[[223]]
नित्यसम्बन्धः समवायः । अयुतसिद्धवृत्तिः ।
ययोर्द्वयोर्मध्य एकमविनश्यदवस्थमपराश्रितमेवावतिष्ठते तावयुतसिद्धौ । यथा अवयवावयविनौ, गुणगुणिनौ, क्रियाक्रियावन्तौ, जातिव्यक्ती, विशेषनित्यद्रव्ये चेति ।
नित्यत्वे सति संवन्धत्वं समवायस्य लक्षणम् । नित्यत्व- मात्रोक्तावाकाशादावतिव्याप्तिः । अतस्सम्बन्धत्वम् । सम्बन्धत्वमात्रोक्तौ संयोगेऽतिव्याप्तिः । अतो नित्यत्वम् । अस्य सम्बन्धस्यावश्यकतां प्रदर्शयितुम् -अयुतसिद्धवृत्तिरिति । ‘यु अमिश्रण’ इति धातुः । अमिश्रणं पृथग्भावः । युतं यथा तथा सिद्धौ इति वा, युतौ च तौ सिद्धौ चेति वायुतसिद्धौ इति विग्रहः । न युतसिद्धौ अयुतसिद्धौ । कदापि पृथक्कर्तु वा पृथक्ज्ञातुं वा यौ न शक्यौ, तावयुतसिद्धौ । पृथक्कर्तुमशक्यौ इति कथनेनैव तत्र द्वौ वर्तेते इति स्पष्टम् । एवं सति तयोस्सम्बन्धो वक्तव्यः । न चेद्विशिष्टबुद्धिर्न स्यात् । यथा गुणगुणिनौ । ‘रूपवान् घटः’ इति खलु व्यवहरति । एतादृशव्यवहारविषयो न केवलं रूपम्, न केवलं घटः ; किन्तु मतुबर्थस्तयोस्सम्बन्धोऽपि । नो चेत् ‘रूपघटौ’ इत्येवोच्येत यथा ‘घटपटौ’ इति । अतो मतुप्प्रत्ययवाच्यस्तयोः सम्बन्ध आवश्यकः । अतश्चेयं विशिष्टबुद्धिरित्युच्यते । अत एवानुमानम् - गुणक्रियादिविशिष्टबुद्धिः, विशेषणविशेष्यसंवन्धविषया, विशिष्टबुद्धित्वात्, ‘दण्डी’ इति विशिष्टबुद्धिवत् इति ॥
दण्डं धरन् पुरुषो ‘दण्डी’ भवति । दण्डपुरुषयोस्सम्बन्धाभावे
[[224]]
आलोक- व्याख्या
‘दण्डी पुरुषः’ इति न स्यात्, किन्तु ‘दण्डपुरुषौ’ इति स्यात् । अतस्तत्र दण्डः, पुरुषः, तयोः सम्बन्ध इति त्रयं विषयः । एवमेव ‘गुणवान्’ ‘क्रियावान्’ इत्यादावपि । स एव सम्बन्धः समवाय इत्युच्यते । अवयवावयविभावरहितयोर्द्रव्ययोरेव संयोगः, तयोः पृथक्सिद्धत्वात् । गुणगुणिनौ त्वपृथक्सिद्धौ । अतो न तयोस्संयोगः, किन्तु विलक्षणः । अयं च सम्बन्ध लोकप्रसिद्ध्या चतुर्षु - अवयवावयविनोः, गुणगुणिनोः, क्रियाक्रियावतोः, जातिव्यक्त्योश्च । शास्त्रतस्तु विशेषनित्यद्रव्ययोः । आहत्य पञ्चसु स्थलेषु समवायस्सम्बन्धः । अयं च सम्बन्धः सत्तयैव विशिष्टबुद्धिजनकः, न तु ज्ञाततया । अत एव न प्रत्यक्षः, रूपघटयोर्मध्येऽतिरिक्तस्य कस्यापि पदार्थस्य चक्षुषादर्शनात् । अथाप्युक्तेनानुमानेन स सम्बन्धी ज्ञायते । एवमनुमानसिद्धत्वादेव ‘सिद्ध्यतो वस्तुनो नित्यत्वे एकत्वे च लाघवम् इति लाघवतर्कवशात् समवायो नित्य एकश्च लाघवात् । अत एव समवायस्य प्रत्यक्षत्ववादोऽपि न युक्तः । अनुमानेन सिद्धावेव लाघवतर्कप्र- सङ्गात् । न चास्तु समवायोऽनित्योऽनेकश्च का हानिरिति चेत्, न । उत्पत्तिविनाशादिकल्पनस्य, तस्य हेतुकल्पनादेरावश्यकत्वात् । तेषां प्रत्यक्षतोऽदर्शनात् कल्पनासम्भवात्, नित्य एकश्च समवायः ॥
ननु समवायस्याप्रत्यक्षत्वे विशिष्टबुद्धिः कथं भवेदिति चेत्, सत्तया कार्यकारिण एव सम्बन्धत्वात् । ज्ञातश्चेत् प्रकारो वा भवेत्, विशेष्यो वा भवेदित्येव परमं तत्त्वम् । ननु तर्हि संयोगोऽप्यतीन्द्रियः स्यात्तर्हीति चेत्, अतीन्द्रियत्वं प्रति सम्बन्धत्वस्याप्रयोजकत्वात् । वस्तुन ऐन्द्रियकत्वं हि तत्कारणप्रयुक्तम् । विशिष्टबुद्धौ सम्बन्धः सत्तयैव कार्यकारीत्येव प्राचां निर्णयः । यथा ‘घटवद्भूतलम्’ इत्यादौ हि घटभूतलयोः पूर्वं प्रत्येकं दर्शनात्, अनन्तरमुभयोर्मेलने ‘घटभूतले’ इत्यनुभवाभावात्, अतिरिक्तः कश्चन पदार्थः विशिष्टबुद्धावावश्यक इति, अवयवावयविभावरहितयोः
द्रव्ययोः समवायासम्भवात् संयोगः सिद्ध्यतीत्यादिकं संयोगविभागप्रकरण एव गतम् । ‘घटसंयोगिभूतलम्’ इत्यादौ तु संयोगः प्रकार एव । सम्बन्धस्तु समवायः । संयोगस्तु वस्तुतो गुणः । स्वरूपसम्बन्धस्तु नातिरिक्तः । समवाय एक एव सम्बन्धः शिष्यते ॥