[[221]]
नित्यमेकमनेकानुगतं सामान्यम् । परं सत्ता । अपरं द्रव्यत्वादि ।
- नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः ।
आलोक- व्याख्या
नित्यमित्यादि । अनेकेषु अनुगततया वर्तमानत्वम् । समानानां भावः सामान्यमिति व्युत्पत्तिलब्धोऽयमर्थः । अनेकषु वर्तमानम् इत्यनेनैव एकत्वं लब्धमिति लक्षण एकत्वं न निवेशनीयम् । तथा च नित्यत्वे सत्यनेकवृत्तित्वं सामान्यस्य लक्षणम् । नित्यत्वमात्रोक्तावाकाशादावति- व्याप्तिः । अतोऽनेकवृत्तित्वम् । ननु आकाशस्यावृत्तिपदार्थत्वेन वृत्तित्वमात्रमेवालमिति चेत्, परमाण्वादिगतैकत्वादौ नित्यत्वस्य वृत्तित्वस्य च सत्त्वादतिव्याप्तिः । अतोऽनेकपदम् । अनेकवृत्तित्वमात्रोक्तौ संयोगादा- वतिव्याप्तिः । अतो नित्यत्वम् । संयोगस्यानित्यत्वान्नातिव्याप्तिः । एवमप्यत्यन्ताभावस्य नित्यत्वादनेकवृत्तित्वाच्चात्यन्ताभावेऽतिव्याप्तिः । अतो वृत्तित्वं समवायसम्बन्धेन बोध्यम् । अभावस्य समवायसम्बन्धाभावान्नाति- व्याप्तिः । तथा च नित्यत्वे सत्यनेकसमवेतत्त्वं सामान्यस्य लक्षणम् । सामान्यं— जातिः, अखण्डोपाधिरिति द्विविधम् ॥
व्यावर्तका इति । भेदानुमितिहेतव इत्यर्थः । गुणक्रियादीनां भेदो हि तत्तदाश्रयभेदाधीनः । घटपटादीनां परस्परं भेदस्तत्तज्जात्यैव सिद्ध्यति । एकजातीययोर्घटयोर्भेदः कथं भवति । द्वयोर्भेदे कारणं किमित्यर्थः ।
टिप्पणी
*ननु ‘नित्यद्रव्यवृत्तयः’ इत्यत्र द्रव्यपदं किमर्थं ? परमाणुवदेव नित्यगुणा अपि निरवयवाः किल! तर्हि नित्यानां परमाणुगतगुणानां कथं भेदसिद्धिरिति चेत्;
[[222]]
घटयोरुभयोर्जातिभेदाभावात् कथं भेदः सिद्ध्यतीति प्रश्नः । कोऽयं प्रश्नः प्रत्यक्षसिद्धे विषय इति चेत् ? आशयानभिज्ञो भवान् । सिद्ध्यतीति न प्रमाणप्रश्नः । किन्तु एतद्घटः, तद्धटश्च कथं परस्परं भिन्नावभूताम् ? इति कारणप्रश्नः । प्रत्यक्षेण सिद्धे भेदे कः प्रश्न इति चेत् ? पुनराशयं न जानासि । भेदः प्रत्यक्षेण ज्ञायते, न तु प्रत्यक्षेण भेदस्तयोर्जातः । घटद्वये भेदः कथं जात इति प्रश्नः । भिन्नभिन्नकपालजन्यत्वात्तयोर्भेदोऽनिवार्यः, अतः कोऽयं महान् प्रश्न इति चेत् ! आगतोऽसि समीचीनं मार्गम् । घटभेदः कपालभेदात् । कपालभेदः तदवयवभेदात् । एवं त्र्यणुक- भेदस्तदवयवद्व्यणुकभेदात् । द्व्यणुकभेदः परमाणुभेदात् । परमाणुभेदः कुतोऽभूत् ? इति प्रश्ने किमुत्तरम् ? परमाणूनाम् अवयवाभावात् । अतः परमाणूनां परस्परं भेदस्तद्गतानिर्वचनीयविशेषाख्यपदार्थभेदादेव । अयमर्थः पूर्वमुक्तः । एवमेव नित्यानामात्मादीनामपि विशेषभेदादेव भेदः, अन्यस्य वक्तुमशक्यत्वात् । ‘एतत्परमाणुस्तत्परमाणुभिन्नः, एतद्विशेषात्’ इत्यनुमानस्याकारः ।
ननु विशेषाणां परस्परं भेदः कथं सिद्ध इत्यत्र - व्यावृत्ता इति । स्वत एव व्यावृत्ता इत्यर्थः । अन्यथानवस्थाप्रसङ्गः । अतश्च स्वतोव्यावृत्तत्वमेव विशेषाणां लक्षणम् । भेदनिरूपणं कर्तुमेव विशेषाख्यं टिप्पणी
विशेषवशात् परमाणूनां परस्परभेदसिद्धौ तत्तद्गतगुणानामाश्रयभेदादेव सिद्ध्यति । शुक्लनीलादिगुणा हि भिन्ना तथैव प्रत्यक्षसिद्धाः । भिन्नयोः शुकपटयोर्वर्तमानयोः शुक्कुरूपयोः तदाश्रयपटभेदादेव भेदः । निरवयवे द्रव्ये कारणाभावात् भेदः कथं सिद्धः ? इति प्रश्न इत्यतः विशेषाः नित्यद्रव्यवृत्तयः, न तु नित्यगुणादिवृत्तय इति ज्ञेयम् ।
पदार्थमङ्गीकृतवन्त इत्येते काणादा वैशेषिका इत्युच्यन्ते । भेदनिरूपका भेदवादिन इत्यर्थः ।