००

विद्याधरी
श्रीमदनम्भट्टविरचिततर्कसङ्ग्रहव्याख्या
रचयिता
म.म. गोडासुब्रह्मण्यशास्त्रिपादानाम अन्तेवासी देवदत्तशर्मा

प्रकाशक सम्पर्थ मिडिया सेण्टर

लेखक : डॉ. देवदत्त गोविन्द पाटील सम्पादन - व्यवस्थापन : डॉ. सौ. अपर्णा देवदत्त पाटील

Intro

The Navya-Nyaya works are well known for their hair- splitting logic and use of technical terms. This combined with the traditional teaching method including the Sabdabodha (verbal cognition), has resulted in newcomers being repulsed from studying the Navya-Nyaya Sastra. So much so that even those who are well versed in the Sanskrit language are unable to understand the primary concepts elucidated in even the foundational texts of this Sastra. An attempt to bridge this gap is made in this lucid and scholarly commentary called “Vidyadhari” on the “Tarka-Sangraha” of Annambhatta. The author of Vidyadhari Dr. Devdatta Govind Patil has not only combined the South-Indian and Benares traditions of exposition but has also extensively used graphical pictures and practical everyday examples to beautifully explain the deep concepts and amiable logic that is couched and compressed in the Tarka-Sangraha.

प्रकाशकीय

नमस्कार !

समर्थ मिडिया सेण्टर प्रकाशन द्वारा प्रस्तुत प्रथम बृहत् ग्रन्थ ‘विद्याधरी’ को ‘जन-नारायण’ के चरणों को समर्पित करते हुए आज हम बहनें कृतार्थता का अनुभव कर रही हैं।

गत १४ वर्षों से हम ग्यारह भारतीय भाषाओं में अनुवाद-सम्पादन मुद्रण इत्यादि बहुआयामी व्यावसाय कर रहे है और दुसरी ओर आइ.एस.बी.एन. जैसे सरकारी तकनीकी प्रकाशन के निर्माण की सामग्री को भी जुटा रही हैं। आज ‘श्रीराम की कृपा

से’ हमें देवदत्त शास्त्री के ग्रन्थ ‘विद्याधरी’ के द्वारा प्रत्यक्ष रूप से प्रकाशन का शुभारम्भ करने का अवसर मिल रहा है। इसे हम अपनी समर्थ उपासना की फलप्राप्ती मानते हैं।

वास्तव में इस ग्रन्थ के निर्माण की कहानी अद्भुत अनुभव का प्रतीक है। इसलिए मैं यहाँ सङ्क्षेप में बता रही हूँ। मेरी छोटी बहन आशा ने चार वर्ष पूर्व मराठी और संस्कृत से एम.ए. की दोहरी स्नातकोत्तर शिक्षा पूर्ण की थी । पीएच.डी.से सम्बन्धित तथा उन डेढ़ वर्ष के बीच कुछ कटु अनुभवों के कारण वह बहुत निराश हो गई थी । व्यवसाय में भी वह दिन-बदिन खामोश रहने लगी थी ।

इसी बीच काम के सम्बन्ध में टिमवि के अध्यापक श्री रमेश खरे गुरुजी हमारे कार्यालय में आए थे। उसी दर्म्यान ज्ञान प्रबोधिनी के सञ्चालक डॉ. गिरीश बापट ने मुझे एक काम सौम्पा था। उन्होन्ने कहा कि ‘तुम दक्षिणी भाषा जानती हो ना । तो तुम मूल ग्रन्थों का आधार पर आद्य गुरु शङ्कराचार्य के बारे में उनकी निश्चित कालावधि निर्धारित करने वाला एक लेख लिखो ।’ इसलिए मैने खरे गुरुजी से इसके बारे में पुछताछ की। मैन्ने उनसे पूछा कि इस सम्बन्ध में मुझे किससे मिलना चाहिए और यह ग्रन्थ मुझे कहाँ मिल सकता है? खरे गुरुजी ने मुझे पं. देवदत्त पाटील गुरुजी की पाठशाला का पता दिया ।

मैं जिस समय पाठशाला गई, उस समय देवदत्त गुरुजी और अपर्णा भाभी दोनों से ही मेरी मुलाकात हुई। पहली मुलाकात में ही उन दोनों से काफी विस्तार से मेरी चर्चा हुई। तभी अपर्णा भाभी ने सम्बद्ध साहित्य श्रृङ्गेरी से प्राप्त कर लाने का आश्वासन दिया था। अगली मुलाकात के समय मैन्ने गुरुजी से आशा की रुकी शिक्षा के बारे में बात की और इस दम्पती ने खुशीखुशी आशा को पाठशाला में शास्त्र का अध्ययन करने की स्वीकृति दे दी ।

इसके बाद महीने भर के आपसी लगाव, स्नेह और सम्पर्क से २० जुलाई २०१० को दोनों ने ‘विद्याधरी’ ग्रन्थ का निर्माण कार्य हमे सौम्प दिया। वस्तुतः उस समय मेरा विचार केवल आशा का शास्त्र अध्ययन दृढ़ करने के लिए काम में लगा कर उद्देश्यपूर्ति करना इतना ही था ।

इस समय के दर्म्यान व्यवसाय सम्पादन से लेकर मुद्रण तक के काम में बढ़ोत्तरी होने लगी । जब हम गुरुजी से बात कर रही थीं, तो उन्हें अपनी चार-पाँच सम्पादित पुस्तकें भी दिखाई थीं। जिस समय डॉ.

देवदत्त और डॉ. अपर्णा पाटील, दोनों ने इस ग्रन्थ के प्रकाशन का निर्णय लिया था, उस समय हमारी व्यावसायिक वृद्धि का अन्दाज होने के कारण उन्होन्ने ‘विद्याधरी’ के प्रकाशन तक की जिम्मेदारी हम बहनों को सौम्पी थी ।

यों तो डॉ. देवदत्त और डॉ. अपर्णा पाटील दम्पती मेरी समवयस्क पीढ़ी के हैं, पर वे ‘आचरण-बुद्धि-हृदय’ से ऐसे मनुष्य हैं, जिन्हें झुक कर नमस्कार करने का मन होता है । अनेकों क्षेत्रों से पुणे के अनेक बुद्धिमान व्यक्तियों को सुख्याति हासिल है। पर हमे उनके साथ काम करने से पता चलता है कि उनमें मानवता का अभाव है। परन्तु देवदत्त पाटील गुरुजी के परिवार और पाठशाला दोनों में मेरा अनुभव ठीक इसके विपरीत रहा है ।+++(5)+++ आज पाठशाला में आशा के अध्ययन को ४ वर्ष पूरे हो रहे हैं और इस ग्रन्थ के भी । आशा को मिली सकारात्मक सफलता का सम्पूर्ण श्रेय मैं उसके ज्येष्ठ के रूप में कार्यरत पाटील दम्पती को देती हूँ। सङ्क्षेप में गत चार वर्षों के प्रवास में सातारा की मिट्टी में जन्मीं हम बहनों को एक वरिष्ठ धर्म-भाई, प्यारी भाभी तथा बुद्धिमान और तेजस्वी भानजा ‘प्रियंव्रत’ भी मिला है ।

इस में कोई सन्देह नहीं कि ‘विद्याधरी’ ग्रन्थ के प्रकाशन के पश्चात इस ग्रन्थ के ज्ञान को समूचे भारत और भारत के बाहर के विद्वान पण्डित एवं शास्त्री सभी मान्य करेङ्गे । लेकिन अत्यन्त बुद्धिमान व्यक्ति की बुद्धि सामर्थ्य की बात करें, तो एक उत्तम पति- पिता-बन्धु आदि अनेक भूमिकाओं में ग्रन्थकार की मानवता की जानकारी पाठकों को इस ग्रन्थ से नहीं हो पाती। इसीलिए कृतज्ञता स्वरूप कुछ लिखने की आवश्यकता हुई है और यह प्रकाशकीय के रूप में आपके समक्ष है ।

॥श्रीरामचन्द्रार्पणमस्तु ॥

मनीषा बाठे
समर्थ मिडिया सेण्टर
शके २०१४, जयनाम संवत्सर, शरदपूर्णिमा

प्रस्तावः

अस्ति किञ्चित् वक्तव्यम्

नमस्ते शारदे देवि सरस्वति मतिप्रदे ।
वस त्वं मम जिह्वाग्रे सर्वविद्याप्रदा भव ॥

आनन्दतुन्दिलं भवति मे चेतः पुस्तकमिदं प्रकाशयितुम् । बहोः कालात् ईप्सितमिदं कार्यम् ईश्वरकृपया सम्पन्नमभवत् इति दृढा मे मतिः।

तर्कसङ्ग्रहोऽयं न्यायशास्त्रस्य मुखग्रन्थः । सन्ति तस्मिन् नैकाः व्याख्याः । तदुपरि एव व्याख्यालेखनं कुतः ? कस्यचित् वादग्रन्थस्य विस्तृतं व्याख्यानं करणीयम्, इत्यपि जनाः मत्सविधे अवोचन् ।

परन्तु ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते’ इति न्यायमधिकृत्य अस्ति किञ्चित् प्रयोजनम् अस्य ग्रन्थलेखनस्य । प्रथमं तु छात्राणां न्यायशास्त्रात् भीतिमपनीय, तदध्ययने प्रवृत्तिः भवतु, इति । गुरुचरणानाम् आनृण्यं साधनीयमित्यपि अन्यद् । तथैव च परमगुरुभिः पण्डितवरेण्यैः वामाचरणभट्टाचार्यैः या चित्रपद्धतिः आदृता, साऽपि अग्रे प्रवहतात्, इति धिया कृतोऽयं प्रयासः ।

बहुवारं प्रार्थितः मया आर्यपुत्रः अन्ततः मम प्रार्थनां स्वीकृत्य ग्रन्थममुं व्यरचयत्, इति समाहितं मे मनः ।

पुस्तकान्तरे भवति अक्षरविन्यास एव । अत्र तु लेखकस्य चित्ररसिकतया स्तः चित्राणां द्वे शते । अतः अनेकैः टङ्कनकर्तृभिः निवारिताः वयम् । परन्तु समर्थ मिडियासेन्टरप्रकाशनस्य निर्वाहिकाभ्यां श्रीमती मनीषा बाठे एवं श्रीमती आशा बाठे इत्येताभ्यां न केवलं टङ्कनस्य, किन्तु प्रकाशनस्यापि भारः स्वयं गृहितः । एवं लीलया च अनवरतपरिश्रमैः निर्व्यपेक्षतया निर्व्यूढं सचित्रमिदं पुस्तकं प्रकाश्यते इति ताभ्यां साधुवादान् प्रकटयामि । तयोः उपास्यः जानकीजानिः भगवान्

श्रीरामः श्रेयःपरम्पराभिः ते अनुगृह्णीयादिति च आशासे। चि. विक्रान्त बाठे वयसा बालोऽपि कार्येस्मिन् दत्तचित्तो भूत्वा चित्रादिनिर्माणे साहाय्यमकरोदिति तमपि आशीर्भिः योजयामि ।

सचित्रस्य दृढबन्धादियुक्तस्यास्य पुस्तकस्य बहुव्ययसाध्यतामाकलय्य पुण्यपत्तनस्थः विश्रुतः प्राड्विवाकः रामचन्द्रसूनुः फाटककुलिकः भालचन्द्रशर्मा साहाय्यमकरोत् इति अवश्यमत्र उल्लेख्यः भवति । इतरे च ये साक्षात् परम्परया वा एतद्ग्रन्थनिर्माणे साहाय्यमकुर्वन् तेषां सर्वेषां साधुवादान् वितीर्य विरमामि ।

जये आश्विन पूर्णिमा, ८ ऑक्टोबर २०१४
अपाटील
डॉ. सौ. अपर्णा देवदत्त पाटील

शुभाशंसनम्

॥ श्रीगुरुभ्यो नमः ॥

Dr. R. मणिद्राविडशास्त्री अद्वैतवेदान्त- पूर्वमीमांसाचार्यः, मीमांसाशिरोमणिः, Ph.D. पूर्वमीमांसाशास्त्राध्यापकः,

मद्रपुरीयसंस्कृतमहाविद्यालयः, मैलापूर, चेन्नै-४

शुभाशंसनम्

दिनाङ्क -६-९-२०१४

‘काणादं पाणिनीयं च सर्वशास्त्रोपकारकम्’ इत्यभियुक्तानां सूक्तिः । काणादं वैशेषिकदर्शनं न्यायदर्शनस्यापि उपलक्षणम् । तच्चोभयमपि विषयविवेचनपाटवाधानेन बुद्धिवैशद्यसम्पादनेन च विद्यार्थिनां शास्त्रान्तरार्थावगमे उपकरोति । उभयोरनयोः दर्शनयोः बालानां प्रवेशसिद्धये महातार्किकेण अन्नम्भट्टेन तर्कसङ्ग्रहाख्यो ग्रन्थो रचितः सर्वत्र अध्ययनाध्यापनपरम्परायां प्रसिद्धो वर्तते।

तस्यास्य ग्रन्थस्य व्याख्यानान्यपि प्राचीनैः नवीनैश्च विद्वद्भिः रचितानि बहूनि विलसन्ति । भाषान्तरानुवादा अपि बहव उपलभ्यन्ते। सत्स्वपि तेषु सर्वेषु, परिष्कारपद्धतिपरिज्ञानाभावे सर्वशास्त्रोपकारकत्वम् अस्य शास्त्रस्य न सिद्ध्यतीति विद्वदनुभवसिद्धमेतत्। तत्र च प्रतियोगिता- अनुयोगिता-अवच्छेदकतादि-पारिभाषिकशब्दान्, अतिदीर्घसमास- बहुलांश्च परिष्कारान् शृण्वन्तः पदार्थापरिचय -वशात् आयासितधियः शास्त्रान्तरकृतभूरिपरिश्रमा विद्वांसोऽपि त्रस्यन्ति किमुत प्रकृति- कोमलमतयो बालाः।

अधुना न्यायमीमांसादिनानाशास्त्राब्धिपारङ्गतैः अध्यापितानेक सच्छिष्यप्रशिष्यद्वारा शास्त्राध्ययनपरम्परां प्रतिष्ठापितवद्भिः श्रीदेवदत्तगोविन्दपाटीलमहोदयैः विरचितया विद्याधर्याख्यया अनया तर्कसङ्ग्रहव्याख्यया सर्वथा दूरीकृताऽस्य शास्त्रस्य दुरवगाहता । इयं हि व्याख्या मनोहारिण्या शैल्या तर्कसङ्ग्रहार्थं विवृण्वती लौकिकदृष्टान्तकथा-उपपत्तिप्रदर्शनमुखेन चित्रप्रदर्शनद्वारा च पारिभाषिकपदार्थानां स्वरूपम् अनायासेन सकृच्छ्रवणमात्रेण हृदयङ्गमं कुर्वती ‘बालानां सुखबोधाय’ इति मूलकृतः प्रतिज्ञां पूरयन्ती विराजते । लाघवगौरव-स्वरूपम् इत्यादि शीर्षकम् एकैकमपि अवलोकयतां विषयावबोधने अस्या व्याख्यायाः अनितरसाधारणं वैशिष्ट्यमवगमयितुमलम् । एतद्ग्रन्थपरिचयः जिज्ञासूनां तर्कशास्त्रस्याध्ययने नूनामभिरुचिं जनयिष्यति ।

न केवलं विद्यार्थिनां शास्त्रार्थज्ञानपाटवम्, किन्तु अध्यापकानां शास्त्रार्थबोधनपाटवमपि सम्पादयन् अयं ग्रन्थः महदुपकरिष्यतीति विद्वांसश्छात्रा-श्वास्य ग्रन्थस्योपयोगेन सफलयन्तु ग्रन्थकृतः परिश्रममिति निवेदयति -

विदुषां विधेयः मणिद्राविडः
(मणिद्राविड :)

आमोदः

न्यायमीमांसादिशास्त्रेषु कृतभूरिपरिश्रमैः ब्रह्मश्रीसम्पन्नैः शास्त्राध्ययना- ध्यापनैकतत्परमानसैः श्रीदेवदत्तगोविन्दपाटीलमहाभागैः रचिता वाराणसी- सम्प्रदायम् अनुसृत्य चित्रपद्धत्या युता विद्याधरीनाम्नी तर्कसङ्ग्रहव्याख्या मया अवलोकिता।

यद्यपि तर्कसङ्ग्रहस्य बहुभिः बह्वयः व्याख्याः निर्मिताः सन्ति । तथापि ताः सर्वाः एकया मूसया एव वर्तन्त इति वक्तुं शक्यते । इयं व्याख्या तु काचन विलक्षणा, अत्यन्तं रमणीया, सर्वत्र चित्रैः युक्तेति तर्कशास्त्रे प्रविविक्षूणां बालानामपि अत्यन्तमुपकाराय कल्पेत इति मे विश्वासः ।

व्याख्याकर्तॄणामेतेषां सम्प्रेरकाणाम् अस्मद्गुरूणां ब्रह्मश्रीसम्पन्नानां, वेदशास्त्राध्ययनाध्यापनमेव महत् तपः इति मन्वानानां, श्रीगोडासुब्रह्मण्य- शास्त्रि-चरणानाम् अपारकरुणाकटाक्षपातस्यैव इयं व्याख्या दृष्टं फलमिति ममाभिप्रायः ।

श्रीकाञ्ची-कामकोटिपीठाधीश्वराणां श्रीजयेन्द्रसरस्वती श्रीचरणानां तथा शृङ्गेरीपीठाधीश्वरजगद्गुरुश्रीभारतीतीर्थमहास्वामिनां कृपाभाजनानि भूत्वा
संस्कृतविद्यासम्बधिनः अत्युत्तमपुरस्कारान् ‘न्यायाचार्य’ ‘न्यायविद्वन्मणिः ’ इत्यादीन् लब्ध्वाऽपि
अस्मद्गुरूणां मानसे वयसा साकं शास्त्र-परम्परारक्षणचिन्ताऽपि वर्धमाना आसीत् ।
तस्मिन्नेव समये एते महाभागाः न्यायविद्याध्ययनाय अस्मद्गुरून् समुपासितुं काशीतः काञ्चीं समागमन् । अचिरादेव काश्यां गुरुगृहे वसन्तः पठन्तः गुरोः परमानुग्रहेण न्यायवेदान्तविद्ये सम्यगधीत्य

पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः ।
सलिलमिव मुक्ताफलतां समुद्रशुक्तौ पयोदस्य ॥

डॉ. रामकृष्णभट्टगुरूणां सन्निधौ, ये सम्प्रति कालट्यां विराजन्ते, जागदिश्यां सिद्धान्तलक्षणपाठः अभूत् ।
एतेषां पाठोत्तरं अपरेद्युः अनुवादः कर्तव्यः इत्यत्र निर्भरः आसीत् ।
मया सह इतरे अष्टौ छात्राः आसन् ।
अनुवादकाले सर्वैः अपि अनूक्ताः ये विषयाः तान् “विशेष- धर्मावच्छिन्नाधेयतानिरूपिताधिकरणतातिरिक्तासामान्यधर्मावच्छिन्नाधेयतानिरूपिताधिकरणता नाङ्गीक्रियते” इत्यादीन् इदानीमपि तथैव स्मरामि ।

काश्यां पठनोत्तरं दक्षिणदेशे काश्यां परमभाग्यवशात् प्रातःस्मरणीयानां श्रीगोडासुब्रह्मण्यशास्त्रिणां सविधे न्यायपठनावसरः लब्धः। गुरुचरणाः मां तर्कसङ्ग्रहात् प्रभृति गोलोकान्तान् ग्रन्थान् अध्यापितवन्तः । तत्रापि गादाधरी, जागदीशी इति सम्प्रदाययेऽपि प्रसिद्धान् ग्रन्थान् तेषां सविधे अहं पठितवान् । इह सम्प्रदाये शाब्दबोधप्रक्रियायां महती आस्था भवति । तर्कसङ्ग्रहमङ्गलाचरणश्लोकस्य अतिदीर्घं बोधं पाठयन्ति । अन्यत्रापि मुक्तावल्यादौ शाब्दबोधान् वर्णयन्ति ।

अत्रत्य पाठस्य विशेषः अयं भवति । इह पाठे सातत्यं भवति । एकं पृष्ठं प्रत्यहं पठेत् छात्रः। व्युत्पत्त्याधिक्ये अधिकं पठेत् वापि नियतं पठेत् । प्रतिपदि एव भवेदनध्यायः। अन्यदा तु नियते काले गुरुचरणा, मया पाठस्थले दृष्टाः । अस्माकमेव कदाचित् आसीत् विलम्बः ।

पठनावसरे श्रीकाञ्चीकामकोटिपीठाधीश्वराणां श्रीमज्जयेन्द्रसरस्वती श्रीचरणानां तथा श्रीमच्छङ्करविजयेन्द्रसरस्वतीश्रीचरणानाम् अनुग्रहभागहम भवम् इति मम परमभाग्यम् । अधीतन्यायः अहं स्वयं शृङ्गेरीपीठाधीशैः जगद्गुरुभिः श्रीभारतीतीर्थमहास्वामिभिः परीक्ष्य न्यायविद्वत्प्रवर उपाधिना सभाजितः यस्मिन् तम् महोत्सवम् इदानीम् अपि स्मृत्वा धन्यमात्मानं मन्ये ।

ततः गुरुचरणानां प्रेरणया यदा पुण्यपत्तने आगत्य न्यायशास्त्राध्यापनं समारब्धं तदा इत्थं चिन्तितम् । शास्त्रारम्भः वाराणसीपद्धत्या कर्तव्यः । तदा चित्राणि, दृष्टान्ताः एतैः सर्वैः छात्रः रञ्जनीयः । न तत्काले अतिदीर्घशाब्दबोधादिरीतिः अनुसर्तव्या । शनैः शनैः व्युत्पत्त्याधाने जाते इयं चित्रसरणिरपि त्यक्तव्या । अनध्यायान् अकृत्वा नियमेन पाठनीयम् । तत्तत्पद्धत्याः क्लेशान् उज्झित्य गुणान् आदाय यतनीयम् ।

गुरूणामनुग्रहेण यत्नोयं सफलः इति भावयामि । एतावता एकादशभिः छात्रैः न्यायः गोलोकान्तः अधीतः। तेषु बहवः तया रीत्या पाठयन्तश्च सन्ति ।

केचन चित्रपद्धत्या शिक्षितानां छात्राणां कालान्तरेणापि चित्रेण विना ग्रहणमेव न भवतीति रीतिमेनां दूषयन्ति । तेषां कः दृष्टान्तः इति तु न विद्मः । एनामनादायापि बहवः विद्वांसः अभूवन् भवन्ति भविष्यन्ति च । अतः नावश्यकोयं श्रमः इत्यपि केचन । प्रातःस्मरणीयाः गोडासुब्रह्मण्यशास्त्रिणः अपि असकृत् अमुं विषयम् अवादिषुः ।

तत्र बोधकः ग्रहीता च समर्थः यदि तदा कापेक्षा ईदृशसाधनानाम् ? तथाविधाः प्राचीनाः विद्वांसः उपदिष्टवन्तः शास्त्रम् । गृहीतवन्तश्च तीक्ष्णबुद्धयः छात्राः। सम्प्रति अपि गृह्णीयुः। परन्तु अतथाभूतः कश्चित् एकोपि यदि रीत्या अनया शास्त्रमार्गे स्थिरो भवति, तर्हि तस्या उपादेयता आयात्येव ।

वस्तुतस्तु इदानीं चलति Screen age यत्र आशैशवात् दृमाध्यमेन व्यवहारः अत्यधिकः। अतः इयं दृङ्गाध्यममाश्रिता रीतिः तादृशान् जनान् अवश्यमुपकुर्यात् इति मद्विश्वासः।

व्याख्यालेखने मत्प्रवृत्तिः कुतः इत्यपि उच्यते । न्यायविषयाणां विलक्षणभाषया निरूप्यतया संस्कृतभाषायां काव्यादौ च सम्यक्परिश्रमं कृत्वापि भीत्यानेके इदं शास्त्रं वर्जयन्ति । पण्डितास्तु क्लिष्टभाषया निरूपयन्ति लिखन्ति च । अतः शास्त्रजिज्ञासवः अनेके जनाः शास्त्रस्य महिमानं ज्ञात्वा तदानन्दमनुभवितुं न प्रभवन्ति । विद्वद्भिः अर्जितं यशः दृष्ट्वा तेषां विषये आदरं प्रदर्शयन्तः अपि शास्त्रात् दूरमेव भवन्ति । तेन च विदुषाम् अन्येषां च संस्कृतभाषाभिज्ञानां मध्ये अस्ति महती परिखा । यदि च तां क्लिष्टां भाषां विहाय कोमलया गिरा शास्त्रं निरूपयेत्, तर्हि ते अपि शास्त्रालोचनारीतिं बुद्ध्वा तदानन्दमनुभवेयुः। चित्राणि अपि सर्वेषां चित्तरञ्जनेन शास्त्रं दृढीकुर्युः इति धिया कृतः एषः यत्नः । नूनं मम अभिप्रायं व्याख्या एषा पूरयेत् इति आशासे ।

तदितरे जिज्ञासवः ‘संस्कारमात्रजन्यं ज्ञानं स्मृतिः । प्रत्यभिज्ञायाम् अतिव्याप्तिवारणाय मात्रेति’ इत्यादिप्राचीन-ग्रन्थान् गुरुमुखमात्र-समधिगम्य-तत्वार्थान् दृष्ट्वा विषादं लभन्ते तेषु कस्यचित् भवेदनेन उपकारश्चेत् सफलो मे परिश्रमः।

अन्ये च सन्ति केचन विद्वांसः ये अध्ययनकाले महापण्डितानां सकाशात् पठितवन्तः शास्त्रम् । परन्तु सम्प्रति विषयान्तरव्यापृतत्वात् न स्मरन्ति अर्थवर्णनरीतिम् । पाठयन्ति च सङ्ग्रहादिग्रन्थान् । तेपि व्याख्यामेनां दृष्ट्वा विषयमाकलय्य शिष्यान् बोधयितुं भवेयुः समर्थाः।

इमां रीतिमाश्रित्य पाठयतः अपि मे न तत्र लेखने प्रवृत्तिः आसीत् । तत्र २०११ हायने संस्कृतभारत्याः मन्त्रिणः श्रीचमूकृष्णशास्त्रिणः विषयेस्मिन् मां प्रेरितवन्तः। लेखनरीतिः सरला भविष्यति चेत् भवेत् बहूनामुपकारः इत्यपि अवोचन् । मम धर्मपत्नी सौ. अपर्णा एवं मत्सखा च धायगुडेकुलजः शिवरामसूनुः वैदिकप्रवरः श्रीपादशर्मा अपि अन्येभ्यः लौकिकव्यवहारेभ्यः मां निवार्य कार्येऽस्मिन् योजितवन्तौ ।

श्रीनृसिंहसरस्वतीपाठशाला इति भवति संस्था यत्राहं विगतेभ्यः पञ्चदशभ्यः हायनेभ्यः शास्त्रमध्यापयामि । तस्याः विश्वस्ताः वैदिकप्रवराः श्रीवसन्त-चिन्तामणिफडकेमहोदयाः अपि इह अवश्यमुल्लेख्याः भवन्ति । तेषाम् आशीर्वचोभिः यत्नोयं पूर्णतां गतः इति मद्विश्वासः । एवम् अस्माकं गृहस्वामिनी स्व.अरुन्धतीसाठेमहोदया सम्प्रति अस्मासु न वर्तते । तयापि पाठशालायाः मम च गृहादिव्यवस्थां कृत्वा महानुपकारः विहितः । तामपि अस्मिन् प्रसङ्गे अवश्यं स्मरामि ।

नित्यपाठरतस्य मम न विषयस्फूर्त्यै कश्चिदासीत् क्लेशः। तेन अनायासेन लिखितानि प्रकरणानि । परन्तु व्याकरणशास्त्रे परिश्रमाभावात् तत्र प्रयोगे प्रमादाः आसन् । तेषां वारणाय मया बेङ्गलूरनगराभिजनाः वैयाकरणवरेण्याः श्रीमहाबलेश्वरभट्टाः समुपाश्रिताः । एते महानुभावाः कार्यभारमग्नाः अपि मम प्रार्थनामुररीकृत्य दिनचतुष्टयमहोरात्रं मां बोधयित्वा अनेकान् अपप्रयोगान् निवारितवन्तः । अत्र च व्याख्यायां यत्किञ्चित् सौन्दर्यं शब्दानां तर्हि तत् तेषामेव इति गुरुकल्पान् तान् भूयो भूयः प्रणमामि । मम मीमांसागुरवः ब्रह्मश्रीभाजः श्रीमणिद्राविडमहोदयाः अल्पीयसा कालेन पुस्तकस्यास्यामुखमलिखन् । लेखनकाले चापि मां प्रोत्सहितवन्तः इति तेभ्यः अनेकान् प्रणामान् समर्पयामि ।

पुण्यपत्तनस्थाः श्रेष्ठिनः श्रीमन्तः विद्याधर - गोविन्द-पटवर्धनमहोदयाः (आबासाहेब) लेखादौ मया अत्र उल्लिखिताः। वेदाध्ययनाय तैः प्रचालितायां पाठशालायां प्राप्तोहम् । परन्तु ऋग्वेदशाखाध्यनोत्तरं मम संस्कृतभाषाप्रवणतां बुद्ध्वा स्वयमेव शास्त्राध्ययनाय मां वाराणसीं प्राहिण्वन् । सर्वस्मिन् अध्ययनकाले ततः अध्यापनकाले च मत्प्रेरकभूता आसन् । अतः व्याख्येयं विद्याधरी तेषां नाम बिभ्रती तच्चरणेषु समर्पयामि ।

मम ज्येष्ठसतीर्थ्याः श्री चि. सत्यनारायणशास्त्रिणः महता स्नेहेन पुस्तकस्यास्य शुभाशंसनम् अलिखन् । तेभ्यः साधुवादान् समर्पयामि ।

मच्छात्राः राजेश्वर-श्रुतिप्रियादयः पदार्थनिरूपणे अन्यत्र च तदा तदा चर्चां विधाय विषयपरिशोधने ततः पत्रादिशोधनेऽपि लग्नाः आसन् । प्रियव्रतः मत्पुत्रोपि विभागे विशेषलक्षणे च कोटिक्रमपर्यालोचने भागं गृहीतवान्, भाग्यनगरस्थायां सदसि च तमुपस्थापितवान् । उत्सहते च एवंविधविषयेषु चर्चायै । एतान् सर्वान् अपि अकुण्ठितां शास्त्राभ्यासासक्तिं दीर्घायुः अगदतां च वितरतात् भगवान् राधारमणः इत्याशासे ।

एतत्पठने आवश्यकानां विषयाणाम् आदौ उल्लेखमकरवम् । उपयोगात् प्राक् अवश्यं तत्प्रकरणं द्रष्टव्यम् ।

इदं त्वत्र स्वीकार्यम् । महापण्डितैः विविधशास्त्रमर्मज्ञैः अपि तेषां सर्वस्मिन् जीवने यादृशी छात्रसम्पत् न लभ्यते तादृशी मेधाविनां छात्राणामावलिः गुरुकृपया मया समुपलब्धा । तेषां प्रत्येकं नामग्रहणं न करोमि । ते एव मां बोधनरीतिमपाठयन् । अतः अत्र यदि अस्ति किञ्चित् अर्थसौष्ठवं तत् तेषामेव । दोषास्तु मदीयाः ।

शब्दतः अर्थतो वा दोषान् वारयितुं कृतः मया यत्नः । तथापि यदि स्युः तत्र तत्र स्खलनानि तर्हि कृपया बोधनीयोहं येन शुद्धिपत्रादियोजनं सम्भवेत् इति निवेद्य सर्वमपि इदं भगवच्चरणारविन्दयोः समर्प्य विस्तरात् आत्मानं निवारयामि ।

ज़ये आश्विन पूर्णिमा, ८ ऑक्टोबर २०१४
देवदत्त शर्म

पाटीलोपाह्वगोविन्दसुनुः देवदत्तशर्मा

वन्दे गुरुपरम्पराम् ।

महामहोपाध्यायाः वामाचरणभट्टाचार्याः

(१८८०-१९३१)

वङ्गीयनवद्वीपन्यायपरम्परायां श्रीगोलोकनाथभट्टाचार्यशिष्येभ्यः श्री कैलास- चन्द्रशिरोमणिभ्यः वाराणस्यां न्यायादिशास्त्राणाम् अध्ययनम् । हस्तेन न कदाचिदपि स्पृष्टं धनमेतैः ।+++(5)+++ विद्यालयादौ वेतनादिग्रहणव्यवहारं कनिष्ठभ्राता अकरोत् । श्रौताग्निधारणं कृत्वा यावज्जीवमुपासितः अग्निः । शमादिसम्पद्युक्तैः श्रीमद्भिः अनेके अत्युत्तमाः शिष्या अध्यापिताः । तेषु पण्डितराज-राजेश्वर-शास्त्रिणः, ‘सव्यभिचारादिव्याख्यातारः’ प.प्र.वामाचरणभट्टाचार्याः, प.प्र. शिवत्तमिश्राश्च ख्याताः । वैदिकधर्म-परिरक्षणाय स्थापितस्य वर्णाश्रमस्वराज्यसङ्घस्यानुयायिनः ।

पण्डितराज-राजेश्वर-शास्त्रिद्राविडाः

(१९००-१९७७)

म.म.श्रीवामाचरणभट्टाचार्याणां सविधे अधीतानि न्यायादिशास्त्राणि । यौवने एव आरचिता दिनकरीगुणखण्डस्य रामरुद्रीव्याख्या महानुभावानां प्रतिभोत्कर्षस्य निष्कृष्टं स्वरूपम् । लोकनायकस्य अणेमहोदयस्य प्रेरणया कौटिलीयार्थशास्त्रस्य गहनचिन्तनेन वैदिकसिद्धान्तसंरक्षिणीटीका, अर्थशास्त्रटीकायाः जयमङ्गलायाः व्याख्या क्रोडपत्रम् इति चारचिता । अर्थशास्त्रानुसारिण्यः राजनीतेः प्रकाशाय हिन्दीभाषायां ‘शान्ती का अग्रदूत’ इति एवं ‘वेदों का अपौरुषेयत्व’ इति ग्रन्थस्य च रचनम् । स्वपितृचरणैः श्रीलक्ष्मणशास्त्रिद्राविडैः वाराणस्यां स्थापिते साङ्गवेदविद्यालये सर्ववेदशास्त्रविभागानां प्रतिष्ठा कृता । प.प्र.हरिरामशास्त्रिशुक्लाः प.प्र.जयरामशास्त्रिशुक्लाः प.प्र.रामचन्द्रखणङ्गशास्त्रिणः, प.प्र.हेब्बारशास्त्रिणः, प.प्र.होसमनेशास्त्रिणः अन्ये चानेके प्रथिताः शिष्याः ।

महामहोपाध्याय-श्रीविश्वनाथशास्त्रि-दातार-गुरुचरणाः

(१९२०-२००९)

पण्डितराजानां शिष्येषु एते अन्यतमाः । आजीवनं भागवताद्युपन्यासैः जनानां धर्मश्रद्धासम्पादनाय यत्तम्। श्रीतुलसीदासकृतस्य रामचरितमानसाख्यस्य ग्रन्थराजस्य लौकिकहिन्दीभाषायां विवरणं श्रीमद्भिः कृतम्। अत्र च पक्षसाध्य-हेत्वादिन्यायशास्त्र-प्रसिद्ध-पदार्थैः वाक्यार्थवर्णनं कृत्वा निर्गलितार्थसम्पादनं कृतमस्ति । पण्डितराजैः अर्थशास्त्रे कृतयोः टीकयोः सम्पादनं एतैः महता यत्नेन कृतम् ।

शास्त्रनिधयः श्रीगोडासुब्रह्मण्यशास्त्रिगुरुचरणाः

(१९१७-२०००)

काञ्चीजनपदे शूलमेनीग्रामे जन्म । ऋग्वेदं क्रमान्तं व्याकरणं च पितृचरणेभ्यः श्रीकृष्णशास्त्रिभ्यः अध्यगीषत । श्रीवेमूरीरामब्रह्मशास्त्रिणां सविधे न्यायवेदान्तयोः, विशिष्य श्रीनवीनवेङ्कटेश्वरशास्त्रिणां च समीपे ब्रह्मसूत्रभाष्यस्याध्ययनम् । राघवेन्द्रमठे मन्त्रालये, काञ्चीपुरे शङ्करभक्तजनसभायामन्यत्र चाध्यापनम् । महामहोपाध्यायादि-बिरुदेन सन्मानिताः । अनेके छात्राः वेदे शास्त्रे चाध्यापिताः येषु दर्शनालङ्काराः श्री विश्वनाथगोपालकृष्णशास्त्रिणः मूर्धन्याः। शतकोटिटिप्पणिः ब्रह्मसूत्रभाष्यप्रदीपिका च इति द्वौ ग्रन्थौ प्रसिद्धौ ।

[[2]]

श्रीमन्तः श्रीविद्याधरगोविन्दपटवर्धनमहोदयाः

(१९१५-२००७)

विधिमधिकृत्य M.A. पदवी। दर्शनशास्त्राणां विशेषतः वेदान्तशास्त्रस्य अध्ययनं, तत्र महती आस्था चासीत्।

श्रीसद्गुरुविनायकमहाराजफडकेमहाभागानां दीक्षा-गुरूणां प्रेरणया स्वकीया सर्वापि सम्पत् वेदशास्त्रयोः पोषणाय समर्पिता। वेदशास्त्रविद्यालयनाम्नीं पाठशालां प्रचाल्य वेदाध्ययनपरम्परा संवर्धिता । अस्यामेव विश्रुताः घनपाठिनः श्रीदत्तात्रेयपाण्डुरङ्गनवाथेमहोदयाः अध्ययनाध्यापने अकुर्वन् । गुर्वाज्ञया पाठशालायां श्रौताग्निपरिरक्षणमपि एतैः कृतम्।+++(5)+++ परान्नवर्जनं कृत्वा आजीवनं गुरूपदिष्टानुष्ठानम् अचारिषुः। ‘काशीमरणान्मुक्तिः’ इति श्रुतिं शिरोधार्य तत्रैव भौतिकदेहत्यागः। व्याख्याकर्तुः शास्त्राध्ययनप्रेरकाः।

ब्रह्मीभूताः श्रीतततमानन्दसरस्वतीस्वामिनः

(१९१८-२००३)

वाराणस्यां हिन्दुविश्वविद्यालये यन्त्रशास्त्रे B.E. उपाधिः सम्पादितः। श्रीकरपात्रीस्वामिनां प्रेरणया पुनरुपनयनं वेदाध्ययनं चानुष्ठितम् । भारतीयसेनायां तन्त्राध्यापनम् । १९७६ वत्सरे वाराणसीं गत्वा अग्न्याधानं कृत्वा १९८१ पर्यन्तम् अग्निः उपासितः ।+++(4)+++ ततः सन्न्यासदीक्षा गृहीता । व्याख्याकर्तुः संरक्षकाः ।

पण्डितप्रवराः वी रामकृष्णभट्टगुरुचरणाः

(१९४८)

वाराणस्यां साङ्गवेदविद्यालये प.प्र. हेब्बारशास्त्रिणः इति ख्यातेभ्यः तथा राष्ट्रपतिसम्मानितेभ्यः श्रीहोसमनेशास्त्रिभ्यः न्यायादिशास्त्राणामध्ययनम् । तत्रैव दक्षिणामूर्तिविद्यालये न्यायवेदान्तयोः अध्यापनम्। ततः दक्षिणदेशे काञ्चीपुरे श्रीचन्द्रशेखरेन्द्रसरस्वतीविश्वविद्यालये अध्यापनम् । सम्प्रति केरलेषु कालट्यां विराजन्ते । तत्रैव श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालये न्यायवेदान्तयोः अध्यापनम् ।

पण्डितप्रवराः श्रीगणेश्वरद्राविडगुरुचरणाः

(१९५७)

बाल्ये एव वयसि पण्डिराजेभ्यः स्वपितृचरणेभ्यः न्यायादिशास्त्राणि, प.प्र.जयरामशास्त्रिशुक्लेभ्यः न्यायप्रौढग्रन्थाः तथा धर्मशास्त्रं प.प्र.होसमनेशास्त्रिभ्यः अधिगतम् । सहगमनतथ्यांशप्रकटनाय ‘भारत की गौरवमयी सतीप्रथा’ इति ग्रन्थः रचितः । धर्मशास्त्रसम्बन्धिनां प्रश्नानां समाधानाय अनेके लेखाः प्रकाशिताः । तैत्तिरीयशाखायाः संशोधनपुरस्सरं प्रकाशनम् ।

वेदान्तशास्त्रविशारदाः श्रीमणिद्राविडगुरुचरणाः

(१९६५)

पण्डितराजानां दौहित्राः एते वाराणस्यां होसमनेशास्त्रिभ्यः न्यायं व्याकरणं चाधीत्य तत्रैव विद्वन्मूर्धन्येभ्यः एस्. सुब्रह्मण्यशास्त्रिभ्यः मीमांसाशास्त्रं वेदान्तशास्त्रं च अध्यगीषत । कुम्भकोणे जगद्गुरुभिः श्रीकाञ्चीकामकोटिपीठाधीशैः प्रचाल्यमानायाम् अद्वैतसभायां वेदान्तशास्त्रपरीक्षा एतैरेव समुत्तीर्णा । शृङ्गेरीजगद्गुरुभिः श्रीभारतीतीर्थमहास्वामिभिः ‘वेदान्तशास्त्रविशारद’ इति सभाजिताः । अनेके छात्राः श्रीमद्भिः अध्यापिताः। श्रीमताम् अनुभूतिस्वरूपाचार्याणां तथा बेल्लङ्कुण्टारामराय- कवेश्च अप्रकाशितगीताव्याख्ययोः सम्पादनम् । अस्य प्रकाशनमचिरात् भविता ।

[[२]]

पण्डितराज-चित्राणि

अस्मद्गुरुचरणाः श्रीगणेश्वरशास्त्रिणः पण्डितराजैः स्वयंरचितानां चित्राणां पुस्तिकां तथा विदिशावासिनां प. प्र.श्रीरामलोकरेशास्त्रिणां पाठकालिकीं पुस्तिकां च महता यत्नेन सम्पाद्य तत्प्रकाशनाय आनुकूल्यम् अकार्षुः ।

प्रकारता f

संसगता सिंह

रविशेष्यतासंस

घट

EAZ

घट

www

साध्य प्रतियोगिता

घटान्योन्या भान

घटन्योन्या

घटी यो

अभाव

इन्द्र

X

वृत्रासुर

[[3]]

१.

२.

३.

४.

६.

ग्रन्थादौ

एतत्पुस्तकस्य मुद्रणं एवं लेखनम् चाधिकृत्य किञ्चित् वाच्यम् ।

Bold, Italic पद्धत्या तर्कसङ्ग्रहपङ्क्तिः मुद्रितास्ति । व्याख्यायां तर्कसङ्ग्रहस्योल्लेखः ‘सङ्ग्रहः’ मूलं मूलकारः इति पदैः कृतः ।

व्याख्याने विशेषसञ्ज्ञाः, बोद्धव्यो वा विशेषभागः Bold कृतः अस्ति । चित्रपरामर्शाय तत्सङ्ख्या उपयुज्यते ।

प्रागुक्ते वक्ष्यमाणे वा विषये तत्पत्रसङ्ख्या निर्दिष्टा ।

पदसन्निधौ कचित् १, २ इत्येवं चिह्नानि कृत्वा तदर्थः निम्नभागे लिखितः । कदाचित् पदार्थसम्बन्धज्ञापनमपि तादृशचिह्नेन कृतम् ।

सङ्ख्याबोधनाय एकद्व्यादिपदप्रयोगः प्रसिद्धः । परन्तु ग्रहणसौकर्याय तानि पदानि विहाय १, २ इत्यादिचिह्नान्यपि बहुत्र उपयुक्तानि । विशेषतश्च वत्सरबोधने उपयुक्ता इयं रीतिः ।

व्याख्याने विवरणरूपे Running Italic पद्धतिः आश्रिता ।

एकारः ओकारः पूर्ववर्ती चेत् तत्र अकारप्रश्लेषबोधनाय ‘ऽ’ इति चिह्नं क्वचित् वर्तते । सवर्णदीर्घस्थले तु नेयं रीतिः आश्रिता ।

ग्रन्थस्यास्य ऋजुतया कदाचित् अधिकपठने सौकर्येऽपि विषयधारणे भवति श्रमः। अतः नियतपाठः आवश्यकः इति विचिन्त्य ‘*’ इति चिह्नं तत्र तत्र शीर्षकादौ स्थापितम् । अध्येता चिह्नानुसारेण एव ग्रन्थम् अधीत्य अन्यत्रापि उदाहरणानि आलोच्य दार्ढ्यं सम्पादयेत्, न तु ऋजुत्वेपि ग्रन्थस्य अधिकं पठेत् इति अस्मदभिप्रायः ।

१०. एतच्छास्त्रे प्रसिद्धानां पदानां सन्धौ आवश्यकेऽपि तदकरणे तं दर्शयितुं ‘-’ इति चिह्नं स्थापितमस्ति । चित्रबहुलतया पङ्किनिवेश- सौकर्यायापि तेन चिह्नेन स्थलपूरणं कृतमस्ति ।

११. ‘तथा हि, अयमाशयः अयं विवेकः’ इत्यादिभिः लेखने तत्र प्रकरणमतिदीर्घं सम्भवति । तत्र अवान्तरशीर्षकं भवति चेदपि अन्ततः इष्टं विषयं प्राप्नुमः । ग्रन्थस्यास्य प्रमेयनिरूपणपरतया अनुगुणविषयनिरूपणं व्यवधायकमिति न मन्तव्यम् ।

१२. ज्ञानम्, कार्यकारणभावः, इत्यादयः प्राधान्येन निरूप्याः केचन विषयाः । तेषां साकल्येन एकत्रैव निरूपणे ग्रहणं क्लिष्टं भवेदिति आलोच्य तत्र तत्र किञ्चित् किञ्चित् निरूपितम् । परन्तु सः विषयः कुत्र कुत्र अस्ति इति बोधनाय ग्रन्थान्ते अकारादिक्रमेण तत्तद्विषयस्य सूचिः प्रदत्तास्ति । +++(5)+++

१३. शीर्षकं तर्कसङ्ग्रहस्थविषयनिरूपणक्रमानुरोधेन अकृत्वा व्याख्यानप्रति-पिपादयिषितविषयानुरोधेन वर्तते । +++(5)+++

१४. सूक्तिललन्तिका इति भागः व्याख्याने तत्र तत्र वर्तते । यः विशेषविचारः तत्प्रकरणे आवश्यकः इति अभात् सः भागेऽस्मिन् चिन्तितः । अस्य समापनम् ‘इति दिक्’ इति पदेन भवेत् । विशेषजिज्ञासुभिः अवश्यम् अनुसन्धेयोऽयं भवतीति ।

अनुक्रमणिका

मङ्गलाचरणम्

आधाराधेयभावः

अनुक्रमणिका

निरूप्यनिरूपकभावः

  • द्रव्याद्युद्देशः

द्रव्यादीनामाधाराधेयभावः

  • सामान्यपदार्थनिरूपणम्

  • एकत्र अनेकजातीनां वृत्तित्वनिरूपणम्

सत्ता अतिरिक्ता जातिः

  • विशेषपदार्थवर्णनम

  • सदृष्टान्तं समवायनिरूपणम्

  • लाघवगौरवस्वरूपम्

अभाववर्णनम्

  • विरोधनिरूपणम्

प्रतियोगितानिरूपणम्

  • सामान्याभाववर्णनम्

  • विशेषाभावनिरूपणम

[[२]]

३-४

५-६

C

१)

[[९]]

[[१०]]

[[११]]

१२-१३

[[१४]]

[[१५]]

[[१६]]

[[१७]]

[[१८]]

[[१९]]

[[२०]]

  • अवच्छेदकत्ववर्णनाय लौकिकं निदर्शनम् * प्रतियोगितावच्छेदकं किं भवति ?

  • जलत्वादिधर्मान् आदाय प्रतियोगिताभेदसाधनम्

अवच्छेद्यावच्छेदकभावे कथनप्रकारः

[[२१]]

[[२२]]

२३-२४

[[२५]]

निरूप्यनिरूपकभावः अवच्छेद्यावच्छेदकभावः च सर्वत्र भवति । २६

प्रागभावः ध्वंसश्च ।

प्रागभावः ध्वंसश्च । भेदनिरूपणे तादात्म्यसम्बन्धसाधनम्

[[२७]]

[[२८]]

इदम् अस्य कारणमिति वक्तुं निकषा : के ?

[[२९]]

स्वस्मिन् स्वसम्बन्धः तादात्म्यम् ।

[[३०]]

अधिकरणस्यापि भवति अनुयोगि इति सञ्ज्ञा

[[३१]]

ज्ञानं, तद्विषयता च

[[३२]]

प्रकारतादीनां भेदेन कथनम्

३३-३४

विषयिता तदवान्तरभेदश्च

३५-३६

लक्षणम्

अव्याप्तिदोषः अतिव्याप्तिदोषश्च

असम्भवदोषः, नित्यत्त्वादिविभागः

[[३७]]

[[३८]]

[[३९]]

  • गन्धवती पृथिवी, गन्धवत्त्वं पृथिवीलक्षणम्

इत्यनयोः भेदनिरूपणम्

४०-४१

शरीरादिविभागः

[[४२]]

दलसार्थक्यं नाम किम् ?

४३-४४

सम्बन्धस्य अवच्छेदकत्वव्यवस्थापनम्

४५-४६

प्रतियोगितायाः सम्बन्धावच्छिन्नत्वं, तुल्यन्यायात्

४७-४८

प्रतिनियतग्राह्याः गुणाः

[[४९]]

द्रव्यप्रत्यक्षं केन भवति ?

५०-५१

आकाशादीनाम् एकत्वम्

[[५२]]

  • इन्द्रियाणाम् अतीन्द्रियत्वम्

काललक्षणे अवच्छेद्यावच्छेदकभावः

सूक्तिललन्तिका

  • दिशः निरूपणम्

ज्ञानवान् इत्यनुक्त्वा ज्ञानाधिकरणमिति कुतः उक्तम् ?

  • सूक्तिललन्तिका

ईश्वरसाधकमनुमानम्

५३-५४

[[५५]]

५६-६०

ज्ञानम्, इच्छा, कृतिः इति त्रयाणां परस्परं भेदः

  • चेष्टास्पन्दयोः भेदकथनम्, सविषयकपदार्थगणनम्

जीवात्मनिरूपणम्, जीवस्य अनित्यत्वे का क्षतिः ?

  • मनोनिरूपणम्

[[६२]]

६३-६५

[[६६]]

[[६७]]

[[६८]]

[[६९]]

७०-७१

गुणनिरूपणम्

[[७२]]

  • रूपलक्षणे दलसार्थक्यम्

स्पर्शलक्षणमपि रूपलक्षणवत् आलोचनीयम्

७३-७५

[[७६]]

ग्राह्यपदयुक्तानाम् इतरलक्षणानां निरूपणम्

७७-७८

सूक्तिललन्तिका

७९-८०

रसादिलक्षणानि विभागश्च

[[८१]]

अन्वयसहचारः इति पदार्थनिरूपणम्

[[८२]]

  • व्यतिरेकसहचारः इति पदार्थनिरूपणम्

[[८३]]

अन्वयव्यतिरेकव्यभिचारौ

[[८४]]

  • असमवेतगुणानां ज्ञानं कथम् ?

[[८५]]

  • सूक्तिललन्तिका

८६-८७

उत्पत्तिक्षणे द्रव्ये न गुणकर्मणोः सम्भवः

[[८८]]

  • असमवायिकारणनिरूपणम्

८९-९०

एकत्वस्य द्वैविध्यम्

[[९१]]

सङ्ख्यालक्षणे परिष्कारः

[[९२]]

परिमाणस्य विभागान्तरम्

[[९३]]

द्वितीयासमवायिकारणवर्णनम्

९४-९५

भेदस्य पृथक्त्वस्य च को विशेषः ?

[[९६]]

  • सूक्तिललन्तिका संयोगनिरूपणम्

संयोगस्य प्रकाराः

९७-९९

[[१००]]

[[१०१]]

  • सूक्तिललन्तिका

१०२-१०३

  • दिक्कतपरापरत्त्वनिरूपणम्

[[१०४]]

कालदिक्कृतयोः परत्वापरत्वयोः विशेषः

[[१०५]]

  • सोदाहरणं कालिकपरापरत्वनिरूपणम्

१०६-१०८

गुरुत्वलक्षणे पतनपदार्थः, पतननानात्वकथनम्

[[१०९]]

जले गुरुत्ववशात् आद्यपतनम्

[[११०]]

  • गुरुत्वलक्षणे अपूर्वः विचारः

१११-११२

पतनस्यन्दनयोः भेदः

[[११३]]

  • स्नेहलक्षणनिरूपणम्

[[११४]]

स्नेहस्य पिण्डीभावं प्रति निमित्तकारणत्वम्

[[११५]]

निमित्तकारणतायाः अन्यत् उदाहरणम्

[[११६]]

  • शब्दनिरूपणम्

[[११७]]

इन्द्रियाणां प्राप्यकारित्वम्

[[११८]]

शब्दप्रत्यक्षस्थले तर्हि का गतिः ?

११९-१२०

स्वाधिकरणे सजातीयगुणजनकत्वं क्व दृष्टम् ?

[[१२१]]

बुद्धिलक्षणे समासविचारः

[[१२२]]

व्यापारपदार्थः कः ?

[[१२३]]

भावनाख्यः संस्कारः आवश्यकः

१२४-१२५

  • स्मृत्युत्पत्तिक्षणे अनुभवः नास्ति ।

[[१२६]]

C

सर्वत्र मात्रपदेन निवार्यं चिन्त्यम्

[[१२७]]

प्रत्यभिज्ञास्वरूपवर्णनम्

[[१३०]]

आधाराधेयभावः ज्ञानं विनापि भवति

१३१-१३२

आधेयत्वप्रकारत्वयोः सामानाधिकरण्यात् प्रमा

१३३-१३४

आधेयत्वमभावे प्रकारत्वं प्रतियोगिनि चेत् अप्रमा

[[१३५]]

  • प्रत्यक्षादिविभागः

[[१३६]]

  • साधारणकारणनिरूपणम्

[[१३७]]

  • सूक्तिललन्तिका

१३९-१४३

  • कारणत्वनिरूपणम्

[[१४४]]

प्रत्यक्षं प्रति विषयस्य कारणत्वम्

द्रव्यप्रत्यक्षे रूपस्य समवायेन कारणत्वम्

  • चित्रपटे व्यभिचारात् द्वितीयासमवायिकारणे सम्बन्धपरिवर्तनम् १४८-१५१

  • वाय्वादिनिष्ठगुणानां कुतः नेन्द्रियग्राह्यता ?

फलोपधानपदार्थः

  • स्वरूपयोग्यतानिरूपणम्

[[१४५]]

१४६-१४७

[[१५२]]

[[१५३]]

[[१५४]]

विद्यमानस्य सतः कारणता

[[१५५]]

ज्ञायमानस्य सतः कारणता

[[१५६]]

ह्रदे जले, तत्स्यन्दनाय च छिद्रे सत्यपि जलं कुतो न वहति ?

[[१५७]]

  • प्रतिबन्धकत्वस्य निदर्शनान्तरम्, प्रतिबन्धकत्वं द्विविधम्

[[१५८]]

प्रयोज्यप्रयोजकभावः

१५९-१६०

कारणस्यापि यत् कारणं, का तस्य सञ्ज्ञा ?

[[१६१]]

  • सूक्तिललन्तिका

१६२-१६३

सप्रकारकज्ञानस्वभावः

१६४-१६५

  • निर्विकल्पकप्रत्यक्षम्

[[१६६]]

  • विशिष्टज्ञानादिजनकनिरूपणम्

१६७-१६८

सप्रकारकज्ञानप्रभेदाः, संशयस्वभावः

[[१६९]]

समुच्चयः संशयात् अन्यः

[[१७०]]

एकत्र द्वयमिति रीत्या ज्ञानम्, समूहालम्बनस्वभावः

[[१७१]]

  • द्वयोरेकम् इति ज्ञानम्

[[१७२]]

  • सन्निकर्षनिरूपणम्

१७३-१७८

अनुमाननिरूपणम्

[[१७९]]

  • पक्षसाध्यहेतुनिरूपणम्

[[१८०]]

पदस्वभावमादाय व्याप्तिपदार्थनिरूपणम्

[[१८१]]

गमनपदेन कस्य बोधः ?

१८२-१८३

व्याप्तिपदेन के पदार्थाः बोध्यन्ते ?

[[१८४]]

ज्ञानद्वयेन परामर्शोत्पत्तिः

१८५-१८६

  • परामर्शविषयतानिरूपणम्

१८७-१८९

सम्बन्धस्य प्रकारतावच्छेदकत्वम्

[[१९०]]

(

वह्निधूमयोः अधिकरणानि तावत् गणयामः

१९१-१९२

  • अनुमित्युत्पादः

१९३-१९४

ॐ परार्थानुमानम्

१९५-१९६

विपरीतनिश्चये सति का गतिः ?

१९७-१९८

प्रतिज्ञा, उदाहरणवाक्यम्

[[१९९]]

उदाहरणवाक्यम्

[[२००]]

  • हेतोः द्वौ गुणौ

[[२०१]]

  • निगमनवाक्ये बोधवर्णनम्

[[२०२]]

अन्वयव्यतिरेकिहेतुः

२०३-२०४

व्यतिरेकव्याप्तिः

[[२०५]]

  • अन्यूनवृत्तित्वं व्यापकत्वं न तु अधिकदेशवृत्तित्वम्

[[२०६]]

अनतिरिक्तवृत्तित्वं व्याप्यत्वम्

[[२०७]]

व्यतिरेकव्याप्त्या हेतोः कः लाभः ?

[[२०८]]

  • अभिधेयत्वपदार्थः

२०९-२१०

  • अभिधेयत्वस्य केवलान्वयित्वम्

२११-२१२

केवलव्यतिरेकिणः निरूपणम्

व्यतिरेकव्याप्तिग्रहः

२१३-२१५

२१६-२१७

व्यतिरेकिणि उपनयः

[[२१८]]

गन्धस्य गन्धाभावाभावस्य च अभेदसाधनम्

[[२१९]]

निगमनजन्यबोधः

[[२२०]]

C

  • पक्षादिलक्षणम्

[[२२१]]

हेत्वाभासाः

[[२२२]]

प्रमायाः इव भ्रमस्यापि प्रतिबन्धकत्वम्

[[२२३]]

हेत्वाभासप्रकरणे विरोधिनः प्रमात्वमेव

[[२२४]]

भ्रमप्रमयोः विषयवैलक्षण्यम्

[[२२५]]

प्रतिबध्यतावच्छेदकं किं भवति ?

[[२२६]]

निश्चयत्वं प्रतिबन्धकतावच्छेदकम्

[[२२७]]

सामानाकारकत्वं पूर्वोक्तं न पर्याप्तम्

२२८-२३१

  • मुद्रापदार्थनिरूपणम्

२३२-२३३

तदभावव्याप्यवत्तानिश्चयमुद्रा

२३४-२३८

हेत्वभासनिरूपणोपयोगिनां धर्मिणां प्रकाराणां च गणनम्

[[२३९]]

हेत्वाभासत्वे निरूपणक्रमः

[[२४०]]

हेत्वंशे कस्य कस्य भ्रमः ?

[[२४१]]

पक्षांशे भ्रमः

२४२-२४३

  • सूक्तिललन्तिका

२४४-२४५

  • हेत्वाभासलक्षणस्य लक्ष्यनिर्धारणम्

२४६-२४७

साधारणहेत्त्वाभासः

२४८-२५०

हेतौ दुष्टत्वसम्पादनप्रकारः

२५१-२५२

  • असाधारणनिरूपणम्

२५३-२५४

  • सूक्तिललन्तिका

२५५-२५६

  • विरुद्धनिरूपणम्

२५७-२६०

विरुद्धनिश्चयस्य सामानाकारकत्वं कथम् ?

[[२६१]]

  • निश्चयविशिष्टनिश्चयत्वेन प्रतिबन्धकत्वम्

२६२-२६३

विरुद्धसत्प्रतिपक्षयोः भेदः

[[२६४]]

  • सत्प्रतिपक्षनिरूपणम्

[[२६५]]

  • अव्याप्यवृत्तित्वनिरूपणम्

२६६-२६९

दोषाणाम् अन्यनिष्ठत्वेऽपि परम्परया हेतौ आनयनं कुतः ? २७०-२७१

  • आश्रयासिद्ध्यादिकथनम्

२७२-२७३

सोपाधिककथनम्

२७४-२७६

  • घटत्वादिदृष्टान्तेन वह्नौ धूमव्यभिचारसमर्थनम्

२७७-२७८

बाधलक्षणम्

२७९-२८०

● अनुपसंहारी

२८१-२८३

उपमानखण्डः

२८४-२८६

शब्दखण्डः

  • शक्तिनिरूपणम् शक्तिग्रहः

[[२८७]]

२८८-२८९

२९०-२९१

  • शाब्दबोधस्थले क्रमवर्णनम्

[[२९२]]

  • आधेयत्वादिसंसर्गभानं कथम् ?

२९३-२९४

  • संसर्गभानवर्णनाय निदर्शनम्

[[२९५]]

  • प्रकृतिविचारः

२९६-२९७

धर्मबोधकप्रत्ययः

[[२९८]]

धर्मिबोधकप्रत्ययः

[[२९९]]

कारकपदार्थः नैय्यायिकसम्मतः

[[३००]]

  • कर्मत्ववर्णनम्

[[३०१]]

  • करणत्वादिवर्णनम्

३०२-३०३

  • शाब्दबोधविषयतानिरूपणम्

[[३०४]]

कस्य कुत्र अन्वयः ?

३०५-३०७

विशेषणान्वयः

[[३०८]]

क्रियाविशेषणान्वयः

[[३०९]]

षष्ठ्यर्थान्वयः

३१०-३११

  • कर्मणि प्रयोगे बोधवर्णनम्

३१२-३१३

आकाङ्क्षानिरूपणम्

[[३१४]]

अव्यवहितत्वनिवेशः

३१५-३१७

  • गौरश्व इत्यत्र आकाङ्क्षाभावनिरूपणम्

[[३१८]]

  • योग्यतास्वरूपम्

३१९-३२०

  • सूक्तिललन्तिका

३२१-३२४

  • सूक्तिललन्तिका

वाक्यविभागः

३२५-३२८

[[३२९]]

अवशिष्टखण्डः

[[३३०]]

• संशयलक्षणे दलसार्थक्यम्

[[३३१]]

तर्कनिरूपणम्

३३२-३३३

किं नाम आहार्यज्ञानम् ?

[[३३४]]

• सूक्तिललन्तिका

३३५-३३७

सुखलक्षणम्

[[३३८]]

● दुःखलक्षणम्, धर्मलक्षणम्

[[३३९]]

  • धर्मलक्षणम्

[[३४०]]

अधर्मलक्षणम्

[[३४१]]

कर्मलक्षणम्

[[३४२]]

  • उत्क्षेपणापक्षेपणयोः ज्ञानादिपूर्वकत्वम्

[[३४३]]

● आकुञ्चनप्रसारणयोः उदाहरणम्

[[३४४]]

सामान्यस्य चतुर्विधता

३४५-३४६

  • जातिलक्षणम

[[३४७]]

C

● विशेषलक्षणम

[[३४८]]

  • सूक्तिललन्तिका

[[३४९]]

समवायः

[[३५०]]

सम्बन्धिनानात्वेपि समवायः एक एव

[[३५१]]

  • अयुतसिद्धिः

[[३५२]]

अविनश्यत् इति पदस्य अर्थः कः ?

[[३५३]]

  • एकमविनश्यदवस्थमित्यादिसङ्ग्रहः

[[३५४]]

अभावविभागः

३५५-३५६

  • विशेषाभावस्य सम्प्रदायसिद्धमुदाहरणम्

३५७-३६०

परिशिष्टम् - १

विभागसाधनायानुमानम्, तत्र अपूर्वः कोटिक्रमः

३६१-३६२

परिशिष्टम् - २

ग्रन्थे प्राधान्येन प्रतिपादितानां विषयाणां पृष्ठानि

[[३६३]]

सूक्तिललन्तिका

  • कालोपाधिनिरूपणम्

५६-६०

  • सम्बन्धानां वृत्तिनियामकत्वं वृत्तिनियामकत्वाभावः च

६३-६५

  • व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वमिति पदार्थनिरूपणम्

७९-८०

गुणेऽपि जायमानः गुणप्रत्ययः समर्थनीयः

८६-८७

भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः

९७-९९

संयोगनाशात विभागः नातिरिक्तः इत्याक्षेपः तत्परिहारश्व

१०२-१०३

दिक्कालादीनां साधारणकारणत्वव्यवस्थापनम्

१३८-१४३

थे प्रत्यक्षलक्षणघटकदलानां सार्थक्यम्

१६२-१६३

पक्षतावच्छेदकादीनां धर्मिणि कथं भ्रमः ?

२४४-२४५

प्रसिद्धे असाधारणे सद्धेतुत्वनिरूपणम्

२५५-२५६

योग्यता

बहुत्र चेतनस्यैव

३२१-३२४

३ आकाङ्क्षान्तरस्वीकारः आवश्यकः

३२५-३२८

तर्कोत्पत्तौ क्षणप्रक्रिया

विशेषलक्षणम्

३३५-३३७

[[३४९]]