[[225]]
अनादिः सान्तः प्रागभावः । उत्पत्तेः पूर्वं कार्यस्य ।
‘अभावश्चतुर्विधः’ इति पूर्वमेव विभागस्योक्तत्वात् विभक्तानां लक्षणान्याह - अनादिरित्यादि । यथा ‘अस्ति’ इति प्रतीत्या षड्विधो भावः सिद्धः, तथा ‘नास्ति’ इति प्रतीतिसिद्धोऽभावः । यथा ‘घटोऽस्ति’ इति व्यवहारः, तथा ‘घटो नास्ति’ इत्यपि व्यवहारस्सर्वसम्मतः । अतोऽभावपदार्थोऽप्यावश्यकः । स चाभावश्चतुर्विधः, नञश्चतुर्धा प्रयोगात् । ‘घटः पटो न’ इत्येकः, ‘घटो नास्ति’ इत्यपरः । आद्योऽन्योन्याभावः, द्वितीयोऽत्यन्ताभावः । एतदन्तरा घटस्योत्पत्तेः पूर्वं ‘नास्ति घटः’ इति वदन्ति । एवं घटस्य नाशानन्तरम् ‘नास्ति घटः’ इति वदन्ति । आद्यव्यवहारे प्रागभावः, द्वितीयव्यवहारे ध्वंसञ्च विषयः । आहत्याभावञ्चतुर्विध आवश्यकः ॥
विभागक्रमेण लक्षयति - अनादित्वे सति सान्तत्वं = नश्वरत्वं प्रागभावस्य लक्षणम् । अनादित्वमात्रोक्तावाकाशादावतिव्याप्तिः । अतः सान्तत्वम् । सान्तत्वमात्रोक्तौ घटादावतिव्याप्तिः । अतोऽनादित्वम् । एतस्यानादित्वं सादित्वं च प्रदर्शयति कार्यस्य घटादेरुत्पत्तेः पूर्वं विद्यमानः, घटोत्पत्तौ स्वयं नमन् ‘भविष्यति’ इति प्रतीतिसिद्धोऽभावः प्रागभाव इत्यु- च्यते । ‘प्राक् अभावः’ इति व्युत्पत्त्या प्रागभाव इति सञ्ज्ञा । ‘भविष्यति’ इति कथनेनैव ‘इदानीं नास्ति’ इत्यप्यर्थात्सिद्ध्यति । तत्र नञो विषयीभूतोऽभावः
प्रागभावः ॥
कृ
सादित्वे सत्यनन्तत्वं प्रध्वंसाभावस्य लक्षणम् । सादित्वमात्रोक्तौ
[[226]]
सादिरनन्तः प्रध्वंसाभावः । उत्पत्तेरनन्तरं कार्यस्य । त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः । यथा
भूतले घटो नास्ति इति ।
घटादावतिव्याप्तिः । अतोऽनन्तत्वम्, घटादेस्सान्तत्वात् नातिव्याप्तिः । अनन्तत्वमात्रोक्तौ आकाशादावतिव्याप्तिः । अतः सादित्वम् । एतत्प्रदर्शयति— घटादेरुत्पत्तेरनन्तरं कदाचित् जायमानोऽभावः - ‘घटो ध्वस्तः = नष्टः ’ इति प्रतीतिसिद्धोऽभावः = प्रध्वंसाभावः । ’ ध्वस्तो घटः’ इति प्रतीत्या तदानीं नास्तित्वं प्रतीयते । तत्र नञो विषयोऽभावः प्रध्वंसाभावः । स तु सादित्वादुत्पद्यते ॥
वस्तुतस्तु भविष्यतीति प्रतीतिसिद्धोऽभावः प्रागभावः । ‘ध्वस्तः इति प्रतीतिसिद्धोऽभावः प्रध्वंसाभावः । उभयत्रापि ‘नास्ति’ इति प्रतीतिरनन्तरकालिकी आर्थिकी, न प्रागभावप्रध्वंसाभावविषयिणी । अत एवाभावो द्विविध एवेति केचित् । उभयत्रापि ‘नास्ति’ इति प्रतीतिर्न प्रामाणिकीत्येव प्राचां मतम् । अत एतावुभावभावौ तत्तत्समवायि- कारणवर्तिनावित्युच्येते । अत एव ध्वंसप्रागभावाधिकरणे नात्यन्ताभाव इति प्राचीनाः । ‘घटो भविष्यति’ ‘घटो ध्वस्त इति व्यवहारौ हि घटविशेष- विषयौ । अतः प्रागभावप्रध्वंसाभावौ न सामान्य-धर्मावच्छिन्नप्रतियोगि- ताकौ ॥
त्रैकालिकेत्यादि । त्रैकालिकः = कालत्रयवर्ती यः संसर्गाभावःः तत्तत्सम्बन्धनिषेधरूपोऽभावः= अत्यन्ताभावः । ‘भूतले घटो नास्ति’ इत्युक्ते भूतले घटनिषेधो घटसम्बन्धनिषेध एव न तु घटस्यैव निषेधः, अन्यत्र घटस्य सत्त्वात् । अत एव ‘शशशृङ्गं नास्ति’ इत्यादि व्यवहारो ‘घटो नास्तीति प्रतीतिवत् न प्रमाणिकः । प्रमेयदृष्ट्या घटनिषेधोऽन्यः,
I
[[20227]]
घटसंसर्गनिषेधोऽन्यः । उभयोः पर्यायता तु स्थूलदृष्ट्या । अतोऽत्यन्ताभावः सम्बन्धावच्छिन्नप्रतियोगिताकः । प्रागभावप्रध्वंसाभावौ तु न संसर्गावच्छिन्नप्रतियोगिताकौ तयोस्सम्बन्धाभानात् । यद्यपि श्वो भविष्यतो घटस्य प्रागभावः, घटोत्पत्तेः पूर्वं श्वोऽपि स्थास्यति, अद्यापि वर्तते, ह्योऽप्यासीदिति त्रैकालिक इति कश्चिद्वदेत्, परन्तु अतीतत्ववर्तमानत्वादिकं नास्मद्दृष्ट्या ज्ञातव्यम्, किन्तु तत्तद्वस्तुदृष्ट्यैव । अन्यथा सर्वमपि त्रैकालिकम्, अत एवाव्यवस्थितं च स्यात् । तत्तद्वस्तुदृष्ट्या तत्तद्वस्तुनः कालः वर्तमान एव । अत्यन्ताभावव्यवहारस्य त्रैकालिकत्वात् स एव त्रैकालिकः = नित्यः । ‘घटो नास्ति’ इतिव्यवहारः खलु त्रैकालिकः ॥
नित्यत्वे सत्यभावत्वं चेदत्यन्ताभावस्य लक्षणम्, अन्योन्या- भावेऽतिव्याप्तिः, घटपटयोर्भेदस्यान्योन्याभावरूपस्य नित्यत्वात्, न हि घटः पटो भवेत्, न वा पटो घटः कदाचित् । अन्तत आत्मनां हि परस्परं भेदो नित्यः । नापि नित्यत्वे सति संसर्गावच्छिन्नप्रतियोगिताकत्वम्, अन्योन्याभावस्यापि तादात्म्यसम्बन्धवच्छिन्नप्रतियोगिताकत्वात् । किन्तु तादात्म्यातिरिक्तसंवन्धावच्छिन्नप्रतियोगिताकत्वे सत्यभावत्वम- त्यन्ताभावस्य लक्षणम् । अभावत्वमात्रोक्तावन्योन्याभावेऽतिव्याप्तिः, अत इतरदलम् । तादात्म्यातिरिक्तसम्बन्धावच्छिन्नप्रतियोगिताकत्वमात्रोक्तौ घटादावतिव्याप्तिः । ‘भूतले घटः’ इत्यादौ हि घटभूतलयोर्वर्तमानस्य संयोगसम्बन्धस्य प्रतियोगी घटः, अनुयोगि भूतलम् । एवञ्च भूतलानुयोगि- कसंयोगप्रतियोगी घटः इत्यर्थो भवति । प्रतियोगिता घटे वर्तते । सा च संयोगस्य गुणत्वेन समवायसम्बन्धावच्छिन्ना । अतस्तादात्म्यातिरिक्त- समवायसम्बन्धावच्छिन्नप्रतियोगिताकत्वं घटेऽप्यस्तीत्यतिव्याप्तिः । अतोऽभा- वत्वम् । घटस्य भावत्वान्नातिव्याप्तिः ॥
[[228]]
तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावोऽन्योन्याभावः ।
यथा घटः पटो न भवति इति ।
तादात्म्येत्यादि । ‘घटः पटो न’ इत्युक्ते हि परस्परनिषेधः प्रतीयते। अत एवायमन्योन्याभाव इत्युच्यते । परस्परनिषेधः - परस्परभेदनिषेधः परस्परतादात्म्यनिषेधः परस्परतादात्म्यसम्बन्धावच्छिन्न-प्रतियोगिताकोऽ- न्योन्याभावः । तथा च तादात्म्य-संवन्धावच्छिन्नप्रतियोगिताकत्वे सत्यभावत्वमन्योन्याभावस्य लक्षणम् । अभावत्व-मात्रोक्तावत्यन्ताभावेऽ- तिव्याप्तिः । अतस्तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकत्वम् । एतावन्मात्रोक्तौ ‘नीलो घटः’ इत्यादावभेदसम्बन्धावच्छिन्नप्रकारताशालिबोधजननात्, प्रकारतायां विशेष्यतायां वा तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकत्वसत्त्वादतिव्याप्तिः । अतोऽभावत्वम् ॥
अभावाभावः प्रथमाभावप्रतियोगिरूपः, न त्वतिरिक्तः, अन्यथान- वस्थाप्रसङ्गात् । यथा घटाभावाभावो घटरूप एव, ‘घटाभावो नास्ति’ इत्युक्ते हि ‘घटोऽस्ति’ इत्येवार्थः । भेदाभावस्तु भेदप्रतियोगिता-वच्छेदकरूपः । यथा घटभेदः पटे वर्तते । घटभेदाभावः घट एव, नान्यत्र, अतः स घटत्वरूपः । अभावाधिकरणकाभावप्रतियोगिकाभावः अधिकर- णीभूताभावरूपः । यथा ‘घटाभावे पटाभावो नास्ति’ इत्युक्ते पटाभावाभावः घटाभाववृत्तिस्तत्स्वरूप एव, अन्यथाऽनवस्थाप्रसङ्गादित्याद्यन्यत्र द्रष्टव्यम् । ।
גות
सर्वेषामित्यादि । अत्र ‘पदार्थानाम्’ इति कथनात् शक्तिसादृश्यादयो ग्राह्याः, न तु ‘प्रमाणप्रमेय’ इत्यादयः, तेषां पदार्थत्वाकथनात् । पदानि08229
सर्वेषामपि पदार्थानां यथायथम् उक्तेष्वेवान्तर्भावात् सप्तैव
पदार्थाः इति सिद्धम् ॥
आलोक व्याख्या
चतुर्विधानि पदार्थाश्च चतुर्विधाः लोकसिद्धाः, इतरौ द्वौ विशेषसमवायौ शास्त्रसिद्धौ । अभावस्तु वाक्यस्यार्थः, न तु पदस्य । अभावस्य पदार्थत्वाभिमानेऽपि आहत्य सप्तैव पदार्थाः । अत एव महर्षिकणादेन सूत्रे ‘पदार्थानाम्’ इत्येव कथितम् । नैवं महर्षिगौतमेन प्रमाणप्रमेयेत्यादिसूत्रे पदार्थपदं प्रयुक्तम् । प्रमाणादीनि षोडश मुमुक्षुभिरवश्यं ज्ञेयानि तत्त्वानीत्येव भाष्ये व्याख्यातम् । अतश्शक्तिसादृश्यादय एवात्र ग्राह्याः । पदं किञ्चित्, पदार्थः कश्चिच्चेत्, स एष्वेवान्तर्भवतीत्यर्थः, अतिरिक्तपदस्य तदर्थस्य चाभावादित्यर्थः । अधिकमन्यत्र द्रष्टव्यम् ॥
एवं पदार्थतत्त्वज्ञानम्, पदार्थ साधर्म्य वैधर्म्य तत्त्वज्ञानं च शरीराद्यतिरिक्तात्मतत्त्वज्ञानप्रयोजकम् । एतद्विषयविमर्शनाय च प्रमाणादि- षोडशतत्त्वज्ञानमप्यावश्यकम् । इदं च तत्त्वज्ञानं केवल ग्रन्थपठनान्न कदापि सम्भवि । अत एव काणादसूत्रे ‘धर्मविशेषप्रसूतात्’ (वै. सू. १.१.४) इति साधर्म्यवैधर्म्यतत्त्वज्ञानस्य विशेषणमुक्तम् । एवं गौतमीयं सूत्रम् ‘समाधिविशेषाभ्यासात्’ (न्या. सू. ४-२-३८) इति । अस्य चावतरणभाष्यम् अथ तत्त्वज्ञानं कथमुत्पद्यत इति’ इत्यादि । सूत्रद्वयेऽपि विशेषपदप्रयोगोऽप्यवधेयः । ‘अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः (न्या. सू. ४-२-४२) ‘तदर्थं यमनियमाभ्यामात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः’ (न्या. सू. ४.२.४६) ‘ज्ञानग्रहणाभ्यासः
[[99230]]
आलोक- व्याख्या
तद्विद्यैश्च सह संवादः’ (न्या. सू. ४.२.४७) ‘तं शिष्यगुरु- सब्रह्मचारिविशिष्ट श्रेयोऽर्थिरनसूयुभिरभ्युपेयात्’ (न्या. सू. ४.२.४८)
इत्यादीनिसूत्राण्यप्यवधेयानि । आहत्य तु
प्रतारितास्तु सर्वेऽपि प्रायः पण्डितमानिभिः । ख्यातिलाभादिपूजादिपरैर्हन्त ! किमुच्यते ? । आत्मापरोक्षज्ञानं क्व, क्व वा ग्रन्थात्परोक्षधीः । उभयोरन्तरं ज्ञेयं मेरुसर्षपयोरिव ॥
अतो भारो महानस्ति पण्डितानां विवेकिनाम् । आत्मा श्रेयसि योक्तव्यो नार्थकामेषु जातुचित् ॥ ‘उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।’
इत्येतद्वचनं नैव विस्मर्तव्यं कदाचन ॥
ननु भोः ! कोऽयमाग्रहः ? अज्ञानं वा ? प्रमाणादयः पदानामर्थास्तेऽपि
पदार्था एव ।
दीपिका पठिता नैव व्याख्यैतत्कर्तृका त्वया । न केवलं सा पठिता, वहुधा शोधिता च सा ॥ ‘गतानुगतिको लोको न लोकः पारमार्थिकः
इति गाथालक्ष्यभूताः प्रायो हन्त ! धियाधिकाः ॥ किं कुर्मो वयमत्र ! न हि हस्तामलकदर्शनार्थं काशी गन्तव्या । अधिकमप्रसक्तमत्र । मग्रन्थमुपसंहरति–काणादेत्यादि । कणादमतं पदार्थनिरूपणप्र- धानम् । अक्षपादप्रणीतं तु न्यायविस्तरपदवाच्यं प्रमाणप्रधानम् ॥
[[231]]
काणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये । अन्नम्भट्टेन विदुषा रचितस्तर्कसङ्ग्रहः ॥ इति तर्कसङ्ग्रहः सम्पूर्णः
आलोक- व्याख्या
कणादगौतमप्रोक्तशास्त्रे भिन्नपथे मते ।
समानतन्त्रे स्यातां तु न साङ्कर्यं परस्परम् ॥
न्यायशास्त्रस्य प्रमाणशास्त्रत्वात्, अर्थापत्त्यादीनामनुमाना- दावेवान्तर्भावात्, इतरैः प्रमाणसङ्ख्योल्लङ्घनादिकं शास्त्राणां साङ्कर्यरूपमेवेति चत्वार्येव प्रमाणानि । अत एव प्रमाणद्वयवादो वा प्रमाणत्रयवादो वा अक्षपादाभिप्रायाननुगुणः । वेदविरोधिभिः मध्यकालिकबौद्धैः, केवलतर्कपरायणैः स्वतन्त्रं तर्कशास्त्रं प्रणीतं प्रमाणसमुच्चयप्रमाणवार्तिकादिरूपम् । तद्दृष्टान्तेनैवानन्तरकाले वैदिकैरपि स्वस्वसिद्धान्तानुगुणास्तर्कशास्त्रग्रन्थाः शिष्यानुग्रहदृष्ट्यैव रचिता इति सुगमं सूक्ष्ममतीनाम् । न्यायशास्त्रं वेदोपाङ्गभूतं लोकायतपदवाच्यं प्रमाणशास्त्रं पर्याप्तं वैदिकानां विचारप्रियाणाम् ॥
पदार्थशास्त्रं काणादम्, प्रमाणशास्त्रं गौतमम्, इत्येव वस्तुस्थितिः । ‘पदार्थधर्मसङ्ग्रहः प्रवक्ष्यते’ इत्येव च प्रशस्तपादीयं प्रशस्ततमं वचनम् । पदार्थानां सप्तत्वे च कारणमपि प्रदर्शितमेव । वर्तते त प्रमाणप्रमेययोः
तु परस्परापेक्षा । तावताऽन्योन्यचारितार्थं वाऽन्तर्भावो वा न केशेन कर्तव्यः ॥ ‘अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ ’ एतानि विद्यास्थानानि धर्मस्यापि विदुर्बुधाः । ‘पुराणतर्कमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥
[[232]]
अत्र तर्कपदेनैते शास्त्रे क्रोडीकृते, शृणु । उपाङ्गभूतावेतौ हि मीमांसा न्यायविस्तरः । वाक्यन्यायविचारो हि मीमांसा कथिता बुधैः ॥ अर्थन्यायविचारात्मा कथितो न्यायविस्तरः । मानाधीना मेयसिद्धिः मानं मेयावलम्वि च ॥ विषयौ मानमेये तु तर्कशास्त्रस्य सम्मतौ । काणादं गौतमीयं च तर्कशास्त्रं समीरितम् । सत्तर्कशास्त्रप्रविविक्षवो ये वाला महाकोमलबुद्धिमन्तः । आलोकनाम्नी विवृतिर्मयैषा कृता हितायैव मुदेऽस्तु तेषाम् ॥
इति नव्यमङ्गलाभिजनवरदार्यस्य कृतिषु तर्कसङ्ग्रहालोकः सम्पूर्णः
IL 1957
בקשת
व्याख्याता
महामहोपाध्यायः पण्डितरत्नम्
भारतराष्ट्रपतिसम्मानितः नव्यमङ्गलाभिजनः वरदाचार्यः विश्रान्तमुख्यसंशोधकः, प्राच्यविद्यासंशोधनालयः,
विरचिताः ग्रन्थाः
महीशूरपुरी
१. श्रीकण्ठसमालोचनम्
२. न्यायसौरभम् (न्यायमञ्जरीव्याख्या) ३. सर्वकषा (श्रीमद्वेदान्तदेशिकविरचित-
तत्त्वमुक्ताकलापव्याख्या)
४. तर्कसङ्ग्रहालोकः, टिप्पणी च
५. सत्यसिद्धिः
अपि च एभिः बहवः महाग्रन्थाः सम्पादिताः, प्रबन्धाश्च लिखिताः ॥
सत्यसिद्धिः
(सत्यान्वेषणफलम्)
निष्पक्षपातसर्वदर्शनविमर्शात्मकः प्रौढो महान् ग्रन्थः ‘तत्त्वमुक्ताकलापः ’ विमर्शन- परायणानामत्यन्तमुपकारको भवत्विति सदाशंसनया सर्वकषाख्यविस्तृतव्याख्यया सह द्वित्रवत्सरेभ्यः पूर्वं प्राकाश्यं नीतः । मूलभूता बहवो विषया अत्र क्रोडीकृताः जिज्ञासूनां सहायार्थमेव, परिश्रमश्चाकारि नूतनाविष्कारार्थमेव । अत एव परिहारा भूमिकायाः ‘सत्यान्वेषणम्’ इति नाम दत्त्वा समस्याः प्रदर्शिता बह्वयः, अपि मार्गदर्शनाय सूचिताः । परन्तु, अतिसङ्क्षिप्तोऽभूद्विषय इति जानद्भिरपि अवसरालाभात् अधिकं न वक्तुं शक्यमभूत् । अद्य तु, दैवबलात् अवकाशलाभात्, निर्णीतरूपदित्सया सत्यान्वेषणफलभूतः ‘सत्यसिद्धि’नामा ग्रन्थः प्रकाशनाय सज्जीक्रियते यावच्छक्ति सुशीघ्रमेव । सार्धसहस्त्रवत्सरेभ्य एवानिर्णीता बह्वयः समस्याः अत्र सप्रमाणं ससाक्षिकं च परामृष्टाः । कुत्र दोषः ? कीदृशो दोषः ? कः परिहारः ? इत्यादिकमाश्चर्यावहं करतलामलकवत्प्रादर्श्यत्र केवलदैवानुग्रहेण ॥