । एवमेव सर्वत्र पुष्पसामान्याभावः, नीलपुष्पाभावः, शरद्कालिकनीलपुष्पाभावः इत्यादयः सामान्याभावाः, विशेषाभावाः, विशेषविशेषाभावाः उदाहर्तव्याः ।

१ - सर्वं वृष्टिजलमित्यर्थः ।

अवच्छेदकत्ववर्णनाय लौकिकं निदर्शनम्

  • अवच्छेदकत्वपदार्थवर्णनम्

त्रयाणामेषां जलमेव प्रतियोगि। तथापि जलनिष्ठप्रतियोगितानां परस्परं भेदः आनुभविकः। अन्यः खलु सर्वेषु जलेषु विद्यमानः सामान्याभावस्य विरोधः । ततः अन्य एव वृष्टिजले विद्यमानः विरोधः । तस्य च सम्यक् ज्ञानार्थं अत्रैव च अवच्छेद्यावच्छेदकभावमपि पश्यामः ।

कश्चित् क्षीरविक्रेता क्षीरमादायागतः । तस्मात् द्रोणपञ्चकपरिमितं क्षीरं क्रेतव्यमस्ति। कीदृशं पात्रं वयं नयामः ? न द्रोणदशकमानकम्। कुतः ? अतिवर्तेत । नापि द्रोणद्वयमानकम्। कुतः ? न्यूनीभवेत्। किन्तु द्रोणपञ्चकपरिमितं क्षीरं तापयितुं यत्पात्रं पर्याप्तं भवेत् तदेव स्वीकुर्मः। ततः किं कुर्मः ? विक्रेतुः समीपं गत्वा तस्य पुरतः पात्रं स्थापयामः। विक्रेता च पात्रे तस्मिन् क्षीरं स्रावयति ।

इदानीं किं तेन योग्येन पात्रेण कृतम् ? द्रोणपञ्चकपरिमितं क्षीरं बृहत्पात्रगतक्षीरात् पृथक् कृतम् । पात्रस्थं क्षीरं दृष्ट्वा एवमवगच्छामः, इदं क्षीरम् अन्यस्मात् क्षीरात् भिन्नम्। केन एवमस्माभिः अवगतम् ? पात्रेण। तद्धि पृथक्करोति। इदं क्षीरम् अन्यत् २१ इति बोधयति इति पात्रं क्षीरस्य अवच्छेदकम् । क्षीरं च अवच्छेद्यं भवति । क्षीरे अवच्छेद्यता, पात्रे च अवच्छेदकता । तयोः निरूप्यनिरूपकभावः।

अवच्छेदकता

→ अवच्छेद्यता

क्षीरम्

पात्रम्

अवच्छेद्यता

अवच्छेदकता

क्षीरम्

पात्रम्

चि.स. २५२२

प्रतियोगितावच्छेदकं किं भवति ?

इदानीं शास्त्रे एतादृशावच्छेद्यावच्छेदकभावस्य किं प्रयोजनमिति पश्यामः । अभावानां सामान्याभावः, विशेषाभावः, विशेषविशेषाभावः इत्येवं विभागः अनुपदम् एवास्माभिश्चिन्तितः। जलसामान्याभावस्य प्रतियोगिता सर्वस्मिन् जले, वृष्टिजलाभावस्य वृष्टिजले, स्वातीनक्षत्रीयवृष्टिजलाभावस्य च प्रतियोगिता स्वातीनक्षत्रीयवृष्टिजले इति तत्र स्थितम्। तासां प्रतियोगितानां अस्ति भेदः। जलाभावनिष्ठानुयोगितानिरूपित- प्रतियोगिता जलनिष्ठा अन्या, वृष्टिजलाभावनिष्ठानुयोगितानिरूपितप्रतियोगिता वृष्टिजलनिष्ठा ततो भिन्ना। एवं तृतीयेऽपि। परन्तु सः भेदः कथं ज्ञायते ?

यद्यपि स्वातीनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता स्वातीनक्षत्रीयवृष्टिजले एव नान्यस्मिन् जले। वृष्टिजलाभावस्य प्रतियोगिता वृष्टिजले एव न तु अन्यस्मिन् जले इति प्रतियोगितयोः आश्रयौ उभयत्र भिन्नौ । अतः आश्रयभेदात् प्रतियोगिताभेदः ज्ञातुं शक्यः। तथापि जलं नास्तीति सामान्याभावस्य प्रतियोगिता यथा कूपजले वर्तते तथा वृष्टिजलेऽपि वर्तते, स्वातीनक्षत्रीयवृष्टिजलेऽपि वर्तते इति प्रतियोगितायाः आश्रयाः सर्वाणि जलानि भवन्ति। अतः आश्रयभेदेन प्रतियोगिताभेदं न साधयितुं प्रभवामः । विचारमेनं चित्ररूपेण पश्यामः ।

अनुयोगिता

स्वातीनक्षत्रीयवृष्टिजलाभावः

अनुयोगिता

वृष्टिजलाभावः

प्रतियोगिता

स्वातीनक्षत्रीयवृष्टिजले एव न सर्ववृष्टिजले ।

प्रतियोगिता

वृष्टिजले एव न तु कूपजले अन्यत्र वा।

चि.स.२६

जलत्वादिधर्मान् आदाय प्रतियोगिताभेदसाधनम्

अतः प्रतियोगितायाः आश्रयः भिद्यते इति प्रतियोगिताऽपि तत्र तत्र विलक्षणा

इति ज्ञायते ।

अनुयोगिता

प्रतियोगिता

जलं नास्तीति

सामान्याभावः

यथा कूपजले तथा वृष्टिजले, स्वातीनक्षत्रीयवृष्टिजलेऽपि ।

चि.स.१.२७

इह अस्याः प्रतियोगितायाः आश्रयः न भिद्यते, किन्तु सर्वाणि जलानि इति आश्रयभेदात् इयं प्रतियोगिता, अन्ययोः प्रतियोगितयोः भिन्ना अन्या इति न ज्ञायते। अतः तासां भेदसाधनाय अवच्छेदकस्यापेक्षा वर्तते ।

  • अत्र इदं ज्ञेयम् । प्रतियोगिनि यत् विशेषणं, प्रतियोगिनः उल्लेखः येन रूपेण, धर्मेण क्रियते तत् प्रतियोगितायाः अवच्छेदकम् । यथा जलं नास्तीति अभावः उक्तः। जले च प्रतियोगिनि सन्ति जलत्वद्रव्यत्वसत्तादयो धर्माः । परन्तु २३ अभावकथनाय जलं नास्ति इत्येव उक्तमिति जलत्वेनैव जलस्य उल्लेखः कृतः । अतः तत् प्रतियोगितावच्छेदकम् ।

जलत्वम्

प्रतियोगिता

जलम्

चि.स.१.२८

तथा च यस्याः प्रतियोगितायाः भेदज्ञानमपेक्षितं, तस्याः यत् अधिकरणं

जलं तत्र स्थित्वा इदं जलत्वम् इयं प्रतियोगिता अन्यप्रतियोगिताभ्यः अन्या भिन्ना इति बोधयति ।

[[२४]]

जलत्वादिधर्मान् आदाय प्रतियोगिताभेदसाधनम्

एवं वृष्टिजलं नास्तीति अभावस्यापि ।

वृष्टिजलत्वम्

वृष्टिजलम्

चि.स.१.२९

प्रतियोगिता

एवं स्वातीनक्षत्रीयवृष्टिजलं नास्तीत्यभावस्थलेऽपि ।

स्वातीनक्षत्रीयवृष्टिजलत्वम्

प्रतियोगिता

स्वातीनक्षत्रीयवृष्टिजलम्

चि.स.१.३०

अत्र यद्यपि जलसामान्याभावस्य प्रतियोगिता कूपजले इव स्वातीनक्षत्रीय- वृष्टिजलेऽपि वर्तते, अतः आश्रयाः ते एव, तथापि सामान्याभावस्य प्रतियोगितायाः अवच्छेदकं शुद्धं जलत्वम् । वृष्टिजलाभावस्य प्रतियोगितायाः अवच्छेदकं वृष्टिजलत्वं, स्वातीनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगितायाः अवच्छेदकं स्वातीनक्षत्रीयवृष्टिजलत्वमिति अवच्छेदकभेदात् सिद्धः प्रतियोगिताभेदः । अत्रैवम् अवच्छेद्यावच्छेदकभावः ।

निरूपित

अवच्छेदकता

अवच्छेद्यता

निरूपिता

जलत्वम्

प्रतियोगिता

अनुयोगिता

जलम्

अभावः

चि.स. ३१

अवच्छेद्यावच्छेदकभावे कथनप्रकारः

सर्वत्र चित्रेषु ऊर्ध्वगामिनि शरे निष्ठ इति, अधोगामिनि शरे आश्रय इति तिरश्चीने निरूपित इति न्यायभाषया व्यवहर्तव्यम्।

एवं च जलत्वनिष्ठ-अवच्छेदकतानिरूपित-अवच्छेद्यताश्रयजलनिष्ठ- प्रतियोगितानिरूपित-अनुयोगिताश्रयः अभावः इति विवरणं भवति ।

इदम् अभावात् प्रभृति अपि वक्तुं शक्नुमः । अभावनिष्ठ-अनुयोगितानिरूपित- जलनिष्ठप्रतियोगितानिष्ठ-अवच्छेद्यतानिरूपितअवच्छेदकताश्रयः जलत्वम् ।

अवच्छेदकता

अवच्छेद्यता

वृष्टिजलत्वम्

प्रतियोगिता

अनुयोगिता

वृष्टिजलम्

अभावः

चि.स.३२

द्वितीये वृष्टिजलत्वनिष्ठ-अवच्छेदकतानिरूपित-अवच्छेद्यता-आश्रय- वृष्टिजलनिष्ठ-प्रतियोगितानिरूपित - अनुयोगिताश्रयः अभावः इति ।

एवम् अभावनिष्ठेत्यादि चिन्तनीयम्।

एवं स्वातीनक्षत्रीयवृष्टिजलाभावस्थले अपि वक्तव्यम् ।

H

[[1]]

स्वातीनक्षत्रीयवृष्टिजलम्

चि.स.३३

[[२५]]

[[२६]]

निरूप्यनिरूपकभावः अवच्छेद्यावच्छेदकभावः च सर्वत्र भवति ।

अत्र च अभ्यासाय पटसामान्याभावः नीलपटाभावः च ग्राह्यः । तत्र अवच्छेद्यावच्छेदकभावः निरूप्यनिरूपकभावः प्रतियोग्यनुयोगिभावः च आलोचनीयः। * निरूप्यनिरूपकभावः अवच्छेद्यावच्छेदकभावः च सर्वत्र भवति ।

अत्रायं विशेषः। सम्बन्धः यः कोऽपि अस्तु, निरूप्यनिरूपकभावः तत्रावश्यं भवति अवच्छेद्यावच्छेदकभावः च । आधाराधेयभावे इदं चिन्तयामः । पूर्वोक्ते (पृ.६) उदाहरणे यज्ञदत्तनिष्ठ-आधेयता-निरूपित - अधिकरणताश्रयः आसनमित्यत्र आधारता-आधेयतयोः निरूप्यनिरूपकभावः यथा वर्तते तथा आधेयतायाः एवम् अधिकरणतायाः समानाधिकरणधर्मस्य च अवच्छेद्यावच्छेदकभावोऽपि भवति।

अवच्छेदकता

यज्ञदत्तत्वम्

अवच्छेद्यता

आधेयता

अवच्छेदकता

अवच्छेद्यता

यज्ञदत्तः

आसनत्वम्

अधिकरणता

आसनम

चि.स.३४

तथा च निरूप्यनिरूपकभावम् अवच्छेद्यावच्छेदकभावं च अन्तर्भाव्य यज्ञदत्तः

आसनेऽस्तीत्यत्र इत्थं परिष्कारः भवति ।

यज्ञदत्तत्व-निष्ठ-अवच्छेदकता-निरूपित-अवच्छेद्यताश्रय-यज्ञदत्तनिष्ठ- आधेयतानिरूपित’-आसनत्वनिष्ठ-अवच्छेदकता-निरूपित-अवच्छेद्यताश्रय-

अधिकरणताश्रयः आसनम् ।

एवमेव वक्ष्यमाणपृथिवीलक्षणेऽपि गन्धवती पृथिवी इत्यत्र पृथिवी भवति अधिकरणं गन्धश्च आधेयः । तथा च गन्धत्वनिष्ठ-अवच्छेदकता-निरूपित-

निरूपितत्वमधिकरणतायाम् ।

प्रागभावः ध्वंसश्च ।

अवच्छेद्यताश्रय-गन्धनिष्ठाधेयता-निरूपित’-पृथिवीत्वनिष्ठ-अवच्छेदकतानिरूपित- अवच्छेद्यताश्रय-अधिकरणताश्रयः पृथिवी इत्येवं परिष्कारः आलोचनीयः ।

  • अभावस्य चतुर्विधत्वम्

प्रकृतमनुसरामः। दर्शितरीत्या अभावप्रक्रियापरिज्ञानाय सामान्याभावाद्यभावाः

निरूपिताः। ते चात्यन्ताभावस्य प्रभेदाः । तर्कसङ्ग्रहकृता तु

अभावश्चतुर्विधः प्रागभावः, प्रध्वंसाभावोऽत्यन्ताभावोन्योन्याभावश्चेति

इति दर्शितः अभावस्य विभागः ।

अभावः ↓

प्रागभावः

प्रध्वंसाभावः

अत्यन्ताभावः

अन्योन्याभावः

सामान्याभावः विशेषाभावः विशेषविशेषाभावः

चि.स.३५

अत्र एवं विभागचित्रं स्यात् ।

इदानीं ग्रन्थोक्ताभावविभागानुसारेण प्रागभावः निरूप्यते। अस्ति कश्चित् घटनिर्माता”। सः घटनिर्माणाय मृदमाहरति जलं चानयति । तेन संयुक्तां मृदं भ्रमयितुं चक्रमानयति, सिद्धं घटं चक्रात् पृथक्कर्तुं रज्जुं च आहरति । तदा तादृशीं घटसामग्र दृष्ट्वा भवति ज्ञानम् अत्र घटो भविष्यति । एतादृशज्ञानं घटाभावं प्रकाशयति ।

अयमेव घटप्रागभावः। घटोत्पत्तेः प्राक्, सामग्रीसत्वे घटाधिकरणे प्रतीयमानः, ज्ञायमानः । अत्रापि घटस्य, अस्य अभावस्य च विरोधः, प्रतियोग्यनुयोगिभावः अस्ति। यदा प्रागभावः, न तदा घटः । उत्पन्ने पुनर्घटे न घटप्रागभावः इति अस्ति तयोः सहानवस्थानरूपः विरोधः । तन्निरूपणप्रकारः पूर्ववज्ज्ञातव्यः ।

१ - निरूपितत्वमधिकरणतायाम् ।

२ - कुलालः ।

३ - प्रत्ययः।

[[२७]]

प्रागभावः ध्वंसश्च । भेदनिरूपणे तादात्म्यसम्बन्धसाधनम्

प्रतियोगिता

अनुयोगिता

घटः

घटप्रागभावः

चि.स.३६

प्रतियोगिता

अनुयोगिता

घटः

घटध्वंसः

[[२८]]

चि.स.३७

एवं घटे मुद्गरपाते सति अत्र घटो ध्वस्तः इति प्रतीतिः जायते । एतादृशप्रतीतौ यः प्रकाश्यते सः घटध्वंसः द्वितीयः अभावः ।

अत्यन्ताभावस्तु प्राक् निरूपितः, भूतले घटो नास्ति इति अभावः । घटत्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यतावती या प्रतियोगिता तन्निरूपकः अभावः । एवं पटोनास्तीति पटत्वावच्छिन्नप्रतियोगिताकः ।

अन्योन्याभावनिरूपणाय तादात्म्यसम्बन्धादिनिरूपणमादौ क्रियते ।

द्रव्ययोः संयोगः समवायनिरूपणे उक्तः। (पृ.१४) अभावः, प्रतियोगिता, अनुयोगिता इत्यादयः पदार्थास्तु न संयोगेन सम्बद्धाः भवन्ति। द्रव्ययोरेव संयोगः इति नियमात् । नापि समवायेन । समवायस्तु गुणगुणिनोः क्रियाक्रियावतोः जातिव्यक्त्योः अवयवावयविनोः विशेषनित्यद्रव्ययोरेव इत्युक्तमेव। अतः अभावादिपदार्थानाम् आधाराधेयभावनिर्वाहाय स्वरूपसम्बन्धः’ इति सम्बन्धः कल्प्यते।

अभावः भूतले स्वरूपसम्बन्धेन भवति । प्रतियोगिता घटे स्वरूपसम्बन्धेन भवति। पूर्वोक्ता अवच्छेदकतापि घटत्वे स्वरूपसम्बन्धेन दैशिकविशेषणतया भवति ।

१ - दैशिकविशेषणता इति वा सञ्ज्ञा ।

घटत्वाभावः

दैशिकविशेषणता

स्वरूपम्

भूतलम्

प्रतियोगिता

इदम् अस्य कारणमिति वक्तुं निकषा के ?

अवच्छेदकता

दैशिकविशेषणता

दैशिकविशेषणता

स्वरूपम्

स्वरूपम्

घटः

घटत्वम्

चि.स. ३८

एवं घटादिपदार्थानां स्वस्मिन् एव यः सम्बन्धः सः तादात्म्यसम्बन्ध

इत्युच्यते ।

  • इदम् अस्य कारणमिति वक्तुं निकषा :

तथा हि-कार्यकारणभावविचारे, उत्पत्स्यमानं यत् कार्यं तत् प्रति किं कारणं भवितुमर्हति इति विचारे आदौ तेन कार्याधिकरणे भाव्यम् इति चिन्तितम् । यदि हस्तमलनिवारणं जलेन कर्तुमिच्छति चेत् यद्धस्ते मलः अस्ति यत्र मलनिवारणरूपं कार्यं कर्तव्यं तद्धस्ते एव जलसंयोगः आवश्यकः न तु अन्यस्मिन् हस्ते, भूतलादौ २९ वा । अतः कार्यमिति यत् वयं मन्यामहे तस्य अधिकरणे कारणमिति यत् निर्धारणीयं तेन स्थातव्यम्।

इतश्च चिन्त्यम्। घटनिर्माणस्थले तन्निर्माणरीतिं ज्ञातुं कश्चित् नागरिकः गच्छति। सोऽपि घटोत्पत्तिः यत्र भवति तत्र भूतले वर्तते एव । न तु सः घटस्य कारणमिति व्यवह्नियते। अतः कार्याधिकरणे विद्यते इति एतत् न पर्याप्तम् । किन्तु यत् कारणमिति निर्धारणीयं, तेन कार्याधिकरणे सर्वदा भाव्यम् । नागरिकस्तु यदा ज्ञातुमिच्छति तदैव घटाधिकरणे भवति, नान्यदा । दण्डादयस्तु सर्वदा एव भवन्ति इति तानि घटकारणानि ।

इतोऽपि चिन्त्यम् । घटः कार्यं स्वस्य अधिकरणे कपाले वर्तते, एवं सर्वदा वर्तते। अतः घटोऽपि घटस्य कारणं े स्यात् । अतः यस्मिन् क्षणे कार्योपत्तिः, तत्पूर्वक्षणे

१ - कारणत्वेन अभिमतम् । २ - घटः स्वं प्रति ।

स्वस्मिन् स्वसम्बन्धः तादात्म्यम्।

कारणेन भाव्यमिति चिन्त्यते । घटः यद्यपि वर्तते, स्वोत्पत्युत्तरं सर्वदा वर्तते परन्तु न स्वोत्पत्तेः पूर्वं वर्तते ।’ अतः न घटस्य स्वं प्रति कारणत्वापत्तिः ।

ये तु घटकारणीभूताः दण्डचक्रादयः ते घटाधिकरणे कपाले वर्तन्ते, सर्वदा वर्तन्ते, एवं घटोत्पत्तेः पूर्वक्षणे वर्तन्ते इति दण्ड : घटकारणं, चक्रं घटकारणमिति व्यवहारः । तथा च किञ्चन कस्यचित् कारणमिति निर्धारयितुं

(१) तेन कार्याधिकरणे स्थातव्यम्।

(२) तेन कार्याधिकरणे सर्वदा स्थातव्यम्।

(३) तेन कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम् । इति भवति क्रमः विचारस्य ।

तादात्म्यास्वीकारे कपालस्य घटकारणत्वासम्भवः

इत्थं च कपालः घटं प्रति कारणं न स्यात्।

[[३०]]

एतैः सम्बन्धैः कपालः स्वस्मिन् नास्ति ।

घटः

संयोगः

दैशिकविशेषणता

कालिकः (वक्ष्यमाणः

विषयता (वक्ष्यमाणा)

कपालः

चि.स. ३९

घटाधिकरणे कपाले कपालः स्वयं न प्रसिद्धैः संयोगादिभिः वर्तते । कुतः ? संयोगः भिन्नयोरेव द्रव्ययोर्भवति। समवायोऽपि गुणगुणिभावादिस्थले एव कल्पितः । प्रतियोगितादिरूपतापि कपालस्य नास्ति । तेन दैशिकविशेषणतापि न सम्बन्धः । किञ्च सम्बन्धिनोः भेदे सति एव संयोगसमवायादयः सम्भवन्तीति कथम् एकस्यैव कपालस्य अभिन्नस्य स्वस्मिन् समवायादयः स्युः ?

१ - तदा तु तस्य प्रागभावः वर्तते ।

अधिकरणस्यापि भवति अनुयोगि इति सञ्ज्ञा

अतः कपालस्य स्वस्मिन् सम्बन्धः तादात्म्यम् इति उच्यते। कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन स्वस्मिन् घटमुत्पादयतीति भवति कपालः घटस्य कारणम्। अतः सर्वस्यापि पदार्थस्य स्वस्मिन् यः सम्बन्धः सः तादात्म्यसम्बन्धः इति सिद्धम्।

सर्वोऽपि पदार्थः उक्तसम्बन्धेन स्वस्मिन् भवति । तेन सम्बन्धेन घटो नास्तीत्यभावः घटं विहाय जगति सर्वत्र भवति । अयमेव च भेदः । प्रतियोगिनं विहाय सः सर्वत्र भवति । एवं पटो न इति भेदः पटं प्रतियोगिनं विहाय सर्वत्र भवति। अयमेव च भेदः अन्योन्याभावः इति अभावविभागे चतुर्थः निर्दिष्टः । तल्लक्षणं च सङ्ग्रहपङ्किव्याख्याने निरूपयिष्यते ।

  • अधिकरणस्यापि भवति अनुयोगि इति सञ्ज्ञा

अभावाः एतावता निरूपिताः । तन्निष्ठः विरोधः अनुयोगिता अपि उक्ता । अस्य च अनुयोगिताशब्दस्य अन्यत्रापि प्रयोगः दृश्यते । न्यायग्रन्थेषु अधिकरणस्यापि क्वचित् अनुयोगि इति व्यवहारः दृश्यते। यथा भूतलं घटानुयोगि। अत्र भूतलम् अनुयोगि ३१ चेत् अनुयोगिता भूतले भवति । इयं चानुयोगिता न अभावनिष्ठविरोधरूपा। किन्तु अधिकरणनिष्ठः धर्म इति अधिकरणता एव । तथा च भूतले घटानुयोगितास्तीत्युक्तौ घटाधिकरणता अस्तीति अर्थः ग्राह्यः ।

एतां च अधिकरणतारूपाम् अनुयोगितामादाय भेदात्यन्ताभावयोः वैलक्षण्यं सम्प्रदाये इत्थं वर्णयन्ति ।

अत्यन्ताभावस्थले बोधनाय प्रतियोगिवाचकपदस्य प्रथमा, अनुयोगिवाचकपदस्य च सप्तमी भवति। यथा भूतले घटो नास्तीति अत्यन्ताभावबोधकः प्रयोगः। अत्र च घटाभावः भूतले अस्ति। अभावप्रतियोगिता घटे । तद्वाचकपदोत्तरं प्रथमाविभक्तिः भवति। अभावानुयोगि भूतलम्। अतः तद्वाचकपदोत्तरं सप्तमी विभक्तिः भवति। एवमेव वायौ रूपं नास्ति, रूपे विशेषः नास्तीति वाक्येषु प्रतियोगिवाचकपदस्य प्रथमा, अनुयोगिवाचकपदस्य सप्तमी विभक्तिः समर्थनीया।ज्ञानं, तद्विषयता च

भेदस्थले तु प्रतियोग्यनुयोगिवाचकपदाभ्यां प्रथमा विभक्तिः भवति । यथा घटः पटो न इति। यदि घटभेदः पटेऽस्तीति वक्तुमिच्छति, तदा पटः अनुयोगी । घटः प्रतियोगी। इयमपि पटनिष्ठानुयोगिता अधिकरणता एव। एवमिह विपरीतमपि सम्भवति। पटभेदः घटनिष्ठः बोधयितुमिष्टश्चेत् अपि इदं वाक्यं भवति । तर्हि अनुयोगिता घटनिष्ठा। अनुयोगिताप्रतियोगितयोः आश्रयभेदेऽपि विभक्तौ भेदः नैव भवतीति भेदस्थले विशेषः ।

  • ज्ञानं, तद्विषयता च

विवरणसौकर्याय विषयता, विषयिता चेति द्वौ सम्बन्धौ निरूप्येते । तत्र गुणविभागे बुद्धिः ज्ञानमिति वा गुणः सङ्ग्रहे वक्ष्यते । अयं च सर्वव्यवहाराणां कारणमिति चोच्यते । कथम ? येन कदाचिदपि गौः केनापि प्रमाणेन न ज्ञाता, न सः गामानय इत्यादिव्यवहारसमर्थः वक्तुं समर्थः । एवं सर्वत्र ।

अतः अस्ति ज्ञानापेक्षा। किञ्च यः कश्चित् घटं जानाति, न सः तदा पटं मठं ३२ वा जानाति । एवं यदा पटं जानाति न तदा घटं मठं वा । एवम् अन्यत्रापि । अन्यथा

एकेन ज्ञानेन सर्वेऽपि पदार्थाः ज्ञाताः इति सः सर्वज्ञ एव स्यात् ।

एवं च यदा यस्य पदार्थस्य ज्ञानं तदा स एव पदार्थः ज्ञातः नान्यः इति व्यवस्थासिद्धये ज्ञानस्य एवं घटपटादीनां कश्चित् सम्बन्धः कल्प्यः । स एव च विषयतासम्बन्धः। घटज्ञानकाले यद्यपि घटो वर्तते पटोऽपि वर्तते परन्तु ज्ञानस्य विषयतासम्बन्धः घटेन सहैव वर्तते न पटेन सह इति । वदन्ति च जनाः चन्द्रमसं पश्यामि अहं न अरुन्धतीम् ।

तथा च ज्ञानस्य पदार्थेन यः सम्बन्धः सः विषयता। ज्ञानस्य घटः विषयः। अतः घटे विषयता। अयमेव च सम्बन्धः । वैपरीत्येन विचारे विषयः अस्य अस्तीति विषयि ज्ञानम्, ज्ञाने विषयिता, तर्हि घटस्य ज्ञानेन यः सम्बन्धः सः विषयितासम्बन्धः।

१ - ज्ञानस्य उपायः।

प्रकारतादीनां भेदेन कथनम्

  • इत्थं हि सम्प्रदाये ज्ञानपदार्थं बोधयन्ति । ज्ञानं दीपस्थानापन्नम्। विषयः प्रकाश्यः। ज्ञानस्य दीपरूपस्य या प्रभा सा विषयतासम्बन्धः। सा प्रभा यस्मिन् पतति स प्रकाश्यः ज्ञानस्य विषयः इत्युच्यते। यस्मिन् सा प्रभा नास्ति सः न प्रकाश्यते । अतः विषयः इति नोच्यते ।

विषयता

घटः

ज्ञानम्

चि.स.४०

इयं च विषयतारूपा प्रभा घटे विद्यमाना, न ज्ञानेन विना भवति । कस्यायं प्रकाशः इत्युक्तौ ज्ञानस्य इत्युच्यते । अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकमिति उच्यते। तथा च घटनिष्ठविषयतानिरूपकं ज्ञानमिति सिद्धम् ।

प्रकाशः अपि एषः त्रिविधः। घटभूतलयोः संयोगं यत् ज्ञानं प्रकाशयति तत् निदर्शनं स्वीकुर्मः। तस्य शास्त्रेषु भूतलं घटवत् इति आकारः भवतीति उच्यते। आकारः इत्यस्य ज्ञानादिसविषयकपदार्थानां ये विषयाः, तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इत्यर्थः।

[[३३]]

घटः

संयोगः

भूतलम्

चि.स.४१

[[३४]]

प्रकारतादीनां भेदेन कथनम्

अत्र घटे एका प्रभा वर्तते। संयोगः घटभूतलयोः सम्बन्धः, तत्र एका प्रभा वर्तते। एवं भूतले एका प्रभा वर्तते । भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणम् । भूतलं विशेष्यम् । तत्र सर्वासां प्रभाणां विषयता इति एकैव यदि सञ्ज्ञा

स्यात् तर्हि किं विशेषणं किं विशेष्यम् इति न ज्ञायेत । अतः तत्र तत्र विद्यमानायाः विषयतायाः सञ्ज्ञान्तरं कर्तव्यम् । विशेषणे विद्यमाना प्रभारूपविषयता प्रकारता इति कथ्यते। संयोगे विद्यमाना प्रभा संसर्गता इति, एवं विशेष्ये विद्यमाना प्रभा विशेष्यता इति कथ्यते ।

यथा अस्माकं विशेषसञ्ज्ञाः गणेशादयः, कुलसञ्ज्ञाः सामान्यरूपाः शुक्लादयः भवन्ति इति गणेशसञ्ज्ञकः शुक्लः, गणेशाख्यः शुक्लः, इति व्यवहारः, तथा ज्ञानस्य पदार्थानां च यः सम्बन्धः तस्य सामान्यसञ्ज्ञा विषयता इति, विशेषसञ्ज्ञाः प्रकारता, संसर्गता, विशेष्यता इत्येवंरूपाः भवन्ति । तथा च घटे प्रकारताख्यविषयता वर्तते । संयोगे संसर्गताख्यविषयता वर्तते । भूतले विशेष्यताख्यविषयता वर्तते । एवं च घटनिष्ठ-प्रकारताख्यविषयतानिरूपकं ज्ञानम्, संयोगनिष्ठसंसर्गताख्यविषयतानिरूपकं ज्ञानम्, भूतलनिष्ठविशेष्यताख्यविषयतानिरूपकं ज्ञानम् इति सर्वत्र न्यायभाषया विवरणं भवेत्।

विषयताः यथा ज्ञानेन निरूप्यन्ते तथा परस्परम् अपि निरूप्यन्ते । प्रकारतानिरूपिता विशेष्यता इव विशेष्यतानिरूपिता प्रकारता इत्यपि सम्भवति । एवं संसर्गतायामपि । तथा च पूर्वोक्ते भूतलं घटवत् इति ज्ञाने घटनिष्ठप्रकारता - निरूपितभूतलनिष्ठविशेष्यतानिरूपकं ज्ञानम्, भूतलनिष्ठविशेष्यतानिरूपितघटनिष्ठ- प्रकारतानिरूपकं ज्ञानमिति वा वक्तव्यम् ।

  • विषयतारूपः सम्बन्धः तत्प्रभेदश्च निरूपितः । ताश्च तिस्रः अपि विषयताः परस्परमसमानाधिकरणाः । कोऽर्थः ? न समानाधिकरणाः । समानाधिकरणमित्यस्य कस्यचित् अन्यस्य यत् अधिकरणं तत्र विद्यमानमित्यर्थः । समानमधिकरणं ययोः तौ समानाधिकरणौ ।

घटत्वम्

विषयिता तदवान्तरभेदः च

प्रतियोगिता

घटः

चि.स.४२

अत्र घटत्वसमानाधिकरणा प्रतियोगिता । प्रतियोगितासमानाधिकरणं घटत्वम् । प्रकृते तु प्रकारतादयः तिस्रः विषयताः न परस्परं समानाधिकरणाः । घटत्वे प्रकारता, संयोगे संसर्गता, भूतले विशेष्यता च वर्तते । अतः नात्र द्वयोरेकमधिकरणम् । परन्तु विषयिता इति यः सम्बन्धः ज्ञाने विषयस्य, तस्य च ये अवान्तरभेदाः निरूपणसौकर्याय स्वीक्रियन्ते तेषु न परस्परम् असामानाधिकरण्यम्। किन्तु सर्वाः अपि विषयिताः ज्ञाने एव भवन्ति।

अत्रैतदुदाहरामः ।

करदीपं’ प्रज्वलय्य तस्य पुरतः अङ्गुष्ठवर्जम् अङ्गुलिचतुष्टयं प्रसारयामश्चेत् तिस्रः अर्चयः निर्गच्छन्ति ।

तासु उपरितना अर्चि : घटे

आपततीति सा प्रकारता, मध्यमा संयोगगता संसर्गता, निम्ना भूतलगता

विशेष्यता इति भवेत् । एवञ्च

प्रकारतादीनामसामानाधिकरण्यं समर्थितं भवति ।

चि.स.४३

परन्तु तेषां भूतलादीनां त्रयाणां ये प्रतिबिम्बाः करदीपान्तर्गतकाचे दृश्यन्ते ते तु एकत्रैव भवन्ति। यथा हि घटप्रतिबिम्बः काचे भवति, तथा संयोगप्रतिबिम्बः तत्रैव, एवं भूतलप्रतिबिम्बोऽपि । एषः प्रतिबिम्बः एव ज्ञाननिष्ठः विषयसम्बन्धः

१ - Torch

२ - In the Flask

[[३५]]

[[३६]]

विषयिता तदवान्तरभेदश्च

विषयिता इत्युच्यते। अत्रापि विषयित्वमिति सामान्या सञ्ज्ञा । प्रकारिता, संसर्गिता, विशेष्यिता इति च विशेषरूपाः । एते प्रतिबिम्बाः न प्रकारत्वादिवत् परस्परम् असमानाधिकरणाः किन्तु ज्ञानैकनिष्ठाः । आधाराधेयादिभावस्थले यथा आधेयताधिकरणतयोः निरूप्यनिरूपकभावः तथा विषयताविषयितयोरपि ज्ञातव्यः। तथा च भूतलं घटवत् इति ज्ञानस्य घटनिष्ठप्रकारतानिरूपितप्रकारिताश्रयः संयोग- निष्ठसंसर्गतानिरूपितसंसर्गिताश्रयः भूतलनिष्ठविशेष्यतानिरूपितविशेष्यिताश्रयः ज्ञानम् इति विवरणं भवति ।

एवमेव घटः नीलरूपवान् इति ज्ञाने समवायसंसर्गमादाय, भूतलं घटाभाववत् इति ज्ञानस्थले दैशिकविशेषणतासंसर्गमादाय चिन्त्यम्।

प्रकृतमनुसरामः। सर्वोऽपि पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन भवति। तेन सम्बन्धेन नास्तीति अभाव एव अन्योन्याभावः, भेदः । स च चतुर्थः अभावः । तादात्म्यसम्बन्धस्य प्रतियोगितावच्छेदकत्वम् उपरिष्टात् साधयिष्यते इत्यलम्।

इति श्रीगोडाकुलाब्धिपूर्णेन्दुमहामहोपाध्यायश्रीसुब्रह्मण्यगुरुचरणान्तेवासिनः देवदत्तस्य कृतौ तर्कसङ्ग्रहव्याख्यायां विद्याधरीसञ्ज्ञकायाम् उद्देशग्रन्थः ।